वेदान्तपरिभाषा/उपमानपरिच्छेदः

← अनुमानपरिच्छेदः वेदान्तपरिभाषा
उपमानपरिच्छेदः
धर्मराजाध्वरीन्द्रः
आगमपरिच्छेदः →

अथोपमानपरिच्छेदः।।

अथोपमानं निरप्यते। तत्र सादृश्यप्रमाकरणमिपमानम्। तथा हि प्राङ्गणेषु दृष्टगोपिण्डस्य पुरुषस्य वनं गतस्य गवयेन्द्रिसन्निकर्षे सति भवति प्रतीतिः अयं पिण्डो गोसदृश इति। तदनन्तरं च भवति निश्चयोऽनेन सदृशी मदीया गौरिति। तत्रावयव्यतिरेकाभ्यां गवयनिष्ठगोसादृश्यज्ञानं करणं, गोनिष्ठगवयसादृश्यज्ञानं फलम्। न चेदं प्रत्यक्षेण सम्भवति । गोपिण्डस्य तदेन्द्रियासन्निकर्षात्, नाप्यनुमानेन गवयनिष्ठसादृश्यस्यातल्लिङ्गत्वात्। नापि “मदीया गौः एतद्गवयसदृशी, एतन्निष्ठसादृश्यप्रतियोगित्वात्, यो यद्गतसादृश्यप्रतियोगी स तत्सदृशः, यथा मैत्रनिष्ठसादृश्यप्रतियोगी चैत्रः मैत्रसदृश” इत्यनुमानात्तत्सम्भव इति वाच्यम्। एवंविधानुमानानव-तारेऽप्यनेन सदृशी मदीया गौरीति प्रतीतेरनुभवसिद्धत्वात्। उपमिनोमीत्यनुव्यवसायाच्च। तस्मादुपमानं मानान्तरम्। इति वेदान्तपरिभाषायामुपमानपरिच्छेदः।।३।।