वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)/षष्ठोऽङ्कः

← पञ्चमोऽङ्कः वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)
षष्ठोऽङ्कः
भट्टनारायणः
सुभाषितानि →

वेणीसंहारे ।

षष्ठोऽङ्कः ।


( ततः प्रविशत्यासनस्थो युधिष्ठिरो द्रौपदी चेटी पुरुषश्च । )

 युधिष्ठिरः--( विचिन्त्य निश्वस्य च । )

तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निवृते
 कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवम् ।
भीमेन प्रियसाहसेन रभसात्स्वल्पावशेषे जये
 सर्वे जीवितसंशयं वयममी वाचा समारोपिताः ॥ १ ॥

 द्रौपदी--( सबाष्पम् ।) महाराअ ! पञ्चालिए त्तिं किं ण भणिदम् ( महाराज ! पाञ्चाल्येति किं न भणितम् ? )

 युधिष्ठिरः--कृष्णे ! ननु मया । ( पुरुषमवलोक्य । ) बुधक !

 पुरुषः-- देव! आज्ञापय ।

 युधिष्ठिरः-- उच्यतां सहदेवः--‘क्रुद्धस्य वृकोदरस्यापर्युषितां प्रतिज्ञामुपलभ्य प्रनष्टस्य मानिनः कौरवराजस्य पदवीमन्वेष्टुमतिनिपुणमतयस्तेषु तेषु स्थानेषु परमार्थाभिज्ञाश्चराः सुसचिवाश्च भक्तिमन्तः पटुपटहरवव्यक्तघोषणाः सुयोधनसंचारवेदिनः प्रतिश्रुतधनपूजाप्रत्युपक्रियाश्चरंतु समन्तात्समन्तपञ्चकम् । अपि च ।

पङ्के वा सैकते वा सुनिभृतपदवीवेदिनो यान्तु दाशाः
 कुञ्जेषु क्षुण्णवीरुन्निचयपरिचया बल्लवाः संचरन्तु ।
व्याधा व्याघ्राटवीषु स्वपरपदविदो ये च रन्ध्रेष्वभिज्ञा
 ये सिद्धव्यञ्जना वा प्रतिमुनिनिलयं ते च चाराश्चरन्तु ॥ २ ॥

 पुरुषः-- यथाज्ञापयति देवः ।

 युधिष्ठिरः-- तिष्ठ । एवं न वक्तव्यः सहदेवः ।

ज्ञेया रहः शङ्कितमालपन्तः
 सुप्ता रुगार्ता मदिराविधेयाः ।

त्रासो मृगाणां वयसां विरावो
 नृपाङ्कपादप्रतिमाश्च यत्र ॥ ३ ॥

 पुरुषः--यदाज्ञापयति देवः । ( इति निष्क्रम्य पुनः प्रविश्य सहर्षम् ।) देव ! पाञ्चालकः प्राप्तः ।

 युधिष्ठिरः--त्वरितं प्रवेशय ।

 पुरुषः--( निष्क्रम्य पाञ्चालकेन सह प्रविश्य । ) एष देवः । उपसर्पतु पाञ्चालकः ।

 पाञ्चालकः--जयतु जयतु देवः । प्रियमावेदयामि महाराजाय देव्यै च ।

 युधिष्ठिरः--पाञ्चालक ! कच्चिदासादिता तस्य दुरात्मनः पदवी ?

 पाञ्चालकः--न केवलं पदवी । स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधानहेतुरुपलब्धः ।

 युधिष्ठिरः-- साधु भद्र! प्रियमावेदिम् । अथ दर्शनगोचरं गतः?

 पाञ्चालकः--देव! समरगोचरं पृच्छ ।

 द्रौपदी-- ( सभयम् ) कहं, समगरगोअरो वट्टइ मे णाहो ? । ( कथं, समरगोचरो वर्तते मे नाथः? )

 युधिष्ठिरः--( साशङ्कम् )सत्यं, समरगोचरो मे वत्सः ?

 पाञ्चालकः-- सत्यम् । किमन्यथा वक्ष्यते महाराजाय ।

 युधिष्ठिरः--

त्रस्तं विनापि विषयादुरुविक्रमस्य
 चेतो विवेकपरिमन्थरतां प्रयाति ।
जानामि चोद्यतगदस्य वृकोदरस्य
 सारं रणेषु भुनयोः परिशङ्कितश्च ॥ ४ ॥

( द्रौपदीमवलोक्य )अयि सुक्षत्रिये!

गुरूणां बन्धूनां क्षितिपतिसहस्रस्य च पुरः
 पुराभूदस्माकं नृपसदसि योऽयं परिभवः ।
प्रिये प्रायस्तस्य द्वितयमपि पारं गमयति
 क्षयः प्राणानां नः कुरुपतिपशोर्वाद्य निधनम् ॥ ५ ॥

अथवा कृतं संदेहेन ।

नूनं तेनाद्य वीरेण प्रतिज्ञाभङ्गभीरुणा ।
बध्यते केशपाशस्ते स चास्याकर्षणक्षमः ॥ ६ ॥

पाञ्चालक! कथय कथय कथमुपलब्धः स दुरात्मा ? कस्मिन्नुद्देशे ? किं वाधुना प्रवृत्तमिति ? ।

 द्रौपदीः-- भद्द ! कहेहि कहेहि । ( भद्र ! कथय कथय ।)

 पाञ्चालकः--शृणोतु देवो देवी च । अस्तीह देवेन हते मद्राधिपता शल्ये गान्धारराजकुलशलभे सहदेवशस्त्रानलं प्रविष्टे सेनापतिनिधननिराक्रन्दविरलयोधोज्झितासु समरभूमिषु रिपुबलपराजयोद्धतवल्गितविचित्रपराक्रमासादितविमुखारातिचक्रासु धृष्टद्युम्नाधिष्ठितासु च युष्मत्सेनासु प्रनष्टेषु कृपकृतवर्माश्वत्थामसु तथा दारुणामपर्युषितां प्रतिज्ञामुपलभ्य कुमारवृकोदरस्य न ज्ञायते क्वापि प्रलीनः स दुरात्मा कौरवाधमः ।

 युधिष्ठिरः-- ततस्ततः ।

 द्रौपदी-- अयि! परदो कहेहि । ( अयि! परतः कथय ।)

 पाञ्चालकः--अवधत्तां देवो देवी च । ततश्च भगवता वासुदेवेनाधिष्ठितमेकरथमारूढौ कुमारभीमार्जुनौ समन्तात्समन्तपञ्चकं पर्यटितुमारब्धौ तमनासादितवन्तौ च । अनन्तरं दैवमनुशोचति मादृशे भृत्यवर्गे दीर्घमुष्णं च निश्वसति कुमारे बीभत्सौ जलधरसमयनिशासंचारितविद्युत्प्रकरपिङ्गलैः कटाक्षैरादीपयति गदां वृकोदरे यत्किंचनकारितामधिक्षिपति विधेर्भगवति नारायणे कश्चित्संविदितः कुमारस्य मारुतेरुज्झितमांसभारः प्रत्यग्रविशसितमुमृगलोहितचरणनिवसनस्त्वरमाणोऽन्तिकमुपेत्य पुरुषः श्वासग्रस्तार्धश्रुतवर्णानुमेयपदया वाचा कथितवान् ‘अस्मिन्महतोऽस्य सरसस्तीरे द्वे पदपद्धती समवतीर्णप्रतिबिम्बे तयोरेका स्थलमुत्तीर्णा न द्वितीया । परत्र कुमारः प्रमाणमिति । ततः ससंभ्रमं प्रस्थिताः सर्वे वयं तमेव पुरस्कृत्य । गत्या च सरस्तीरं परिज्ञायमानसुयोधनपदलाञ्छनां पदवीमासाद्य भगवता वासुदेवेनोक्तम्-- ‘भो वीर वृकोदर! जानाति किल सुयोधनः सलिलस्तम्भनीं विद्याम् । तन्ननं तेन त्वद्भयात्सरसीमेनामधिशयितेन भवितव्यम् ।' एतच्च वचनमुपश्रुत्य रामानुजस्य सकलदिङ्निकुञ्जपूरितातिरिक्तमुद्भ्रान्तसलिलचरशकुन्तकुलं त्रासोद्धतनक्रग्राहमालोड्य सरःसलिलं भैरवं च गर्जित्वा कुमारवृकोदरेणाभिहितम्-'अरेऽरे वृथाप्रख्यापितालीकपौरुषाभिमानिन्! पाञ्चालराजतनयाकेशाम्बराकर्षणमहापातकिन्!

जन्मेन्दोर्विमले कुले व्यपदिशस्यद्यापि धत्से गदां
 मां दुःशासनकोष्णशोणितमधुक्षीबं रिपुं मन्यसे ।
दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे
 त्रासान्मे नृपशो! विहाय समरं पङ्केऽधुना लीयसे ॥ ७ ॥

अपि च । भो मानान्ध!

पाञ्चाल्या मन्युवह्निः स्फुटमुपशमितप्राय एव प्रसह्य
 व्यामुक्तैः केशपाशैर्हतपतिषु मया कौरवान्तःपुरेषु ।
भ्रातुर्दुःशासनस्य स्रवदसृगुरसः पीयमानं निरीक्ष्य
 क्रोधात्किं भीमसेने विहितमसमये यत्त्वयास्तोऽभिमानः ॥ ८ ॥

 द्रौपदी-- णाह ! अवणीदो मे मण्णू जइ पुणो वि सुलहं दंसणं हुविस्सदि । ( नाथ! अपनीतो मे मन्युर्यदि पुनरपि सुलभं दर्शनं भविष्यति । )

 युधिष्ठिरः-- कृष्णे! नामङ्गलानि व्याहर्तुमर्हस्यस्मिन्काले। भद्र! ततस्ततः ।

 पाञ्चालकः-- ततश्चैवं भाषमाणेन वृकोदरेणावतीर्य क्रोधोद्धतं गदापरिघपाणिना सहसैवोल्लङ्घिततीरमुत्सन्ननलिनीवनमपविद्धमूर्च्छितग्राहमुद्भ्रान्तमत्स्यशकुन्तमतिभैरवारवभ्रमितवारिसंचयमायतमपि तत्सरः समन्तादालोडितम् ।

 युधिष्ठिरः-- भद्र! तथापि किं नोत्थितः ? ।

 पाञ्चालकः-- देव!

त्यक्त्वोत्थितः सरभसं सरसः स मूल-
 मुद्भूतकोपदहनोग्रविषस्फुलिङ्गः ।
आयस्तभीमभुजमन्दरवेल्लनाभिः
 क्षीरोदधेः सुमथनादिव कालकूटः ॥ ९ ॥

 युधिष्ठिरः-- साधु सुक्षत्रिय! साधु ।

 द्रौपदी-- पडिवण्णो समरो ण वा ? । ( प्रतिपन्नः समरो न वा ? । )  पाञ्चालकः--उत्थाय च तस्मात्सलिलाशयात्करयुगलोत्तम्भिततोरणीकृतभीमगदः कथयति स्म-- 'अरे रे मारुते ! किं भयेन प्रलीनं दुर्योधनं मन्यते भवान् ? मूढ! अनिहतपाण्डुपुत्रः प्रकाशं लज्जमानो विश्रमितुमध्यासितवानस्मि पातालम् ।' एवं चोक्ते, वासुदेवकिरीटिभ्यां द्वावप्यन्तःसलिलं निषिद्धसमरारम्भौ स्थलमुत्तारितौ । आसीनश्च कौरवराजः क्षितितले गदां निक्षिप्य विशीर्णरथसहस्रं निहतकुरुशतगजवाजिनरसहस्रकलेवरसंमर्दसंपतद्गृध्रकङ्कजम्बूकमस्मद्वीरमुक्तसिंहनादमपमित्रबान्धवमकौरवं रणस्थानमवलोक्यायतमुष्णं च निश्वसितवान् । ततश्च वृकोदरेणाभिहितम्-- 'अयि भोः कौरवराज! कृतं बन्धुनाशदर्शनमन्युना । मैमं विषादं कृथाः 'पर्याप्ताः पाण्डवाः समरायाहमसहाय' इति ।

पञ्चानां मन्यसेऽस्माकं यं सुयोधं सुयोधन !।
दंशितस्यात्तशस्त्रस्य तेन तेस्तु रणोत्सवः ॥ १० ॥

इत्थं च श्रुत्वाऽसूयान्वितां दृष्टिं कुमारयोर्निक्षिप्योक्तवान्धार्तराष्ट्रः

कर्णदुःशासनवधात्तुल्यावेव युवां मम ।
अप्रियोऽपि प्रियो योद्धुं त्वमेव प्रियसाहसः ॥ ११ ॥

इत्युत्थाय च परस्परक्रोधाधिक्षेपपरुषवाक्कलहप्रस्तावितघोरसङ्ग्रामौ विचित्रविभ्रमितगदापरिभासुरभुजदण्डौ मण्डलैर्विचरितुमारब्धौ भीमदुर्योधनौ । अहं च देवेन चक्रपाणिना देवसकाशमनुप्रेषितः । आह च देवो देवकीनन्दनः । अपर्युषितप्रतिज्ञे मारुतौ प्रनष्टे च कौरवराजे महानासीन्नो विषादः । संप्रति पुनर्भीमसेनेनासादिते सुयोधने निष्कण्टकीभूतं भुवनतलं परिकलयतु भवान् । अभ्युदयोचिताश्चानवरतं प्रवर्त्यन्तां समारम्भाः । कृतं संदेहेन ।

पूर्यतां सलिलेन रत्नकलशा राज्याभिषेकाय ते
 कृष्णात्यन्तचिरोज्झिते च कबरीबन्धे करोतु क्षणम् ।
रामे शातकुठारभासुरकरे क्षत्रद्रुमोच्छेदिनि
 क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः ? ॥ १२ ॥

 दौपदी-- ( सबाष्पम् ) जं देवो त्तिहुअणणाहो भणादि तं कहं अण्णहा हविस्सदि । ( यद्देवस्त्रिभुवननाथो भणति तत्कथमन्यथा भविष्यति ।)  पाञ्चालकः--न केवलमयमाशीः असुरनिषूदनस्यादेशोऽपि ।

 युधिष्ठिरः--को हि नाम भगवता संदिष्टं विकल्पयति ? कः कोऽत्र भोः ।

( प्रविश्य ।)

 कञ्चुकीः--आज्ञापयतु देवः ।

 युधिष्ठिरः--देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य मे विजयमङ्गलाय प्रवर्त्यन्तां तदुचिताः समारम्भाः ।

 कञ्चुकी--यथाऽऽज्ञापयति देवः । ( सोत्साहं परिक्रम्य । ) भो भोः संविधातॄणां पुरःसराः ! यथाप्रधानमन्तर्वंशिका दौवारिकाश्च, एष खलु भुजबलोत्तीर्णकौरवपरिभवसागरस्य निर्व्यूढदुर्वहप्रतिज्ञाभारस्य सुयोधनानुजशतोन्मूलनप्रभञ्जनस्य दुःशासनोरःस्थलविदलननरसिंहस्य दुर्योधनोरुस्तम्भभङ्गविनिश्चितविजयस्य बलिनः प्राभञ्जनेर्वृकोदरस्य स्नेहपक्षपातिना मनसा मङ्गलानि कर्तुमाज्ञापयति देवो युधिष्ठिरः ( आकाशे ) किं ब्रूथ ? 'सर्वतोऽधिकतरमपि प्रवृत्तं किं नालोकयसि' इति । साधु पुत्रकाः ! साधु । अनुक्तहितकारिता हि प्रकाशयति मनोगतां स्वामिभक्तिम् ।

 युधिष्ठिरः--आर्य जयधर ! ।

 कञ्चुकी--आज्ञापयतु देवः ।

 युधिष्ठिरः--गच्छ प्रियख्यापकं पाञ्चालकं पारितोषिकेण पारितोषय |

 कञ्चुकी--यदाज्ञापति देवः । ( इति पाञ्चालकेन सह निष्क्रान्तः ।)

 द्रौपदी--महाराअ ! किंणिमित्तं उण णाहभीमसेणेण सो दुराआरो भणिदो--पञ्चाणं वि अम्हाणं मज्झे जेण रोअदि तेण सह दे संगामो होदु' त्ति । जइ मद्दीसुदाणं एकदरेण सह संगामो तेण पत्थिदो हवे तदो अच्चाहिदं हवे । ( महाराज ! किंनिमित्तं पुनर्नाथभीमसेनेन स दुराचारो भणितः--'पञ्चानामप्यस्माकं मध्ये येन रोचते तेन सह ते सङ्ग्रामो भवतु' इति । यदि माद्रीसुतयोरेकतरेण सह सङ्ग्रामस्तेन प्रार्थितो भवेत्ततोऽत्याहितं भवेत् ।)  युधिष्ठिरः--कृष्णे ! एवं मन्यते जरासंधघाती । हतसकलसुहृद्बन्धुवीरानुजराजन्यासु कृपकृतवर्माश्वत्थामशेषास्वेकादशस्वक्षौहिणीष्वबान्धवः शरीरमात्रविभवः कदाचिदुत्सृष्टनिजाभिमानो धार्तराष्ट्रः परित्यजेदायुधं तपोवनं वा व्रजेत्सन्धिं वा पितृमुखेन याचेत । एवं सति सुदूरमतिक्रान्तः प्रतिज्ञाभारो भवेत्सकलरिपुजयश्चेति । समरं प्रतिपत्तुं पञ्चानामपि पाण्डवानामेकस्यापि नैव क्षमः सुयोधनः । शङ्के चाहं गदायुद्धं वकोदरस्यैवानेन । अयि सुक्षत्रिये ! पश्य ।

क्रोधोद्गूर्णगदस्य नास्ति सदृशः सत्यं रणे मारुतेः
 कौरव्ये कृतहस्तता पुनरियं देवे यथा सीरिणि ।
स्वस्त्यस्तूद्धतधार्तराष्ट्रनलिनीनागाय वत्साय मे
 शङ्के तस्य सुयोधनेन समरं नैवेतरेषामहम् ॥ १३ ॥

( नेपथ्ये । )

 तृषितोऽस्मि भोस्तृषितोऽस्मि संभावयतु कश्चित्सलिलच्छायासंप्रदानेन माम् ।

 युधिष्ठिरः--( आकर्ण्य । ) कः कोऽत्र भोः ? ।

( प्रविश्य )

 कञ्चुकी--आज्ञापयतु देवः ।

 युधिष्ठिरः--ज्ञायतां किमेतत् ।

 कञ्चुकी--यदाज्ञापयति देवः । ( इति निष्क्रम्य पुनः प्रविश्य । )

देव ! क्षुद्वानतिथिरुपस्थितः ।

 युधिष्ठिरः--शीघ्रं प्रवेशय ।

 कञ्चुकी--यदाज्ञापयति देवः ( इति निष्क्रान्तः )

( ततः प्रविशति मुनिवेषधारी चार्वाको नाम राक्षसः )

 राक्षसः--( आत्मगतम् । ) एषोऽस्मि चार्वाको नाम राक्षसः सुयोधनस्य मित्रं पाण्डवान्वञ्चयितुं भ्रमामि । ( प्रकाशम् ।) तृषितोऽस्मि । सम्भावयतु मां कश्चिज्जलच्छायाप्रदानेन । ( इति राज्ञः समीपमुपसर्पति । )

( सर्व उत्तिष्ठन्ति ।)

 युधिष्ठिरः--मुने ! अभिवादये ।

 राक्षसः--अकालोऽयं समुदाचारस्य । जलप्रदानेन सम्भावयतु माम् ।  युधिष्ठिरः--मुने ! इदमासनम् । उपविश्यताम् ।

 राक्षसः--( उपविश्य । ) ननु भवताऽपि क्रियतामासनपरिग्रहः ।

 युधिष्ठिरः--( उपविष्य )कोऽत्र भोः! सलिलमुपनय ।

( प्रविश्य गृहीतभृङ्गारः )

 कञ्चुकी--( उपसृत्य । ) महाराज ! शिशिरसुरभिसलिलसम्पूर्णोऽयं भृङ्गारः पानभाजनं चेदम् ।

 युधिष्ठिरः--मुने ! निर्वर्त्यतामुदन्याप्रतीकारः ।

 राक्षसः--( पादौ प्रक्षाल्योपस्पृशन्विचिन्त्य ) भोः क्षत्रियस्त्वमिति मन्ये ।

 युधिष्ठिरः--सम्यग्वेत्ति भवान् ।

 राक्षसः--प्रतिदिनसुलभस्वजनविनाशेषु सङ्ग्रामेषु युष्मत्तो नादेयं सलिलादिकम् । भवतु । छाययैवानया सरस्वतीशिशिरतरङ्गस्पृशा मरुता चानेन विगतक्लमो भविष्यामि ।

 द्रौपदी–-बुद्धिमदिए । वीएहि महेसिं इमिणा तालवण्डेण । ( बुद्धिमतिके ! वीजय महर्षिमनेन तालवृन्तेन । )

( चेटी तथा करोति ।)

 राक्षसः--भवति ! अनुचितोऽयमस्मासु समुदाचारः ।

 युधिष्ठिरः--मुने ! कथय कथमेवं भवान्परिश्रान्तः ? ।

 राक्षसः--मुनिजनसुलभेन कौतूहलेन तत्रभवतां महाक्षत्रियाणां द्वन्द्वयुद्धमवलोकयितुं पर्यटामि समन्तपञ्चकम् । अद्य तु बलवत्तया शरदातपस्यापर्याप्तमेवावलोक्य गदायुद्धमर्जुनसुयोधनयोरागतोऽस्मि ।

( सर्वे विषादं नाटयन्ति ।)

 कञ्चुकी--मुने ! न खल्वेवम् । भीमसुयोधनयोरिति कथय ।

 राक्षसः--आः, अविदितवृत्तान्त एव कथं मामाक्षिपसि ।

 युधिष्ठिरः-–महर्षे ! कथय कथय ।

 राक्षसः--क्षणमात्रं विश्रम्य सर्वं कथयामि भवतो, न पुनरस्य वृद्धस्य ।

 युधिष्ठिरः--कथय किमर्जुनसुयोधनयोरिति ? ।

 राक्षसः--ननु पूर्वमेव कथितं मया प्रवृत्तं गदायुद्धमर्जुनसुयोधनयोरिति ।  युधिष्ठिरः--न भीमसुयोधनयोरिति ? ।

 राक्षसः--वृत्तं तत् ।

( युधिष्ठिरो द्रौपदी च मोहमुपगतौ । )

 कञ्चुकी--( सलिलेनासिच्य । ) समाश्वसितु देवो देवी च ।

 चेटी--समस्ससदु समस्ससदु देवी । ( समाश्वसितु समाश्वसितु देवी ।)

( उभौ संज्ञां लभेते । )

 युधिष्ठिरः--किं कथयसि मुने ! वृत्तं भीमसुयोधनयोर्गदायुद्धमिति ?।

 द्रौपदी--भअवं ! कहेहि कहेहि किं वुत्तं ? ति । ( भगवन् ! कथय कथय किं वृत्तमिति ।)

 राक्षसः--कञ्चुकिन् कौ पुनरेतौ ? ।

 कञ्चुकी--एष देवो युधिष्ठिरः । इयमपि पाञ्चाली ।

 राक्षसः--आः ! दारुणमुपक्रान्तं मया नृशंसेन ।

 द्रौपदी--हा णाह भीमसेण ! ( हा नाथ भीमसेन ! ) ( इति मोहमुपगता )

 कञ्चुकी--किं नाम कथितम् ! ।

 चेटी--समस्ससदु समस्ससदु देव । (समाश्वसितु समाश्वसितु देवी । )

 युधिष्ठिरः--( सास्रम् ।)ब्रह्मन् !

पदे संदिग्ध एवास्मिन्दुःखमास्ते युधिष्ठिरः ।
वत्सस्य निश्चिते तत्त्वे प्राणत्यागादयं सुखी ॥ १४ ॥

 राक्षसः--( सानन्दमात्मगतम् ) अत्रैव मे यत्नः । ( प्रकाशम् ) यदि त्ववश्यं कथनीयं तदा संक्षेपतः कथयामि । न युक्तं बन्धुव्यसनं विस्तरेणावेदयितुम् ।

 युधिष्ठिरः--( अश्रूणि मुञ्चन् )

सर्वथा कथय ब्रह्मन्संक्षेपाद्विस्तरेण वा ।
वत्सस्य किमपि श्रोतुमेष दत्तः क्षणो मया ॥ १६ ॥

 राक्षसः--श्रूयताम् ।

तस्मिन्कौरवभीमयोर्गुरुगदाघोरध्वनौ संयुगे

 द्रौपदी--( सहसोत्थाय । )तदो तदो । ( ततस्ततः ?)  राक्षसः--( स्वगतम् । ) कथं पुनरनयोर्लब्धसंज्ञतामपनयामि । ( प्रकाशम् ।)

 सीरी सत्वरमागतश्चिरमभूत्तस्याग्रतः सङ्गरः ।
आलम्ब्य प्रियशिष्यतां तु हलिना संज्ञा रहस्याहिता ।
 यामासाद्य कुरूत्तमः प्रतिकृतिं दुःशासनारौ गतः ॥ १६ ॥

 युधिष्ठिरः--हा वत्स ! वृकोदर ! । ( इति मोहमुपगतः ।)

 द्रौपदी--हा णाह भीमसेण ! हा मह परिवपडिआरपरिच्चत्त जीविअ ! हा जडासुरबअहिडिम्बकिम्मीरकीअअजरासन्धणिसूदण ! हा सोअन्धिआहरण चाडुआर ! देहि मे पडिवअणम् ( हा नाथ भीमसेन ! हा मम परिभवप्रतीकारपरित्यक्तजीवित ! हा जटासुरबकहिडिम्बकिर्मीरकीचकजरासंधनिषूदन ! हा सौगन्धिकाहरण चाटुकार ! देहि मे प्रतिवचनम् ।) ( इति मोहमुपगता । )

 कञ्चुकी--( सास्रम् । )हा कुमार भीमसेन ! हा धार्तराष्ट्रकुलकमलिनीप्रालेयवर्ष ! ( ससंभ्रमम् । ) समाश्वसितु महाराजः । भद्रे ! समाश्वासय स्वामिनीम् । महर्षे ! त्वमपि तावदाश्वासय राजानम् ।

 राक्षसः--( स्वगतम् । )आश्वासयामि प्राणान्परित्याजयितुम् ( प्रकाशम् ।)

भो भीमाग्रज । क्षणमेकमाधीयतां समाश्वासः । कथाशेषोऽप्यस्ति ।

 युधिष्ठिरः--( समाश्वस्य !)महर्षे ! किमस्ति कथाशेषः ? ।

 द्रौपदी--( प्रतिबुद्धा । )भअवं ! कहेहि कीदिसो कहासेसो त्ति । ( भगवन् ! कथय कीदृशः कथाशेष इति ।)

 कञ्चुकी--कथय कथय ।

 राक्षसः–-ततश्च गते तस्मिन्सुक्षत्रिये वीरसुलभां गतिं समग्रसंगलितं भ्रातृवधशोकजं बाष्पं प्रमृज्य प्रत्यग्रक्षतजच्छटाचर्चितां गदां भ्रातृहस्तादाकृष्य, निवार्यमाणोऽपि संधित्सुना वासुदेवेन, आगच्छागच्छेति सोपहासं भ्रमितगदाझङ्कारमूर्च्छितगम्भीरवचनध्वनिनाहूयमानः कौरवराजेन तृतीयोऽनुजस्ते किरीटी योद्धुमारब्धः । अकृतिनस्तस्य गदाघातान्निधनमुत्प्रेक्षमाणेन कामपालेनार्जुनपक्षपाती देवकीसूनुरतिप्रयत्नात्स्वरथमारोप्य द्वारकां नीतः ।  युधिष्ठिरः--साधु भो अर्जुन ! साधु, तदैव प्रतिपन्ना वृकोदरानुगमनपदवी गाण्डीवं परित्यजता त्वया । अहं पुनः केनोपायेन प्राणापगमनमहोत्सवमुत्सहिष्ये ।

 द्रौपदी--हा णाह भीमसेण ! ण जुत्तं दाणिं दे कणीअसं भादरं असिक्खिदं गदाए दारुणस्स सत्तुणो अहिमुहं गच्छन्तं उवेक्खिदुम् । ( हा नाथ भीमसेन ! न युक्तमिदानीं ते कनीयांसं भ्रातरमशिक्षितं गदायां दारुणस्य शत्रोरभिमुखं गच्छन्तमुपेक्षितुम् ।) ( मोहमुपगता )

 राक्षसः--ततश्चाहं--

 युधिष्ठिरः--भवतु मुने ! किमतःपरं श्रुतेन ? हा तात भीमसेन ! हा कान्तारव्यसनबान्धव ! हा मच्छरीरस्थितिविच्छेदकातर ! हा जतुगृहविपत्समुद्रतरणयानपात्र ! हा किर्मीरहिडिम्बासुरजरासंधविजयमल्ल ! हा कीचकसुयोधनानुजकमलिनीकुञ्जर !

निर्लज्जस्य दुरोदरव्यसनिनो वत्स ! त्वया सीदता
 भक्त्या मे समदद्विपायुतबलेनाङ्गीकृता दासता ।
किं नामापकृतं मयाऽधिकमतस्त्वय्यद्य यद्गम्यते ।
 त्यक्त्वाऽनाथमबान्धवं सपदि मां प्रीतिः क्व ते साऽधुना ! ॥ १७ ॥

 द्रौपदी--( संज्ञामुपलभ्योत्थाय च ।) महाराअ ! किं एदं वट्टई ? । ( महाराज ! किमेतद्वर्तते ? ।)

 युधिष्ठिरः--कृष्णे ! किमन्यत् ? ।

स कीचकनिषूदनो बकहिडिम्बकिर्मीरहा
 मदान्धमागधाचलप्रगुणसंधिभेदाशनिः ।
गदापरिघशोभिना भुजयुगेन तेनान्वितः
 प्रियस्तव ममानुजोऽर्जुनगुरुर्गतोऽस्तं किल ॥ १८ ॥

 द्रौपदी--णाह भीमसेण ! तुए किल मे केसा संजमिदव्वा । ण जुत्तं वीरस्स खत्तिअस्स पडिण्णादं सिढिलेदुम् । ता पडिवालेहि मे जाव उवसप्पामि । ( पुनर्मोहमुपगता । ) ( नाथ भीमसेन! त्वया किल मे केशाः संयमयितव्याः । न युक्तं वीरस्य क्षत्रियस्य प्रतिज्ञातं शिथिलयितुम् । तत्त्प्रतिपालय मां यावदुपसर्पामि ।)  युधिष्ठिरः--( आकाशे )अम्ब पृथे ! श्रुतोऽयं तव पुत्रस्य समुदाचारः ? मामेकमनाथं विलपन्तमुत्सृज्य क्वापि गतः । तात जरासंधशत्रो ! किं नाम वैपरीत्यमेतावता कालेनाल्पायुषि त्वयि समालोकितं जनेन ? अथवा मयैव बहूपलब्धम् ।

दत्वा मे करदीकृताखिलनृपां यन्मेदिनीं लज्जसे
 द्यूते यच्च पणीकृतोऽपि हि मया न क्रुध्यसि प्रीयसे ।
स्थित्यर्थं मम मत्स्यराजभवने प्राप्तोऽसि यत्सूदतां
 वत्सैतानि विनश्वरस्य सहसा दृष्टानि चिह्नानि ते ॥ १९ ॥

मुने ! किं कथयसि ? ('तस्मिन्कौरवभीमयोः' ( ६।१६ ) इत्यादि पठति ।)

 राक्षसः--एवमेतत् ।

 युधिष्ठिरः--धिगस्मद्भागधेयानि ! भगवन्कामपाल ! कृष्णाग्रज ! सुभद्राभ्रातः !

ज्ञातिप्रीतिर्मनसि न कृता क्षत्रियाणां न धर्मो
 रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन ।
तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः
 कोऽयं पन्था यदसि विमुखो मन्दभाग्ये मयि त्वम् ॥ २० ॥

( द्रौपदीमुपगम्य । ) अयि पाञ्चाली ! उत्तिष्ठ । समानदुःखावेवावां भवावः । मूर्छया किं मामेवमतिसंधत्से ? ।

 द्रौपदी--( लब्धसंज्ञा । )बन्धेन्दु णाहो दुज्जोहणरुहिरुल्लिदेण हत्थेण दूसासणविमुक्कं मे केसहत्थम् । हञ्जे बुद्धिमदिए ! तुह वि पच्चक्खं एव्व णाहेण पडिण्णादम् । ( कञ्चुकिनमुपेत्य ।) अज्ज । संदिट्ठं दाव मे देवेण देवकी णन्दणेण केसबन्धणं आरहीयदु त्ति । ता उवणेहि मे पुल्लपोप्फदामाइं । विरएह दारिआओ कबरीम् । करेह्म भअवदो णाराअणस्स वअणम् । ण हु सो अलीअं संदिसदि । अहवा किं मए संतत्ताए भणिदम् । अचिरगदं अज्जउत्तं अणुगमिस्सम् ( युधिष्ठिरमुपगम्य । )महाराअ ! आदीवेहि चिदम् तुमं वि खत्तधम्मं अणुबन्धन्तो एव्व णाहस्स जीविदहरस्स अहिमुहो होहि । ( बध्नातु नाथो दुर्योधनरुधिरार्द्रेण हस्तेन दुःशासनविमुक्तं मे केशहस्तम् । हञ्जे बुद्धिमतिके ! तवापि प्रत्यक्षमेव नाथेन प्रतिज्ञातम् । आर्य ! संदिष्टं तावन्मे देवेन देवकीनन्दनेन केशबन्धनमारभ्यतामिति । तदुपनय मे फुल्लपुष्पदामानि । विरचयत दारिकाः कबरीम् । कुर्मो भगवतो नारायणस्य वचनम् । न खलु सोऽलोकं संदिशति । अथवा किं मया संततया भणितम् । अचिरगतमार्यपुत्रमनुगमिष्यामि । महाराज ! आदीपय मे चिताम् । त्वमपि क्षत्रधर्ममनुबध्नन्नेव नाथस्य जीवितहरस्याभिमुखो भव ।

 युधिष्ठिरः--युक्तमाह पाञ्चाली । कञ्चुकिन् ! क्रियतामियं तपस्विनी चितासंविभागेन सह्यवेदना । ममापि सज्जं धनुरुपनय । अलमथवा धनुषा ।

तस्यैव देहरुधिरोक्षितपाटलाङ्गी ।
 मादाय संयति गदामपविध्य चापम् ।
भ्रातृप्रियेण कृतमद्य यदर्जुनेन
 श्रेयो ममापि हि तदेव कृतं जयेन ॥ २१ ॥

 राक्षसः--राजन् ! रिपुजयविमुखं ते यदि चेतस्तदा यत्र तत्र वा प्राणत्यागं कुरु । वृथा तत्र गमनम् ।

 कञ्चुकी--धिङ्मुने ! राक्षससदृशं हृदयं भवतः ।

 राक्षसः--( सभयं स्वगतम् । )किं ज्ञातोऽहमनेन ? । ( प्रकाशम् । )

भोः कञ्चुकिन् ! तयोर्गदया खलु युद्धं प्रवृत्तमर्जुनदुर्योधनयोः । जानामि च तयोर्गदायां भुजसारम् । दुःखितस्य पुनरस्य राजर्षेरपरमनिष्टश्रवणं परिहरन्नेवं ब्रवीमि ।

 युधिष्ठिरः--( बाष्पं विसृजन् ।)साधु महर्षे ! साधु । सुस्निग्धमभिहितम् ।

 कञ्चुकी--महाराज ! किं नाम शोकान्धतया देवेन देवकल्पेनापि प्राकृतेनेव त्यज्यते क्षात्रधर्मः ।

 युधिष्ठिरः--आर्य जयंधर !

शक्ष्यामि तौ परिघपीवरबाहुदण्डौ
 वित्तेशशक्रपुरदर्शितवीर्यसारौ ।
भीमार्जनौ क्षितितले प्रविचेष्टमानौ ।
 द्रष्टुं तयोश्च निधनेन रिपुं कृतार्थम् ? ॥ २२ ॥

अयि पाञ्चालराजतनये ! मद्दुर्नयप्राप्तशोच्यदशे ! यथा संदीप्यते पावकस्तथा सहितावेव बन्धुजनं संभावयावः ।  द्रौपदीः--अज्ज ! करेहि दारुसंचअम् । ( सर्वतोऽवलोक्य । ) कहं ण को वि महाराअस्य वअणं करेदि । हा णाह भीमसेण । अज्ज तुए विणा महाराओ परिअणेण वि परिहवीअदि । ( आर्य ! कुरु दारुसंचयम् । कथं न कोऽपि महाराजस्य वचनं करोति । हा नाथ भीमसेन ! अद्य त्वया विना महाराजः परिजनेनापि परिभूयते । )

 राक्षसः--सदृशमिदं भरतकुलवधूनां यत्पत्युरनुमरणम् ।

 युधिष्ठिरः--महर्षे ! न कश्चिच्छृणोति तावदावयोर्वचनम् । तदिन्धनप्रदानेन प्रसादः क्रियताम् ।

 राक्षसः--मुनिजनविरुद्धमिदम् । ( स्वगतम् । ) हन्त पूर्णो मे मनोरथः । यावदनुपलक्षितः समिन्धयामि वन्हिम् । ( प्रकाशम् । )राजन् न शक्नुमो वयमिहैव स्थातुम् । ( इति निष्क्रांतः ।)

 युधिष्ठिरः--कृष्णे ! न कश्चिदस्मद्वचनं करोति । भवतु । स्वयमेवाहं दारुसंचयं कृत्वा चितामादीपयामि ।

 द्रौपदी--तुवरेदु तुवरेदु महाराओ । ( त्वरतां त्वरतां महाराजः । )

( नेपथ्ये कलकलः ।)

 द्रौपदी--( सभयमाकर्ण्य । )महाराअ ! कस्स वि एसो बलदप्पिदस्स विसमो सङ्खणिग्घोसो सुणीअदि । अवरं वि अप्पिअं सुणिदुं अत्थि णिब्बन्धो तदो विलम्बीअदि ? । ( महाराज ! कस्याप्येष बलदर्पितस्य विषमः शङ्खनिर्घोषः श्रूयते । अपरमप्यप्रियं श्रोतुमस्ति निर्बंधस्ततो विलम्ब्यते । )

 युधिष्ठिरः--न खलु विलम्ब्यते । उत्तिष्ठ ।

( इति सर्वे परिक्रामन्ति ।)

 युधिष्ठिरः--अयि पाञ्चालि अम्बायाः सपत्नीजनस्य च किंचित्संदिश्य निवर्तय परिजनम् ।

 द्रौपदी--महाराअ ! एव्वं अम्बाए संदेसिस्सम्--जो सो बअहिडिम्बकिम्मीरजडासुरजरासंधविजअमल्लो सो वि दे मज्झमपुत्तो मह हदासाए पक्खवादेण परलोअं गदो त्ति । ( महाराज ! एवं अम्बायै संदेक्ष्यामि-–यः स बकहिडिम्बकिर्मीरजटासुरजरासंधविजयमल्लः सोऽपि ते मध्यमपुत्रो मम हताशायाः पक्षपातेन परलोकं गत इति ।)

 युधिष्ठिरः--भद्रे बुद्धिमतिके । उच्यतामस्मद्वचनादम्बा ।

येनासि तत्र जतुवेश्मनि दीप्यमाने
 निर्वाहिता सह सुतैर्भुजयोर्बलेन ।
तस्य प्रियस्य बलिनस्तनयस्य पाप-
 माख्यामि तेऽम्ब ! कथयेत्कथमीदृगन्यः ॥ २३ ॥

आर्य जयंधर ! त्वया सद्देवसकाशं गन्तव्यम् । वक्तव्यश्च तत्रभवान्माद्रेयः पाण्डवकुलबृहस्पतिः कनीयानस्माकं सकलकुरुकुलकमलाकरवडवानलो युधिष्ठिरः परलोकमभिप्रस्थितः प्रियमनुजमप्रतिकूलं सततमाशंसनीयमसंमूढं व्यसनेऽभ्युदये च भवन्तमविरलमालिंग्य शिरसि चाघ्रायेदं प्रार्थयते ।

मम हि वयसा दूरेणाल्पः श्रुतेन समो भवा-
 न्सहजकृपया बुध्या ज्येष्ठो मनीषितया गुरुः ।
शिरसि मुकुलौ पाणी कृत्वा भवन्तमतोऽर्थये
 मयि विरलतां नेयः स्नेहः पितुर्भव वारिदः ॥ २४ ॥

अपि च । बाल्ये संवर्धितस्य नित्यमभिमानिनोऽश्मसदृशहृदयसारस्य नकुलस्यापि ममाज्ञाया वचने स्थातव्यम् । तदुच्यतां नकुलः । नानुगन्तव्यास्मत्पदवी । त्वया हि वत्स !

विस्मृत्यास्मान् श्रुतविशदया प्रज्ञया सानुजेन
 क्षीणे पाण्डावुदकपृषतानश्रुगर्भान्प्रदातुम् ।
दायादानामपि तु भवने यादवानां कुले वा
 कान्तारे वा कृतवसतिना रक्षणीयं शरीरम् ॥ २६ ॥

गच्छ जयंधर ! अस्मच्छरीरस्पृष्टिकया शापितोऽसि भवताऽकालहीनमिदमवश्यमावेदनीयम् ।

 द्रौपदी--हला बुद्धिमदिए ! भणाहि मह वअणेण पिअसहीं सुभद्दम्–-'अज्ज वच्छाए उत्तराए चोत्थो मासो पडिवण्णस गब्भस्स । ता एदं कुलस्स पडिठ्ठावअं सावहाणं रक्ख त्ति । कदा वि इदो परलोअगदस्स ससुरउलस्स अम्हाणं वि सलिलबिन्दुदो हविस्सदि' त्ति । ( हलाबुद्धिमतिके ! भण मम वचनेन प्रियसखीं सुभद्रां-- अद्य वत्साया उत्तरायाश्चतुर्थो मासः प्रतिपन्नस्य गर्भस्य । तदेनं कुलस्य प्रतिष्ठापकं सावधानं रक्षेति । कदापीतः परलोकगतस्य श्वशुरकुलस्यास्माकमपि सलिलबिन्दुदो भविष्यति' इति । )

 युधिष्ठिरः--( सास्रम् ।) भोः कष्टम् ।

शाखारोधस्थगितवसुधामण्डले मण्डिताशे
 पीनस्कंधे सुसदृशमहामूलपर्यन्तबन्धे ।
दग्धे दैवात्सुमहति तरौ तस्य सूक्ष्माङ्कुरेऽस्मि-
 न्नाशाबन्धं कमपि कुरुते छाययार्थी जनोऽयम् ॥ २६ ॥

द्रौपदि ! साधये इदानीध्यवसितम् । ( कञ्चुकिनमवलोक्य । ) आर्य जयंधर ! अस्मच्छरीरेण शापितोऽपि तथापि न गम्यते ? ।

 कञ्चुकी--( साक्रन्दम् ।) हा देव पाण्डो ! तव सुतानामजातशत्रु भीमार्जुननकुलसहदेवानामयं दारुणः परिणामः ! हा देवि कुन्ति ! भोजराजभवनपताके !

भ्रातुस्ते तनयेन शौरिगुरुणा श्यालेन गाण्डीविन-
 स्तस्यैवाखिलधार्तराष्ट्रनलिनीव्यालोलने दन्तिनः ।
आचार्येण वृकोदरस्य हलिनोन्मत्तेन मत्तेन वा ।
 दग्धं त्वत्सुतकाननं ननु मही यस्याश्रयाच्छीतला ॥ २७ ॥

( इति रुदन्निष्क्रान्तः ।)

 युधिष्ठिरः--जयंधर, जयंधर,

( प्रविश्य ।)

 कञ्चुकी--आज्ञापयतु देवः ।

 युधिष्ठिरः--वक्तव्यमिति ब्रवीमि । न पुनरेतावन्ति भागधेयानि नः । यदि कदाचिद्विजयी स्याद्वत्सोऽर्जुनस्तद्वक्तव्योऽस्मद्वचनाद्भवता ।

हली हेतुः सत्यं भवति मम वत्सस्य निधने
 तथाप्येष भ्राता सहजसुहृदस्ते मधुरिपोः ।
अतः क्रोधः कार्यो न खलु यदि च प्राणिषि ततो
 वनं गच्छेर्मा गाः पुनरकरुणां क्षात्रपदवीम् ॥ २८ ॥

 कञ्चुकी--यदाज्ञापयति देवः । ( इति निष्कान्तः ।)

 युधिष्ठिरः--( अग्निं दृष्ट्वा सहर्षम् । ) कृष्णे ! ननूद्धतशिखाहस्ताहूतास्मद्विधव्यसनिजनः समिद्धो भगवान्हुताशनस्तत्रेन्धनीकरोम्यात्मानम् ।

द्रौपदी-–पसिअदु महाराओ इमिणा अपच्छिमेण पणएण । अहं दाव अग्गदो पविसामि । ( प्रसीदतु महाराजोऽनेनापश्चिमेन प्रणयेन । अहं तावदग्रतः प्रविशामि । )  युधिष्ठिरः--सहितावेवाभ्युदयमुपभोक्ष्यावहे ।

 चेटी--हा भअवन्तो लोअवाला ! परित्ताअह परित्ताअह । एसो क्खु सोमवंसराएसी राअसूअसंतप्पिदहव्ववाहो खण्डवसंतप्पिदहुदवहस्स किरीडिणो जेट्ठो भादा सुगहीदणामहेअ महाराअजुहिट्ठिरो । एसा वि पाञ्चालराअतणआ देवी वेदिमज्झसंभवा जण्णसेणी । दुवे वि णिक्करुणजलणस्स प्पवेसेण इन्धणीहोन्ति । ता परित्ताअह अज्जा, परित्ताअह । कधं ण को वि परित्ताअदि । ( तयोरग्रतः पतित्वा । ) किंववसिदं देवीए देवण अ ? ( हा भगवन्तो लोकपालाः परित्रायध्वं परित्रात्यध्वम् । एष खलु सोमवंशराजर्षी राजसूयसंतर्पितव्यवाहः खाण्डवसंतर्पितहुतवहस्यकिरीटिनो ज्येष्ठो भ्राता सुगृहीतनामधेयो महाराजयुधिष्ठिरः । एषापि पाञ्जालराजतनया देवी वेदिमध्यसंभवा याज्ञसेनी । द्वावपि निष्करुणज्वलनस्य प्रवेशेनेन्धनीभवतः तत्परित्रायध्वमार्याः । परित्रायध्वम् । कथं ? न कोऽपि परित्रायते । किं व्यवसितं देव्या देवेन च ?

 युधिष्ठिरः--अयि बुद्धिमतिके, यद्वत्सलेन प्रियानुजेन विना सदृशं तत् । उत्तिष्ठोत्तिष्ठ भद्रे ! उदकमुपानय ।

( चेटी तथा करोति ।)

 युधिष्ठिरः--( पादौ प्रक्षाल्योपस्पृश्य च ।) एष तावत्सलिलाञ्जलिर्गाङ्गेयाय भीष्माय गुरवे, प्रपितामहाय शान्तनवे, पितामहाय विचित्रवीर्याय । ( सास्रम् ।) तातस्याधुनावसरः ! अयं तावत्स्वर्गस्थिताय सुगृहीतनाम्ने पित्रे पाण्डवे ।

अद्यप्रभृति वारीदमस्मत्तो दुर्लभं पुनः ।
तात त्वयाम्बया सार्धं मया दत्तं निपीयताम् ॥ २९ ॥

एतज्जलं जलजनीलविलोचनाय
 भीमाय भोस्तव ममाप्यविभक्तमस्तु ।
एकं क्षणं तु विषहस्व पिपासितोऽपि
 पातुं त्वया सह जवादयमागतोऽस्मि ॥ ३० ॥

अथवा सुक्षत्रियाणां गतिमुपगतं वत्समहं मृतोऽप्यकृती द्रष्टुम् । वत्स भीमसेन ! ।

मया पीतं पीतं तदनु भवताम्बास्तनयुगं
 मदुच्छिष्टैर्वृत्तिं जनयसि रसैर्वत्सलतया ।

वितानेष्वप्येवं तव मम च सोमे विधिरभू-
 न्निवापाम्भः पूर्वं पिबसि कथमेवं त्वमधुना ॥ ३१ ॥

कृष्णे ! त्वमपि देहि सलिलाञ्जालिम् ।

 द्रौपदी--हञ्जे बुद्धिमदिए ! उवणेहि मे सलिलम् । ( हञ्जे बुद्धिमतिके, उपनय मे सलिलम् ।)

( चेटी तथा करोति )

 द्रौपदी--(उपसृत्य जलाञ्जलिं पूरयित्वा ) महाराअ ! कस्स सलिलं देह्मि । ( महाराज ! कस्य सलिलं ददामि )

 युधिष्ठिरः--

तस्मै देहि जलं कृष्णे सहसा गच्छते दिवम् ।
अम्बापि येन गान्धार्या रुदितेषु सखीकृता ॥ ३२ ॥

 द्रौपदी--णाह भीमसेण ! परिअणोवणीदं उदअं सग्गगदस्स दे पादोदअं होदुएदं । ( नाथ भीमसेन ! परिजनोपनीतमुदकं स्वर्गगतस्य ते पादोदकं भवत्येतत् ।)

 युधिष्ठिरः--फाल्गुनाग्रज !

असमाप्तप्रतिज्ञेऽस्तं गते त्वयि महाभुजे ।
मुक्तकेश्यैव दत्तस्ते प्रियया सलिलाञ्जलिः ॥ ३३ ॥

 द्रौपदी--उठ्ठेहि महाराअ ! दूरं गच्छदि दे भादा । ( उत्तिष्ठ महाराज ! दूरं गच्छति ते भ्राता ।)

 युधिष्ठिरः--( दक्षिणाक्षिस्पंदनं सूचयित्वा ) पाञ्चालि ! निमित्तानि मे कथयन्ति संभावयिष्यसि वृकोदरमिति ।

 द्रौपदी--महाराअ ! सुनिमित्तं होदु । ( महाराज ! सुनिमित्तं भवतु )

( नेपथ्ये कलकलः)

( प्रविश्य संभ्रांतः ।)

 कंचुकी--परित्रायतां परित्रायतां महाराजः । एष खलु दुरात्मा कौरवापसदः क्षतजाभिषेकपाटलिताम्बरशरीरः समुछ्रितदिग्धभीषणगदापाणिरुद्यतकालदण्ड इव कृतान्तोऽत्रभवतीं पाञ्चालराजतनयामितस्ततः परिमार्गमाण इत एवाभिवर्तते ।  युधिष्ठिरः--हा दैव ! ते निर्णयो जातः । हा गाण्डीवधन्वन् !

( इति मुह्यति )

 द्रौपदी--हा अज्जउत्त ! हा मम सअंवरसअंगाहदुल्ललिद ! पिअं भादुअं अणुगदोसि; ण उण महाराअं इमं दासजणं अ । ( इति मोहमुपगता) ( हा आर्यपुत्र ! हा मम स्वयंवरस्वयंग्राहदुर्ललित ! प्रियं भ्रातरमनुगतोऽसि न पुनर्महाराजमिमं दासजनं च । )

 युधिष्ठिरः--हा वत्स सव्यसाचिन् ! हा त्रिलोचनाङ्गनिष्पेषमल्ल ! हा निवातकवचोद्धरणनिष्कण्टकीकृतामरलोक ! हा बदर्याश्रममुनिद्वितीयतापस ! हा द्रोणाचार्यप्रियशिष्य ! हा अस्त्रशिक्षाबलपरितोषितगाङ्गेय ! हा राधेयकुलकमलिनीप्रालेयवर्ष ! हा गन्धर्वनिर्वासितदुर्योधन ! हा पाण्डवकुलकमलिनीराजहंस !

तां वत्सलामनभिवाद्य विनीतमम्बां
 गाढं च मामनुपगुह्य मयाप्यनुक्तः ।
एतां स्वयंवरवधूं दयितामदृष्ट्वा
 दीर्घप्रवासमयि तात ! कथं गतोऽसि ? ॥ ३४ ॥

( मोहमुपगतः ।)

 कञ्चुकी--कष्टं भोः कष्टम् । एष दुरात्मा कौरवाधमो यथेष्टमित एवाभिवर्तते । सर्वथायमेव कालोचितः प्रतीकारः चितासमीपमुपनयाम्यत्र भवतीं पाञ्चालराजतनयाम् । अहमप्येवमेवानुगच्छामि । ( चेटीं प्रति ) भद्रे त्वमपि देव्या भ्रातरं धृष्टद्युम्नं नकुलसहदेवौ वाऽवाप्नुहि । एवमवस्थिते महाराजेऽस्तमितयोर्भीमार्जुनयोः कुतोऽत्र परित्राणाशा ?

( नेपथ्ये कलकलान्तरम् । )

 भो भोः समन्तपञ्चकसंचारिणः । क्षतजासवमत्तयक्षराक्षसपिशाचगृध्रजम्बूकवायसभूयिष्ठा विरलयोधपुरुषाः कृतमस्मद्दर्शनत्रासेन । कथयत कस्मिन्नुद्देशे याज्ञसेनी संनिहितेति । कथयाम्युपलक्षणं तस्याः ।

ऊरू करेण परिघट्टयतः सलीलं ।
 दुर्योधनस्य पुरतोऽपहृताम्बरा या ।

दुःशासनस्य करकर्षणभिन्नमौलिः
 सा द्रौपदी कथयत क्व पुनः प्रदेशे ? ॥ ३५ ॥

 कञ्चुकी--हा देवि यज्ञवेदिसंभवे ! परिभूयसे संप्रत्यनाथा कुरुकुलकलङ्केन ।

 युधिष्ठिरः--( सहसोत्थाय । ) पाञ्चालि ! न भेतव्यं न भेतव्यम् । कः कोऽत्र भोः ? । सनिषङ्गं मे धनुरुपनय । दुरात्मन्दुर्योधनहतक ! आगच्छ । अपनयामि ते गदाकौशलसंभृतं भुजदर्पं शिलीमुखासारेण । अन्यच्च रे कुरुकुलाङ्गार !

प्रियमनुजमपश्यंस्तं जरासंधशत्रुं
 कुपितहरकिरातायोधिनं तं च वत्सम् ।
त्वमिव कठिनचेताः प्राणितुं नास्मि शक्तो
 ननु पुनरपहर्तुं बाणवर्षैस्तवासून् ॥ ३६ ॥

( ततः प्रविशति गदापाणिः क्षतजसिक्तसर्वाङ्गो भीमसेनः )

 भीमसेनः--ननु भोः समन्तपञ्चकसंचारिणः !

नाहं रक्षो न भूतो रिपुरुधिरजलाल्हादिताङ्गः प्रकामं
 निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि ।
भो भो राजन्यवीराः समरशिखिशिखादग्धशेषाः कृतं व-
 स्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत् ॥ ३७ ॥

कथयन्तु भवन्तः कस्मिन्नुद्देशे पाञ्चाली तिष्ठति ? ।

 द्रौपदी--( लब्धसंज्ञा ) परित्ताअदु परित्ताअदु महाराओ । ( परित्रायतां परित्रायतां महाराजः ।)

 कञ्चुकी--देवि पाण्डुस्नुषे ! उत्तिष्ठोत्तिष्ठ । संप्रति झटिति चिताप्रवेश एव श्रेयान् ।

 द्रौपदी--( सहसोत्थाय ) कहं, ण संभावेमि अज्ज वि चिदासमीवम् ?

( कथं, न संभाववाम्यद्यापि चितासमीपम् ? )

 युधिष्ठिरः--कः कोऽत्र भोः ? सनिषङ्गं धनुरुपनय । कथं, न कश्चि त्परिजनः । भवतु । बाहुयुद्धेनैव दुरात्मानं गाढमालिङ्ग्य ज्वलनमभिपातयामि ( परिकरं बध्नाति । )

 कञ्चुकी--देवि पाण्डुस्नुषे ! संयम्यन्तामिदानीं नयनपथावरोधिनो दुःशासनावकृष्टा मूर्धजाः । अस्तमिता संप्रति प्रतीकाराशा । चितासमीपमेव द्रुततरं संभावय ।

 युधिष्ठिरः--कृष्णे ! न खल्वनिहते तस्मिन्दुरात्मनि दुर्योधने संहर्तव्याः केशाः ।

 भीमसेनः--( सत्वरं परिक्रम्य ) पाञ्चालि ! न खलु मयि जीवति संहर्तव्या दुःशासनविलुलिता वेणिरात्मपाणिभ्याम् । तिष्ठ, स्वयमेवाहं संहरामि ।

( द्रौपदी भयादपसर्पति ।)

 भीमसेनः-- तिष्ठ भीरु | क्वाधुना गम्यते ? । ( इति केशेषु ग्रहीतुमिच्छति ।)

 युधिष्ठिरः--( वेगाद्भीमं गाढमालिङ्ग्य । ) दुरात्मन्! भीमार्जुनशत्रो! सुयोधनहतक!

आशैशवादनुदिनं जनितापराधः
 मत्तो बलेन भुजयोर्हतराजपुत्रः ।
आसाद्य मेऽन्तरमिदं भुजपञ्जरस्य
 जीवन्प्रयासि न पदात्पदमद्य पाप ॥ ३८ ॥

 भीमसेनः--अये कथम्! आर्यः सुयोधनशङ्कया क्रोधान्निर्दयं मामालिङ्गति ? आर्य! प्रसीद प्रसीद ।

 कञ्चुकी--(निर्वर्ण्य सहर्षम् ।) महाराज! दिष्ट्या वर्धसे । अयं खल्वायुष्मान्भीमसेनः सुयोधनक्षतजारुणीकृतसकलशरीरो दुर्लक्षव्यक्तिः । अलमधुना संदेहेन ।

 चेटी--( द्रौपदीमालिङ्ग्य ।) देवि! णिवट्टीअदु णिवट्टीअदु । एसो क्खु पूरिदपडिण्णाभारो णाहो दे वेणीसंहारं कादुं तुमं एव्व अण्णेसदि । (देवि! निवृत्यतां निवृत्यताम् । एष खलु पूरितप्रतिज्ञाभारो नाथस्ते वेणीसंहारं कर्तुं त्वामेवान्विष्यति ।)  द्रौपदी--हञ्जे ! किं मं अलीअवअणेहिं आसासेसि ? । ( हञ्जे ! किं मामलीकवचनैराश्वासयसि ? ।)

 युधिष्ठिरः--जयंधर ! किं कथयसि ! नायमनुजद्वेषी दुर्योधनहतकः ? ।

 भीमसेनः--देव अजातशत्रो ! कुतोऽद्यापि दुर्योधनहतकः ? । मया हि तस्य दुरात्मनः

भूमौ क्षिप्तं शरीरं निहितमिदमसृक्चन्दनाभं निजाङ्गे
 लक्ष्मीरार्ये निषिक्ता चतुरुदधिपयःसीमया सार्धमुर्व्या ।
भृत्या मित्राणि योधाः कुरुकुलमखिलं दग्धमेतद्रणाग्नौ
 नामैकं यद्ब्रवीषि क्षितिप ! तदधुना धार्तराष्ट्रस्य शेषम् ॥ ३९ ॥

( युधिष्ठिरः स्वैरं मुक्त्वा भीममवलोकयन्नश्रूणि प्रमार्जयति । )

 भीमसेनः--( पादयोः पतित्वा । ) जयत्वार्यः ।

 युधिष्ठिरः--वत्स ! बाष्पजलान्तरितनयनत्वान्न पश्यामि ते मुखचन्द्रम् । कथय कच्चिज्जीवति भवान्समं किरीटिना ? ।

 भीमसेनः--निहतसकलरिपुपक्षे त्वयि नराधिपे जीवति भीमोऽर्जुनश्च ।

 युधिष्ठिरः--( पुनर्गाडमालिङ्ग्य । ) तात भीम !

रिपोरास्तां तावन्निधनमिदमाख्याहि शतशः
 प्रियो भ्राता सत्यं त्वमसि मम योऽसौ बकरिपुः ? ।

 भीमसेनः--आर्य ! सोऽहम् ।

 युधिष्ठिरः--

जरासंधस्योरःसरसि रुधिरासारसलिले
 तटाघातक्रीडाललितमकरः संयति भवान् ? ॥ ४० ॥

 भीमसेनः--आर्य ! स एवाहम् । मुञ्चतु मामार्थः क्षणमेकम् ।

 युधिष्ठिरः--किमपरमवशिष्टम् ?

 भीमसेनः--सुमहदवशिष्टम् । संयमयामि तावदनेन सुयोधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् ।

 युधिष्ठिरः--गच्छतु भवान् । अनुभवतु तपस्विनी वेणीसंहारम् ।  भीमसेनः--( द्रौपदीमुपसृत्य ।) देवि पाञ्चालराजतनये ! दिष्ट्या वर्धसे रिपुकुलक्षयेण । अलमलमेवंविधं मामालोक्य त्रासेन ।

कृष्टा येनासि राज्ञां सदसि नृपशुना तेन दुःशासनेन
 स्त्यानान्येतानि तस्य स्पृश मम करयोः पीतशेषाण्यसृञ्जि!
कान्ते! राज्ञः कुरूणामतिसरसमिदं मद्गदाचूर्णितोरो-
 रङ्गेऽङ्गेऽसृङ्निषिक्तं तव परिभवजस्यानलस्योपशान्त्यै ॥ ४१ ॥

 बुद्धिमतिके! क्व सा भानुमती ? परिभवतु संप्रति पाण्डवदारान् । भवति यज्ञवेदिसंभवे !

 द्रौपदी-- आणवेदु णाहो । ( आज्ञापयतु नाथः।)

 भीमसेनः-- स्मरति भवती यन्मयोक्तम् । ( चञ्चद्भुज-( १।२१ ), इत्यादि पठति ।)

 द्रौपदी-- णाह ! ण केवलं सुमरामि । अणुहवामि अ णाहस्स प्पसादेण । ( नाथ! न केवलं स्मरामि । अनुभवामि च नाथस्य प्रसादेन । )

 भीमसेनः--( वेणीमवधूय । ) भवति ! संयम्यतामिदानीं धार्तराष्ट्रकुलकालरात्रिर्दुःशासनविलुलितेयं वेणी ।

 द्रौपदी-- णाह! विसुमरिदं एदं वावारं णाहस्स प्पसादेण पुणो वि सिक्खिस्सम् । ( नाथ! विस्मृतमेतं व्यापारं नाथस्य प्रसादेन पुनरपि शिक्षिष्ये)

(भीमसेनो वेणीं बध्नाति ।)

( नेपथ्ये । )

क्रोधान्धैर्यस्य मोक्षात्क्षतनरपतिभिः पाण्डुपुत्रैः कृतानि
 प्रत्याशं मुक्तकेशान्यतुलभुजबलैः पार्थिवान्तःपुराणि ।
कृष्णायाः केशपाशः कुपितयमसखो धूमकेतुः कुरूणां
 सोऽयं बद्धः प्रजानां विरमतु निधनं स्वस्ति राज्ञां कुलेभ्यः॥ ४२ ॥

 युधिष्ठिरः-- देवि! एष ते मूर्धजानां संहारोऽभिनन्दितो नभस्तलचारिणा सिद्धजनेन ।

( ततः प्रविशतः कृष्णार्जुनौ ।)

 कृष्णः--( युधिष्ठिरमुपगम्य ।) विजयतां निहतसकलारातिमण्डलः सानुजः पाण्डवकुलचन्द्रमा महाराजो युधिष्ठिरः ।

 अर्जुनः--जयत्वार्यः ।

 युधिष्ठिरः--( विलोक्य । ) अये ! भगवान्पुण्डरीकाक्षो वत्सश्च किरीटी । भगवन् कुतस्तस्य विजयादन्यद्यस्य भगवान्पुराणपुरुषो नारायणः स्वयं मङ्गलान्याशास्ते ।

कृतगुरुमहदादिक्षोभसंभूतमूर्ति
 गुणिनमुदयनाशस्थानहेतुं प्रजानाम् ।
अजममरमचिन्त्यं चिन्तयित्वापि न त्वां
 भवति जगति दुःखी किं पुनर्देव ! दृष्ट्वा ॥ ४३ ॥

( अर्जुनमालिङ्ग्य ।) वत्स ! परिष्वजस्व माम् ।

 कृष्णः--महाराज युधिष्ठिर ! एते खलु भगवन्तो व्यासवाल्मीकिना मदग्न्यजाबालिप्रभृतयो महर्षयः कल्पिताभिषेकमङ्गला नकुलसहदेवसात्यकिप्रमुखाश्च सेनापतयो यादवमत्स्यमागधकुलसंभवाश्च राजकुमाराः स्कन्धोत्तम्भिततीर्थवारिकलशास्तवाभिषेकं धारयन्तस्तिष्ठन्ति । अहमपि चार्वाकेण विप्रकृतं भवन्तमुपलभ्याजुनेन सह सत्वरमागतः ।

 भीमसेनः--( सरोषम् ।) क्वासौ धार्तराष्ट्रसखः पुण्यजनापसदो येनार्यस्य महांश्चित्तविभ्रमः कृतः ।

 कृष्णः--निगृहीतः स दुरात्मा नकुलेन । तत्कथय महाराज ! किमस्मात्परं समीहितं संपादयामि ।

 युधिष्ठिरः--देव पुण्डरीकाक्ष ! न किंचिन्न ददाति भगवान्प्रसन्नः । अहं तु पुरुषसाधारण्या बुद्ध्या संतुष्यामि । नखल्वतः परमभ्यर्थयितुं क्षमः । पश्यतु देवः ।

क्रोधान्धैः सकलं हतं रिपुकुलं पञ्चाक्षतास्ते वयं
 पाञ्चाल्या मम दुर्नयोपजनितस्तीर्णो निकारार्णवः ।

त्वं देवः पुरुषोत्तमः सुकृतिनं मामादृतो भाषसे
 किं नामान्यदतः परं भगवतो याचे प्रसन्नादहम् ॥ ४४ ॥

 तथापि प्रीततरश्चेद्भगवांस्तदिदमस्तु ।

अकृपणमरुक्श्रान्तं जीव्याज्जनः पुरुषायुषं
 भवतु भगवन्भक्तिर्द्वैतं विना पुरुषोत्तमे ।
दयितभुवनो विद्वद्बन्धुर्गुणेषु विशेषवि-
 त्सततसुकृती भूयाद्भूपः प्रसाधितमण्डलः ॥ ४५ ॥

 कृष्णः--एवमस्तु ।

( इति निष्क्रान्ताः सर्वे । )

इति षष्ठोऽङ्कः।

इति श्रीभट्टनारायणकृतं वेणीसंहारम् ।

॥ समाप्तम् ॥