वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)/चतुर्थोऽङ्कः

← तृतीयोऽङ्कः वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)
चतुर्थोऽङ्कः
भट्टनारायणः
पञ्चमोऽङ्कः →

वेणीसंहारे ।

चतुर्थोऽङ्कः।


( ततः प्रविशति प्रहारमूर्च्छितं रथस्थं दुर्योधनमपहरन्सूतः । )

( सूतः ससंभ्रमं परिक्रामति ।)

( नेपथ्ये । )

 भो भो ! बाहुबलावलेपप्रवर्तितमहासमरदोहदाः कौरवपक्षपातपणीकृतप्राणद्रविणसंचया नरपतयः ! संस्तभ्यन्तां निहतदुःशासनपीतावशेषशोणितस्नपितबीभत्सवेषवृकोदरदर्शनभयपरिस्खलत्प्रहरणानि रणात्प्रद्रवन्ति बलानि ।

 सूतः--( विलोक्य ।) कथम् । एष धवलचपलचामरचुम्बितकनककमण्डलुना शिखरावबद्धवैजयन्तीसूचितेन हतगजवाजिनरकलेवरसहस्रसमर्दविषमोद्घातकृतकलकलकिङ्किणीजालमालिना रथेन शरवर्षस्तम्भितपरचक्रपराक्रमप्रसरः प्रद्रुतमात्मबलमाश्वासयन्कृपः किरीटिनाभियुक्तमङ्गराजमनुसरति । हन्त ! जातमस्मद्बलानामवलम्बनम् ।

( नेपथ्ये कलकलानन्तरम् ।)

 भो भो अस्मद्दर्शनभयस्खलितकार्मुककृपाणतोमरशक्तयः कौरवचमूभटाः। पाण्डवपक्षपातिनश्च योधाः ! न भेतव्यं न भेतव्यम् । अयमहं निहतदुःशासनपीवरोरःस्थलक्षतजासवपानमदोद्धतो रभसगामी स्तोकावशिष्टप्रतिज्ञामहोत्सवः कौरवराजस्य द्यूतनिर्जितो दासः पार्थमध्यमो भीमसेनः सर्वान्भवतः साक्षीकरोमि । श्रूयताम् ।

राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः
 प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च ।
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः
 कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥ १ ॥

 सूतः--( श्रुत्वा सभयम् । ) कथम् ! आसन्न एव दुरात्मा कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिः । अनुपलब्धसंज्ञश्च महाराजः । भवतु । दूरमपहरामि स्यन्दनम् । कदाचिद्दुःशासन इवास्मिन्नप्ययमनार्योऽनार्यमाचरिष्यति । ( त्वरितं परिक्रम्यावलोक्य च ।) अये! अयमसौ सरसीसरोजविलोलनसुरभिशीतलमातरिश्वसंवाहितसान्द्रकिसलयो न्यग्रोधपादपः । उचिता विश्रामभूमिरियं समरव्यापारखिन्नस्य वीरजनस्य । अत्र स्थितश्चायाचिततालवृन्तेन हरिचन्दनच्छटाशीतलेनाप्रयत्नसुरभिणा देशापरिणामयोग्येन सरसीसमीरणेनामुना गतक्लमो भविष्यति महाराजः । लूनकेतुश्चायं रथोऽनिवारित एव प्रवेक्ष्यति च्छायामिति । ( प्रवेशं रूपयित्वा ! ) कः कोऽत्र भोः? ( समन्तादवलोक्य । ) कथं, न कश्चिदत्र परिजनः? । नूनं तथाविधस्य वृकोदरस्य दर्शनादेवंविधस्य च स्वामिनस्त्रासेन शिबिरसंनिवेशमेव प्रविष्टः । कष्टं भोः! कष्टम्! ।

दत्त्वा द्रोणेन पार्थादभयमपि न संरक्षितः सिन्धुराजः
 क्रूरं दुःशासनेऽस्मिन्हरिण इव कृतं भीमसेनेन कर्म ।
दुःसाध्यामप्यरीणां लघुमिव समरे पूरयित्वा प्रतिज्ञां
 नाहं मन्ये सकामं कुरुकुलविमुखं दैवमेतावतापि ॥ २ ॥

( राजानमवलोक्य । )कथमद्यापि चेतनां न लभते महाराजः? भोः! कष्टम् । ( निःश्वस्य । )

मदकलितकरेणुभज्यमाने
 विपिन इव प्रकटैकशालशेषे ।
हतसकलकुमारके कुलेऽस्मिं-
 स्त्वमपि विधेरवलोकितः कटाक्षैः ॥ ३ ॥

ननु भो हतविधे! भरतकुलविमुख!

अक्षतस्य गदापाणेरनारूढस्य संशयम् ।
एषापि भीमसेनस्य प्रतिज्ञा पूर्यते त्वया ? ॥ ४ ॥

 दुयोधनः--( शनैरुपलब्धसंज्ञः ।) आः, का शक्तिरस्ति दुरात्मनो वृकोदरहतकस्य मयि जीवति दुर्योधने प्रतिज्ञां पूरयितुम्? वत्स दुःशासन! न भेतव्यं न भेतव्यम् । अयमहमागतोऽस्मि । ननु सूत! प्रापय रथं तमेवोद्देशं यत्र वत्सो मे दुःशासनः ।

 सूतः–- आयुष्मन्! अक्षमाः संप्रति वाहास्ते रथमुद्वोढुम् । (अपवार्य) मनोरथं च ।  दुर्योधनः--( रथादवतीर्य सगर्वं साकूतं च ।) कृतं स्यन्दनगमनकालातिपातेन ।

 सूतः--( सवैलक्ष्यं सकरुणं च ।) मर्षयतु मर्षयतु देवः ।

 दुर्योधनः-- धिक्सूत! किं रथेन? केवलमरातिविमर्दसंघट्टसंचारी दुर्योधनः खल्वहम् । तद्गदामात्रसहायः समरभुवमवतरामि ।

 सूतः-- देव! एवमेतत् ।

 दुर्योधनः-- यद्येवं किमेवं भाषसे ? पश्य ।

बालस्य मे प्रकृतिदुर्ललितस्य पापः
 पापं व्यवस्यति समक्षमुदायुधोऽसौ ।
अस्मिन्निवारयसि किं व्यवसायिनं मां
 क्रोधो न नाम करुणा न च तेऽस्ति लज्जा ॥ ५ ॥

 सूतः-- ( सकरुणं पादयोर्निपत्य । )एतद्विज्ञापयामि । आयुष्मन्! संपूर्णप्रतिज्ञेन निवृत्तेन भवितव्यमिदानीं दुरात्मना वृकोदरहतकेन । अत एवं ब्रवीमि ।

 दुर्योधनः-- ( सहसा भूमौ पतन् । )हा वत्स दुःशासन! हा मदाज्ञाविरोधितपांडव! हा विक्रमैकरस! हा मदङ्कदुर्ललित! हा अरातिकुलगजघटामृगेंद्र! हा युवराज ! क्वासि? प्रयच्छ मे प्रतिवचनम् ।

( इति निश्वस्य मोहमुपगतः ।)

 सूतः-- राजन् ! समाश्वसिहि समाश्वसिहि ।

 दुर्योधनः--( संज्ञां लब्ध्वा । निश्वस्य । )

युक्तो यथेष्टमुपभोगसुखेषु नैव
 त्वं लालितोऽपि हि मया न वृथाग्रजेन ।
अस्यास्तु वत्स तव हेतुरहं विपत्ते-
 र्यत्कारितोऽस्यविनयं न च रक्षितोऽसि ॥ ६ ॥

( इति पतति ।)

 सूतः--आयुष्मन् ! समाश्वसिहि समाश्वासहि ।

 दुर्योधनः--धिक्सूत ! किमनुष्ठितं भवता ?

रक्षणीयेन सततं बालेनाज्ञानुवर्तिना ।
दुःशासनेन भ्रात्राहमुपहारेण रक्षितः ॥ ७ ॥

 सूतः--महाराज ! मर्मभेदिभिरिषुतोमरशक्तिप्रासवर्षैर्महारथानामपहृतचेतनत्वान्निश्चेष्टः कृतो महाराज इत्यपहृतो मया रथः ।

 दुर्योधनः--सूत ! विरूपं कृतवानसि ।

तस्यैव पाण्डवपशोरनुजद्विषो मे
 क्षोदैर्गदाशनिकृतैर्न विबोधितोऽस्मि ।
तामेव नाधिशयितो रुधिरार्द्रशय्यां
 दौःशासनीं यदहमाशु वृकोदरो वा ॥ ८ ॥

( निश्वस्य । नभो विलोक्य । ) ननु भो हतविधे ! कृपाविरहित ! भरतकुलविमुख !

अपि नाम भवेन्मृत्युर्न च हन्ता वृकोदरः ।।

 सूतः--शान्तं पापं शान्तं पापम् । महाराज ! किमिदम् ?

 दुर्योधनः--

 घातिताशेषबन्धोर्मे किं राज्येन जयेन वा ? ॥ ९ ॥

( ततः प्रविशति शरप्रहारव्रणबद्धपट्टिकालंकृतकायः सुंदरकः । )

 सुन्दरकः--अज्जा ! अवि णाम इमस्सिं उद्देसे सारहिदुईओ दिट्ठो तुह्मेहिं महाराअदुज्जोहणो ण वेत्ति । ( निरूप्य । ) कहं ण को वि मन्तेदि । होदु । एदाणं बद्धपरिअराणं पुरिसाणं समूहो दीसइ । एत्थ गदुअ पुच्छि स्सम् । ( परिक्रम्य विलोक्य च । ) कहं एदे क्खु सामिणो गाढप्पहारहदस्स घणसण्णाहजालदुब्भेज्जमुहेहिं कङ्कवअणेहिं हिअआदो सल्लाइं उद्धरन्ति । ता ण हु एदे जाणन्ति । होदु । अण्णदो विचिणइस्सम् । ( अग्रतोऽवलोक्य किंचित्परिक्रम्य । ) इमे क्खु अवरे प्पहूददरा संगदा वीरमणुस्सा दीसन्ति । ता एत्थ गदुअ पुच्छिस्सम् । ( उपगम्य ।)हंहो ! जाणघ तुह्मे कस्सिं उद्देसे कुरुणाहो वट्टइ त्ति । ( दृष्ट्वा । ) कहं एदे वि मं पेक्खिअ अहिअदरं रोअन्दि । ता ण हु एदे वि जाणन्ति । हा अदिकरुणं क्खु एत्थ वट्टइ । एसा वीलमादा समलविणिहदं पुत्त अं सुणिअ रत्तंसुअणिव सणाए समग्गभूसणाए वहूए सह अणुमरदि । (सश्लाघम् ।) साहु वीरमादे ! साहु । अण्णस्सिं वि जम्मन्तरे अणिहदपुत्तआ हुविस्ससिं । होदु । अण्णदो पुच्छिस्सम् । (अन्यतो विलोक्य ।) अअं अवरो बहुप्पहारणिहदकाओ अकिदव्वणबन्धो एव्व जोहसमूहो इमं सुण्णासणं तुलङ्गमं उवालहिअ रोइदि । णूणं एदाणं एत्थ एव्व सामी व्वावादिदो । ता ण हु एदे वि जाणन्दि । होदु । अण्णदो गदुअ 'पुच्छिस्सम्' । ( सर्वतो विलोक्य ।) कहं सव्वो एव्व अवत्थाणुरूवं व्वसणं अणुभवन्तो भाअधेअविसमसीलदाए पज्जाउलो जणो । ता कं दाणीं एत्थ पुच्छिस्सम् । कं वा उवालहिस्सम् । होदु । सअं एव्व एत्थ विचिणइस्सम् । ( परिक्रम्य । ) होदु । देव्वं दाणीं उवालहिस्सम् । हंहो देव्व ! एआदसाणं अक्खोहिणीणं णाहो जेट्ठो भादुसदस्स भत्ता गङ्गेअद्दोणङ्गराअसल्लकिंवकिदवम्मअस्सत्थामप्पमुहस्स राअचक्कस्स सअलप्पुहवीमण्डलेक्कणाहो महाराअदुज्जोहणो वि अण्णेसीअदि । अण्णेसीअन्तो वि ण जाणीअदि कस्सिं उद्देसे वट्टइ त्ति । ( विचिन्त्य निश्वस्य च । ) अह वा किं एत्थ देव्वं उवालहामि । तस्स क्खु एदं णिब्भच्छिअविउरवअणवी अस्स अवहीरिदपिदामहहिदोवदेसंकुरस्स सउणिप्पोच्छाहणादिविरूढमूलस्स जदुगेहजूदविससाहिणो संभूदचिरआलसंबद्धवेरालवालस्स पंचालीकेसग्गहणकुसुमस्स फलं परिणमदि ।( अन्यतो विलोक्य । )जहा एत्थ एसो विविहरअणप्पहासंवलिदसूरकिरणप्पसूदसक्कचावसहस्ससंपूरिददसदिसामुहो लूणकेदुवंसो रहो दीसइ तहा तकेमि अवस्सं एदिणा महाराअदुज्जोहणस्स विस्सामुद्देसेण होदव्वं त्ति । जाव निरूपेमि । ( उपगम्य दृष्ट्वा निश्वस्य च । ) कधं एआदहाणं अक्खोहिणीणं णाअको भविअ महाराओ दुज्जोहणो पइदपुरिसो विअ असलाणीआए भूमीए उवविट्ठो चिट्ठदि । अध वा तस्स क्खु एदं पंचालकिसेग्गहकुसुमस्स फलं परिणमदि । ( आर्याः ! अपि नामास्मिन्नुद्देशे सारथिद्वितीयो दृष्टो युष्माभिर्महाराजदुर्योधनो न वेति । कथं न कोऽपि मन्त्रयते । भवतु । एतेषां बद्धपरिकराणां पुरुषाणां समूहो दृश्यते । अत्र गत्वा प्रेक्ष्यामि । कथं एते खलु स्वामिनो गाढप्रहारहतस्य घनसन्नाहजालदुर्भेद्यमुखैः कङ्कवदनैर्हृदयाच्छल्यान्युद्धरन्ति ? तन्न खल्वेते जानन्ति । भवतु । अन्यतो विचेष्यामि । इमे खल्वपरे प्रभूततराः संगता वीरमनुष्या दृश्यन्ते तदत्र गत्वा प्रेक्ष्यामि । हंहो ! जानीथ यूयं कस्मिन्नुद्देशे कुरुनाथो वर्तत इति । कथमेतेऽपि मां प्रेक्ष्याधिकतरं रुदन्ति | तन्न खल्वेतेऽपि जानन्ति । हा ! अतिकरुणं खल्वत्र वर्तते । एषा वीरमाता समरविनिहतं पुत्रकं श्रुत्वा रक्तांशुकनिवसनया समग्रभूषणया वध्वा सहानुम्रियते । साधु वीरमातः ! साधु । अन्यस्मिन्नपि जन्मान्तरेऽनिहतपुत्रका भविष्यसि । भवतु । अन्यतः प्रेक्ष्यामि । अयमपरो बहुप्रहारनिहतकायोऽकृतव्रणबन्ध एव योधसमूह इमं शून्यासनं तुरंगममुपालभ्य रोदिति नूनमेतेषामत्रैव स्वामी व्यापादितः । तन्न खल्वेतेऽपि जानन्ति । भवतु । अन्यतो गत्वा प्रेक्ष्यामि । कथं सर्व एवावस्थानुरूपं व्यसनमनुभवन्भागधेयविषमशीलतया पर्याकुलो जनः ? । तत्कमिदानीमत्र प्रक्ष्यामि । कं वोपालप्स्ये । भवतु । स्वयमेवात्र विचेष्यामि । भवतु दैवमिदानीमुपालप्स्ये । हंहो देव ! एकादशानामक्षौहिणीनां नाथो ज्येष्ठो भ्रातृशतस्य भर्ता गाङ्गेयद्रोणाङ्गराजशल्यकृपकृतवर्माश्वत्थामप्रमुखस्य राजचक्रस्य सकलपृथ्वीमण्डलैकनाथो महाराजदुर्योधनोऽप्यन्विष्यते ? । अन्विष्यमाणोऽपि न ज्ञायते कस्मिन्नुद्देशे वर्तत इति । अथ वा किमत्र दैवमुपालभे । तस्य खल्विदं निर्भर्त्सितविदुरवचनबीजस्यावधीरितपितामहहितोपदेशाङ्कुरस्य शकुनिप्रोत्साहनादिविरूढमूलस्य जतुगृहद्यूतविषशाखिनः संभूतचिरकालसंबद्धवैरालवालस्य पाञ्चालीकेशग्रहणकुसुमस्य फलं परिणमति । यथात्रैष विविधरत्नप्रभासंवलितसूर्यकिरणप्रसूतशक्रचापसहस्रसपूरितदशदिशामुखो लूनकेतुवंशो रथो दृश्यते तथा तर्कयाम्यवश्यमनेन महाराजदुर्योधनस्य विश्रामोद्देशेन भवितव्यमिति । यावन्निरूपयामि । कथमेकादशानामक्षौहिणीनां नायको भूत्वा महाराजोदुर्योधनः प्राकृतपुरुष इवाश्लाघनीयायां भूमावुपविष्टस्तिष्ठति । अथवा तस्य खल्विदं पाञ्चाली केशग्रहकुसुमस्य फलं परिणमति ।)

( उपसृत्य दृष्ट्वा ।)

 सुन्दरकः--( उपगम्य । ) जअदु जअदु महाराओ । ( जयतु जयतु महाराजः ।)

 दुर्योधनः--( विलोक्य । ) अये ! सुन्दरकः । सुन्दरक ! कच्चित्कुशलमङ्गराजस्य ?।

 सुन्दरकः--देव ! कुसुलं सरीरमेत्तकेण ।( देव ! कुशलं शरीरमात्रेण । )

 दुर्योधनः--किं किरीटिनास्य निहता धौरेया हतः सारथिर्भग्नो वा रथः ? ।

 सुन्दरकः--देव ! ण भग्गो रहो । से मणोरहो वि । ( देव ! न भग्नो रथः । अस्य मनोरथोऽपि । )

 दुर्योधनः-- किमविस्पष्टकथितैराकुलमपि पर्याकुलयसि मे हृदयम् । अशेषतो विस्पष्टं कथ्यताम् ।  सुन्दरकः--जं देवो आणवेदि । अए ! देवस्स मउडमणिप्पहावेण अवणीदा मे रणप्पहारवेअणा । ( इति साटोपं परिक्रम्य । ) सुणादु देवो । अत्थि दाणीं कुमालदुस्सासणवह–( यद्देव आज्ञापयति । अये ! देवस्य मुकुटमणिप्रभावेणापनीता मे रणप्रहारवेदना । शृणोतु देवः । अस्तीदानीं कुमारदुःशासनवध-- । ) ( इत्यर्धोक्ते मुखमाच्छाद्य शङ्कां नाटयति ।)

 सूतः--सुन्दरक ! कथय । कथितमेव दैवेन ।

 दुर्योधनः--कथ्यताम् श्रुतमस्माभिः ।

 सुन्दरकः--( स्वगतम् । )कधं ! दुस्सासणवहो सुदो देवेण ? । ( प्रकाशकम् । ) सुणादु देवो । अज्ज दाव कुमालदुस्सासणवहामरिसिदेण सामिणा अङ्गाराएण किदकुडिलभिउडीभङ्गभीसणललाडवट्टेण अविण्णादसंधाणमोक्खणिक्खित्तसरधारावरिसेण अभिजुत्तो सो दुराआरो दुस्सासणवेरिओ मज्झमपण्डवो । ( कथं ! दुःशासनवधः श्रुतो देवेन ? । शृणोतु देवः । अद्य तावत्कुमारदुःशासनवधामर्षितेन स्वामिनांगराजेन कृतकुटिलभृकुटीभंगभीषणललाटपट्टनाविज्ञातसंधानमोक्षनिक्षिप्तशरंधारावर्षेणाभियुक्तः स दुराचारी दुःशासनवैरी मध्यमपाण्डवः ।)

 उभौ--ततस्ततः ।

 सुन्दरकः--तदो देव ! उहअबलमिलन्तदीप्पन्तकरितुरअपदादिसमुब्भूदधूलिणिअरेण पल्लत्थतत्तग्गअघडासंघादेण अ वित्थरन्तेण अन्धआरेण अन्धीकिदं उहअबलम् । ण हु गगणतलं लक्खीअदि । ( ततो देव! उभयबलमिलद्दीप्यमानकरितुरगपदातिसमुद्भूतधूलिनिकरेण पर्यस्ततत्तद्गजघटासंघातेन च विस्तीर्यमाणेनान्धकारेणान्धीकृतमुभयबलम् । न खलु गगनतलं लक्ष्यते । )

 उभौ--ततस्ततः ।

 सुन्दरकः-- तो देव ! दूराकट्टिअधणुग्गुणाच्छोडणटङ्कारेण गम्भीरभीसणेण जाणीअदि गज्जिदं पलअजलहरेण त्ति ।( ततो देव! दूराकृष्टधनुर्गुणाच्छोटनटङ्कारेण गम्भीरभीषणेन ज्ञायते गर्जितं प्रलयजलधरेणेति ।)

 दुर्योधनः--ततस्ततः ।

 सुन्दरकः--तदो देव ! दोहिणं वि ताणं अण्णोण्णसीहणादगज्जिदपिसुणाणं विविहपरिमुक्कप्पहरणाहदकवअसंगलिदजलण विज्जुच्छडाभासुरं गम्भीरन्थणिदचापजलहरं प्पसरन्तसरधारासहस्सवरिसं जादं समलदुद्दिणम् । ( ततो देव! द्वयोरपि तयोरन्योन्यसिंहनादगर्जितपिशुनयोर्विविधपरिमुक्तप्रहरणाहतकवचसंगलितज्वलनविद्युच्छटाभासुरं गम्भीरस्तनितचापजलधरं प्रसरच्छरधारासहस्रवर्षि जातं समरदुर्दिनम् । )

 दुर्योधनः-- ततस्ततः ।

 सुन्दरकः-- तदो देव ! एदस्सिं अन्तरे जेट्ठस्स भादुणो परिहवसङ्किणा धणंजएण वज्जणिग्घादणिग्घोसविसमरसिदघअअग्गट्ठिदमहावाणरो तुरङ्गमसंवाहणव्वापिदवासुदेवसङ्खचक्कासिगदालञ्छिदचउब्बाहुदण्डद्दुद्दंसणो । आपूरिअपञ्चजण्णदेअदत्तताररसिदप्पडिरवभरिददसदिसामुहकुहरो धाविदो तं उद्देसं रहवरो । ( ततो देव ! एतस्मिन्नन्तरे ज्येष्ठस्य भ्रातुः परिभवशङ्किना धनञ्जयेन वज्रनिर्घातनिर्घोषविषमरसितध्वजाग्रस्थितमहावानरस्तुरंगमसंवाहनव्यापृतवासुदेवशंखचक्रासिगदालाञ्छितचतुर्बाहुदण्डदुर्दशन आपूरितपाञ्चजन्यदेवदत्तताररासितप्रतिरवभरितदशदिशामुखकुहरो धावितस्तमुद्देशं रथवरः ।)

 दुर्योधनः-- ततस्ततः ।

 सुन्दरकः–- तदो भीमसेणधणंजएहिं अभिजुत्तं पिदरं पेक्खिअ ससंभमं विअलिअं अवधूणिअ सअणससिअं आकण्णाकट्टिदकठिणकोदण्डजीओ दाहिणहत्तुक्खित्तसरपुङ्खविघट्टणतुवराइदसारहीओ तं देसं उवगदो कुमालविससेणो । ( ततो भीमसेनधनंजयाभ्यामभियुक्तं पितरं प्रेक्ष्य ससंभ्रमं विगलितमवधूय रत्नशीर्षकमाकर्णाकृष्टकठिनकोदण्डजीवो दक्षिणस्तोत्क्षिप्तशरपुङ्खविघट्टनत्वरितसारथिकस्तं देशमुपगतः कुमारवृषसेनः ।

 दुर्योधनः--( सावष्टम्भम् । ) ततस्ततः ।

 सुन्दरकः--तदो अ देव ! तेण आअच्छन्तेण एव्व कुमालविससेणेण विदलिदासिलदासामलसिणिद्धपुङ्खेहिं किसणवण्णेहिं साणसिलााणिसिदसामलसल्लवन्धेहिं कुसुमिदो विअ तरू मुहूत्तएण सिलीमुहेहिं पच्छादिदो धणंजअस्स रहवरो । ( ततश्च देव ! तेनागच्छतैव कुमारवृषसेनेन विदलितासिलताश्यामलस्निग्धपुङ्खैः कठिनकंकपत्रैः कृष्णवर्णैः शाणशिलानिशितश्यामलशस्यबन्धैः कुसुमित इव तरुर्मुहूर्तकेन शिलीमुखैः प्रच्छादितो धनञ्जयस्य रथवरः ।)

 उभौः--( सहर्षम् ।)ततस्ततः ।

 सुन्दरकः--तदो देव ! तिक्खविक्खित्तणिसिदभल्लबाणवरिसिणा धणंजएण ईसि विहसिअ भणिदम्--अरे रे विससेणे ! पिदुणो वि दाव दे ण जुत्तं मह कुविदस्स अभिमुहं ठादुम् । किं उण भवदो बालस्स । ता गच्छ । अवरेहिं कुमारेहिं आओधेहि त्ति । एव्वं वाअं णिसमिअ गुरुअणाहिक्खेवेण उद्दीविदकोवोवरत्तमुहमण्डलविअम्भिअभिउडीभङ्गभीसणेण चावधारिणा कुमालविससेणेण मम्मभेदएहिं परुसविसमेहिं सुदिवहकिदप्पणएहिं णिब्भच्छिदो गण्डीवी बाणेहिं ण उण दुठ्ठवअणेहिं । ( ततो देव! तीक्ष्णविक्षिप्तनिशितभल्लबाणवर्षिणा घनंजयेनेषद्विहस्य भणितम्-- अरे रे वृषसेन! पितुरपि तावत्ते न युक्तं मम कुपितस्याभिमुखं स्थातुम् । किं पुनर्भवतो बालस्य । तद्गच्छ । अपरैः कुमारैर्युध्यस्वेति । एवं वाचं निशम्य गुरुजनाधिक्षेपेणोद्दीपितकोपोपरक्तमुखमण्डलविजृम्भितभ्रुकुटीभङ्गभीषणेन चापधारिणा कुमारवृषसेनेन मर्मभेदकैः परुषविषमैः श्रुतिपथकृतप्रणयैर्निर्भत्सितो गाण्डीवी बाणैर्न पुनर्दुष्टवचनैः । )

 दुर्योधनः-- साधु वृषसेन! साधु । सुन्दरक ! ततस्ततः ।

 सुन्दरकः-- तदो देव! णिसिदसराभिघादवेअणोवजादमण्णुणा किरीटिणा चण्डगण्डीवजीआसद्दणिज्जिदवज्जणिग्घादघोसेण बाणणिपडणपडिसिद्धदंसणप्पसरेण प्रत्युदं सिक्खाबलाणुरूवं किं वि अच्चरिअम् । ( ततो देव! निशितशराभिघातवेदनोपजातमन्युना किरीटिना चण्डगाण्डीवजीवाशब्दनिर्जितवज्रनिर्घातघोषेण बाणनिपतनप्रतिषिद्धदर्शनप्रसरेण प्रस्तुतं शिक्षाबलानुरूपं किमप्याश्चर्यम् ।)

 दुर्योधनः-- ( साकूतम् ।) ततस्ततः ।

 सुन्दरकः–- तदो देव ! तं तारिसं पेक्खिअ सत्तुणो समरव्वावारचउरत्तणं अविभाविदतूणीरमुहधणुग्गुणगमणागमणसरसंधाणमोक्खचडुलकरअलेण कुमालविससेणेण वि सविसेसं पत्थुदं समलकम्म । ( ततो देव! तत्तादृशं प्रेक्ष्य शत्रोः समरव्यापारचतुरत्वमविभाविततूणीरमुखधनुर्गुणगमनागमनशरसंधानमोक्षचटुलकरतलेन कुमारवृषसेनेनापि सविशेषं प्रस्तुतं समरकर्म ।)

 दुर्योधनः-- ततस्ततः ।

 सुन्दरकः--तदो देव ! अत्थन्तरे विमुक्कसमरव्वावारो मुहुत्तविस्सामिदवेराणुबन्धो दोणं वि कुरुराअपण्डवबलाणं ‘साहु कुमालविससेण ! साहु' त्तिकिदकलअलो वीरलोओ अवलोइदुं पउत्तो । ( ततो देव ! अत्रान्तरे विमुक्तसमरव्यापारो मुहूर्तविश्रमितवैरानुबन्धो द्वयोरपि कुरुराजपाण्डवबलयोः 'साधु कुमारवृषसेन! साधु' इति कृतकलकलो वीरलोकोऽवलोकयितुं प्रवृत्तः । )  दुर्योधनः--( सविस्मयम् ।) ततस्ततः ।

 सुन्दरकः--तदो अ देव । अवहीरिदसअलराअधाणुक्कचक्कपराक्कमसालिणे सुदस्स तहाविहेण समलकम्मालम्भेण हरिसरोसकरुणासकंडे वट्टमाणस्स सामिणो अङ्गराअस्स णिवडिआ सरपद्धई भीमसेणे वप्फपज्जाउला दिट्ठी कुमालविससेणे । ( ततश्च देव! अवधीरितसकलराजधानुष्कचक्रपराक्रमशालिनः सुतस्य तथाविधेन समरकर्मारम्भेण हर्षरोषकरुणासंकटे वर्तमानस्य स्वामिनोऽङ्गराजस्य निपतिता शरपद्धतिर्भीमसेने बाष्पपर्याकुला दृष्टिः कुमारवृषसेने । )

 दुर्योधनः--( सभयम् ।) ततस्ततः ।

 सुन्दरकः–-तदो अ देव ! उभअबलप्पउत्तसाहुकारामरिसिदेण गण्डीविणा तुरगेसु सारहिं वि रहवरे धणुं वि जीआइं वि णलिन्दलञ्छणे सिदादवत्ते वि अ व्वावारिदो समं सिलीमुहासारो । ( ततश्च देव! उभयबलप्रवृत्तसाधुकारामर्षितेन गाण्डीविना तुरगेषु सारथावपि रथवरे धनुष्यपि जीवायामपि नरेन्द्रलाञ्छने सितातपत्रेऽपि च व्यापारितः समं शिलीमुखासारः । )

 दुर्योधनः-- ( सभयम् ।) ततस्ततः ।

 सुन्दरकः--तदो देव ! विरहो लूणगुणकोदण्डो परिब्भमणमेत्तव्वावारो मण्डलाइं विरअइदुं पउत्तो कुमालविससेणो । ( ततो देव! विरथो लूनगुणकोदण्डः परिभ्रमणमात्रव्यापारो मण्डलानि विरचयितुं प्रवृत्तः कुमारवृषसेनः । )

 दुर्योधनः--( साशंकम् । ) ततस्ततः ।

 सुन्दरकः--तदो देव ! सुदरहविद्धंसणामरिसिदेण सामिणा अङ्गराएण अगणिदभीमसेणाभिजोएण पडिमुक्को धणंजअस्स उवरि सिलीमुहासारो । कुमालो वि परिजणोवणीदं अण्णं रहं आरुहिअ पुणो वि प्पउत्तो । धणंजएण सह आ ओघेदुम् । ( ततो देव ! सुतरथविध्वंसनामर्षितेन स्वामिनांगराजेनागणितभीमसेनाभियोगेन परिमुक्तो धनंजयस्योपरि शिलीमुखासारः । कुमारोऽपि परिजनोपनीतमन्यं रथमारुह्य पुनरपि प्रवृत्तो धनंजयेन सह योद्धुम् )

 उभौ–-साधु वृषसेन ! साधु । ततस्ततः ।

 सुन्दरकः--तदो देव ! भणिदं अ कुमालेण --'रे रे तादाहिक्खेवमुहल मज्झमपण्डव । मह सरा तुह सरीरं उज्झिअ अण्णस्सिं ण णिवडन्ति' त्ति । भणिअअ सरसहस्सेहिं पण्डवसरीरं पच्छादिअ सिंहणादेन गज्जिदुं पउत्तो । ( ततो देव! भणितं च कुमारेण-- 'रे रे ताताधिक्षेपमुखर मध्यमपाण्डव! मम शरास्तव शरीरमुज्झित्वान्यस्मिन्न निपतन्ति' इति भणित्वा च शरसहस्रैः पाण्डवशरीरं प्रच्छाद्य सिंहनादेन गर्जितुं प्रवृत्तः । )

 दुर्योधनः--( सविस्मयम् । ) अहो! बालस्य पराक्रमो मुग्धस्वभावस्याऽपि । ततस्ततः ।

 सुन्दरकः-- तदो अ देव ! तं सरसंपादं समवधुणिअ णिसिदसराभिघादजादमण्णुणा किरीटिणा ग्गहीदा रहुच्छङ्गादो क्कणन्तकणअकिङ्किणीजालझङ्कारविराइणी मेहोवरोहविमुक्कणहत्थलणिम्मला णिसिदसामलसिणिद्धमुही विविहरअणप्पहाभासुरभीसणरमणिज्जदंसणा सत्ती विमुक्का अ कुमालाहिमुही । ( ततश्च देव! तं शरसंपातं समवधूय निशितशराभिघातजातमन्युना किरीटिना गृहीता रथोत्संगात्क्वणत्कनककिंकिणीजालझंकारविराविणी मेघोपरोधविमुक्तनभस्तलनिर्मला निशितश्यामलस्निग्धमुखी विविधरत्नप्रभाभासुरभीषणरमणीयदर्शना शक्तिर्विमुक्ता च कुमाराभिमुखी ।)

 दुर्योधनः-- ( सविषादम् ) अहह! ततस्ततः ।

 सुन्दरकः--तदो देव ! पज्जलन्तीं सत्तिं पेक्खिअ विअलिअं अङ्गराअस्स हत्थादो ससरं धणू हिअआदो वीरसुलहो उच्छाहो णअणादो बप्फसलिलं वि । रसिदं अ सिंहणादं विओदलेण । दुक्कलं दुक्कलं त्ति आक्कन्दिदं कुरुबलेण । ( ततो देव ! प्रज्वलन्तीं शक्तिं प्रेक्ष्य विगलितमंगराजस्य हस्तात्सशरं धनुर्हृदयाद्वीरसुलभ उत्साहो नयनाद्बाष्पसलिलमपि । रसितं च सिंहनादं वृकोदरेण । दुष्करं दुष्करमित्याक्रन्दितं कुरुबलेन ।)

 दुर्योधनः--( सविषादम् ।) ततस्ततः ।

 सुन्दरकः --तदो देव ! कुमालविससेणेण आकण्णाकिट्टणिसिदखुरप्पेण सुचिरं णिज्झाइअ अद्धपहे एव्व भाईरही विअ भअवदा विसमलोअणेण त्तिधा किदा सत्ती । ( ततो देव! कुमारवृषसेनेनाकर्णाकृष्टनिशितक्षुरप्रेण सुचिरं निध्यायार्धपथ एव भागीरथीव भगवता विषमलोचनेन त्रिधा कृता शक्तिः ।)

 दुर्योधनः-- साधु वृषसेन! साधु । ततस्ततः ।

 सुन्दरकः-- तदो अ देव | एदस्सिं अन्तरे कलमुहरेण वीरलोअसाहुवादेण अन्तरिदो समरतूरणिग्घोसो । सिद्धचालणगणविमुक्ककुसुमप्पअरेण पच्छादिदं लमलङ्गणम् । भणिअं अ सामिणा अङ्गराएण--'भो वीर विकोदल ! असमत्तो तुह मह वि समलव्वावारो । ता अणुमण्ण मं मुहुत्तअम् । पेक्खावो दाव वच्छस्स तुह भादुणो अ घणुव्वेदसिक्खाचउरत्तणम् । तुह वि एदं पेक्खणिज्जं' त्ति । ( ततश्च देव ! एतस्मिन्नन्तरे कलमुखरेण वरलोकसाधुवादेनान्तरितः समरतूर्यनिर्घोषः सिद्धचारणगणविमुक्तकुसुमप्रकरेण प्रच्छादितं समराङ्गणम् । भणितं च स्वामिनाङ्गराजेन-- 'भो वीर वृकोदर! असमाप्तस्तव ममापि समव्यापारः । तदनुमन्यस्व मां मुहूर्तम् । प्रेक्षावहे तावद्वत्सस्य तव भ्रातुश्च धनुर्वेदशिक्षाचतुरत्वम् । तवाप्येतत्प्रेक्षणीयम्' इति । )

 दुर्योधनः-- ततस्ततः ।

 सुन्दरकः-- तदो देव ! विस्समिदाओधणव्वावारा मुहुत्तविस्समिदणिअवेराणुबन्धा दुवे वि पेक्खआ जादा भीमसेणाङ्गराआ । ( ततो देव ! विश्रमितायोधनव्यापारौ मुहूर्तविश्रमितनिजवैरानुबन्धौ द्वावपि प्रेक्षकौ जातौ भीमसेनाङ्गराजौ ।)

 दुर्योधनः--( साभिप्रायम् ।) ततस्ततः ।

 सुन्दरकः-- तदो अ देव ! सत्तिखण्डणामरिसिदेण गण्डीविणा भणिदम्--'अरे रे दुज्जोहणप्पमुहा ! ( ततश्च देव ! शक्तिखण्डनामर्षितेन गाण्डीविना भणितम्-- 'अरे दुर्योधनप्रमुखाः ! ) ( इत्यर्धोक्ते लज्जां नाटयति ।)

 दुर्योधनः-- सुन्दरक ! कथ्यताम् । परवचनमेतत् ।

 सुन्दरकः-- सुणादु देवो । 'अरे दुज्जोहणप्पमुहा कुरुबलसेणाप्पहुणो ! अविणअणोअण्णहार कण्ण ! तुह्मेहिं मह परोक्खं बहुहिं महारहेहिं पडिवारिअ एआई मह पुत्तओ अहिमण्णू व्वावादिदो । अहं उण तुह्माणं पेक्खन्ताणं एव्व एदं कुमालविससेणं सुमलिदुव्वसेसं करोमि' त्ति । भणिअ अ सगव्वं आप्फालिदं णेण वज्जणिग्घादघोसभीसणजीआरअं गण्डीवम् । सामिणा वि सज्जीकिदं काळपुट्ठम् । ( शृणोतु देवः । 'अरे दुर्योधनप्रमुखाः कुरुबलसेनाप्रभवः! अविनयनौकर्णधार कर्ण! युष्माभिर्मम परोक्षं बहुभिर्महारथैः परिवृत्यैकाकी मम पुत्रकोऽभिमन्युर्व्यापादितः । अहं पुनर्युष्माकं प्रेक्षमाणानामेवैतं कुमारवृषसेनं स्मर्तव्यशेषं करोमि' इति । भणित्वा च सगर्वमास्फालितमननवज्रनिर्घातघोषभीषणजीवारवं गाण्डीवम् । स्वामिनापि सज्जीकृतं कालपृष्ठम् ।)

 दुर्योधनः-- ( सावहित्थम् ।) ततस्ततः ।  सुन्दरकः-- तदो अ देव ! पडिसिद्धभीमसेणसमलकम्मालम्मेण गण्डीविणा विरइदा अङ्गराअविससेणरहकूलंकसाओ दुवे बाणणदीओ । तेहिं वि दुवेहिं अण्णोण्णासिणेहदसिदसिक्खाविसेसेहिं अभिजुत्तो सो दुराआरो मज्झमपण्डवो । ( ततश्च देव! प्रतिषिद्धभीमसेनसमरकर्मारम्भेण गाण्डीविना विरचितेऽङ्गराजवृषसेनरथकूलंकषे द्वे बाणनद्यौ । ताभ्यामन्योन्यस्नेहदर्शितशिक्षाविशेषाभ्यामभियुक्तः स दुराचारो मध्यमपाण्डवः ।

 दुर्योधनः-- ततस्ततः ।

 सुन्दरकः-- तदो अ देव ! गण्डीविणा ताररसिदजीआणिग्घोसमेत्तविण्णादबाणवरिसेण तह आअरिदं पत्तिहि जह ण णहत्तलं ण सामी ण रहो ण धरणी ण कुमालो ण केदुवंसो ण बलाइं ण सारही ण तुलङ्गमा ण दिसाओ ण वीरलोओ अ लक्खीअदि ! ( ततश्च देव! गाण्डीविना ताररसितजीवानिर्घोषमात्रविज्ञातबाणवर्षेण तथाचरितं पत्रिभिर्यथा न नभस्तलं न स्वामी न रथो न धरणी न कुमारो न केतुवंशो न बलानि न सारथिर्न तुरंगमा न दिशो न वीरलोकश्च लक्ष्यते ।)

 दुर्योधनः-- ( सविस्मयम् ।) ततस्ततः ।

 सुन्दरकः--तदो अ देव ! अदिक्कन्ते सरवरिसे क्खणमेत्तं ससीहणादे पण्डअबले विमुक्काक्कन्दे कोरअबले उत्थिदो महन्तो कलअलो हा हदो कुमालविससेणो हा हदो त्ति । ( ततश्च देव ! अतिक्रान्ते शरवर्षे क्षणमात्रं ससिंहनादे पाण्डवबले विमुक्ताक्रन्दे कौरवबल उत्थितो महान्कलकलो हा हतः कुमारवृषसेनो हा इत इति ।)

 दुर्योधनः-- ( सबाष्परोधम् ) ततस्ततः ।

 सुन्दरकः-- तदो अ देव ! पेक्खामि कुमालं हदसारहितुलङ्गं लूणादवत्तचावचामरकेदुवंसं सग्गब्भट्टं विअ सुलकुमालं हिअअमम्मभेदिणा एक्केण सिलीमुहेण भिण्णदेहं रहमज्झे पल्लत्थम् । ( ततो देव पश्यामि कुमारं हतसारथितुरंगं लूनातपत्रचापचामरकेतुवंशं स्वर्गभ्रष्टमिव सुरकुमारं हृदयमर्मभेदिनैकेन शिलीमुखेन भिन्नदेहं रथमध्ये पर्यस्तम् । )

 दुर्योधनः--( सास्रम् )अहह कुमारवृषसेन ! अलमतः परं श्रुत्वा । हा वत्स वृषसेन ! हा मदङ्कदुर्ललित! हा गदायुद्धप्रिय! हा राधेयकुलप्ररोह! हा प्रियदर्शन! हा दुःशासननिर्विशेष! हा सर्वगुरुवत्सल! प्रयच्छ मे प्रतिवचनम् ।

पर्याप्तनेत्रमचिरोदितचन्द्रकान्त-
 मुद्भिद्यमाननवयौवनरम्यशोभम् ।
प्राणापहारपरिवर्तितदृष्टि दृष्टं
 कर्णेन तत्कथमिवाननपङ्कजं ते ॥ १० ॥

 सूतः-- आयुष्मन्! अलमत्यन्तदुःखावेगेन ।

 दुर्योधनः-- सूत! पुण्यवन्तो हि दुःखभाजो भवन्ति । अस्माकं पुनः

प्रत्यक्षं हतबन्धूनामेतत्परिभवाग्निना ।
हृदयं दह्यतेऽत्यर्थं कुतो दुःखं कुतो व्यथा ? ॥ ११ ॥

( इति मोहमुपगतः । )

 सूतः-- समाश्वसितु समाश्वसितु महाराजः । (इति पटान्तेन वीजयति ।)

 दुर्योधनः--( लब्धसंज्ञः ।) भद्र सुन्दरक! ततो वयस्येन किं प्रतिपन्नमङ्गराजेन?

 सुन्दरकः–- तदो अ देव ! तहाविधस्स पुत्तस्स दंसणेण संगलिदं अस्सुजलं उज्झिअ अणवेक्खिदपरप्पहरणेण सामिणा अभिजुत्तो धणंजओ । तं अ सुदवहामरिसुद्दीविदपरक्कमं तह परिक्कमन्तं पेक्खिअ णउलसहदेवपञ्चालप्पमुहेहिं अंतरिदो धणंजअस्स रहवरो । ( ततश्च देव! तथाविधस्य पुत्रस्य दर्शनेन संगलितमश्रुजलमुज्झित्वानवेक्षितपरप्रहरणेन स्वामिनाभियुक्तो धनंजयः । तं च सुतवधामर्षोद्दीपितपराक्रमं तथा परिक्रामन्तं प्रेक्ष्य नकुलंसहदेवपांचालप्रमुखैरन्तरितो धनंजयस्य रथवरः ।)

 दुर्योधनः-- ततस्ततः ।

 सुन्दरकः-- तदो देव ! सल्लेण भणिदम्--'अंगराअ ! हदतुलंगमो भग्गकूवरो दे रहो ता ण जुत्तं भीमाज्जुणेहिं सह आजुज्झिदुम्' त्ति । तदो पडिवट्टिदो रहो ओदारिदो सामी सन्दणादो बहुप्पआरं अ समस्सासिदो । तदो अ सामिणा सुइरं विलविअ परिअणोवणीदं अण्णं रहं पेक्खिअ दीहं निस्ससिअ मइ दिट्टी विणिक्खिविदा । सुन्दरअ ! एहि त्ति भणिदं अ । तदो अहं उगवदो सामिसमविम् । तदो अवणीअ सीसट्ठाणादो पट्टिअं सरीरसंगलिदेहिं सोणिअबिंदुहिं लित्तमुहं बाणं कदुअ अहिलिहिअ प्पेसिदो देवस्स संदेसो (ततो देव शल्येन भणितम्-- 'अंङ्गराज! हततुरंगमो भग्नकूबरस्ते रथस्तन्न युक्तं भीमार्जुनाभ्यां सहायोद्धुम्' इति । ततः परिवर्तितो रथोऽवतारितः स्वामी स्यन्दनाद्बहुप्रकारं च समाश्वासितः । ततश्च स्वामिना सुचिरं विलप्य परिजनोपनीतमन्यं रथं प्रेक्ष्य दीर्घं निःश्वस्य मयि दृष्टिर्विनिक्षिप्ता । सुन्दरक! एहीति भणितं च । ततोऽहमुपगतः स्वामिसमीपम् । ततोऽपनीय शीर्षस्थानात्पट्टिकां शरीरसंगलितैः शोणितबिन्दुभिर्लिप्तमुखं बाणं कृत्वाभिलिख्य प्रेषितो देवस्य संदेशः ।( इति पट्टिकामर्पयति ।)

( दुर्योधनो गृहीत्वा वाचयति ।)

 यथा-- 'स्वस्ति! महाराजदुर्योधनं समराङ्गणात्कर्ण एतदन्तं कण्ठे गाढमालिङ्ग्य विज्ञापयति ।

अस्त्रग्रामविधौ कृती न समरेष्वस्यास्ति तुल्यः पुमा-
 न्भ्रातृभ्योऽपि ममाधिकोऽयममुना जेयाः पृथासूनवः ।
यत्संभावित इत्यहं न च हतो दुःशासनारिर्मया
 त्वं दुःखप्रतिकारमेहि भुजयोर्वीर्येण बाष्पेण वा ॥ १२ ॥'

 दुर्योधनः-- वयस्य कर्ण ! किमिदं ? भ्रातृशतवधदुःखितं मामपरेण वाक्शल्येन घट्टयसि ? । भद्र सुन्दरक! अथेदानीं किमारम्भोऽङ्गराजः ।

 सुन्दरकः-- देव ! अज्जवि आरभ्भो पुच्छीअदि ? अवणीदसरीरावरणो अप्पवहकिदणिच्चओ पुणो वि पत्थेण सह समलं मग्गदि । ( देव ! अद्याप्यारम्भः पृच्छ्यते ? । अपनीतशरीराव्रण आत्मवधकृतनिश्चयः पुनरपि पार्थेन सह समरं मार्गति ।)

 दुर्योधनः--( आवेगादासनादुत्तिष्ठन् ।) सूत ! रथमुपनय । सुन्दरक! त्वमपि मद्वचनात्त्वरिततरं गत्वा वयस्यमङ्गराजं प्रतिबोधय । 'अलमतिसाहसेन । अभिन्न एवायमावयोः संकल्पः । न खलु भवानेको जीवितपरित्यागाकाङ्क्षी । किं तु ।

हत्वा पार्थान्सलिलमशिवं बन्धुवर्गाय दुत्त्वा
 मुक्त्वा बाष्पं सह कतिपयैर्मन्त्रिभिश्चारिभिश्च ।
कृत्वान्योन्यं सुचिरमपुनर्भावि गाढोपगूढं
 संत्यक्ष्यावो हततनुमिमां दुःखितौ निवृतौ च ॥ १३ ॥

अथवा शोकं प्रति मया न किञ्चित्संदेष्टव्यम् ।

वृषसेनो न ते पुत्रो न मे दुःशासनोऽनुजः ।
त्वां बोधयामि किमहं त्वं मां संस्थापयिष्यसि ॥ १४ ॥

 सुन्दरकः--जं देवो आणवेदि । ( इति निष्क्रान्तः । यद्देव आज्ञापयति )

 दुर्योधनः--तूर्णमेव रथमुपस्थापय ।

 सूतः--( कर्णं दत्वा । ) देव! ह्रेषासंवलितो नेमिध्वनिः श्रूयते । तथा तर्कयामि नूनं परिजनोपनीतो रथः ।

 दुर्योधनः--सूत! गच्छ त्वं सज्जीकुरु ।

 सूतः--यदाज्ञापयति देवः । ( इति निष्क्रम्य पुनः प्रविशति । )

 दुर्योधनः--( विलोक्य ।) किमिति नारूढोसि ? ।

 सूतः--एष खलु तातोऽम्बा च संजयाधिष्ठितं रथामारुह्य देवस्य समीपमुपगतौ ।

 दुर्योधनः--किं नाम ? तातोऽम्बा च संप्राप्तौ । कष्टमतिबीभत्समाचरितं दैवेन । सूत ! गच्छ त्वं स्यन्दनं तूर्णमुपहर । अहमपि तातदर्शनं परिहरन्नेकान्ते तिष्ठामि ।

 सूतः--देव! त्वदेकशेषबान्धवावेतौ कथमिव न समाश्वासयसि ?

 दुर्योधनः--सूत! कथमिव समाश्वासयामि विमुखभागधेयः ? पश्य

अद्यैवावां रणमुपगतौ तातमम्बां च दृष्ट्वा ।
घ्रातस्ताभ्यां शिरसि विनतोऽहं च दुःशासनश्च ।
तस्मिन्बाले प्रसभमरिणा प्रापिते तामवस्थां
 पार्श्वं पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा ॥ १५ ॥

तथाऽप्यवश्यं वन्दनीयौ गुरू ।

( इति निष्क्रान्तौ ।)

इति चतुर्थोऽङ्कः ।