वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/नञर्थनिर्णयः

← शक्तिनिर्णयः वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)
नञर्थनिर्णयः
[[लेखकः :|]]
निपातार्थनिर्णयः →

।। अथ नञर्थनिर्णयः ।।
नञ्‌समासःइत्युक्तत्वादनेन नञ्‌समासार्थ उच्यत इत्यशङ्का स्यात्तामपाकर्तुमाह-नञर्थमिति। आरोपितत्वं नञूद्योत्यमित्यनेन नञर्थ एव प्रदर्श्यते नतु नञ्‌समासार्थ इत्याह-नञ्समासे चापरस्येति। नञ्समास इति। `नञ्'(2-2-6)इति पाणिनिसूत्रेण विहिते। अपरपदार्थमाह-उत्तरषदार्थस्येति। प्राधान्यादिति। पूर्वपदार्थनिष्ठप्रकारतानिरूपितविशेष्यत्वादुत्तरपदार्थस्येति अतस्मै, असर्वे, इत्यादौ सर्वाद्यन्तस्य सर्वनामसंज्ञा सिध्यतीत्यर्थः। अयमर्थः-घटः पटो न, घटो नास्तीत्यादौ घटतादात्म्याभाववान् पटः, घटप्रतियोगिको योऽभावस्तत्कर्तृका सत्तेत्येवमभावबोदस्य सर्वानुभवसिद्धत्वान्नञोऽगावार्थकत्वमावस्यकं, तथा चोत्तरपदार्थप्राधान्यादि व्यवस्तापगितुं शक्यम्। ननु घटः पटो न, घटो नास्तीत्यादौ घटतादात्म्याभावः पटनिष्ठः, घटकर्तृकसत्ताभाव इत्यभावविशेष्यकबोधानुभवादसः, असर्व इत्यादावपि तदभावः, सर्वाभाव इत्यादावपि अभावविशेष्यकबोधात्पूर्वपदार्थप्राधान्यापत्तेः कथमुत्तरपदार्थप्राधान्यादि सुयोजमिति चेदुत्तरपदार्थप्राधान्यादिसिद्ध्यर्थमेवाऽऽरोपितार्थकत्वं नञोऽङ्गीकरणीयमित्याह-आरोपितत्वं नञ्द्योत्यमिति। अत एवेति। उत्तरपदार्थप्राधान्याद्युपपत्तय एवेत्यर्थः। आरोपितत्वं=आरोपितब्राह्मणत्वादि, आरोपितं ब्राह्मणादिपदप्रवृत्तिनिमित्तमित्यब्राह्मणादिपदघटकनञा द्योत्यत इत्यर्थः। ननु नञोऽभावार्थकत्वे कथमुत्तरपदप्राधान्याद्यनुपपत्तिरत आह-अयं भाव इति। असर्व इत्यादावारोपितसर्वत्ववानित्यर्थे सति सर्वशब्दार्थस्य विशेष्यत्वात्सर्वनामसंज्ञा सिध्यति। अन्यथेति। उक्तवैपरीत्ये। नञ्‌समासे नञो भेदार्थकत्वं सति। पूर्वपदार्थप्राधान्येनोत्तरपदार्थप्राधान्याभावे सतीत्यर्थः। अतिसर्व इत्यत्रेवेति सर्वमतिक्रान्त इत्यर्थे `अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति वार्तिकवचनेन समासे कृते पूर्वपदार्थस्य विशेष्यत्वात्सर्वशब्दस्योपसर्जनत्वेन `संज्ञोपसर्जनीभूतास्तु न सर्वादयः' इति निषेधात्सर्वादित्वाभावेन सर्वनामसंज्ञा यथा न भवति तथाऽत्रापि नञो भेदार्थकत्वेऽब्राह्मण इत्यत्र ब्राह्मणभिन्न इतिवत्सर्वभिन्न इत्यर्थे पूर्वपदार्थस्य प्राधान्यात्सर्वशब्दस्योपसर्जनतया सर्वनामसंज्ञा न स्यात्। तथा चासर्वेऽसर्वस्मायित्यादिप्रयोगो नोपपद्येत, इतरविशेषणत्वेनोपस्थितिविषयस्योपसर्जनत्वादिति भावः। ननु असर्व इत्यादौ भेदप्रतियोगी सर्व इति बोधाभ्युपगमात्सर्वशब्दार्थस्म प्रात्रान्यं निर्वोढुं शक्यमित्यत आह-घटो नास्तीति। तस्य-अभावस्य। विशेष्यताया एवेति। घटाभावोऽस्तित्वाश्रयः, घटकर्तृकसत्ताभाव इति वा प्रतियोगिनिरूपितविशेष्यतयैव बोधस्यानुभवसिद्धत्वादिति भावः। नन्वेवमघट इत्यादौ घटभिन्न इति बोधस्य सर्वजनीनस्यापलापः क्रियत इत्याशङ्क्याऽऽह-अस्मद्रीत्या चेति। स इति। घटः पटो नेत्यादौ घटभिन्नः पट इत्येवं भेदविषयको बोध इत्यर्थः। आर्थ इति। अर्थादागत आर्थः। आर्थिक इति प्रावत्। घटभिन्न एव घटत्वारोपाद्‌घटभिन्न इति बोघोऽर्थसिद्धो भवतीति, न तदपलापः क्रियते। मानस इति। मनोजन्यः, नतु शब्दजन्य इत्यर्थः। तत्र शब्दजन्यत्वप्रतीतिस्तु शब्दप्रयोज्यत्वाद्‌भ्रभरूपैवोति भावः। घटो नास्तीत्यादावसमस्तनञर्थाभावविशेष्यकबोधे तिङ्‌समभिव्याहृतधातुजन्यौपस्थिति। कारणमित्येवं कार्यकारणभावनियमः क्लॄप्तः। निरुक्तकार्यकारणभावनियमादेव त्वं नासि, अहं नास्मीत्यत्र त्वत्कर्तृकसत्ताभावः, मत्कर्तृकसत्ताभाव इत्यर्थाद्युष्मदस्मदोस्तिङवाच्यकारकवाचित्वेन सामानाधिकरण्यान्मध्यमोत्तमपुरुषव्यवस्था सिध्यतिः घटौ न स्तः, घटा न सन्तीत्यत्र वचनव्यवस्था च सिद्धा। त्वत्प्रतियोगिकः, मत्प्रतियोगिकश्च सत्तेत्यर्थाभ्युपगमे तु युष्मदस्मदोस्तिङ्‌सामानाधिकरण्याभावात्सा न स्यात्। किंतु अभावस्य तिङ्‌सामानाधिकरण्यात्सर्वत्र प्रथमपुरुष एव स्यादित्यव्यवस्था स्पष्टैव। अहं नास्मीत्यत्र कर्तरि लट्, तथा च तिङ्‌वाच्यं यत्कारकं कर्तृरूपं तद्वाचित्वमस्मदर्थस्येति अस्मदर्थाभिन्नो यो मिबर्थः कर्ता तन्निष्ठा या सत्ता तदभाव इत्येवं तिङर्थे कर्तरि अस्मदर्थस्याभेदेनान्वयात्तिङ्‌सामानाधिकरण्यम्। एवमेव सर्वत्र तिङ्‌सामानाधिकरण्यं बोध्यम्। नन्वसर्वशब्दस्य सर्वनामसंज्ञाया अभावें का हानिरत आह-तथा चेति। सर्वप्रतियोगिको भेद इत्यर्तेऽम्युपगते सर्वशब्दस्योपसर्जनतथा सर्वादिबहिर्भावेन सर्वाद्यन्तत्वाभावादसर्वशब्दस्य सर्वनामत्वाभावे स्मायाद्यादेशो न स्यादित्यसर्वस्मायित्यादि न सिध्येदित्यर्थः। अत्र चेति। आरोपितत्वं नञ्द्योत्यमिति पक्षे चेत्यर्थः। आरोपविषयत्वमिति। तस्य च भेदसंबन्धेनोत्तरपदार्थे ब्राह्मणादावन्वयः। आरोपश्च प्रत्यासत्त्या प्रवृत्तिनिमित्तप्रकारक एव गृह्यते। तथा च `अब्राह्मण इत्यत आरोपविषयत्ववान् ब्राह्मण इति बोध उदेति। आरोपितब्राह्मण्यवांश्च क्षत्रियादिरेवाब्राह्मणपदेन प्रतिपाद्यते नञ्‌समभिव्याहारे, इत्यर्थः। अथवा आरोपविषयत्वमित्यस्याऽऽरोपविषयप्रवृत्तिनिमित्तकत्वमित्यर्थः। आरोपविषयत्वस्य च राज्ञः पुरुष इत्यत्र स्वस्वामिभावरूपषष्ठ्यर्थसंबन्धस्येव प्रकारतया संसर्गतया च भानम्। अब्राह्मण इत्यादित आरोपितब्राह्मणत्ववानिति बोधः। आरोपितत्वविशिष्टब्राह्मणत्ववत्त्वं ब्राह्मणभिन्न एवेति न मुख्यब्राह्मणेऽब्राह्मणशब्दप्रयोगः। लाघवानुरोधादारोप एव नञर्थः, न त्वारोपविषयत्वं गौरवादित्याशयेनाऽऽह-आरोपमात्रमिति। स चाऽऽरोपो नञो द्योत्यो वाच्यो वाऽर्थः। तस्य चोत्तरपदार्थे विषयतासंबन्धेन विशेषणत्वमित्याह-विषयत्वं संसर्ग इति। विषयत्वस्य संसर्गमर्यादयैव लाभेनान्यलभ्यत्वादनन्यलभ्यः शब्दार्थ इतिन्यायेनाऽऽरोपमात्रं नञर्थः। यथा `आश्रये तु तिङ स्मृताः' इत्यनेन फलाश्रये व्यपाराश्रये च तिङामुक्तत्वेऽपि फलव्यापारयोर्धातुलभ्यत्वेनाऽऽश्रयमात्रं तिङर्थ इत्युक्तं, अनन्यलभ्यः शब्दार्थ इति न्यायात्तद्वदिति भावः। आरोपस्य नञ्‌वाच्यत्वपक्षेऽपि विषयतासंबन्धेनोत्तरपदार्थे विशेषणत्वादारोपविषयो ब्राह्मण इत्यर्थान्नज्‌तत्पुरुषे उत्तरपदार्थप्राधान्यस्य निर्वाहो ज्ञेयः। भाष्यमते तु स्वसमभिव्याहृतब्राह्मणादिपदानामारोपितप्रवृत्तिनिमित्तबोधकत्वे नञ् तात्पर्यग्राहक इति तात्पर्यग्राहकत्वरूपं द्योत्यत्वं नञर्थारोपस्येष्ठम्। स्वं-नञ्, तत्समभिव्याहृतानि यानि ब्राह्मणादिपदानि अब्राह्मणः, असः, असर्व इत्यादिप्रयोगघटकानि, तेषां-आरोपितं यत्प्रवृत्तिनिमित्तं ब्राह्मणत्वादि, तद्रूपेण बोधकर्त्व(आरोपविषयब्राह्मणत्वादिविशिष्टार्थबोधकत्वं)इत्वर्थे नञ् तात्पर्यग्राहक इत्यर्थः। यद्वा बहुव्रीहिः, आरोपितं प्रवृत्तिनिमित्तं यस्मिन्निति आरोपितप्रवृत्तिनिमित्तकत्वबोधे तात्पर्यग्राहकौ नञित्यर्थो बोध्यः। आरोपस्य नञ्‌वाच्यत्वे तु अनारोपितब्राह्मण्यवति मुख्ये ब्राह्मणपदार्थे आरोपान्वयो विरोधाद्‌दुरुपपादः स्यादिति बोध्यम्। ननु नञ आरोपार्थवाचकत्वस्वीकारेऽपि न क्षतिः, आरोपस्य विषयतासंसर्गेणोत्तरपदार्थे विशेषणत्वसंभवेन नञ्‌तत्पुरुषे उत्तरपदार्थप्राधान्यं निर्वोढुं शक्यंमित्युक्तत्वादत आह-द्योत्यत्वोक्तिरिति। निपातमात्रस्य द्योतकत्वमिति वैयाकरणसिद्धान्तानुरोधादारोपितत्वं नञ्‌द्योत्यमित्युक्तं, नतु प्रकृते वाचकत्वस्वीकारे काचित्क्षतिरिति बोध्यम्। प्रादयो द्योतकाः, चादयो वाचका इति नैयायिकमतं त्वयुक्तं वैषम्ये बीजाभावादिति मूलकृदेवाग्रे निरूपयिष्यति। वस्तुतस्तु आरोपस्य नञ्‌द्योत्यत्वमेव युक्तं, वाच्यत्वे दोष उक्त एवेति भाष्यानुसारिण आहुः।। 40 ।।
पक्षान्तरमवतारयितुं भूमिकामारचयति-घटो नास्तीति। घटकर्तृकसत्ताभाव इति सर्वजनीनबोधान्नञ आरोपार्थकत्वं न कस्याप्यनुभसिद्धं, सद्वदब्राह्मण इत्यादिसमासघटकनञोऽप्यारोपार्थकत्वमनुभवविरुद्धं, सर्वानुभवसिद्धाभावार्थापलापकं चेत्यत आह-अभावो वा तदर्थोऽस्तु इति। सर्वनाम्नां प्रधानपरामर्शित्वस्यौत्सर्गिकत्वेन `क्रय्यस्तदर्थे'(पा.सू.6-1-83)इत्यत्र विशेषणीभूतस्यापि प्रकृत्यर्थस्य क्रयणस्य तच्छब्देन परामर्शवत्प्रकृतेऽपि नञ्‌द्योत्यमित्यत्र विशेषणतयोपस्थितस्यापि नञस्तदर्थेत्यत्रत्यतच्छब्देन परामर्श इत्याशयेनाऽऽह--तदर्थः-नञर्थ इति। अर्थपदमिति। प्रकृतस्थलेऽर्थपदं नञ्‌पदजन्यबोधविषयार्थपरम्। तेन द्योत्यत्ववाच्यत्वयोर्द्वयोरपि संग्रहः सिद्धः, न त्वन्यत्रेव शब्दवाच्यार्थपरमित्याशयः। भाष्यस्येति। `निवृत्तपदार्थकः' इति भाष्यस्येत्यर्थः। तादृशभाष्यस्यार्थमाह-निबृत्तं पदार्थो यस्येति। भावे क्त इति। वृतुधातोर्नपुंसके भावे क्त इति सूत्रेण क्तप्रत्यये सति निवर्तनमित्यर्थको निवृत्तशब्दः। निवर्तनमभावः। तथा च यस्य-नञः पदार्थो निवृत्तमभाव इत्यर्थः। तदेतदाह-अभावार्थक इति। तदाशयादिति। अभावार्थको नञिति भाष्यतात्पर्यादित्यर्थः। ननु कैयटेन निवृत्तपदार्थकः' इति भाष्यस्य यदन्यथावर्णनं कृतं तद्भाष्यतात्पर्यविरुद्धमिति कैयटोक्तिमनुवदति यत्त्वित्यादिना। निवृत्तःपदार्थो यस्मिन्निति। क्षत्रियादिरन्यपदार्थः। यस्मिन् क्षत्रियादौ ब्राह्मण्यरूपः पदाथा निवृत्तस्तत्त्वतो नास्ति। अर्थात् सादृश्यादिनाऽध्यारोपितब्राह्मण्याः क्षत्रियादयोऽदेर्नञ्‌वाच्यत्वाभावादित्यर्थः। आरोपापेक्षया लाघवाल्लोकप्रसिद्धेश्चाभावस्यैव नञ्‌वाच्यत्वाभ्युपगमस्य न्याय्यत्वादिति भावः। अन्यथेति। उक्तवैपरीत्ये। लोकप्रसिद्ध्याद्यनादरेणाध्यारोपितब्राह्मण्यकस्य अध्यारोपितं ब्राह्मण्यं यस्मिंस्तादृशय क्षत्रियादेर्नञ्‌वाच्यत्वाङ्गीकार इत्यर्थः। सादृशस्यादेरिति। आदिशब्देनाधस्तात्पठिष्यमाणवचनस्थाल्पत्वादयो ग्राह्याः। अब्राह्मण इत्यादौ सादृश्यादेरपि प्रतीयमानत्वान्नञ्‌वाच्यताऽऽपद्येतेत्यर्थः। तत्सादृश्यमभावश्चेत्यादि पठित्वा क्रमेणोदाहरन्तीत्याह-अब्राह्मणमित्यादि। ब्राह्मणसदृश इति तदर्थः। अपापमित्यस्य पापात्यन्ताभावोऽर्थः। अनश्च इत्यस्याश्वान्य इत्यर्थः। अब्राह्मण इत्यत्र सादृश्यघटकत्वेनान्यत्वबोधः, न केवलान्यत्वबोध इति विशेषः। तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वस्य सादृश्यत्वादन्यत्वस्य सादृश्यघटकत्वं बोध्यम्। अनुदरा कन्येत्यत्राल्पादरेति बोधः। अपशवो वा इत्यस्याप्रशस्ताः पशव इत्यर्थः। अधर्म इत्यस्यमाद्धर्मविरोध्यदृष्टविशेषः प्रतीयते, नतु तद्भिन्नगात्रम्। आर्थिकार्थमिति। सर्वत्राभाव एव नञर्थः। तथा चाभावप्रतियोगी ब्राह्मण इति बोधोत्तरं सादृश्यादेर्मानसो बोधः। अभावप्रतियोगित्वेन ब्राह्मणादिबोधनाय यदब्राह्मणपदं प्रयुज्यते तत्सादृश्यादिना क्षत्रियादिबोधनार्थमित्येवंरीत्या सादृश्यस्य मानसो बोधः। अनुदरा कन्येत्यत्रोदरात्यन्ताभावस्य सर्वथाऽसंबवेनाल्पार्थे पर्यवसानम् असुर इत्यत्र सुराणां सुरपदादेव बोधसंभवेनाभावप्रतियोगित्वेन सुरघोधनार्थं यदसुरपदं प्रयुज्यते तद्विरोधित्वेन सुरद्रोहिदैत्यादिपरमित्येवंरीत्या विरोधस्य मानसो बौधः। एवमन्यत्राप्यूह्यम्। अया रीत्या सादृश्यादेरार्थिकार्थत्वमभिप्रेत्य तत्सादृश्यभावश्चेत्याद्यभियुक्तोक्तिर्नतु नञ्‌वाच्यत्वमभिप्रेत्येति भावः। ननु नञर्थाभावस्य प्रतियोगिव्यतिरिक्ते विशेषणत्वेनान्वयेऽसामर्थ्यादब्राह्मण इत्यादौ समासो न स्यादित्याशङ्गं निराचिकीर्षुराह-प्रतियोगिनीति। प्रतियौगिनिष्ठविशेष्यतानिरूपितविशेषणत्वं नञर्थाभावस्येति अब्राह्मण इत्यादेर्ब्राह्मणत्वाद्यवच्छिन्नप्रतियोगितासंबन्धेनाभावविशिष्टो ब्राह्मण इति बोधः। तथा आर्थिकः। अघटः पट इत्वत्र पटवृत्तिभेदप्रतियोगी घट इति बोधः, नञो निपातत्वात्तदर्थे पटस्य नामार्थस्याऽऽधेयतासंबन्धेनान्वयो न विरुद्धः। अघटमानयेत्युक्ते घटस्याऽऽनयनं तु न, नञ उपादानसामर्थ्यात्। शाब्दबोधोत्तरं प्रतीयमानस्य घटप्रतियोगिकाभाववत एवाऽऽनयनसंभवादिति भावः। नञ्‌समासस्योत्तरपदार्थप्रधानन्तेव फलमाह-तथा चेत्यादि। सर्वनामसंज्ञा, एकवचननियमः, तत्पुरुषत्वं, पुरुषवचनादिव्यवस्था चेति चतुर्णां प्रथमान्तपदानामुपपद्यत इत्यनेनान्वयः। सर्वनामसंज्ञेति। असर्वे, इत्यत्र नञर्थाभावस्य प्रतियोगिनि सर्वशब्दार्थे विशेषणत्वेन प्रतियोगितयाऽभावविशिष्टाः सर्वे इति बोधात्सर्वशब्दार्थस्य प्राधान्येन सर्वादित्वात्तदन्तविधिना सर्वनामसंज्ञोपपद्यते। अनेकमिति। इदमेवोत्तरपदार्थप्राधान्यस्य मुख्यं प्रयोजनम्। तथा च भाष्यम्-`इदं स्वल्वपि भूत उत्तरपदार्थप्राधान्ये संगृहीतम्। किम्? अनेकमिति। किमत्र संगृहीतं? एकवचनम्' इति। अभावप्रतियोगी एक इत्यर्थादुत्तरपदार्थप्राधान्येनानेकमित्यत्रैकवचनमुपपद्यते। एवमेव सेव्यतेऽनेकया इत्यत्राप्येकवचनं सिद्धम्। अन्यथैकभिन्नस्यानेकत्वाद्‌द्विवचनबहुवचने एव स्यातां, नन्वेकवचनमिति भावः। एवं चानेकमिति पाणिनिनिर्देश एव ञर्थाबावस्योत्तरपदार्थे विशेषणत्वे प्रमाणमित्यवगन्तव्यम्। स्वौजसिति सूत्रेण प्रातिपदिकात्सायान्यत एकवचनद्विवचनबहुवचनानि विधाय द्वयोर्दिववचनमेवावतिष्ठते, इत्यर्थात्तत्रैकवचनबहुवचनयोर्निवृत्तिः, एवं बहुषु बहुवचनमेवावतिष्ठते, तथा च तत्रैकवचनद्विवचनयोर्निवृत्तिरियेवंरीत्या द्व्येकयोरित्यादीनां नियामकत्वं स्वीकृत्यैकवचननियम इत्युक्तं सारकृता। अब्राह्मण इत्यत्र ब्राह्मणत्वावच्छिन्नप्रतियोगितासंबन्धेनाभावविशिष्टो ब्राह्मण इत्यथादुत्तरपदार्थप्राधान्यान्नञ्समासस्य तत्पुरुषत्वं सिध्यति। तदुक्तं तत्पुरुषत्वमिति। सति संभवे प्रायिकस्याप्युत्तरपदार्थप्राधान्यस्व तत्पुरुषे औचित्यमित्याशयः। अत्वं भवसीति। अभावप्रतियोगी युष्मदर्थ इति युष्पदर्थस्य प्राधान्याद्युष्मदर्थाभिन्नो यो ल़डर्थः कर्ता इत्यभेदान्वयेन युष्पदर्थस्य तिङसामानाधिकरण्याद्युष्मद्युदपदेo, इत्यनेन मध्यमपुरुष उपपद्यते। एवमनहं भवामीत्यत्रास्मद्युत्तम इत्युत्तमः सिध्यति। तथा अयुवां भवथः, अयूयं भवथेति द्विवचनादिव्यवस्था चोपपद्यते। उत्तरपदार्थप्रतियोगिकाभाव इत्येवं पूर्वपदार्थप्राधान्यस्वीकारे पुरुषादिव्यवस्था नोपपद्यत इत्याह-अन्ययेति। नञर्थाभावस्योत्तरपदार्थनिरूपितप्रायान्ये सतीत्यर्थः। इतिबदिति। त्वदभावो मदभावोऽस्तीत्यत्र यथा युष्मदस्मत्सामानाधिकरण्याभावान्न मध्यमोत्तमपुरुषौ भवतोऽपि तु युष्मदस्मदर्थप्रतियोगिकाभावेन तिङ्‌सामानाधिकरण्याच्छेषे प्रथम इति प्रथमपुरुष एव भवति, तद्वदत्वं भवसि अनहं भवामीत्यत्र युष्यदस्मदर्थस्य नञर्थाभावनिरूपितविशेषणत्वाभ्युपगमे-पूर्वपदार्थप्राधान्याम्युपगम इति यावत्, प्रथमपुरुष एव स्यात्। एवमयुवां भवथः,अयूयं भवयेति द्विवचनादिकमपि न स्यात् कर्तुरबावस्यैकत्वात्। अभावांश इति। युष्मदस्मदर्थप्रतियोगिकोऽभाव इत्यर्थाद्युष्मदस्मदर्थनिष्ठप्रकारतानिरूपितपिशेष्यताऽभावांशे सतीत्यर्थः। तिङ्‌षु असत्त्वादिति। अभावस्य प्रधानस्य तिङ्वाच्यकारकवाचित्वेनाभावसामानाधिकरण्यात्तद्विशेषणयुष्मदर्थस्य तिङ्षु सामानाधिकरण्याभावादित्यर्थः। पुरुषेति। तिबादित्रिकसंकेतितमध्यमादिपुरुषेत्यर्थः। स्वमते पुरुषादिव्यवस्थामुमपादयति-अस्मन्मते चेति। चस्त्वर्थे। अत्वं भवसीत्यादेरभावप्रतियोगी यो युष्मदर्थस्तदभिन्नाश्रयिका सत्तेत्यर्थात्तिङ्षु युष्मदाद्यर्थसामानाधिकरण्यसत्त्वात्पुरुषव्यवस्था नानुपपन्ना। ननूत्तरपदार्थप्राधान्ये अघटमानयेत्यत्राभावप्रतियोगित्वस्य घटे सत्त्वात्तद्बोधानन्तरं घटानयनमपि प्राप्नोतीत्यत आह-यिशेष्यो वेति। विशेष्यताया विशेषणातासाकाङ्क्षत्वादाह प्रतियोगिनीति। उत्तरपदार्थात्मके प्रतियोगिनीत्यर्थः। निरूपितत्वं सप्तम्यर्थः। उत्तरपदार्थात्मकप्रतियोगिनिष्ठविशेषणतानिरूपितविशेष्यतावान्नञर्थोऽभाव इत्यर्थः। तथा चाब्राह्मणः क्षत्रिय इत्यतो ब्राह्मणप्रतियोगिको(+)(+अभावश्च प्रत्यासत्त्योत्तरपदार्थगतब्राह्मणत्वादोरति ब्राह्मणत्वाभावश्च क्षत्रिय दावेव संभवतीति अब्राह्मण इत्यस्य क्षत्रियादिरर्थः।)पोऽभावस्तद्वान्‌क्षत्त्रिय इति बोधः। नन्वेवमसः, असर्वे, इत्याद्यसिद्धिरित्याशङ्क्याऽऽह-अयं भाव इति। गौणत्वेऽपीति। नञ्‌समासान्तर्गततत्तच्छब्दार्थस्य नञर्थाभावनिष्ठविशेष्यतानिरूपितविशेषणत्वेनोपसर्जनत्वेऽपीत्यर्थः। ज्ञापकादिति। अनञ्समासग्रहणाज्ज्ञापकादित्यर्थः। ज्ञापकतामेवोपपादयति-असः शिव इत्यादिना। एतत्तदोरित्यनेन सर्वनामसंज्ञकयोरेतत्तदोर्थः सुस्तस्य हलि लोपो विधीयते। नञ्‌चत्पुरुषस्य पूर्वपदार्थप्राधान्ये तद्‌घटकैतत्तदोरुपसर्जनत्वेन सर्वादिबहिर्भावात्सर्वनामत्वाभावेन सुलोपाप्राप्त्या व्यर्थं सदनञ्समासग्रहणं नञ्समासेउपसर्जनीभूतस्यापि सर्वादेः सर्वनामतां ज्ञापयतीति भावः। ननूपसर्जनत्वेऽपि अनेषो ददाति असः शिव इत्यत्रैतत्तच्छब्दसत्त्वेन सुलोपः प्राप्नोतिति तद्वारणार्थमनञ्समासग्रहणमावश्यकमिति सङ्क्यम्। न चैतत्च्छब्दार्थगतसंख्याभिधायी यः सुस्तस्य लोप इत्यर्थात्पूर्वदार्थप्राधान्ये सति नञर्थाभावगतसंख्याभिघायित्वेन सोरेतत्तच्छब्दार्थगतसंख्याभिधायित्वाभावात्सुलोपाप्राप्त्याऽनञ्समासग्रहणं व्यर्थमिति वाच्यम्। एतत्तदोरिति षष्ठ्यास्तादृशसंबन्धार्थकत्वे मानाभावात्। गपोष्टगितिवदनन्तरपदाध्याहारेण एतत्तदोरनन्तरस्य सोर्लोप इत्यर्थस्यौचित्यात्। तथा चानञ्समासग्रहणस्य चरितार्थत्वात्कथं तस्य ज्ञापकतेत्यत आह-अकोरिति। अकच्‌सहितयोः पर्युदासेनाकच्‌योग्ययोः सर्वनामसंज्ञकयोरेवतत्तदोर्ग्रहणमुचितं, संयोगवद्विप्रयोगस्याप्यशङ्खवक्त्रो हरिरित्यादौ विशेषावगतिहेतुत्वस्य क्लॄप्तत्वादिति भावः। तथा चेति। अकोरिति पर्युदासेन सर्वनामसंज्ञकयोरेवैतत्तदोर्ग्रहणे चेत्यर्थः। तथा चासः शिव इत्यादौ नञर्थाबावस्य विशेष्यत्वे तदादेरुपसर्जनन्वेन सर्वादिबहिर्भावेन सर्वनामत्वाभावादेव सुलोपाप्राप्त्याऽनञ्समासग्रहणं व्यर्थं सत्पूर्वोक्तार्थ ज्ञापमिति भावः किं चैतत्तच्छब्दमात्रग्रहणेऽपि अतितदित्यादाविवोपसर्जनेऽत्वाभावेन हल्ङ्‌यादिलोपस्य दुर्वारतथाऽनञ्समासग्रहणस्य वैयर्थ्यमित्यपि बोध्यम्। ज्ञापकमिति। नञ्समासस्य पूर्वपदार्थप्राधान्येऽपि उत्तरपदार्थप्राधान्यप्रयुक्तकार्यप्रवृत्तौ ज्ञापकमित्यर्थः। तेनात्वं भवसि, अयुवां भवथः, इत्यादौ पुरुषवचनव्यवस्थाऽपि सिध्यतीति भावः। विशेष्यानुरोधादिति। `सुबामन्त्रितेo' इत्यतोऽनुवर्तमानं सुबिति विशेष्यमेकवचनान्तमेवेति तदनुरोधाद्विशेषणेऽनैकमित्यत्रैकवचनं कृतिमिति भावः। नञ्‌समासस्य पूर्वपदार्थप्रधानत्वे सति अनैकमित्यस्य एकभिन्न इत्यर्थादेकभिन्नस्य चानेकत्वादनेकशब्दाद्‌द्विवचनं बहुवचनं वा क्रियतां, तदनुरोवादनुवर्तमाने सुबिति विशेष्ये द्विवचनं बहुवचनं वाऽस्तु नन्दग्रहिपचादिम्य इत्यत्रानुवृत्ते धातोरिति विशेष्ये धातुभ्य इति वचनविपरिणामवदिल्याशङ्क्याऽऽकिं चानेकशब्दादिति। अनेक सुबन्ते इति द्विवचने कृते बहूनां सुबन्तानां बहुव्रीहिर्न स्यात्। अन्यपदार्थे वर्तमान द्वे सुबन्ते समस्येते इति अनेकमन्यपदार्थे, इति सूत्रेण द्वयोरेव सुबन्तयोर्बहुव्रीहिविधानात्। अथानेकान्यन्यपदार्थे, इति बहुवचने कृते अन्यस्य पदस्यार्थे वर्तमानानि बहूनि सुबन्तानि समस्यन्त इत्यथांद्‌ द्वयोः सुबन्तयोर्बहुव्रीहीर्न स्यात्, इष्यते तु द्वयोर्बहूनां वा सुबन्तानां बहुव्रीहिरित्यत उभयोः संग्रहाय जात्यैकवचनं, द्वित्वे द्विवचनं, बहुत्वे बहुवचनं विधाय `एकवचनं' इति सूत्रेण सामान्यत एकवचनं विहितं, तादृशं संख्यानभिधाय्यौत्सर्गिकं वैकवचनमनेकमित्यत्र पाणिनिना कृतम्। एवं सेव्यतेऽनेकयेत्यत्रापि योषयेति विशेष्यानुरोधादनेकशब्दादुपस्थितासु योषासु प्रतिस्त्रियं सेवान्वयबोधनाय कविनैकवचनं कृतम्। नतूत्तरपदार्थप्रादान्यमादायैकवचनं कृतम्। नञर्थाभावस्योत्तरपदार्थनिष्ठविशेषणतानिरूपितविशेष्यत्वमिति पक्षे भाष्यसंमते उत्तरपदार्थप्राधान्यस्यासंभवादिति भावः। अत्र योषाशब्दो योषित्समुदायपर इत्येकवचनान्तः तथा च सेव्यतेऽनेकयेत्यादिप्रयोगानुरोधान्नञ्समासे उत्तरपदार्थप्राधान्यमङ्गीकार्यमिति यदुच्यते तत्परास्तम्। अनेकयेत्याद्येकवचनान्तत्वस्यान्यथोपपादितत्वादित्याशयः। अत एवेति। नञ्समासस्य पूर्वपदार्थप्राधान्यादेवेत्यर्थः। पतन्त्यनेके जलधेरिति। सूपपादमिति सुखेनोपपादयितुं शक्यमित्यर्थे ण्यन्तात्पदेरुपपपूर्वंकात्कर्मणि खल्। पूर्वपदार्थप्राधान्ये सति एकभिन्नमित्यर्थादेकभिन्नस्य चानेकत्वादनेके इत्यत्र बहुवचनं सूपपादमित्यर्थः। उत्तरपदार्थप्राधान्ये त्वत्रानेकशब्दस्य बहुवचनान्तत्वं नोपपद्येत, उत्तरपदरूपैकशब्दाथस्य प्राधान्यादेकवचनमेव स्यात्, समस्यमानप्रधानपदार्थगतसंख्याभिधायकत्वं तदुत्तरसुप इत्यस्यौचित्यादिति भावः। ननु यदि विशेष्यानुरोधादनेकमित्यादावेकवचनमुपपाद्यते तर्हि अवर्षाः-हेमस्त इत्यत्रापि हेमन्तरूपविशेष्यानुरोधादेकवचनान्तत्वं प्रसज्येतेति। चेन्न। गुणवचनानामाश्रयतो लिङ्गवचनानीति भाष्य एवोक्तत्वात्। एवं च नञ्‌समासस्य क्वचिदनुयोगिगते लिङ्गसंख्ये क्वचिच्च प्रतियोगिगते इति स्वीकारान्न दोष इति भावः। ननु एतत्तदोरिति सूत्रेऽनञ्‌समासग्रहणं नञ्समासस्य पूर्वपदार्थप्राधान्येनोत्तरपदार्थस्योपसर्जनत्वेऽपि सर्वनामसंज्ञायामेव ज्ञापकमुक्तं सारकृता तथा चास इत्यादेः सिद्धावपि अतंव भवसीत्यादौ पुरुषव्यवस्थाऽनुपपन्नेत्याशङ्क्य परिहरति-अत्वं भवसीत्या। दाविति। युष्मदस्मद्भिन्ने लक्षणा। नञ् तु तादृशलक्षणायां तात्पर्यग्राहकः। तात्पर्यग्राहकत्वमेवद्योतकत्वम्। नञ्‌समभिव्याहारे युष्मच्छब्दस्य युष्मद्भिन्ने वृत्तरिति यावत्। अत्वं भवसीत्यादिशब्देनानहं भवामीति ग्राह्यम्। तथा चेति। नञो द्योतकत्वे चेत्यर्थः। भिन्नेन युष्मदर्थेनेति। त्वद्भिन्नरूपयुष्मच्छब्दार्थेन। तिङः सामानाधिकरण्यादिति। युष्मच्छब्दार्थस्याभेदेन तिङर्थकर्तर्यन्वयेन तिङ्वाच्यकारकवाचित्वात्सामानाधिकरण्ये सति त्वद्भिन्नाभिन्नो यस्तिङर्थः कर्ता तन्निष्ठा भावनक्रियोति शाब्दबोदात्पुरुषव्यवस्था सिद्धा। युष्मदस्मच्छब्दार्थस्तु मुख्य एवेति नाऽऽग्रहः। त्वद्भिन्नरूपो यो युष्मदर्थस्तदभिन्नस्तिङर्थकर्तृरूप आश्रय आधारो यस्यास्तादृशी भवनक्रियेति शाब्दोऽर्थः। एवमनहं भवामीत्यत्र शाब्दबोध ऊह्यः। नञ्समासस्य पूर्वपदार्थप्राधान्येऽप्युत्तरपदार्थप्राधान्यप्रयुक्तकार्यप्रवृत्तिरित्यर्थे नञ्समासग्रहणं ज्ञापकमिति स्वीकृते तु विनाऽपि लक्षणां पुरुषव्यवस्था सिध्यतीति पूर्वमुक्तं शांकर्याम्। सारकृता तु सर्वनामसंज्ञायामेव ज्ञापकमनञ्‌समासग्रहणमित्याशयेन निरुक्तरीत्या प्रकारान्तरेण पुरुषव्यवस्था साधितेति ज्ञेयम्। प्रसज्यप्रतिषेधार्थकस्य नञोऽन्वयव्यवस्थामाह-एवमित्यादिना। त्वदभिन्नाश्रयकेति। युष्मच्छबादार्थस्याभेदेन तिङर्थकर्त्राऽन्वयाद्युष्मदर्थाभिन्न आश्रयो य.स्या एतादृशी या विक्लित्त्यनुकूला भावना-व्यापारस्तदभाव इत्यर्तः। व्यापारो भावना सैवोत्पादना सैव च क्रियेति भावनादयो व्यापारपर्यायाः। पर्यायत्वं च शक्यतावच्छेदकैक्ये सति विभिन्नशक्ततावच्छेदकत्वम्-घटाभिन्नाश्रयकेति। घटाभिन्नः-घटरूप आश्रयो यस्य, एतादृशं यदस्तित्वं-अस्तिक्रिया तदभाव इत्यर्थः। असमस्तनञ इति। प्रसज्यप्रतिषेधविषयनञ इत्यर्थः। यथाश्रुतं तु न युक्तम्। क्रियायामेवान्वयादितिन। अत्र प्रमाणं, `न युक्तं' इत्यादिकं च `संबोधनान्तं कृत्वोर्थाः' इति षोडशकारिकाव्याख्यावसरे पूर्वमेवोक्ते तत्तत्र द्रष्टव्यम्। अत्र क्रियाग्रहणं गुणस्याप्युपलक्षणम्। अत एव नञ्‌सूत्रे भाष्ये-`प्रसज्य क्रियागुणौ ततः पश्चान्निवृत्तिं करोति `त्युक्तम्। प्रसज्य-विधाय, तस्य प्रतिषेध इति तदर्थः। तेन गुणाबावबोधेऽपि प्रसज्यप्रतिषेध इति लभ्यते। गुणोदाहरणं तु-`न नः, एकं प्रियम्' इति। `नः' इति षष्ठीबहुवचनान्तम्। अत्र ह्येकप्रियनिषेधेन बहुप्रियप्रतीतिर्भवति। अत्रैकत्वं संख्यारूपो गुणस्तत्प्रतिषेधः। नोऽस्माकमेकं प्रियं नेति प्रतिषेधसामर्थ्यादेव संख्यान्तरयुक्तवस्तुप्रतीतिर्जायते। तथा च `प्रसज्य प्रतिषेधोऽयं क्रियया सह यत्र नञ्, इति प्रसज्यप्रतिषेधलक्षणेऽपि क्रियाग्रहणं गुणोपलक्षणं बोध्यम्। स चेति। नञर्थाबावश्चेत्यर्थः। अत्यन्ताभावत्व-अन्योन्याभावत्वरूपविशेषरूपेण शक्यः। आदिपदेन प्रागभावप्रध्वंसाभावौ संगृह्येते। ननु सकलाभावानुगताभावत्वात्मकसामान्यरूपेणैव नञोऽभावे शक्तिः कल्प्या लाघवात्, न त्वत्यन्ताभावत्वादिरूपविशेषरूपेण गौरवादित्याशङ्कां मनसिकृत्याऽऽह-तत्तद्रूपेण बोधादिति। अत्यन्ताभावत्वादितत्तद्विशेषरूपेण बोधस्यानुभवसिद्धत्वादित्यर्थः। यथा पचतीत्यतः फूत्कारत्वाघःसंतापनत्वादिविशेषरूपेणैव व्यापारः पतीयते, न त्वनुकूलत्वेन व्यापारत्वेन वा सामान्यरूपेण, तद्वदित्यर्थः। परमलघुमञ्जूषायां तु असमस्तस्य नञोऽत्यन्ताभावोऽन्योन्याभावश्चार्थः। तादात्म्येतरसंबन्धाभावोऽत्यन्ताभावः, तादात्म्यसंबन्धाभावोऽन्योन्याभावो भेद इत्यर्थ-। समस्तस्य तु नञोऽभाव एवार्थ इत्युक्तम्।। 41 ।।
इति वेयाकरणभूषणसारव्याख्यायां सांकर्यां नञर्थनिर्णयः।
रङ्गभट्टतनूजेन शंकरेण विनिर्मिते।
पूर्णः सारीयविवृते नञर्थस्य विनिर्मयः।। 7 ।।