विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १४४

← अध्यायः १४३ विष्णुधर्मोत्तरपुराणम्
अध्यायः १४४
वेदव्यासः
अध्यायः १४५ →

वज्र उवाच ।।
कस्मिन्बहुफलं श्राद्धं देशे ब्राह्मणपुङ्गव ।।
एतत्सर्वं समाचक्ष्य भवान्ब्रह्म इवापरः ।। १ ।।
मार्कण्डेय उवाच ।।
गयाशीर्षवटे श्राद्धमक्षय्यं परिकीर्तितम् ।।
यदर्थमेषा चरति गाथा लोके पुरातनी ।। २ ।।
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ।।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।। ३ ।।
पुष्करेष्वक्षयं श्राद्धं प्रयागे नैमिषे तथा ।।
वाराणस्यां प्रभासे च कुरुक्षेत्रे समन्ततः ।। ४ ।।
सन्निहत्यां विशेषेण राहुग्रस्ते निशाकरे ।।
(राहुग्रस्ते दिनकरे सन्नीत्यां पार्थिवोत्तम) ।। ५ ।।
श्राद्धं कृत्वा समाप्नोति राजसूयशतं नरः ।।
अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम।।६।।
स्नात एव तदाप्नोति कृत्वा श्राद्धं स मानवः।।
सर्वेषु देवलोकेषु कामचारी विराजते।।७।।
पद्मवर्णेन यानेन किङ्किणीजालमालिना ।।
देवरामागणाढ्येन वीणामुरजनादिना ।। ८।।
दिव्यश्वेताश्वयुक्तेन कामगेन यथासुखम् ।।
आभूतसंप्लवं यावत्क्रीडत्यप्सरसां गणैः ।। ९ ।।
कृतकृत्यश्च भवति पितॄणामनृणस्तथा ।।
श्राद्धं तथा पितॄणां च नोपयुज्येत वै पुनः ।। 1.144.१० ।।
यत्र क्वचन गङ्गायां श्राद्धस्यानन्त्यमुच्यते ।।
यमस्य भगिनी देवी यमुना पापनाशिनी ।। ११ ।।
यत्र क्वचन तस्यां हि श्राद्धस्यानन्त्यमुच्यते।।
पितॄणां दुहिता राजन्नर्मदा सरितां वरा ।। १२ ।।
तस्यास्तीरे तथानन्तं श्राद्धं सर्वत्र पार्थिव ।।
अक्षय्यं च तथा श्राद्धममरान्तिकपर्वते ।। १३ ।।
वराहपर्वते राजञ्छ्राद्धस्यानन्त्यमुच्यते ।।
हिमवान्पर्वतश्रेष्ठः शङ्करश्वशुरो गिरिः ।। १४ ।।
आकरः सर्वरत्नानां सर्वसत्त्वसमाश्रयः ।।
तापसानामधीवासः श्राद्धं तत्राऽक्षयं भवेत् ।।१५।।
एवमादिषु तीर्थेषु पर्वतेषु सरित्सु च ।।
सरोवरेषु मुख्येषु ऋषीणामाश्रमेषु च।।१६।।
निर्झरेषु तथारण्ये नदीनां प्रभवेषु च ।।
सङ्गमेषु च मुख्येषु पुलिनेषु विशेषतः ।।१७।।
उद्यानेषु विचित्रेषु सैकतेषु समेषु च।।
शाद्वलेषु च रम्येषु गिरीणां कन्दरासु च ।। १८ ।।
गह्वरेषु नितम्बेषु च्छायायां कुञ्जरस्य च ।।
महीगतान्तरन्यस्तगजच्छायासु पार्थिव ।। १९ ।।
यः कुर्यादपराह्णे तु सकृच्छ्राद्धं प्रयत्नतः ।।
अक्षय्यमन्नपानं तु पितॄणां चोपतिष्ठते।।1.144.२०।।
गोमयेनोपलिप्तेषु श्राद्धं कार्यं गृहेषु च।।
मनोज्ञेषु विचित्रेषु रुचिरेषूत्तमेषु च।।२१।।
देवायतनगोष्ठेषु श्राद्धं बहुफलं भवेत् ।।२२।।
तीर्थानि यानीह नरेन्द्रचन्द्र लोके पुराणैः परिकीर्तितानि ।।
तीरेषु तेषां विधिवत्प्रदाय श्राद्धं न शोचेन्मरणं जितात्मा ।। २३ ।।
इति श्रीविष्णुधर्मोत्तरे मार्कण्डेवज्रसंवादे श्राद्धदेशानुकीर्तनो नाम चतुश्चत्वारिंशदुत्तरशततमोऽध्यायः ।। १४४ ।।