वेदान्तपरिभाषा/आगमपरिच्छेदः
← उपमानपरिच्छेदः | वेदान्तपरिभाषा आगमपरिच्छेदः आगमपरिच्छेदः |
अनुपलब्धिपरिच्छेदः → |
।।अथागमपरिच्छेदः।।
अथागमो निरूप्यते। यस्य वाक्यस्य तात्पर्यविषयीभूतसंसर्गो मानान्तरेण न बाध्यते तद्वाक्यं प्रमाणम्।
वाक्यजन्ये च ज्ञाने आकाङ्क्षायोग्यताऽऽसत्तयस्तात्पर्य्यज्ञानं चेति चत्वारि कारणानि।
तत्र पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकाङ्क्षा। क्रियाश्रवणे कारकस्य, तस्य श्रवणे क्रियायाः, करणश्रवणे इतिकर्त्तव्यतायाश्च जिज्ञासाविषयत्वात्। अजिज्ञासोरपि वाक्यार्थबोधाद्योग्यत्वमुपात्तम्। तदवच्छेदकं च क्रियात्व-कारकत्वादिकमिति नातिव्याप्तिः। गौरश्वः पुरुषो हस्तीत्यादौ अभेदान्वये च समानविभक्तिकपदप्रतिपाद्यत्वं तदवच्छेदकमिति तत्त्वमस्यादिवाक्येषु नाव्याप्तिः।
एतादृशाकाङ्क्षाभिप्रायेणैव बलाबलाधिकरणे “सा वैश्वदेव्याऽऽमिक्षा वाजिभ्यो वाजिनम्” इत्यत्र वैश्व-देवयागस्यामिक्षान्वितत्वेन न वाजिनाकाङ्क्षेत्यादिव्यवहारः। ननु तत्रापि वाजिनस्य जिज्ञासाऽविषयत्वेऽपि तद्योग्यत्वमस्त्येव, प्रदेयद्रव्यत्वस्य यागनिरूपितजिज्ञासाविषयतायोग्यतावच्छेदकत्वादिति चेत् — न। स्वस-मानजातीयप्रदार्थान्वयबोधविरहसहकृतप्रदेयद्रव्यत्वस्यैव तदवच्छेदकत्वेन वाजिनद्रव्यस्य स्वसमानजातीया-न्वयबोधसहकृतत्वेन तादृशावच्छेदकत्वाभावात्, आमिक्षायां तु नैवं, वाजिनान्वयस्य तदानुपस्थानात्।
उदाहरणान्तरेष्वपि दुर्बलप्रयोजक आकाङ्क्षाविरह एव द्रष्टव्यः।
योग्यता च तात्पर्य्यविषयसंसर्गाबाधः। वह्निना सिञ्चेदित्यादौ तादृशसंसर्गबाधान्नातिव्याप्तिः। “स प्रजापतिरात्मनो वपामुदखिदत्” इत्यादावपि तात्पर्य्यविषयीभूतपशु(वपायाग)प्राशस्त्याबाधाद् योग्यता। तत्त्वमस्यादिवाक्येष्वपि वाच्याभेदबाधेऽपि लक्ष्यस्वरूपाभेदे बाधाभावाद्योग्यता।
आसत्तिश्चाव्यवधानेन पदजन्यपदार्थोपस्थितिः। मानान्तरेणोपस्थितापितपदार्थस्यान्वयबोधाभावात् पदजन्येति। अत एवाश्रुतपदार्थस्थले तत्तत्पदाध्याहारः, द्वारमित्यादौ ‘पिधेहि’ इति। अत एव “इषे त्वा” इत्यादौ “छिनद्भि” इति पदाध्याहारः। अत एव विकृतिषु “सूर्य्याय जुष्टं निर्वपामि” इति पदप्रयोगः।
पदार्थश्च द्विविधः शक्यो लक्ष्यश्चेति। तत्र शक्तिर्नाम पदानामर्थेषु मुख्या वृत्तिः। यथा घटपदस्य पृथुबुध्नोदराद्याकृतिविशिष्टे वस्तुविशेषे वृत्तिः। सा च शक्तिः पदार्थान्तरम्, सिद्धान्ते कारणेषु कार्य्यानुकूल-शक्तिमात्रस्य पदार्थान्तरत्वात्। सा च तत्तत्पदजन्यपदार्थज्ञानरूपकार्य्यानुमेया। तादृशशक्तिविषयत्वं शक्यत्वम्। तच्च जातेरेव, न व्यक्तेः, व्यक्तीनामानन्त्येन गुरुत्वात्। कथं तर्हि गवादिपदाद् व्यक्तिभानमिति चेत्, जातेर्व्यक्तिसमानसंवित्संवेद्यतयेति ब्रूमः।
यद्वा गवादिपदानां व्यक्तौ शक्तिः स्वरूपसती, न तु ज्ञाता, जातौ तु सा ज्ञाता हेतुः। न च व्यक्त्यंशे शक्तिज्ञानमपि कारणं, गौरवात्। जातिशक्तिमत्त्वज्ञाने सति व्यक्तिशक्तिज्ञानं विना व्यक्तिधीविलम्बाभावाच्च। अत एव न्यायमतेऽपि अन्वये शक्तिः स्वरूपसतीति सिद्धान्तः। ज्ञायमानशक्तिविषयत्वमेव वाच्यत्वमिति जातिरेव वाच्या।
अथवा व्यक्तेर्लक्षणयावगमः। यथा नीलो घट इत्यत्र नीलशब्दस्य नीलगुणविशिष्टे लक्षणा, तथा जातिवाचकस्य तद्विशिष्टे लक्षणा। तदुक्तम्- अनन्यलभ्यः पदार्थ इति। एवं शक्यार्थो निरूपितः।
अथ लक्ष्यपदार्थो निरूप्यते। तत्र लक्षणाविषयो लक्ष्यः। लक्षणा द्विविधा, केवललक्षणा लक्षितलक्षणा चेति। तत्र शक्यसाक्षात्सम्बन्धः केवललक्षणा। यथा गङ्गायां घोष इत्यत्र प्रवाहसाक्षात्सम्बन्धिनि तीरे गङ्गा-पदस्य केवललक्षणा। यत्र शक्यपरम्परासम्बन्धेनार्थान्तरप्रतीतिः. तत्र लक्षितलक्षणा। यथा द्विरेफपदस्य रेफद्वयशक्तस्य भ्रमरपदघटितपरम्परासम्बन्धेन मधुकरे वृत्तिः।
गौण्यपि लक्षितलक्षणैव। यथा सिंहो माणवक इत्यत्र सिंहशब्दवाच्यसम्बन्धिक्रौर्य्यादिसम्बन्धेन माणवकस्य प्रतीतेः।
प्रकारान्तरेण लक्षणा त्रिविधा-- जहल्लक्षणाऽजहल्लक्षणा जहदजहल्लक्षणा।
शक्यमनन्तर्भाव्य यत्रार्थान्तरस्य प्रतीतिस्तत्र जहल्लक्षणा। यथा विषं भुक्ष्वेति। अत्र हि स्वार्थं विहाय शत्रुगृहे भोजननिवृत्तिर्लक्षिता। यत्र शक्यार्थमन्तर्भाव्यैवार्थान्तरप्रतीतिस्तत्राजहल्लक्षणा। यथा शुक्लो घट इति। अत्र हि शुक्लशब्दः स्वार्थं शुक्लगुणमन्तर्भाव्यैव तद्ति द्रव्ये लक्षणया वर्तते। यत्र हि विशिष्टवाचकशब्दः स्वार्थैकदेशं विहायैकदेशे वर्तते, तत्र जहदजहल्लक्षणा। यथा सोऽयं देवदत्त इति। अत्र हि पदद्वयवाच्ययोर्विशिष्टयोरेक्यानुपपत्त्या पदद्वयस्य विशेष्यमात्रपरत्वम्। यथा वा तत्त्वमसि इत्यादौ तत्पदवाच्यस्य सर्वज्ञत्वादिविशिष्टस्य त्वंपदवाच्येनान्तःकरणविशिष्टेनैक्योगादैक्यसिद्ध्यर्थं स्वरूपे लक्षणेति साम्प्रदायिकाः।
वयं तु ब्रूमः। सोऽयं देवदत्तस्तत्त्वमसीत्यादौ विशिष्टवाचकानां पदानामेकदेशपरत्वेऽपि न लक्षणा, शक्त्युपस्थितविशिष्टयोरभेदान्वयानुपपत्तौ विशेष्ययोः शक्त्युपस्थितयोरेवान्वयबोधाविरोधात्। यथा घटोऽनित्य इत्यत्र घटपदवाच्यैकदेशघटत्वस्यायोग्यत्वेऽपि योग्यघटव्यक्त्या सहानित्यत्वान्वयः। यत्र पदार्थैकदेशस्य विशेषणतयोपस्थितिः तत्रैव स्वातन्त्र्येणोपस्थितये लक्षणाभ्युपगमः, यथा नित्यो घट इत्यत्र घटपदाद् घटत्वस्य शक्त्या स्वातन्त्र्येणानुपस्थित्या तादृशोपस्थित्यर्थं घटपदस्य घटत्वे लक्षणा। एवमेव तत्त्वमस्यादिवाक्येऽपि न लक्षणा, शक्त्या स्वातन्त्र्येणोपस्थितयोस्तत्त्वंपदार्थयोरभेदान्वये बाधकाभावात्. अन्यथा गेहे घटः, घटे रूपं, घटमानयेत्यादौ घटत्वगेहत्वादेरभिमतान्वयबोधयोग्यतया तत्रापि घटादिपदानां विशेष्यमात्रपरत्वं लक्षणयैव स्यात्। तस्मात्तत्त्वमसीति वाक्ये आचार्य्याणां लक्षणोक्तिरभ्युपगमवादेन बोध्या।
जहदजहल्लक्षणोदाहरणं तु काकेभ्यो दधि रक्ष्यतामित्यादिकमेव। तत्र शक्यकाकपरित्यागेनाशक्य-दध्युपघातकत्वपुरस्कारेणाकाके काके च काकशब्दस्य प्रवृत्तेः।
लक्षणाबीजं तु तात्पर्य्यानुपपत्तिरेव, न त्वन्वयानुपपत्तिः। काकेभ्यो दधि रक्षतामित्यत्रान्वयानुप-पत्त्यभावात्। गङ्गायां घोष इत्यादौ तात्पर्य्यानुपपत्तेरपि सम्भवात्।
लक्षणा च न पदमात्रवृत्तिः किन्तु वाक्यवृत्तिरपि, यथा गम्भीरायां नद्यां घोष इत्यत्र गम्भीरायां नद्यामिति पदद्वयसमुदायस्य तीरे लक्षणा।
ननु वाक्यस्याशक्त्या कथं शक्यसम्बन्धरूपा लक्षणा। उच्यते। शक्त्या यत्पदसम्बन्धेन ज्ञाप्यते तत्सम्बन्धो लक्षणा। शक्तिज्ञाप्यश्च यथा पदार्थः तथा वाक्यार्थोऽपीति न काचिदनुपपत्तिः। एवमर्थवादवाक्यानां प्रशंसारूपाणां प्राशस्त्ये लक्षणा। ‘सोऽरोदीत्’ इत्यादिनिन्दार्थवाक्यानां निन्दितत्वे लक्षणा। अर्थवादगतपदानां प्राशस्त्ये लक्षणाभ्युपगमो एकेन पदेन लक्षणया तदुपस्थितिसम्भवे पदान्तरवैयर्थ्यं स्यात्।
एवं च विध्यपेक्षितप्राशस्त्यरूपपदार्थप्रत्यायकतया अर्थवादपदसमुदायस्य पदस्थानीयतया विधि-पदेनैकवाक्यत्वं भवतीत्यर्थवादवाक्यानां पदैकवाक्यता।
क्व तर्हि वाक्यैकवाक्यता। यत्र प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोराकाङ्क्षावशेन महावाक्यार्थ-बोधकत्वं तत्र वाक्यैकवाक्यता। यथा ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत्’ इत्यादिवाक्यानां ‘समिधो यजति’ इत्यादिवाक्यानां च परस्परापेक्षिताङ्गाङ्गिभावबोधकतयैकवाक्यता। तदुक्तं भट्टपादैः-
स्वार्थबोधे समाप्तानामङ्गाङ्गित्वाद्यपेक्षया।
वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते।।इति।।
एवं द्विविधोऽपि पदार्थो निरूपितः। तदुपस्थितिश्चासत्तिः।
सा च (सत्तया) शाब्दबोधे हेतुः, तथैवान्वयव्यतिरेकदर्शनात्। एवं महावाक्यार्थ-बोधेऽवान्तरवाक्यार्थबोधो हेतुः, तथैवान्वयाद्यवधारणात्।
क्रमप्राप्तं तात्पर्य्यं निरूप्यते। तत्र तत्प्रतीतीच्छयोच्चरितत्वं न तात्पर्य्यम्, अर्थज्ञानशून्येन पुरुषेणोच्चारिताद्वेदादर्थाभानप्रसङ्गात्। अयमध्यापकोऽव्युत्पन्न इति विशेषदर्शनेन तात्पर्य्यभ्रमस्याप्यभावात्। न चेश्वरतात्पर्य्यज्ञानात्तत्र शाब्दबोध इति वाच्यम्। ईश्वरानङ्गीकर्तुरपि तद्वाक्यार्थप्रतिपत्तिदर्शनात् । उच्यते। तत्प्रतीतिजननयोग्यत्वं तात्पर्य्यम्। गेहे घट इति वाक्यं गेहे घटसंसर्गप्रतीतिजननयोग्यं न तु पटसंसर्गप्रतीतिजननयोग्यमिति तद्वाक्यं घटसंसर्गपरं, न तु पटसंसर्गपरमिति व्यपदिशयते।
ननु सैन्धवमानयेत्यादि वाक्यं यदा लवणानयनप्रतीतीच्छया प्रयुक्तं तदाप्यश्वसंसर्गप्रतीतिजनने स्व- रूपयोग्यतासत्त्वात् लवणपरत्वदशायामप्यश्वादिसंसर्गज्ञानापत्तिरिति चेत्-- न। तदितरप्रतीतीच्छयानुच्चरित-त्वस्यापि तात्पर्य्यं प्रति विशेषणत्वात्। यथा च यद्वाक्यं यत्प्रतीतिजननयोग्यत्वे सति यदन्यप्रतीतीच्छयानुच्चरितं तद्वाक्यं तत्संसर्गपरमित्युच्यते। शुकादिवाक्येऽव्युत्पन्नोच्चारितवेदवाक्यादौ च तत्प्रतीतीच्छाया एवाभावेन तदन्यप्रतीतीच्छयोच्चरितत्वाभावेन लक्षणसत्त्वान्नाव्याप्तिः। न चोभयप्रतीतीच्छयोच्चरितेऽव्याप्तिः, तदन्यमात्र-प्रतीतीच्छायानुच्चरितत्वस्य विवक्षितत्वात्। उक्तप्रतीतिमात्रजननयोग्यतायाश्चावच्छेदिका शक्तिः। अस्माकं तु मते सर्वत्र कारणतायाः शक्तेरेवावच्छेदकत्वात् इति न कोऽपि दोषः।
एवं तात्पर्य्यस्य तत्प्रतीतिजनकत्वरूपस्य शाब्दज्ञानजनकत्वे सिद्धे चतुर्थवर्णके तात्पर्यस्य शाब्दज्ञानहेतुत्वनिराकरणवाक्यं तत्प्रतीतीच्छयोच्चरितत्वरूपतात्पर्य्यनिराकरणपरम्, अन्यथा तात्पर्य्यनिश्चय-फलकवेदान्तविचारवैयर्थ्यप्रसङ्गात्।
केचित्तु शाब्दज्ञानत्वावच्छेदेन न तात्पर्य्यज्ञानं हेतुरित्येवंपरं चतुर्थवर्णकवाक्यम्। तात्पर्य्यसंशयविपर्ययोत्तरशाब्दज्ञानविशेषे च तात्पर्य्यज्ञानं हेतुरेव, इदं वाक्यमेतत्परमुतान्यपरमिति तात्पर्य्यसंशये तद्विपर्यये च तदुत्तरवाक्यार्थनिश्चयस्य तात्पर्य्यनिश्चयं विनानुपपत्तेरित्याहुः।
तच्च तात्पर्य्यं वेदे मीमांसापरिशोधितन्यायादेवावधार्य्यते। लोके तु प्रकरणादिना।
तत्र लौकिकवाक्यानां मानान्तरावगतार्थतयानुवादकत्वम्।वेदे तु वाक्यार्थस्यापूर्वतया नानुवादकत्वम्।
तत्र लोके वेदे च कार्य्यपराणामिव सिद्धार्थानामप्यपूर्वतया प्रामाण्यम्, पुत्रस्ते जातः, कन्या ते गर्भिणी इत्यादिषु सिद्धार्थेष्वपि पदानां सामर्थ्यावधारणात्। अत एव वेदान्तवाक्यानां ब्रह्मणि प्रामाण्यम्। यथा चैतत्तथा विषयपरिच्छेदे वक्ष्यते।
तत्र वेदान्तानां नित्यसर्वज्ञपरमेश्वरप्रतीतत्वेन प्रामाण्यमिति नैयायिकाः। वेदानां नित्यत्वेन निरस्त-समस्तपुंदूषणतया प्रामाण्यमिति मीमांसकाः। अस्माकं तु मते वेदो न नित्यः, उत्पत्तिमत्त्वात्। उत्पत्तिमत्त्वं च “अस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः” इत्यादिश्रुतेः। नापि वेदानां त्रिक्षणावस्थायित्वम्। य एव वेदो देवदत्तेनाधीतः स एव मयापीत्यादिप्रत्यभिज्ञाविरोधात्। अत एव गकारादिवर्णानामपि न क्षणिकत्वम्, सोऽयं गकार इति प्रत्यभिज्ञाविरोधात्। तथा च वर्णपदवाक्यसमुदायस्य वेदस्य वियदादिवत्सृष्टिकालीनोत्पत्तिकत्वं प्रलयकालीनध्वंसप्रतियोगित्वं च, न तु मध्ये वर्णानामुत्पत्तिविनाशौ, अनन्तगकारकल्पनायां गौरवात्। अनुच्चारणदशायां वर्णानामनभिव्यक्तिस्तदुच्चारणरूपव्यञ्जकाभावान्न विरुध्यते, अन्धकारस्थघटानुपलम्भवद्। उत्पन्नो गकार इत्यादिप्रत्यक्षं तु सोऽयं गकार इत्यादिप्रत्यभिज्ञाविरोधात् अप्रमाणं, वर्णाभिव्यञ्जकध्वनिगतोत्पत्तिनिरूपितपरम्परासम्बन्धविषयत्वेन प्रमाणं वा। तस्मान्न वेदानां क्षणिकत्वम्। ननु क्षणिकत्वाभावेऽपि वियदादिप्रपञ्चवदुत्पत्तिमत्त्वेन परमेश्वरकर्तृकतया पौरुषेयत्वसिद्धावपौरुषेयत्वं वेदानामिति तवापि सिद्धान्तो भज्येतेति चेत्-- न। नहि तावत्पुरुषेणोच्चार्य्यमाणत्वं पौरुषेयत्वम्, गुरुमतेऽपि अध्यापकरम्परया पौरुषेयत्वापत्तेः। नापि पुरुषाधीनोत्पत्तिकत्वं, नैयायिकाभिमतपौरुषेयत्वानुमाने अस्मदादिना सिद्धसाधनापत्तेः। किन्तु सजातीयोच्चारणानपेक्षोच्चारणविषयत्वं पौरुषेयत्वम्। तथा च सर्गाद्यकाले परमेश्वरः पूर्वसर्गसिद्धवेदानुपूर्वीसमानानुपूर्वीकं वेदं विरचितवान्, न तु तद्विजातीयं वेदमिति न सजातीयोच्चारणानपेक्षोच्चारणविषयत्वं पौरुषेयत्वम्।
भारतादीनां तु सजातीयोच्चारणमनपेक्ष्यैवोच्चारणमिति तेषां पौरुषेयत्वम्। एवं पौरुषेयापौरुषेयभेदेनागमो द्विविधो निरूपितः।
।।इति वेदान्तपरिभाषायामागपरच्छेदः।।४।।