विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १०३

← अध्यायः १०२ विष्णुधर्मोत्तरपुराणम्
अध्यायः १०३
वेदव्यासः
अध्यायः १०४ →

मार्कण्डेय उवाच ।।
ध्रुवस्थाननिविष्टानां देवतानां पृथक्पृथक् ।।
दक्षिणार्थे प्रदातव्यं सर्वेषामेव काञ्चनम् ।। १ ।।
रक्तां वत्सयुतां धेनुं दद्यादर्काय पार्थिव ।।
शङ्खं दद्यान्नरेन्द्रेण दक्षिणार्थं निशाभृतः ।। २ ।।
रक्तवर्णोह्यनड्वाँश्च दातव्यः क्षितिजस्य तु ।।
काञ्चनीं स्वां प्रतिकृतिं बालक्रीडनकानि च ।। ३ ।।
बुधाय राजन्देयानि दक्षिणार्थे विशेषतः ।।
क्षौमं दुकूलं कार्पासवासांसि गुरवे तथा ।। ४ ।।
सितवर्णं च तुरगं भार्गवाय प्रदापयेत् ।।
कृष्णां धेनुं सवत्सां च दद्यात्सूर्यसुताय वै ।। ५ ।।
उष्णीषं लोहदण्डश्च दातव्यो नृप राहवे ।।
छागश्च केतवे देयं कुतपं च नराधिप ।। ६ ।।
कृत्तिकानां तु कनकं दातव्यं भूतिमिच्छता ।।
सर्वबीजानि देयानि रोहिणीनां तथैव च ।। ७ ।।
दोग्ध्रीं धेनुञ्चेल्वलानामनड्वाहं च राहवे ।।
आदित्याय शुभं वस्त्रं पुण्याय कनकं घृतम् ।।८।।
सार्पाय वृषभं दद्याद्रुक्मशृङ्गं महीपते ।।
पित्र्यस्य च तिलान्दद्याद्वायव्यस्य च चामरम् ।।९।।
भाग्यस्य देया गन्धाश्च आर्यम्णस्य च काञ्चनम् ।।
हस्तस्य कुञ्जरं दद्यात्कनकं वा महीपते ।।1.103.१०।।
त्वाष्ट्रस्य वृषभं दद्यादैन्द्राग्नस्य नराधिप।।
वस्त्राणि चैव मैत्रस्य शाक्रस्य कनकं तथा।।११।।
दद्यान्मूलस्य मूलानि फलानि विविधानि च ।।
आप्यस्य दधिपात्राणि शकटं वासवस्य च।।१२।।
तथा चन्दनकाष्ठञ्च वारुणस्य प्रदापयेत् ।।
अजमाजस्य दातव्यमाहिर्बुध्न्यस्य चौदनम् ।। १३ ।।
धेनुं पौष्णस्य तुरगमाश्विनस्य तथैव च ।।
तिलधेनुञ्च याम्यस्य दद्यात्पापापनुत्तये ।। १४ ।।
कुञ्जरं च तथैवोष्ट्रं रथं शकटमेव च ।।
हयमश्वतरं चैव नरयानं च पार्थिव ।। १५ ।।
प्राच्यादीनां क्रमाद्दद्याद्दक्षिणाश्च नराधिप ।।
सागराणां च दातव्यं कनकं भूरिदक्षिणम् ।। १६ ।।
नक्षत्राणां ग्रहाणाञ्च दिशाश्च मनुजेश्वर ।।
यदुक्तमत्र तद्देयं देवतानां पृथक्पृथक् ।। १७ ।।
उक्ताभावे च दातव्या धेनुः पार्थिवसत्तम ।।
प्रत्येकस्य महाभाग शुभा कांस्योपदोहना ।। १८ ।।
दोग्ध्री सवत्सा शीलाढ्या वस्त्ररत्नोपशोभिता ।।
रुक्मशृङ्गैः खुरै रौप्यैर्मुक्तालांगूलभूषिता ।। १९ ।।
ततो विसर्जनं कार्यं पूर्वोक्तविधिना नृप ।।
दधिक्षीरघृतप्रायं तथा त्रिमधुरान्वितम् ।। 1.103.२० ।।
 भोजयेद्ब्राह्मणान्भक्त्या प्रत्येकस्य नराधिप ।।
यथाशक्त्या महाराज तेषां दद्याच्च दक्षिणाम् ।।
प्रयतस्ताँश्च याचेत पूजितान्प्रीणनं बुधः ।। २१ ।।
एतावदुक्तं तव शान्तिकर्म समस्तपापप्रशमाय राजन् ।।
कर्त्तव्यमेतत्प्रयतेन शक्त्या न वित्तशाठ्येन न मायया च ।। २२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दक्षिणाध्यायो नाम त्र्यधिकशततमोऽध्यायः ।। १०३ ।।