वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)/पञ्चमोऽङ्कः
← चतुर्थोऽङ्कः | वेणीसंहारम् (आङ्गलटिप्पणीसहितम्) पञ्चमोऽङ्कः भट्टनारायणः |
षष्ठोऽङ्कः → |
वेणीसंहारे
पञ्चमोऽङ्कः ।
( ततः प्रविशति रथयानेन गान्धारी संजयो धृतराष्ट्रश्च ।)
धृतराष्ट्रः--संजय! कथय कस्मिन्नुद्देशे कुरुकुलकाननैकशेषप्रवालो वत्सो मे दुर्योधनस्तिष्ठति ? । कच्चिज्जीवति वा न वा ? ।
गान्धारी--जाद ! जइ सच्चं जीवदि मे वच्छो ता कहेहि कस्सिं देसे वट्टइ। (जात! यदि सत्यं जीवति मे वत्सस्तत्कथय कस्मिन्देशे वर्तते )
संजयः- -नन्वेष महाराज एक एतन्न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।
गान्धारीः--(सकरुणम् ।) जाद ! एआइ त्ति भणासि । किं णु क्खु संपदं भादुसदं से पास्से णत्थि ? ( जात ! एकाकीति भणसि । किं नु खलु सांप्रतं भ्रातृशतमस्य पार्श्वे नास्ति ?)
संजयः--तात! अम्ब! अवतरतं स्वैरं रथात् ।
(सर्वेऽवतरणं नाटयन्ति ।)
( ततः प्रविशति सव्रीडमुपविष्टो दुर्योधनः!)
संजयः-- ( उपसृत्य । ) विजयतां महाराजः । नन्वेष तातोऽम्बया सह प्राप्तः किं न पश्यति महाराजः ? ।
( दुर्योधनो वैलक्ष्यं नाटयति ।)
धृतराष्ट्रः--
शल्यानि व्यपनीय कङ्कवदनैरुन्मोचिते कङ्कटे |
( धृतराष्ट्रो गान्धारी च स्पर्शेनोपेत्यालिंगतः । )
गान्धारी-- वच्छ ! अदिगाढप्पहारवेअणापज्जाउलस्स्स अम्हेसु सण्णिहिदेसु वि ण प्पसरदि दे वाणी । ( वत्स! अतिगाढप्रहारवेदनापर्याकुलस्यास्मासु संनिहितेष्वपि न प्रचरति ते वाणी । धृतराष्ट्र:--वत्स दुर्योधन! किमकृतपूर्वः संप्रति मय्यप्ययमव्याहारः ? ।
गान्धारी-- वच्छ ! जइ तुमं वि अम्हे णालवसि ता किं संपदं वच्छो दुस्सासणो आलवदि अध दुम्मरिसणो वा अण्णो वा ? ( वत्स! यदि त्वमप्यस्मान्नालपसि तत्किं सांप्रतं वत्सो दुःशासन आलपत्यथ दुर्मर्षणो वान्यो वा ? )
( इति रोदिति )
दुर्योधन--
जातोऽहमप्रतिकृतानुजनाशदर्शी |
गान्धारी--जाद ! अलं परिदेविदणे । तुमं वि दाव एक्को इमस्स अन्ध जुअलस्स मग्गोवदेसओ । ता चिरं जीव । किं मे रज्जेण जएण वा । ( जात! अलं परिदेवितेन । त्वमपि तावदेकोऽस्यान्धयुगलस्य मार्गोपदेशकः । तच्चिरं जीव । किं मे राज्येन जयेन वा ? । )
दुर्योधनः--
मातः! किमप्यसदृशं कृपणं वचस्ते |
नूनं विचेष्टितमिदं सुतशोकस्य ।
संजयः–- महाराज! किं वायं लोकवादो वितथो 'न घटस्य कूपपतने रज्जुरपि तत्र प्रक्षेप्तव्या' इति ।
दुर्योधनः--अपुष्कलमिदम् । उपक्रियमाणाभावे किमुपकरणेन ?
( इति रोदिति ।)
धृतराष्ट्रः--(दुर्योधनं परिष्वज्य । ) वत्स! समाश्वसिहि । समाश्वासय चास्मानिमामतिदीनां मातरं च ।
दुर्योधनः–- तात! दुर्लभः समाश्वास इदानीं युष्माकम् । किं तु
कुन्त्या सह युवामद्य मया निहतपुत्रया । |
धृतराष्ट्रः --वत्स ! श्रृणु वचनमम्बाया मम च निहताशेषबन्धुवर्गस्य । पश्य ।
दायादा न ययोर्बलेन गणितास्तौ द्रोणभीष्मौ हतौ |
दुर्योधनः--समरात्प्रतिनिवृत्य किं मया कर्तव्यम् ? ।
गांधारी--जाद ! जं पिदा दे विउरो वा भणादि । ( जात ! यत्पिता ते विदुरो वा भणति ।)
संजयः--देव ! एवमिदम् ।
दुर्योधनः--संजय ! अद्याप्युपदेष्टव्यमस्ति ? ।
संजयः--देव ! यावत्प्राणिति तावदुपदेष्टव्यभूमिर्विजिगीषुः प्रज्ञावताम् ।
दुर्योधनः--( सक्रोधम् । ) शृणुमस्तावद्भवत एव प्रज्ञावतोऽस्मान्प्रति प्रतिरूपमुपदेशम् ।
धृतराष्ट्रः--वत्स ! युक्तवादिनि संजये किमत्र क्रोधेन ? यदि प्रकृतिमापद्यसे तदहमेव भवन्तं ब्रवीमि । श्रूयताम् ।
दुर्योधनः--कथयतु ततः ।
धृतराष्ट्रः--वत्स ! किं विस्तरेण ? । संधत्तां भवानिदानीमपि युधिष्ठिरमीप्सितपणबन्धेन ।
दुर्योधनः--तात ! तनयस्नेहवैक्लव्यादम्बा बालिशत्वेन संजयश्च काममेवं ब्रवीतु । युष्माकमप्येवं व्यामोहः ? । अथ वा प्रभवति पुत्रनाशजन्मा हृदयज्वरः । अन्यच्च ! तात ! अस्खलितभ्रातृशतस्तदाऽवधीरितवासुदेवसा मोपन्यासः संप्रति दृष्टपितामहाचार्यानुजराजचक्रविपत्तिः स्वशरीरमात्रस्नेहादुदात्तपुरुषव्रीडावहमसुखावसानं च कथमिव करिष्यति दुर्योधनः सह पाण्डवैः संधिम् ? । अन्यच्च नयवेदिन्संजय!
हीयमानाः किल रिपोर्नृपाः संदधते परान् । |
धृतराष्ट्रः-- वत्स! एवं गतेऽपि मत्प्रार्थनया न किंचिन्न करोति युधिष्ठिरः । अन्यच्च सर्वं दैवापकृष्टं मन्यते युधिष्ठिरः ।
दुर्योधनः--कथमिव ? ।
धृतराष्ट्र:-- वत्स! श्रूयतां प्रतिज्ञा युधिष्ठिरस्य । नाहमेकस्यापि भ्रातुर्विपत्तौ प्राणान्धारयामीति । बहुच्छलत्वात्सङ्ग्रामस्यानुजनाशमाशङ्कमानो यदैव भवते रोचते तदैवासौ सज्जः संधातुम् ।
संजयः--एवमिदम् ।
गान्धारीः-- जाद । उपपत्तिजुत्तं परिवज्जस्स पिदुणो वअणम् । ( जात ! उपपत्तियुक्तं प्रतिपद्यस्व पितुर्वचनम् । )
दुर्योधनः--तात ! अम्ब ! संजय !
एकेनापि विनाऽनुजेन मरणं पार्थः प्रतिज्ञातवा- |
गान्धारीः--हा जाद दुस्सासण ! हा मदङ्कदुल्ललिद ! हा जुअराअ | अस्सुदपुव्वा क्खु कस्स वि लोए ईदिसी विअत्ती । हा ! वीर । सदप्पसविणी हदगन्धारी दुक्खसदं प्पसूदा । ण उण सुदसदम् । ( हा जात दुःशासन । हा मदङ्कदुर्ललित! हा युवराज! अश्रुतपूर्वा खलु कस्यापि लोक ईदृशी विपत्तिः । हा वीरशतप्रसविनी हतगान्धारी दुःखशतं प्रसूता । न पुनः सुतशतम् ।)
( सर्वे रुदन्ति )
संजयः-- (बाष्पमुत्सृज्य ।) तात! अम्ब! प्रतिबोधयितुं महाराजमिमां भूमिं युवामागतौ । तदात्मापि तावत्संस्तभ्यताम् । धृतराष्ट्रः-- वत्स दुर्योधन! एवं विमुखेषु भागधेयेषु त्वयि चामुञ्चति सहजं मानमरिषु त्वदेकशेषजीवितावलम्बनेयं तपस्विनी गान्धारी कमवलम्बतां शरणमहं च ? ।
दुर्योधनः-- श्रूयतां यत्प्रतिपत्तुमिदानीं प्राप्तकालम् ।
कलितभुवना भुक्तैश्वर्यास्तिरस्कृतविद्विषः |
विपर्यये त्वस्याधिपतेरुल्लङ्घितः क्षात्रधर्मः स्यात् ।
( नेपथ्ये महान्कलकलः )
गान्धारीः--( आकर्ण्य । सभयम् )जाद! कहिं एदं हाहाकारमिस्सं तूररसिदं सुणीअदि । ( जात! कुत्रैतत् हाहाकारमिश्रं तुर्यरसितं श्रूयते ।)
संजयः-- अम्ब! भूमिरियमेवंविधानां भीरुजनत्रासजननी महानिनादानाम् ।
धृतराष्ट्रः-- वत्स संजय । ज्ञायताम् । अतिभैरवः खलु विस्तारी हाहारवः । कारणेनास्य महता भवितव्यम् ।
दुर्योधनः-- तात! प्रसीद । पराङ्मुखं खलु दैवमस्माकम् । यावदपरमपि किंचिदत्याहितं न श्रावयति तावदेवाज्ञापय मां संग्रामावतरणाय ।
गांधारी–- जाद! मुहुत्तअं दाव मं मन्दभाइणीं समस्ससेहि। ( जात ! मुहूर्ते तावन्मां मन्दभागिनीं समाश्वासय । )
धृतराष्ट्रः–- वत्स! यद्यपि भवान्समराय कृतनिश्चयस्तथापि रह: परप्रतीघातोपायश्चिन्त्यताम् ।
दुर्योधनः--
प्रत्यक्षं हतबान्धवा मम परे हन्तुं न योग्या रहः । |
गान्धारीः–-जाद ! एआई तुमम् । को दे सहाअत्तणं करिस्सदि ? । ( जात! एकाकी त्वम् । कस्ते साहाय्यं करिष्यति?) दुर्योधनः--
एकोऽहं भवतीसुतक्षयकरो मातः कियन्तोऽरयः ? |
( नेपथ्ये । कलकलानन्तरम् ।)
भो भो योधाः! निवेदयन्तु भवन्तः कौरवेश्वराय! इदं महत्कदनं प्रवृत्तम् । अलमप्रियश्रवणपराङ्मुखतया । यतः कालानुरूपं प्रतिविधातव्यमिदानीम् । तथा हि ।
त्यक्तप्राजनरश्मिराङ्किततनुः पार्थाङ्कितैर्मार्गणै- |
दुर्योधनः-- ( श्रुत्वा । साशंकम् । ) आः! केनेदमविस्पष्टमशनिपातदारुणमुद्घोषितम् ? कः कोऽत्र भोः ?
( प्रविश्य संभ्रान्तः । )
सूतः-- हा! हताः स्मः । ( इत्यात्मानं पातयति ।)
दुर्योधनः-- अयि! कथय ।
धृतराष्ट्रसंजयौः-- कथ्यतां कथ्यताम् ।
सूतः-- आयुष्मन्! किमन्यत् ? ।
शल्येन यथा शल्येन मूर्छितः प्रविशता जनौघोऽयम् । |
दुर्योधनः-- हा वयस्य कर्ण !। ( इति मोहमुपगतः )
गान्धारी--जाद ! समस्सस समस्सस । ( जात! समाश्वसिहि समाश्वसिहि ।
संजयः-- समाश्वसितु समाश्वसितु देवः ।
धृतराष्ट्रः-- भोः! कष्टं कष्टम् ।
भीष्मे द्रोणे च निहते य आसीदवलम्बनम् । |
वत्स ! समाश्वसिहि समाश्वसिहि । ननु भो हतविधे!
अन्धोऽनुभूतशतपुत्रविपत्तिदुःखः |
वत्स दुर्योधन ! समाश्वसिहि समाश्वसिहि । समाश्वासय तपस्विनीं मातरं च ।
दुर्योधनः--( लब्धसंज्ञः । )
अयि कर्ण कर्णसुखदां प्रयच्छ मे |
( इति पुनर्मोहमुपगतः )
( सर्वे समाश्वासयन्ति । )
दुर्योधनः--
मम प्राणाधिके तस्मिन्नङ्गानामधिपे हते । |
अपि च ।
शोचामि शोच्यमपि शत्रुहतं न वत्सं |
गान्धारी--जाद ! सिढिलेहि दाव क्खणमेत्तं बप्फमोक्खम् । ( जात ! शिथिलय तावत्क्षणमात्रं बाष्पमोक्षम् )
धृतराष्ट्रः--वत्स ! क्षणमात्रं परिमार्जयाश्रूणि ।
दुर्योधनः--
मामुद्दिश्य त्यजन्प्राणान्केनचिन्न निवारितः । |
सूत ! केनैतदसंभवनीयमस्मत्कुलान्तकरणं कर्म कृतं स्यात् ? । सूतः--आयुष्मन् ! एवं किल जनः कथयति ।
भूमौ निमग्नचक्रश्चक्रायुधसारथेः शरैस्तस्य । |
दुर्योधनः--कष्टं भोः कष्टम् ।
कर्णाननेन्दुस्मरणात्क्षुभितः शोकसागरः । |
तात ! अम्ब ! प्रसीदतम् ।
ज्वलनः शोकजन्मा मामयं दहति दुःसहः । |
धृतराष्ट्रः--(दुर्योधनं परिष्वज्य रुदन् ।)
भवति तनय नित्यं संशयः साहसेषु |
गान्धारी--जाद ! तेण एव्व सुदसदकदन्तेण विओदलेण समं समलं मग्गसि ? । (जात! तेनैव सुतशतकृतान्तेन वृकोदरेण समं समरं मार्गसि ? )
दुर्योधनः-- तिष्ठतु तावद्वृकोदरः ।
पापेन येन हृदयस्य मनोरथो मे । |
सूत! अलमिदानीं कालातिपातेन । सज्जं मे रथमुपाहर । भयं चेत्पाण्डवेभ्यस्तिष्ठ । गदामात्रसहाय एव समरभुवमवतरामि ।
सूतः–- अलमन्यथा संभावितेन । अयमहमागत एव । ( इति निष्क्रान्तः । )
धृतराष्ट्रः--वत्स दुर्योधन! यदि स्थिर एवास्मान्दग्धुमयं ते व्यवसायस्तत्संनिहितेषु वीरेषु सेनापतिः कश्चिदभिषिच्यताम् ।
दुर्योधनः--नन्वभिषिक्त एव । गान्धारी--जाद ! कदरो उण सो जस्सिं आसं ओलम्बिस्सम् । ( जात ! कतरः पुनः स यस्मिन्नाशामवलम्बिष्ये ।)
धृतराष्ट्रः--किं वा शल्य उत वाश्वत्थामा ? ।
संजयः--हा कष्टम् ।
मृते भीष्मे हते द्रोणे कर्णे च विनिपातिते । |
दुर्योधनः--किं वा शल्येनोत वाश्वत्थाम्ना ? ।
कर्णालिङ्गनदायी वा पार्थप्राणहरोऽपि वा । |
( नेपथ्ये कलकलं कृत्वा )
भो भोः कौरवबलप्रधानयोधाः! अलमस्मानवलोक्य भयादितस्ततो गमनेन । कथयन्तु भवन्तः कस्मिन्नुद्देशे सुयोधनस्तिष्ठतीति ।
( सर्वे ससंभ्रममाकर्णयन्ति )
( प्रविश्य संभ्रान्तः )
सूतः–-आयुष्मन् !
प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः ।
सर्वेः--कश्च कश्च ? ।
सूतः--
स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥ २५ ॥
गान्धारी--( सभयम् ) जाद ! किं एत्थ पडिपज्जिदव्व्म् । ( जात! किमत्र प्रतिपत्तव्यम् ।)
दुर्योधनः-- ननु संनिहितैवेयं गदा ।
गान्धारी--हा हदम्हि मन्दभाइणी । ( हा हतास्मि मन्दभागिनी ।)
दुर्योधनः--अम्ब! अलमिदानीं कार्पण्येन । संजय, रथमारोप्य पितरौ शिबिरं प्रतिष्ठस्व । समागतोऽस्माकं शोकापनोदी जनः ।
धृतराष्ट्रः-- वत्स! क्षणमेकं प्रतीक्षस्व यावदनयोर्भावमुपलभे ।
दुर्योधनः-- तात! किमनेनोपलब्धेन ? ।( ततः प्रविशतो भीमार्जुनौ ।)
भीमः–-भो भोः सुयोधनानुजीविनः ! किमिति संभ्रमादयथातथं चरन्ति भवन्तः ? । अलमावयोः शङ्कया ।
कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी । |
धृतराष्ट्र--संजय ! दारुणः खलूपक्षेपः पापस्य ।
संजयः–-तात ! कर्मणा कृतनिःशेषविप्रियाः संप्रति वाचा व्यवस्यन्ति ।
दुर्योधनः--सूत ! कथय गत्वोभयोरयं तिष्ठतीति ।
सूतः--यथाज्ञापयति देवः । ( तावुपसृत्य ।)ननु भो वृकोदरार्जुनौ ! एष महाराजस्तातेनाम्बया च सह न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।
अर्जुनः--आर्य ! प्रसीद । न युक्तं पुत्रशोकोपपीडितौ पितरौ पुनरस्मद्दर्शनेन भृशमुद्वेजयितुम् । तद्गच्छावः ।
भीमः--मुढ ! अनुल्लङ्घनीयः सदाचारः । न युक्तमनभिवाद्य गुरून्गन्तुम् । ( उपसृत्य । ) संजय । पित्रोर्नमस्कृतिं श्रावय । अथवा तिष्ठ । स्वयमेव श्रावयावः ।( इति रथाद्वतरतः )
भीमः--विश्राव्य स्वकर्म नाम च वन्दनीया गुरवः ।
अर्जुनः--( उपगम्य ।) तात ! अम्ब !
सकलरिपुजयाशा यत्र बद्धा सुतैस्ते |
भीमः--
चूर्णिताशेषकौरव्यः क्षीबो दुःशासनःसृजा । |
भीमः--तात ! अलं मन्युना ।
कृष्णा केशेषु कृष्टा तव सदसि वधूः पाण्डवानां नृपैर्यैः |
दुर्योधनः--अरेरे मरुत्तनय! किमेवं वृद्धस्य राज्ञः पुरतो निन्दितव्यमात्मकर्म श्लाघसे । अपि च ।
कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा |
( भीमः क्रोधं नाटयति । )
अर्जुनः-- आर्य! प्रसीद । किमत्र क्रोधेन ?।
अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा । |
भीमः-- अरेरे भरतकुलकलङ्क !
अत्रैव किं न विशसेयमहं भवन्तं |
अन्यच्च मूढ !
शोकैः स्त्रीवन्नयनसलिलं यत्परित्याजितोऽसि |
द्रक्ष्यन्ति नचिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे । |
भीमः-- ( विहस्य ) यद्येवं, नाश्रद्धेयो भवान् । तथापि प्रत्यासन्नमेव । कथयामि ।
पीनाभ्यां मद्भुजाभ्यां भ्रमितगुरुगदाघातसंचूर्णितोरोः |
( नेपथ्ये )
भो भो भीमसेनार्जुनौ! एष खलु निहताशेषारातिचक्र आक्रांतपरशुरामाभिरामयशाः प्रतापतापितदिङ्मण्डलस्थापितस्वजनः श्रीमानजातशत्रुर्देवो युधिष्ठिरः समाज्ञापयति ।
उभौ-- किमाज्ञापयत्यार्यः ? ।
( पुनर्नेपथ्ये । )
कुर्वन्त्वाप्ता हतानां रणशिरसि जना वन्हिसाद्देहभारा- |
उभौ--यदाज्ञापयत्यार्यः । ( इति निष्क्रान्तौ । )
( नेपथ्ये । )
अरे रे गाण्डीवाकर्षण बाहुशालिन्! अर्जुन! अर्जुन! क्वेदानीं गम्यते ? ।
कर्णक्रोधेन युष्मद्विजयि धनुरिदं त्यक्तमेतान्यहानि |
गान्धारी--जाद ! पच्चुग्गंच्छ एदं महाभाअम् । ( जात ! प्रत्युद्गच्छैनं महाभागम् ।)
दुर्योधनः--तात! अम्ब ! किमनेनाङ्गराजवधाशंसिना वृथायौवनशस्त्रबलभरेण ? ।
धृतराष्ट्रः--वत्स ! न खल्वस्मिन्काले पराक्रमवतामेवंविधानां वाङ्मात्रेणापि विरागमुत्पादयितुमर्हसि ।
( प्रविश्य )
अश्वत्थामा--विजयतां कौरवाधिपतिः ।
दुर्योधनः--( उत्थाय । )गुरुपुत्र ! इत आस्यताम् । ( इत्युपवेशयति ।)
अश्वत्थामा--राजन्दुर्योधन ।
कर्णेन कर्णसुभगं बहु यत्तदुक्त्वा । |
दुर्योधनः--(साभ्यसूयम् । )आचार्यपुत्र !
अवसानेऽङ्गराजस्य योद्धव्यं भवता किल । |
अश्वत्थामा--( स्वगतम् । )कथम् ! अद्यापि स एव कर्णे पक्षपातः अस्मासु च परिभवः ? । ( प्रकाशम् । ) राजन्कौरवेश्वर ! एवं भवतु । ( इति निक्रान्तः )
धृतराष्ट्रः--वत्स ! क एष ते व्यामोहो ? यदस्मिन्नपि काल एवंविधस्य महाभागस्याश्वत्थाम्नो वाक्पारुष्येणापरागमुत्पादयसि ।
दुर्योधनः--किमस्याप्रियमनृतं च मयोक्तम् ? किं वा नेदं क्रोधस्थानम् ? पश्य--
अकलितमहिमानं क्षत्रियैरात्तचापैः । |
परिवदति समक्षं मित्रमङ्गाधिराजं । |
धृतराष्ट्रः--वत्स! तवापि कोऽत्र दोषः? अवसानमिदानीं भरतकुलस्य । संजय! किमिदानीं करोमि मन्दभाग्यः? ( विचिन्त्य । ) भवत्वेवं तावत् । संजय! मद्वचनाद्ब्रूहि भारद्वाजमश्वत्थामानम् ।
स्मरति न भवान्पीतं स्तन्यं विभज्य सहामुना ? |
संजयः-- यदाज्ञापयति तातः । ( इत्युत्तिष्ठति ।)
धृतराष्ट्रः-- अपि चेदमन्यत्त्वया वक्तव्यम् ।
यन्मोचितस्तव पिता वितथेन शस्त्रं |
संजयः-- यदाज्ञापयति तातः । ( इति निष्क्रान्तः ।)
दुर्योधनः-- सूत! साङ्ग्रामिकं मे रथमुपकल्पय ।
सूतः-- यदाज्ञापयत्यायुष्मान् । ( इति निष्क्रान्तः ।)
धृतराष्ट्र:--गान्धारि ! इतो वयं मद्राधिपतेः शल्यस्य शिबिरमेव गच्छामः । वत्स! त्वमप्येवं कुरु ।
( इति परिक्रम्य निष्क्रान्ताः सर्वे ।)
इति पञ्चमोऽङ्कः ।