वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/शक्तिनिर्णयः

← समासशक्तिनिर्णयः वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)
शक्तिनिर्णयः
[[लेखकः :|]]
नञर्थनिर्णयः →

।। वैयाकरणभूषणसारः ।।
(तत्र द्वितीयो भागः)
।। अथ शक्तिनिर्णयः ।।
प्रसङ्गसंगत्या यावत्पदेषु शक्तिं समर्थयन् भूमिकामारचयति-शक्तिप्रसङ्गदिति। समासशक्तिनिरूपणप्रसङ्गात्स्मृतस्योपेक्षानर्हत्वादित्यर्थः। तस्या इति। शक्तेरित्यर्थः। शक्तिर्नाम पदेन सह पदार्थस्य संबन्धः। स चास्मात्पदादयमर्थो बोद्धव्य इत्यर्थविशेष्यकेश्वरेच्छारूपो वा, इदं पदममुमर्थं बोधयत्विति पदविशेष्यकेश्वरेच्छारूपो वेति तार्किकाः। अमुमेवेश्वरीयसंकेत इति व्यवहरन्ति ते। नव्यतार्किकैरीश्वरेच्छा, ज्ञानं वा कृतिर्वा शक्तिरित्युच्यते। तान्निराकर्तुमादौ तत्स्वरूपं दर्शमति-इन्द्रियाणां स्वविषय इति। अस्यार्थः-यथा चक्षुरादीनां रूपादिविषयकज्ञानजननेऽनादिः पुरुषप्रयत्नानपेक्षा योग्यता, तज्जनकतावच्छेदकधर्मवत्त्वरूपा, तथा शब्दानामर्थेऽनादिः संबन्ध एव योग्यता, तद्बोधजनकतावच्छेदको धर्म इति। प्रतिपदार्थमाह--इन्द्रियाणां--चक्षुरादीनाम्, इत्यादिना। चाक्षुषपदं रासनादिप्रत्यक्षस्याप्युपलक्षणम्। अनादिर्योग्यतेत्यत्र न आदिर्थस्याः सेत्यर्थो बोध्यः। सैव शक्तिरिति। बोधकारणतारूपैव शक्तिरित्यर्थः। परे तु अर्थासंबद्धस्य शब्दस्यार्तविषयकबोधजनकत्वान्यथानुपपत्त्या कल्प्यमानशक्तिरूपसंबन्धस्य बोधजनकत्वरूपत्वं न संभवति, आत्माश्रयापत्तेः। किं च संबन्धिभिन्नत्वे सति उभयाश्रितत्वे सति विशिष्टबुद्धिनियमकत्वं संबन्धत्वम्। यो हि घटभूतलयोः संयोगवत्तदुभयस्मिन्नपि संबन्धिति वर्तते स एवं संबन्धो भवति, इच्छाया जनकत्वस्य वा पदमात्रवृत्तित्वेनोभयवृत्तित्वाभावान्न संबन्धतवम्। ननु अस्मात्पदादयमर्थो बोद्धव्य इतीच्छायां बोधस्येव पदतदर्थयोरपि इच्छाविषयत्वेन प्रतीतेः कथमिच्छाया उभयवृत्तित्वाभाव इति चेन्न। तत्र हि न पदं नापि पदार्थ इच्छाविषयः, किं तु बोध एव तादृश इति बोधनिष्ठविषयतैवेच्छाश्रयतानियामिका, न तु बोधविषयपदतदर्थनिष्ठविषयता इच्छाश्रयतानियामिका। अयं शब्दः पदार्थो वा इच्छावानिति प्रतीत्यभावात्। विषयतासंबन्धेन बोधस्यैव साक्षादिच्छाश्रयत्वे संभवति सति परम्परासंबन्धेन पदतदर्थयोरिच्छाश्रयत्वाभ्वुपगमेमानागाव इत्याशयः। ननु शब्दवदर्थस्यापि साब्दबोधे निमित्तत्वादस्त्युभयत्रापि बोधजनकत्वमिति संयोगवत्तस्य संबन्धत्वं दुर्वारमिति चेन्न। यथा दण्डचक्रयोरुभयोर्घटजनकत्वेऽपि तयोः परस्परमसंबन्धोऽनुभवसिद्धस्तद्वच्छब्दतदर्थयोरुभयोर्बोधजनकत्वेऽपि तयोः परस्परं संबन्धस्य दुरुपपादत्वात्। अपि च विशिष्टप्रतीतिनियामकस्यैव संबन्धत्वं, यथा-घटपद्‌भूतलमित्यत्र घटनिरूपितसंयोगाश्रयो भूतलमिति विशिष्टप्रतीतिनियामकत्वात्संयोगस्य संबन्धत्वं, तद्वदिच्छाया जनकत्वस्य च विशिष्टप्रतीतिनियामकत्वाभावान्न संबन्धत्वसंभवः। तस्मात्पदतदर्थयोः संबन्धान्तरमेव शक्तिः, वाच्यवाचकभावापरपर्यायेति प्राहुः। अनादिकारणताया व्यभिचारग्रस्तत्वात्संकेतज्ञानं विना बोधानुदयाच्च संकेत एव-शक्तिरस्त्विति नैयायिकः शङ्कते-ननु नेति। अनादिभूताया बोधकारणतायाः शक्तित्वं न संभवतीत्यर्थः। तस्या अशक्तित्वे हेतुमाह-आधुनिकेति। इदानींतनपित्रादिसंकेतिते चैत्रमैत्रादिनाम्नीत्यर्थः। तदभावादिति। अनादित्वविशिष्टबोदकारणताया असत्त्वादित्यर्थः। तदभावादिति। अनादित्वविशिष्टबोधकारणताया असत्त्वादित्यर्थः। यद्यपि सांप्रतिके संकेते बोधकारणताऽनुभूयते तथापि तादृशबोधकारणतायां सादित्वेनानादित्वाभावाद्विशेषणाभावप्रयुक्तो विशिष्टाभावो बोध्यः। ततश्च सांप्रतिकसंकेताच्छाब्दप्रोधो न स्यादिति भावः। नन्वाधुनिकेऽनादित्वासत्त्वे मानाभाव इत्यत आह-अन्यथेति। उक्तवैपरीत्ये। आधुनिकेऽनादित्वसत्त्व इत्यर्थः। पित्रादिसंकेतेति। यद्याधुनिकेऽनादित्वविशिष्टकारणता स्यात्तर्हि पित्रादिकृतसंकेतज्ञानशून्यसमयेऽपि ततः शाब्दबोधः प्रसज्येत। सिद्धान्तेतु न भवति, संकेतज्ञानाभावादिति भावः। लाक्षणिकेति। लाक्षाणिकस्यापि गङ्गादिपदस्य बोधजनकतया तत्रापि अनादित्वविशिष्टबोधकारणताकल्पनापत्त्या विनैव लक्षणां तीरादिबोधसंभवादतिव्याप्तिः स्यात्। अतः संकेतज्ञानमपि बोधे कारणमिति वक्तव्यम्। आवश्यकत्वादिति। संकेतज्ञानं विना बोधानुदायादवश्यापेक्षणीयत्व दित्यर्थः। स एवेति। स एव संकेत एव शक्तिरित्यङ्गीकर्तव्यमित्यर्थः। एवेनानादिबोधकारणताया निरासः। तदाह गदाधरभट्टाचार्यः शक्तिवादे-संकेतो लक्षणा चार्थे पदवृत्तिः, इति। अर्थे इति सप्तम्या निरूपितत्वमर्थः। तथा चार्थनिरूपिता घटादिपदनिष्ठा या वृत्ति स संकेतः, तीराद्यर्थनिरूपिता गङ्गादिपदनिष्ठा या वृत्तिः सा लक्षणेति विवेकः। शक्तिर्लक्षणा चेति वक्तव्ये शक्तिस्थाने संकेतवचनं पित्रादिकृतसंकेतसंग्राहार्थम्। शाब्दबोधानुकूलार्थोपस्थित्यनुकूलः पदपदार्थयोः संबन्धः शक्तिलक्षणान्यतरा वृत्तिरित्येवमेव नैयायिका मन्यन्ते। यद्यपि `गङ्गापदात्तीरबोधो भवतु' इत्याकाराया अपीश्वरेच्छायास्तीरे संभवाच्छक्त्यैव तीरबोधप्रसङ्गस्तथाऽपि तीरं गङ्गापदवाच्यमिति वियवहाराभावात्तीरार्थे गङ्गापदस्य लक्षणैव, गङ्गापदात्तीरबोधो जायतामिति विशिष्य ईश्वरेच्छाया असत्त्वानुमानात्, जलप्रवाहरूपेऽर्थे तु शक्तिरिति संप्रदायः। आधृनिके पित्रादेरिति। तत्र विशिष्य चैत्रपदजन्यबोधविषयो जायतामित्येवं भगवत्संकेताभावात्पित्रादिकृतः संकेतः, गवादौ च भगवत्संकेत इति रुंकेतमात्रं शक्तिः, न तु ईश्वरीयत्वविशेषणविशिष्टः संकेत इत्याशयः। किमयं संकेतः-स्वरूपतः, सामान्यतः, विशेषरूपेण वा हेतुरिति विकल्प्य निराकरोति-उच्यत इति। न स्वरूपेण हेतुरिति। स्वरूपसन् संकेतत्वेन विद्यमांनो हेतुर्नेत्यर्थः। तत्र कारणमाह-अगृहीतशक्तिकादिति। बहुव्रीहिरयं, पदमन्यपदार्थ। अगृहीतसंकेतादपि पदादित्यर्थः। बोधप्रसङ्गादिति। तद्धेतुभूतस्य संकेतस्य स्वरूपतस्तत्र सत्त्वादित्यर्थः। संकेतज्ञानं विना शाब्दबोधो न जायतं इत्यनुभवसिद्धमिति भावः। सामान्यतो ज्ञात इति। येन केनचिद्रूपेण ज्ञानविषयीकृतो हेतुर्नेत्यर्थः। प्रमेयत्वादिनेति। घटपटादिपदार्थ इव संकेतज्ञानेऽपि घटादिपदाच्छाब्दबोधापत्तेः। घटपदस्य कम्बुग्रीवादिमदर्थे संकेत इत्येवंरूपेण संकेतज्ञाने सत्येव ततः शाब्दबोद उदेतीत्यनुभवसिद्धमिति भावः। संकेतत्वेनेति। ईश्वरीयसंकेतत्वादिना विशेषरूपेणापि संकेतज्ञानं हेतुर्नेत्यर्थः। गवादिपदेष्वपीति। तत्रापि येषामीश्वरीयसंकेतत्वेन ज्ञानं नास्ति तेषां तत्तदर्थबोधजनकत्वशक्तिग्रहवशादेव बोधजननेन शाब्दबोदसंकेतज्ञानयोः कार्यकारणभावस्य व्यभिचरितत्वात्। व्यभिचारो नाम कार्यकारणभावभङ्गः। तत्राऽऽद्ये कारणभूतस्य संकेतस्य स्वरूपतः सत्त्वेऽपि शाब्दबोधरूपकार्याभावादन्वयव्यभिचारः, अन्त्ये संकेतज्ञानरूपकारणाभावेऽपि शाब्दबोधरूपकार्यजननाद्व्यतिरैकव्यभिचारो द्रष्टव्यः। ईश्वरीयसंकेतत्वेन संकेतज्ञानशून्यान् प्रदर्शयितुमाह-लौकिकमीमांसकादीनामिति। लौकिकाश्च मीमांसकादयश्चेत्यर्थः। लौकिकपदेनात्र पामरा निरीश्वरवादिनो मीमांसकाश्च ग्राह्याः। आदिपदेन बौद्धादयो, ये हीश्वरनास्तितां वदन्तीत्येतादृशाबोध्याः। ननु तेषामीश्वरीयसंकेतत्वेन तज्ज्ञानासंभवेऽपि संकेतत्वेन ज्ञानं संभवत्येवेत्यत आह-तत्तदर्थबोधेति। घटपदादिपदं पृथुबुध्नोदरादिमदर्थप्रत्यायकमित्येवं बोधजनकत्वज्ञानवतामेवेत्यर्थः। एवकारेण संकेतत्वप्रकारकज्ञानव्यवच्छेदः। तथा च संकेतत्वज्ञानासत्त्वेऽपि निरुक्तार्थबोधजनकत्वग्रहवशादेव शाब्दबोधोत्पत्त्या व्यभिचारात्संकेतत्वेन संकेतज्ञानमपि न हेतुः। किंत्वर्थबोधजनकत्वमेव पदस्य सक्तिरिति भावः। ननु संकेतज्ञानशून्यानां पामरादीनां घटादिपदं घटाद्यर्थबोधजनकमित्येवंबोधकारणताज्ञानमात्रादेव घटाद्यर्थबोधोदयेन संकेतज्ञानस्य शाब्दबोधहेतुत्वासंभवेऽपि बोधजनकतावच्छेदकत्वेन संकेतज्ञानस्य शाब्दबोधहेतुत्वं संभवत्येवाव्यभिचारादित्याशङ्कते-न चार्थधीत्यादि। अयं भावः-अर्थवीजनकत्वं-अर्थबोधजनकत्वं, तच्चार्थबोधजनकत्वयोग्यता, योग्यता च तदवच्छेदकधर्मत्वत्त्वं, धर्मश्च क्लृप्तत्वादीश्वरादिसंकेत एव, अक्लॄप्तकल्पनायां गौरवात्। तथा च घटादिपदे याऽर्थबोधजनकता, तस्या अवच्छेदकं-संकेत इत्यवच्छेदकत्वेन संकेतज्ञानं शाब्दबोधहेतुर्भवत्येवेति। तज्ज्ञानं-संकेतज्ञानम्। तथा-शाब्दबोधहेतुः। संकेतज्ञानसहकारेणैवार्थधीजनकतायाः शाब्दबोधहेतुत्वेन संकेतज्ञानाव्यभिचार इति भावः। एतन्न योग्यमित्याह-ततौऽपीति। अर्थधीजनकतावच्छेदकत्वेन हेतुत्वापक्षेयाऽपीत्यर्थः। लाघवेनेति। अर्थधीजनकतात्वेन हेतुताया उचितत्वेन जनकतावच्छेदककोटावर्थधीजनकतावच्छेदकत्वस्याप्रवेशाल्लाघवं भवति। अस्यायं सारः शब्द एव शाब्दबोधे कारणं, कारणता च केन रूपेणेति वीक्षायां लाघवेनार्थधीजनकत्वेनैव गृह्यते, ततश्चार्थधीजनकतावच्छेदकत्वपर्यन्तानुधावनं गुरुभूतमिति। इदं पदमर्थधीजनकतावच्छेदकवदिति ज्ञानस्य शाब्दबोधहेतुत्वे गौरवात्तदपेक्षया इदं पदमर्थधीनकतावादिति ज्ञानस्य हेतुत्वकल्पने लाघवाद्बोधकारणतैव शक्तिरिति वैयाकरणभिमतं सिध्यति। अयं भावः-इदं पदमर्थधीजनकतावच्छेदकधर्मवदित्यस्य घटाद्यर्थधीजनकतावच्छेदको यो धर्मः संकेतस्तद्वत्तदाश्रयो घटादिपदमित्यर्थः। इदं पदमिति सामान्योक्तिर्निर्विशेषं न सामान्यमिति न्यायेन वटपदं घटार्थबोधकमितिविशेषवाक्यपरिचायिका। अत्राऽऽश्रयतासंबन्धेन बोधजनकतावच्छेदकधर्मरूपः संकेतो घटादिपदे प्रकारः, अवच्छेदकता, प्रकारता चेत्युभयं तादृशधर्मरूपे संकेते वर्तत इति कृत्वा इदं पदमर्थधीजनकतावच्छेदकधर्मवदिति ज्ञानस्य घटाद्यर्थबोधजनकतावच्छेदकतावच्चिन्नसंकेतनिष्ठप्रकारताकज्ञानत्वेन हेतुत्वे गौरवात्, इदं पदमर्थधीजनकतावदित्यस्यःघटाद्यर्थभोधजनकताश्रयो वटादिपदं, अत्राऽऽश्रयता संबन्धेन घटाद्यर्थबोधजनकता घटादिपदे प्रकारः, प्रकारतावच्छेदकं बोधजनकतात्वं, प्रकारता च बोधजनकतात्वावच्छिन्नेति कृत्वा इदं पदमर्थधीजनकतावदिति ज्ञानस्य घटाद्यर्थबोधजनकतात्वावच्छिन्नप्रकारताकज्ञानत्वेन शाब्दबोधहेतुत्वकल्पनं समञ्जसं लाघवादिति। अवेदं बोध्यं-यथा अपं घट इत्याकारकं ज्ञानं विशिष्टज्ञानम्। यतोऽस्मिञ्ज्ञाने घटो घटत्वं च भासेते। तत्र घटत्वं विशेषणं, घटो विशेष्य इति कृत्वा भवतीदं घटत्वप्रकारकं ज्ञानमिति तद्वदिदं पदमर्थधीजनकमिति ज्ञानमर्थधीजनकत्वप्राकरकं भषति। यथा च दण्डो घटकारणतावच्छेदकधर्मवानिति ज्ञानं विशिष्टज्ञानम्। यतोऽत्र ज्ञाने दण्डो विशेष्यतया, घटकारणतावच्छेदकधर्मश्च विशेषणतया भासत इति कृत्वा भवतीदं घटकारणतावच्छेदकधर्मप्रकारकं ज्ञानमिति। तद्वदिदं पदमर्थधीजनकतावच्छेदकधर्मवदिति ज्ञानमर्थधीजनकतावच्छेदकधर्मप्रकारकं भवतीति। अर्थधीजनकत्वप्रकारकज्ञानस्य व्यभिचारमाशङ्कते-न चाऽऽधुनिकेति। आधुनिकसंकेते चैत्रमैत्रादौ संकेतज्ञानात्-चैत्रादिपदस्य तत्तव्द्यक्तिविशेषे संकेत इति ज्ञानादेवार्थबोधस्य जायमानत्वेन, अस्य अर्थबोधजनकताज्ञानस्य, व्यभिचारः-कारणाभावेऽपि कार्यसत्त्वाव्द्यतिरेकव्यभिचारो भवतीति शेषः। संकेतज्ञानादेवेत्येवकारेणार्थबोधजनकत्वज्ञानस्य व्यवच्छेदः। अर्थबोधजनकत्वज्ञानं विनैव केवलसंकेतज्ञानादिति यावदित्यर्थः। व्यभिचारो नेत्याह-तत्रापीति। यत्र संकेतज्ञानमात्रादर्थबोधस्तादृशस्थलेऽपीत्यर्थः। इदं पदमेनमर्थमिति। एतत्पदविशेष्यकैतदर्थविषयको यो बोधस्तादृशबोधजनकताप्रकारिका येच्छा सैव संकेत इति तादृशेच्छारूपसंकेतज्ञाने जाते सति अर्थादेतत्पदे एतदर्थबोधजनकत्वप्रकारकत्वज्ञानस्य जातत्वेनार्थधीजनकत्वरूपस्य बोधकारणस्य पदे सत्त्वाव्द्यतिरेकव्यभिचारौ नैव संभवतीत्यर्थः। नैयायिकमतेन प्रथमान्तुख्यविशेष्यकशाब्दबोधस्येष्टत्वादिदं पदमेनमर्थं बोधयत्वित्यस्य गवाद्यर्थविषयकबोधजनकताश्रयो गवादिपदमित्यर्थादिदंपदमेनमर्थं बोधयत्विति ज्ञानस्यार्थबोधजनकत्वप्रकारकज्ञानत्वेन गवादिपदेऽर्थबोधजनकत्वप्रकारकत्वस्याक्षतेः कारणाभावे कार्यसत्त्वरूपो व्यतिरेकव्यभिचारो नास्तीति यावत्। अवगाहेनेनेति। तादृशेच्छाज्ञाने पदेऽर्थबोधजनकत्वस्य विषयीकरणेनेत्यर्थः। सविषयकेच्छायामिच्छानिरूपितं यस्य प्रकारत्वं भवति तादृशेच्छाज्ञानेऽपि तस्यैव प्रकारत्वमिति नियमात्-प्रकृतस्थले एतत्पदविशेष्यकैतदर्थविषयकबोधजनकत्वमिच्छायां प्रकार इति ताद-शेच्छाज्ञानेऽप्येतत्पदविशेष्यकैतदर्थविषयकबोधजनकत्वस्यैव प्रकारत्वेन पदेऽर्थबोधजनकत्वप्रकारकत्वज्ञानस्याक्षतत्वाव्द्यभिचाराभाव इति यावत्। इतरनिरूपितविसेषणतानापन्नत्वेनार्थबोधकताज्ञानस्य कारणत्वं स्वीकार्यनित्याशङ्कते-न चेति स्वातन्त्र्येणेति। इतरनिष्ठविशेष्यतानिरूपितविशेषणतानापन्नत्वेनेत्यर्थ-। प्रकृतस्थले चेच्छायां बोधजनकत्वस्य विशेषणत्वाद्बोधजनकत्वज्ञानस्यापीच्छाविशेषणत्वान्न बोधकताज्ञानं स्वत त्रमिति भावः। अन्यथेति। विशेषणतापन्नत्वरूपपारतन्त्र्येणापि बोधकताज्ञानस्य शाब्दबोधहेतुत्व इत्यर्थः। नेदं तद्धीजनकमिति। अयमाशयः-कस्यचिच्चैत्रनाम्नः पुरुषस्य भ्रान्त्या घटपदात्पटव्यक्तेर्ज्ञानं जातम्। अथ द्वितीयस्याभ्रान्तस्याभ्रान्तत्वादेव च घटपदं पटव्यक्तिबोधजनकं नेत्येवं जानतोऽपि घटपदस्य पटव्यक्तौ शक्तिराहित्येऽपि यस्माच्चैत्रेण घटपदात्पटरूपोऽर्थो ज्ञातस्तस्माद्घटपदस्य पटरूपेऽर्थे शक्तिरस्तीति ग्रहसंभवेन तादृशग्रहवतो मैत्रस्य घटपदात्पटरूपार्थप्रतीत्यापत्तिः स्यात्। इदं तद्धिजनकं नेत्यत्र नञर्थाभावे विशेषणतयाऽर्थबोधजनकत्वस्य सत्त्वात्। तस्माद् घटपदात्पटव्यक्तिबोधापत्तिवारणाय स्वातन्त्र्येणार्थबोधजनकताज्ञानं शाब्दबोधहेतुरित्यवश्यं वक्तव्यम्। प्रकृत्स्थले नञर्थाभावे विशेषणतया बोधजनकज्ञानसत्त्वेऽपि विशेषणतानापन्नत्वेन बोधजनकताज्ञानं नास्तीति न घटपदात्पटरूपार्थबोधो जायते। तथाचाऽऽध्रुनिकसंकेतस्थले चैत्रादाविच्छायां विशेषणतया बोधजनकताज्ञानस्य सत्त्वेऽपि स्वातन्त्र्येण बोधजनकताज्ञानं नास्तीति विशेषणाभावप्रयुक्तविशिष्टाभावाच्छाब्दबोधहेतोर्धोधजचकताज्ञानस्याऽऽधुनिसंकेतस्थले व्यभिचार एवेति चेन्नेत्याह-नेदं तद्धीजनकमिति ग्रहवत इति। घटपदं पटधीजनकं नेति ज्ञानवतोऽभ्रान्तस्येत्यर्थः। घटपदे पटधीजनकत्वाभावनिश्चयवतः पुरुषस्येति यावत्। बाधेनेति। घटपदे पटधीजनकत्वज्ञानस्याभावेनेत्यर्थः। पदे परग्रहमिति। घटपदे पटधीजनकत्वमस्तीत्याकारकं ज्ञानं मदन्यभ्रान्तपुरुषसंबन्धीत्येवं जानतोऽपीत्यर्थः। तद्‌ग्रहासंभवादिति। घटपदे पटधीजनकत्वज्ञानस्य सर्वथाऽनुदयादित्यर्थः। यस्य घटपदे पटधीजनकत्वं नास्तीति निश्चयात्मकं ज्ञानमस्ति तादृशेऽभ्रान्तपुरुषे घटपदे पटधीजनकत्वमस्तीत्येवं भ्रान्तपुरुषीयज्ञानस्य यथाकथंचिद्(अभावप्रतियोगित्वेन)सत्त्वेऽपि तावताऽभ्रान्तपुरुषस्य घटपदे पटधीजनकत्वमस्तीत्येवं ज्ञानं कथमिवोदियात्। नैवोदियादित्यर्थः। सर्वत्र कार्ये प्रतिधन्धकाभावस्यापि कारणत्वेनावश्याङ्गीकार्यत्वात् कृतस्थले घटपदे पटधीजनकत्वं नास्तीत्येवमात्मकस्य निश्चयात्मकज्ञानस्य प्रबलप्रतिबन्धकस्य सत्त्वादित्यर्थः। एवं चाभ्रान्तपुरुषस्य घटपदे पटधीजनकत्वज्ञानाभावान्न घटपदात्पटव्यक्तिज्ञानापत्तिरिति भावः। अन्यथेति। उक्तवैपरीत्ये च घटपदे पटधीजनकत्वाभावनिश्चयसत्त्वेऽपि तत्र घटपदे पटधीजनकत्वज्ञानाङ्गीकार इत्यर्थः। तदभाववति तत्प्रकारकारकं ज्ञानं भ्रान्तिज्ञानं मिथ्याज्ञानमिति तादृशभ्रान्तिज्ञानं रजतत्वाभाववत्यां शुक्तौ इदं रजतमिति रजत्वप्रकारकं ज्ञानं चैत्रस्य जातम्। तच्चैत्रायिभ्रान्तिज्ञानं-रजतत्वाभाववती शुक्ती रजतत्वेन रूपेणानेन गृहीतेत्येवं मैत्रेण ज्ञातम्। अतश्चैत्रनिष्ठभ्रान्तिज्ञो मैत्रः। स चाभ्रान्त एव। नेदं रजतमिति पुरोवर्तिनि वस्तुनि रजत्वप्रकारकत्वस्य बाधनिश्चयात्। सत्येमं चैत्रीयभ्रान्तेर्ज्ञातृत्वेन यदि मैत्रस्यापि रजतत्वाभाववद्वस्तुविशेष्यकरजतत्वप्रकारकज्ञानसत्त्वेन भ्नान्त्याश्रयत्वं स्वीक्रियते, तर्हि भ्रान्तिज्ञस्यपि भ्रन्तत्वमापद्येतेति नेदं रजतमिति बाधस्थले इदं रजतमित्येवं रजतत्वप्रकारकं ज्ञानमेव नोदेतीत्यवगन्तव्यमिति भावः। अर्थधीजनकत्वरूपायाः शक्तेर्ग्रहकमाह-इदं चेति। शब्दे विद्यमानमनादिसिद्धमर्थधीजनकत्वरूपं साभर्थ्यं पित्रादिना कृतो यः संकेतस्तज्ज्ञानाद् गृह्यते। घटपदं कम्बुग्रीवादिमदर्थस्य वाचकमित्युपदेशः संकेतः। पित्रादित्यादिपदेनाऽऽप्तो ग्राह्यः। तथा च संकेतज्ञानात्पूर्वं न शाब्दबोध इति व्यक्तम्। ननु गङ्गायां घोष इत्यादौ लाक्षणिकेऽपि गङ्गापदे तीररूपार्थबोधजनकतयाऽनादिबोदकारणतायाः शाब्दबोधहेतुभूतायाः सत्त्वात्तीरशक्तत्वमेव स्यादिति प्रसक्तां लक्षणोच्छेदापत्तिं परिहरति-नापीति। लक्षणोच्छेदापत्तिर्न दूषणं किंत्विष्टत्वाद्‌भूषणमेवेत्यर्थः। लक्षणोच्छेदस्येष्टत्वे हेतुमाह-साधारण्यादिति शक्तिग्रहकशिरोमणिर्व्यवहारो यथा शक्येऽस्ति तथा लक्ष्ये तीरेऽप्यादिति शक्तिग्रहकशिरोमणिर्व्यवहारो यथा शक्येऽस्ति तथा लक्ष्ये तीरेऽप्यस्तीत्यर्थः। यथा जलप्रवाहविशेषएऽर्थे गङ्गापदप्रयोगात्मको वृद्धव्यवहारस्थथा गङ्गातीररूपार्थेऽपि गङ्गापदप्रयोगस्य वृद्धव्यवहारे दर्शनेन शक्यलक्ष्ययोरुमयोरपि गङ्गापदप्रयोगस्य समानत्वाच्छक्यजलप्रवाह इव लक्ष्ये तीरेऽप्यस्तु गङ्गापदस्य शक्तिः। भवतु च लक्षणोच्छेदो, न काऽपि हानिः सर्वे सर्वोर्थवाचक इति भाष्येण सर्वेषामिपि शब्दानां सर्वार्थनिरूपितशक्तिमत्त्वस्य वैयाकरणसंमतत्वादिति भावः। एतेन शक्तिग्रहककोशादेरभावान्न तीरादौ गङ्गादिपदशक्तिरिति निरस्तम्। शक्तिग्राहकशिरोमणेर्व्यवहारस्य तत्र सत्त्वादिति भावः। प्रसिद्ध्यप्रसिद्धिभ्यां मुखअयलक्ष्यव्यवहार उपपाद्यः। अप्रसिद्धा शक्तिरेव लक्षणा। यथा व्यवहारादिना गङ्गादिपदानाम्वयवधानेन प्रवाहादौ विशेषरूपेण शक्तिर्गृह्यते तथआ तीरादावन्वयाद्यनुपपत्तिप्रतिसंधानात्पूर्वं विशेषरूपेण शक्तिर्न गृह्यत इत्यप्रसिद्धत्वाल्लक्षणेति व्यवहार इति भावः। ननु सर्वे सर्वार्थवाचका इति भाष्यं योगिदृष्ट्या, तेषामेव सर्वेषां शब्दानामर्थानां च विशेषरूपेण ज्ञानसंभवात्। अस्मदादीनां तु सर्वशब्दतदर्थानां विशेषरूपेण ज्ञानाबावात्सामान्यरूपेण तज्ज्ञानस्य बोधानुपयोगाच्चास्मददृष्ट्या गङ्गादिपदस्य तीराद्यर्थे शक्तिरिति वक्तुमनुचितमतस्तीराद्यर्थप्रतीत्यै गङ्गादिपदे पृथग्लक्षणावृत्तिः स्वीकार्यैव, तीराद्यर्थे गङ्गादिपदप्रयोगरूपवृद्धव्यवहारश्च लक्षणाग्राहकतयोपपन्नः, अत एव कूलं रोधश्च तीरं चेति कोशे तीरपर्यायमध्ये न गङ्गापदं पठ्यत इत्याशयेनाऽऽह-र्कि चेति। प्रत्यक्षादिजन्योपस्थितेरिति। घटपदस्य कम्बुग्रीवादिमत्यर्थे शक्तिरित्येवं घटपदशक्तिर्येन न गृहीता, तादृशस्यागृहीतशक्तिकस्य पुरुषस्य चक्षुषा घटं प्रत्यक्षीकुर्वतोऽपि घटमानयेति वाक्याच्छाब्दबोधो न जायते, गृहीतशक्तिकस्य तुजायत इति लोके दृष्टत्वादेवं सिध्यति-यच्चक्षुःसंनिकर्षादिना जायमाना अर्थोपस्थितिः शब्दबोधाङ्गं(कारणं)नभवतीति। तदुक्तं शाब्दबोदानङ्गत्वादिति)इन्द्रियार्थसंनिकर्षेण प्रत्यक्षं घटार्थोपस्थितिसत्त्वेऽप्यगृहीतशक्तिकस्य पुंसो घटशाब्दादर्थबोधाजननात्प्रत्यक्षादिजन्यार्थोपस्थितेः शाब्दबोधानङ्गत्वं(अकारणत्वमिति भावः)। एवं च यताकथंचिऽजन्यार्थोपस्थितिः शाब्दबोधे कारणमित्येवं कार्यकारणभावो वक्तुमशक्यः। कारणसत्त्वेऽपि कार्याजननेनान्वयव्यभिचारात्। किंतु शक्तिज्ञानजन्यार्थोपस्तितेर्लक्षणाज्ञानजन्यार्थोपस्थितेश्च शाब्दबोधं प्रति कारणत्वं स्वीकर्तव्यमित्यर्थः। गौरवमिति। उपर्युक्तरीत्या कार्यकारणभावद्वयकल्पनप्रयुक्तं गौरवमित्यर्थः। स्यात्-आपद्येतेति यावत्। अस्माकमिति। शक्तिग्राहकशिरोमणेर्व्यवहारस्य शक्यलक्ष्यसाधारण्याच्छक्ये प्रवाह इव लक्ष्येतीरेऽपि गङ्गापदस्य शक्तिरेवेति वादिनामस्माकं वैयाकरणानामित्यर्थः। लाघवमिति। शक्यलक्ष्योभयत्रापि पदशक्तेः सत्त्वाच्छक्तिज्ञानजन्यार्थोपस्थितिः शाब्दबोधकारणमित्येवमेक एव कार्यकारणभावः कल्प्य इति लाघवमित्यर्थः। ननु यथा जलप्रवाहविशेषो गङ्गापदवाच्य इति सर्वजनीना व्यवहारो, न तथा तीरं गङ्गापदवाच्यमिति सार्वत्रिको व्यवहार इति तीरे गङ्गापदशक्तिकल्पनमनुचितम्। तथा च लक्षणाख्यं वृत्त्यन्तरमवश्यमभ्युपेतव्यमिति युक्तिसिद्धस्य गौरवस्यादूषकत्वादाह-अपि चेति। प्रत्येकं व्यभिचार इति। अयं भावः-यथा घटत्वावच्छिन्नं प्रति दण्डत्वावच्छिन्नदण्डादि कारणं, तथा शाब्दबोधत्वावच्छिन्नं प्रति शक्तिजन्यार्थोपस्थितिर्लक्षणाजन्यार्थोपस्थितिश्चेति द्वयं कारणं, दण्डचक्रादिन्यायात्। तथा घटकारणता चक्रचीवरादिकारणसमुदायपर्याप्ता न तु चक्रादिप्रत्येक पर्याप्ता, दण्डादिव्यतिरेकेण केवलचक्राच्चक्रादिव्यतिरेकेण केवलदण्डाच्च घटकार्याजननस्य सर्वानुभवसिद्धत्वात्। तथा शक्यलक्ष्योभयविषयकशाब्दबोधकारणता पूर्वोक्तोपस्थितिद्वयपर्याप्ता, न तु प्रत्येकोषस्थितिपयांप्तेति भावः। तथा च यथा घटमात्रं प्रति दण्डचक्रादि कारणत्वेनापेक्ष्यते, तथा शाब्दयोधमात्रं(मुख्यलक्ष्योभयशाब्दबोधं)प्रति निरुक्तमुपस्थितिद्वयं कारणत्वेनापेक्ष्यते। तत्र कर्मणि कुशलः, सार्षपं तैलमित्यादौलक्षणाजन्यार्थोपस्थितिसत्त्वेऽपि शक्तिजन्यार्थोपस्थितिर्नास्ति गङ्गायां स्नातीत्यादौ शक्तिजन्यार्थोपस्थितिसत्त्वेऽपि लक्षणाजन्यार्थोपस्थितिर्नास्तीति कारणाभावेऽपि कार्यजननादुपस्थित्योः परस्परं प्रत्येकं व्यतिरेकव्यभिचार इति। व्यभिचारमेवोपपादयति-शक्तिजन्योपस्थितिं बिनाऽऽपीत्यादिना। घटमानयेत्यत्र घटस्य शक्तिज्ञानजन्योपस्थितिसत्त्वेऽपि तस्य लक्षणाज्ञानजन्योपस्थितिर्नास्ति, तथा गङ्गायां घोष इत्यत्र तीरस्य लक्षणाज्ञानजन्योपस्थितिसत्त्वेऽपि तस्य शक्तिज्ञानजन्योपस्थितिर्नास्तीति व्यभिचार इत्यर्थः। तमेतं व्यभिचारं परिहर्तुं शङ्कते-न चाव्यवहितोत्तरत्वेति। अयमाशयः-तत्तदुपस्थितिः-शत्तिजन्यार्थोपस्थितिर्लक्षणाजन्यार्थोपस्थितिश्च कारणं, कार्यं चज शाब्दबोधः। तत्र कार्यता वर्तते, तादृशकार्यसासंबन्धेन च स शाब्दबोधस्तत्तदुपस्थितिमान्। कार्यताया अवच्छेदकं चातत्तदुपस्थितिमत्त्वं, तच्च केन संबन्धेनेति जिज्ञासायामाह-अव्यवहितोत्तरत्वसंबन्धेनेति। यत्र शब्दबोधे तत्तदुपस्थित्यव्यवहितोत्तरकालभत्वं विद्यते,तादृशोत्तरकालभवत्वसमानाधिकरणमुपस्थितिमत्त्वं कार्यतावच्छेदकमित्यर्थः। तत्तद्‌वृत्तिजन्यार्थोपस्थितेरनन्तरमव्यवधानेन जायमानो यः शाब्दबोधः स एव तत्तदुपस्थितेः कार्यमिति भावः। अत्रार्थ बालहितः सरलोऽर्थसारः-कार्यनियतपूर्ववर्तिन एव कारणत्वात्सर्वं हि कार्यं कारणापेक्षयोत्तरकालभाव्येवेति प्रकृतस्थले तत्तदवृत्तिजन्यार्थोपस्थितिरूपकारणापेक्षया शाब्दबोधरूपं कार्यमुत्तरकालभवमेव। तत्रोत्तरकालभवमित्येतदघटक उत्तरकालेऽव्यवहितत्वं विशेषणं दीयते। तथा च कारणापेक्षयाऽव्यवहितो य उत्तरकालस्तादृशोत्तरकालभवत्वं यादृशशाब्दबोधे वर्तते स शाब्दबोधस्तत्तद्‌वृत्तिजन्यार्थोपस्थितेः कार्यं भवति। तत्र शक्यार्थविषयकशाब्दबोधः शक्तिजन्यार्थोपस्थित्यनन्तरमव्यवधानेन जायते, अथ च लक्ष्यार्थविषयकशाब्दबोधो लक्षणाजन्यार्थोपस्तित्यनन्तरमव्यवधानेन जायत इति कृत्वा शक्तिजन्यार्थोपस्थितेरव्यवहिसोत्तरकालभवो यः शाब्दबोधः स एव शक्चिजन्योपस्थितेः कार्यम्, एवं लक्षणाजन्यार्थोपस्थितेरव्यवहितोत्तरकालभवो य शाब्दबोधः स लक्षणाजन्योपस्थितेः कार्यम्। अर्थात् शक्यार्थविषयकसाब्दबोधं प्रति शक्चिजन्योपस्थितिः कारणं, तथा लक्ष्यार्थविषयकशाब्दबोधं प्रति लक्षणाजन्योपस्थितिः कारणमित्येवं पार्थक्येन कार्यकारणभावः फलितो भवति। कारणतावच्छेदकं च शक्यार्थविषयकशाब्दबोधस्थले शक्चिजन्योपस्थितित्वं, लक्ष्यार्थविषयकशाब्दबोधस्थले तु लक्षणाजन्योपस्थितित्वमिति। अव्यवहितोत्तरेत्यादेरयमर्थः संपन्नः-तत्पदमिष्ठशक्तिज्ञानजन्योः परिथत्यव्यवहितोत्तकालिकशाब्दबोधं प्रति तत्पदनिष्ठशक्तिज्ञानजन्योपस्थितिकारणं, तथा तत्पदनिष्ठलक्षणाज्ञानजन्योपस्थित्यव्यवहितोत्तरकालिकशाब्दबोधं प्रति तत्पदनिष्ठलक्षणाज्ञानजन्योपस्थितिः कारणमिति। अस्यार्थः-गङ्गापदनिष्ठा प्रवाहत्वाद्यवच्छिन्ननिरूपिता या शक्तिस्तज्ज्ञानजन्या या उपस्थितिस्तादृशोपस्थितेरव्यवहितोत्तरकालभवो यः शाब्दबोधस्तादृशशाब्दबोधे जननीये गङ्गापदनिष्ठशक्तिज्ञानजन्या यापस्थितिः सा कारणमिति, गङ्गापदनिष्ठा गङ्गापदशक्यप्रवाहसंबन्धितीरत्वावच्छिन्ननिरूपिता या लक्षणा तज्ज्ञानजन्या योपस्थितिस्तादृशोपस्थितेरव्यवहितोत्तरकालभवो यः शाब्दबोधस्तादृशशाब्दबोधे जननीये गङ्गापदनिष्ठलक्षणाज्ञानजन्या योपस्थितिः सा कारणमिति च। ततश्च लक्षणास्थले आदौशक्तिज्ञानजन्यप्रवाहार्थोपस्थितिः, तदनन्तरं शक्यसंबन्धरूपलक्षणाज्ञानजन्यतीरार्थोपस्थितिः, ततः परं शाब्दबोध इति क्रमाच्छक्तिजन्यार्थोपस्थिति-शाब्दबोदयोर्मध्ये लक्षणाज्ञानजन्यतीरार्थोपस्थित्या व्यवधानाच्छाब्दबोधे शक्तिजन्योपरिथत्युत्तरकालभवत्वेऽपि अव्यवहितत्वाभावाल्लक्ष्यतीरार्थविषयकशाब्दबोधः शक्तिजन्यार्थोपस्थितेः कार्यं भवितुं नार्हति, किंतु लक्षणया तीरार्थोपस्तित्यनन्तरमव्यवधानेन जायमानत्वाल्लक्षणाजन्यार्थोपस्थितेरेव स कार्यं भवति। अतौ नात्र व्यभिचारः। गङ्गायां स्नातीत्यत्र शक्तिजन्यप्रवाहार्थोपस्थित्यनन्तरमव्यवधानेन जायमानत्वाच्छक्यार्थविषयकशाब्दबोधः शक्तिजन्यार्थोपस्थितेरेव कार्यं, न लक्षणाजन्यार्थोपस्थितेः। तत्र लक्षणाया अप्रसराल्लक्ष्यार्थोपस्थितेः सर्वथाऽसंभवात्। तथआ च न तत्रापि व्यभिचार इति भावः। इति चेन्नेत्याह-अनन्तकार्यकारणेति। शक्यार्थविषयकशाब्दबोध प्रति शक्तिजन्योपस्थितिः कारणमित्यत्र शक्तिजन्योपस्तितिपदं न शक्तिजन्योपस्थितित्वेन रूपेम शक्चिजन्योपस्थितिसमान्यपरं, तथा सति सामान्यस्यामूर्तत्वेन शाब्दबोधे तदव्यवहितोत्तरत्वं वक्तुमशक्यं स्यात्। किं तु शक्तिजन्योपस्थितिव्यक्तिपरम्। तथा चोपस्थितीनामानन्त्येन तद्भेदेन कार्यकारणभावानन्त्यापत्तेरित्यर्थः। युक्तिसाम्यादाह-किं चेति। यथा शब्दबोधद्विविधपदार्थोपस्थित्येर्मध्ये कार्यकारणभावसत्त्वादेकैकस्याः पदार्थोपस्थितेरभावेऽप्यपरया पदार्थोपस्थित्या शाब्दबोधरूपकार्यजननाव्द्यतिरेकव्यभिचारोऽभिहितस्तथा पदार्थोपस्थितिरूपकार्यं प्रति शक्तिलक्षणोभयज्ञानस्य कारणत्वं वक्तव्यमिति एकैकस्य कारणस्याभावेऽप्यपरेण कारणेनोपस्थितिरूपकार्यजनगाव्द्यतिरेकव्यभिचारः। यदि तु व्यभिचारवारणाय शक्चिजन्यपदार्थोपस्थितिं प्रति शक्तिज्ञानं कारणमथ च लक्षणाजन्यपदार्थोपस्थितिं प्रति लक्षणाज्ञानं कारणमित्येवं पार्थक्येन कार्यकारणभावः कल्प्यते तदा कार्यकारणभावद्वयकल्पनप्रयुक्तं गौरवं पूर्ववद्बोध्यमित्यर्थः। ननु गङ्गादिपदस्य जलप3वाहादाविवतीराद्यर्थेऽपि शक्तिरिति सर्वत्र शाब्दबोधं प्रति शक्तिजन्योपस्थितिः कारणमित्येकविध एव कार्यकारणभाव इति लाघवमित्युक्तं तत्राप्यनेककार्यकारणभावकल्पनप्रयुक्तं गौरवमस्त्येवेत्याशङ्कते-न चेदं पदमिति। निर्विशेषं न सामान्यमिति न्यायेन घटपदं घटरूपार्थबोधकमित्यादिविशेषवाक्यानां स्वरूपबोधकमिदं सामान्यवचनम्। घटरूपार्थबोधं प्रति घटपदं घटरूपार्थबोदकमित्येवंशक्तिज्ञानं कारणं, इत्याकारकैककार्यकारणभावकल्पनेऽपि-पदतदर्थभेदेनेति। पदं च तदर्थश्च तयोर्भेदेन पदभेदेनार्थभेदेन चेत्यर्थः। अनेककार्यकारणभावकल्पने गौरवमिति। अयं भावः-घटोपस्थितिं प्रति कलशादिपदं घटरूपार्थबोधकमित्येवमर्थैक्येऽपि यथा पदभेदेनानेककार्यकारणभावकल्पनं क्रियते, तथा पदैक्येऽप्यर्थभेदेन, घटोपस्थितिं प्रति घटपदं घटरूपार्थबोधकमितिशक्तिज्ञानं कारणं, तथा पटोपस्थितिं प्रति घटपदं पटरूपार्थबोधकमितिशक्तिज्ञानं कारणमित्येवमनेककार्यकारणभावकल्पनस्याऽऽवश्यकतया सर्वत्र(शक्यलक्ष्यार्थस्थले)शक्त्यैव पदार्थोपस्थितिं वदतस्तव वैयाकरणस्याप्यनेंककार्यकारणभावकल्पनप्रयुक्तं गौरवं तुल्यमस्तीति सेषः। परस्वरव्यभिचारेति। पटोपस्थितिं प्रति पदपद्रं पटरूपार्थबोधकमिति, घटपदं पटरूपार्थबोधकमिति च शक्तिज्ञानं कारणमित्येवं पटोपस्थितौ शक्तिज्ञानद्वयरूपं कारणं क्लॄप्तम्। तत्र पटपदं पटरूपार्थबोधकमित्याकारकशक्तिज्ञानं विनाऽपि घटपदं पटरूपार्थबोधकमित्याकारकशक्तिज्ञानात्, तथा घटपदं पटरूपार्थबोधकमित्याकारकशक्तिज्ञानं विनाऽपि पदपदं पटरूपार्थबोधकमित्याकारकशक्तिज्ञानाच्च पटोपस्थितिजननात्कारणाभावेऽपि कार्यजननात्परस्परं व्यतिरेकव्यभिचार इत्यर्थः। तस्यैतस्य व्यभिचारस्य निरासाय यदि, पटपदं पटार्थबोधकं घटपदं पटार्थबोधकमित्येवंकारणीभूतद्विविधशक्तिज्ञानमध्ये यादृशशक्तिज्ञानादनन्तरमव्यवधानेन याऽर्थोपस्थितिर्जायते सैवार्थोपस्थितिस्तादृशशक्तिज्ञानस्य कार्यमित्युच्यते, यथा-पटपदं पटरूपार्थबोधकमित्याकारकशक्तिज्ञानानन्तरं जायमाना पटार्थोपस्थितिव्यवधानेन जायत इत्यव्यवधानेनैव जायमाना पटार्थोपस्थितिः पटपदं पटार्थबोधकमित्याकारकशक्तिज्ञानस्य कार्यं भवति। अयं भावः-पटार्थोपस्थितिः-कार्यं, द्विविधाकारकशक्तिज्ञानं च कारणम्। कायंतावच्छेदकं च न केवलं पटार्थोपस्थितित्वं, किं तु अवयवहितोत्तरत्वसंबन्धेन पटार्थोपस्थितित्वमेव तत्। अव्यवहितोत्तरत्वविशिष्टपटार्थोपस्थितित्वं कार्यतावच्छेदकं स्वीक्रियते इत्यर्थः। व्यभिचारनिरासायाव्यवहितत्वांशो निवेशित इति भावः। तथा च पटपदं पटरूपार्थबोधकमित्याकारकशक्तिज्ञाननानन्तरं पटपदाज्जायमाना पटार्थोपस्थितिर व्यवधानेन जायत इति कृत्वा प्रसिद्धशक्तिजन्यपटार्थोपस्थितिं प्रति पटपदं पटरूपार्थबोधकमित्याकारकशक्तिज्ञानं कारणमित्येवमेकः कायकारणभावः फलितः। अपरश्च-घटपदं पटरूपार्थबोधकमित्याकारकशक्तिज्ञानान्तरं जायमाना पटार्थोपस्थितिर्नाव्यवधानेन जायते, किं तु व्यवधानेनैव जायत इति व्यवधाने न जायमाना पटार्थोपस्थितिर्न पटपदं पटरूपार्थबोधकमित्याकारकशक्तिज्ञानस्य कार्यं, किं तु घटपदं पटरूपार्थबोधकमित्याकारकशक्तिज्ञानस्यैव सा कार्यम्। एवं चाप्रसिद्धशक्तिजन्यपटार्थोपस्थितिं प्रति घटपदं पटरूपार्थबोधकमित्याकारकशक्तिज्ञानं कारणमिति द्वितीयः कार्यकारणभावः फलितः ततश्च पृथक्‌पृथककार्यकारणभावकल्पनेन यद्यपि न परस्परव्यभिचारस्तथाऽप्यनेककार्यकारणभावकल्पनप्रयुक्तं गौरवं सुतरां-अतिशयितं भवतीति। नन्वेकस्य घटपदस्य घटपदरूपे उभयत्राप्यर्थे शक्तिसत्त्वाद्‌घट दाद्‌यटोपस्थितिव्यवधानेन, पटोपस्थितिस्तु व्यवधानेनेति वैषम्ये किं बीजमिति चेदुच्यते-तत्तदर्थे तत्तच्छब्दप्रयोगकरणरूपवृद्धव्यवहारेण तत्तच्छब्दस्य तत्तदर्थे शक्तिर्निर्धार्यते। यथा-वृद्धव्यवहारे जलप्रवाहविशेषे गङ्गापदप्रयोगदर्शनेन गङ्गापदस्य प्रवाहविशेषे शक्तिरिति ज्ञायते, तथा गङ्गायां घोष इत्यादौ तीरार्थेऽपि गङ्गापदप्रयोगदर्शनेन तीरार्थेऽपि गङ्गापदस्य शक्तिरस्तीति ज्ञायते। तत्र प्राचुर्येण प्रवाहार्थ गङ्गापदप्रयोगदर्शनात्प्रवाहविशेषे या गङ्गापदस्य शक्तिः सा प्रसिद्धा शक्तिः। तीरार्थे तु गङ्गायां घोष इत्यादौ क्वचिदेव गङगापदप्रयोगदर्शनेन तीरे या गङ्गापदस्य शक्तिः सा अप्रसिद्धा गङ्गा शब्दस्य पाठः संगच्छेत। अप्रसिद्धशक्तिस्थले च यदि प्रवाहार्थकं गङ्गापदं केनापि कारणेन तीरार्थमपि बोधयत्विति विशिष्य वक्तुस्तात्पर्यं स्यात्तर्ह्येव गङ्गापदस्य तीर शक्तिर्गृह्यते नान्यथा। प्रकृतस्थले कम्बुग्रीवादिमदर्थे घटपदस्य प्राचुर्येण प्रयोगदर्शनात् तादृशार्थे घटपदस्य शक्तिः प्रसिद्धा, पटार्थे तु क्वचिदेव घटपदप्रयोगदर्शनेन पटार्थे घटपदस्य या शक्तिः साऽप्रसिद्ध भवति। एवं च पटोपस्थितिरथ च शक्तिज्ञानमित्यनयोः कार्यकारणयोर्मध्ये वक्तृतात्पर्यज्ञानेन व्यवधानाद् घटपदं पटरूपार्थबोधकमित्याकारकशक्तिज्ञान ज्जायमाना पटार्थोपस्थितिर्व्यवधानेनैव जायत इति सा द्वितीयशक्तिज्ञानस्यैव कार्यं, न प्रथमशक्तिज्ञानस्येति बोध्यम्। किं च गङ्गादिपदात्प्रवाहत्वाद्यवच्छिन्नविषयकशाब्दबोधे गङ्गापदनिष्ठप्रवाहत्वावच्छिन्ननिरूपितशक्तिज्ञानजन्योपस्थितिः कारणं, तीरत्वावच्छिन्नविषयकशाब्दबोधं प्रति गङ्गापदनिष्ठतीरत्वावच्छिन्ननिरूपितशक्तिज्ञानजन्योपस्थितिः कारणमित्यादिरीत्या लक्ष्यार्थस्यानेकत्वात्कार्यकारणभावानेकत्वकल्पना भवतीत्यर्थः। एवं च शाब्दबोधं प्रति शक्तिजन्योपस्थितिः कारणमित्येक एव कार्यकारणभाव इति वदन्तं वैयाकरणं प्रति लक्षणावृत्त्यङ्गीकर्त्राऽनेककार्यकारणबावकल्पनप्रयुक्तं गौरवं प्रदर्शितमिति भावः। ननु लक्षणावृत्त्यनङ्गीकर्तुर्मम मते यद्यपि गौरवं समस्ति तथाऽपि मम मते कार्यकारणभावद्वयं, लक्षणावृत्त्यङ्गीकर्तुस्तव मते तु कार्यकारणभावत्रयमित्येवंरीत्या मदपेक्षयाऽप्यधिकं गौरवं लक्षणावृत्तिस्वीकर्तुमतेऽस्तीति प्रदर्शयितुमाह वैयाकरणः शक्तिभ्रमानुरोधेनेति। यदा च घटपदस्य पटार्थे शक्तिरस्तीति कस्यचिद्‌भ्रमो जातस्तदा घटपदात्पटोपस्थितेः सर्वसंमततया पटोपस्थितिकारणीभूतशक्तिज्ञाने पटपदं पटरूपार्थबोधकं, घटपदं पटरूपार्थबोधकमित्येवं बोधकघटपटादिपदस्य बोध्यपटादेरर्थस्य च निवेश आवशअयक इति घटपटादितत्तत्पदभेदन घटपदादितत्तदर्थभेदेन चानन्तकार्यकारणभावकल्पप्रयुक्तं गौरवं ममेव लक्षणावृत्तिस्वीकर्तुस्तवाप्यस्त्येव, परं तीरार्थोपस्थितिं प्रति गङ्गापदं लक्षणया तीररूपार्थबोधकमित्येवं लक्षणाज्ञानकार्यकारणभावकल्पनप्रयुक्तं गौरवं मदपेक्षया तवातिरिक्तं भवति। मम तु तक्षणाज्ञानकार्यकारणभावकल्पनं न कर्तव्यं भवति, अप्रसिद्धशक्तिज्ञानकार्यकारणभावेनैव भ्रमस्य लक्षणायाश्च संग्रहात्। एवं च मम प्रसिद्धाप्रसिद्धशक्तिद्वयसंबन्धिकार्यकारणभावद्वयमेव, तव तु पटोपस्थितिं प्रति पटपदं पटरूपार्थबोधकमित्येवं प्रसिद्धशक्तिज्ञानकार्यकारणभावोऽस्त्वेव, शक्तिभ्रमदशायां घटपदाज्जायमानपटोपस्थितिनिर्वाहार्थं पटोपस्थितिं प्रति घटपदं पटरूपार्थबोधकमित्याकारककार्यकारणभावोऽप्यावश्यकः, अथ च तीरार्थोपस्थितिं प्रतिगङ्गामदं लक्षणया तीररूपार्थबोधकमित्याकारकलक्षणाज्ञानकार्यकारणभावस्तृतीऽधिक इति कार्यकारणभावत्रयमिति भावः। यथा लक्षणानङ्गीकर्तृवैयाकरणमते शाब्दबोधं प्रति शक्तिजन्योपस्थितिः कारणं, पदार्थोपस्थितिं प्रति च शक्तिज्ञानं कारणमित्येवमेक एव कार्यकारणभावस्तथा लक्षणाङ्गीकर्तुर्ममापि मत एक एव कार्यकारणभाव इत्याह-अथ वृत्तिजन्येत्यादि। शाब्दबोधं प्रति वृत्तिजन्यपदार्थोपस्थितिः कारणं, पदार्थोपस्थितिं प्रति च वृत्तिज्ञानं कारणमित्येवं सामान्यतः कल्पनादेक एव कार्यकारणभावो मया लक्षणाङ्गीकर्त्रा स्वीक्रियते। उपस्थितित्वेनैवेत्येवकारेण, शक्तिज्ञानजन्योपस्थितित्वेन लक्षणाज्ञानजन्योपस्थितित्वेन चेत्येवं पार्थक्येन शाब्दबोधहेतुत्वस्य व्यावृत्तिः। तथा च लक्षणावृत्तिस्वीकर्तुर्ममापि मत एव एव कार्यकारणभाव इति न गौरवमति चेत्तदेतत्खण्डयितुमाह-इति चेन्नति। शक्तिलक्षणान्यतरेति। अयं भावः-शक्तिजन्यपदार्थोपस्थितौ, लक्षणाजन्यपदार्थोपस्थितौ च शक्तिलक्षणोभयगतवृत्तित्वावच्छिन्नजन्यत्वस्य सत्त्वादेक एव कार्यकारणभाव इति हि तवाऽऽशयः। परं वृत्तिजन्यपदार्थोपस्थितिरित्यत्र शाब्दबोधहेतुपदार्थोपस्थितिकारणं या वृत्तिस्तत्रत्यकारणताया अवच्छेदकं वृत्तित्वं वाच्यम्। परं तु वृत्तित्वं नाम किमिति तत्स्वरूपज्ज्ञिसायां शक्तिलक्षणान्यतरत्वं, अथवा शाब्दबोधे हेतुर्या मदार्थोपस्थितिस्तदनुकूलस्तज्जनको यः पदपदार्थयोः संबन्धस्तत्त्वं वृत्तित्यमिति वक्तव्यम्। किं तु तादृशवृत्तित्वस्य कारणतावच्छेदकत्वस्वीकारे गौरवं भवतीत्याह-गौरवादिति। अयमर्थः-अन्यतरत्वस्य द्विभिन्नभिन्नत्वमर्थः। यथा घटः पटो वा घटपटान्यतरो भवति। द्वाभ्यां घटपटाभ्यां भिन्नो यः पाषाणादिस्तद्भिन्नत्वं घटे वा पटे वा इति घटप्रतियोगिकः पटप्रतियोगिकश्चेत्येवं प्रतियोगिभेदभिन्नो यो भेदस्तादृशभेदद्वयावच्छिन्ना या पापाणादिनिष्ठा प्रतियोगिता, तादृशप्रतियोगिताकभेदवान् घटः पटो वा भवति, तद्वच्छक्तिलक्षणान्यतरत्वस्य शक्तिलक्षणाभ्यां भिन्नो याषाणादिस्तद्भिन्नत्वं शक्तौ लक्षणायां च वर्तत इति कृत्वा शक्तिलक्षणाप्रतियोगिक्रभेदद्वयावच्छिन्नप्रतियोगिताकभेदवत्त्वाभिन्नस्य शक्तिलक्षणान्यतरत्वरूपस्य, शाब्दबोधहेत्वित्यादिसंबन्धत्वमित्यन्तेनोक्तस्य वा वृत्तित्वस्य शक्तित्वापेक्षया गुरुशरीरत्वादित्यर्थः। तथा चास्मदभिप्रेतशाब्दबोधजनकतात्वरूपशक्तित्वापेक्षया निरुक्तस्य द्विविधवृत्तित्वस्य गुरुत्वान्न शाब्दबोधं प्रति वृत्तिजन्यपदार्थोपस्तितिः कारणमित्येवं कार्यकारणभावो वक्तुं युक्ता इति भावः। एवं पूर्वोक्तद्विविधवृत्तित्वे गौरवलक्षणं दूषणमभिधाय, शाब्दबोदहेतुपदार्थोपस्थित्यनुकूलेत्यादिना यद्‌द्वितीयं वृत्तित्वस्वरूपमुक्तं तत्र दूषणान्तरमभिधत्ते-शाब्दबोधहेतुतावच्छेदकस्य पदार्थोपस्थितिवृत्तेरज्ञान इति। शाब्दबोधं प्रति पदार्थोपस्थितिः कारणं,पदार्थोपस्थितिं प्रति च वृत्तिज्ञानं कारणमित्येवं शाब्दबोधे कार्यक्रारणभावमुक्त्वा शाब्दबोधकारणपदार्थोपस्थितावपि कार्यकारणभावस्योक्यत्वाच्छाब्दबोधे न केवलपदार्थोपस्थितिः कारणं, किं तु वृत्तिज्ञानजन्यपदार्थोपस्थितिः कारणमिति सिध्यति। तथा च वृत्तिज्ञानजन्यपदार्थोपस्थितौ शाब्दबोधकारणता, तादृशकारणताया अवच्छेदकं-वृत्तिज्ञानजन्यपदार्थोपस्थितिम्। एतदेव शाब्दबोधहेतुतावच्छेदकम्। पदार्थोपस्थितिवृत्तेरिति पदार्थोपस्थितौ वृत्तिः स्थितिर्यस्येति बहुव्रीहिणा शाब्दबोधहेतुतावच्छेदकस्य विशेषणण्। बहुव्रीहेर्भाषितपुंस्कत्वात्पुंवत्त्वम्। तथा च पदार्थोपस्थितिनिष्ठस्य शाब्दबोधहेतुतावच्छेदकस्यवृत्तिज्ञानजन्यपदार्थोपस्थितित्वरूपस्याज्ञाने--ज्ञानाभावे सतीत्यर्थः। असंभवादिति। अयं भावः-हेतुतावच्छेदकं-कारणतावच्छेदकम्। `यद्धर्मविशिष्टं कारणं भवति स धर्मः कारणतावच्छेदकः' यथा घटं प्रति दण्डत्वधर्मविशिष्ट एव दण्डः कारणमतो दण्डत्वं कारणतावच्छेदकम्। इति नियमादवच्छेदकज्ञानं विनाऽवच्छेद्यज्ञानं न संभवति। प्रकृतस्थले द्वितीयवृत्तित्वलक्षणे पदार्थोपस्थित्यनुकूलरतज्जनको यः पदपदार्थयोः संबन्धस्तत्त्वं वृत्तित्वमिति पदार्थोपस्थितिवृत्त्योः कार्यकारणभावो निर्दिष्टः। तत्र वृत्तिनिष्ठकारणताया अवच्छेदकं वृत्तित्वं वक्तव्यम्। परं तु निरुक्तवृत्तित्वस्य शक्तित्वापेक्षया गुरुत्वाद गुरुधर्मस्य च `संभवति लघौ गुरौ तदभावः' लघुधर्मे अवच्छेदकत्वकल्पने संभवति गुरुधर्मेऽवच्छेदकत्वं न कल्पनीयम्, अत एव प्रमेयवह्निमान् धूमादित्यत्र प्रमेयवन्हित्वस्य गुरुधर्मत्वात्तत्र साध्यतावच्छेदकत्वमनादृत्य प्रमेयवन्हित्वसमनियतस्य केवलवन्हित्वस्यैव साध्यतावच्छेदकत्वं स्वीकृतं लघुत्वात्, इति नियमेनानवच्छेदकत्वाद्‌वृत्तित्वरूपमवच्छेदकमप्रसिद्धमिति कारणतावच्छेदकस्याज्ञानाद् वृत्तिनिष्ठकारणत्वं दुर्ग्रहं, कारणत्वज्ञानस्य कारणतावच्छेदकज्ञानाधीनत्वात्। तथा च कारणत्वेन वृत्तेरज्ञानाद्‌वृत्तिः कारणमिति वक्तुमशक्यं, अतः पदार्थोपस्थितिवृत्त्योः कार्यकारणभावाज्ञानम्। एतादृशवृत्तिज्ञानकार्यकारणभावाज्ञानादेव च वृत्तिज्ञानघटितस्य वृत्तिज्ञानजन्यपदार्थोपस्थितित्वरूपस्य शाब्दबोधकारणतावच्छेदकस्याज्ञानं, वाक्यार्थज्ञानं प्रति वाक्यघटकीभूतयावत्पदपदार्थज्ञानस्य कारणत्वात्, तथा च स्वघठकीभूतवृत्तिज्ञानाभावप्रयोज्यो वृत्तिज्ञानजन्यपदार्थोपस्थितित्वरूपशाब्दबोधकारणतावच्छेदकज्ञानाभावः, तादृशकारणतावच्छेदकज्ञानाभावादवच्छेदकज्ञानाधिनाया अवच्छेद्यायाः पदार्थोपस्थितिनिष्ठायाः शाब्दबोधकारणताया अप्यज्ञानाच्छाब्दबोधं प्रति पदार्थोपस्थितिः कारणमित्यस्य वक्तुमशक्यत्वेन शाब्दबोधवृत्तिज्ञानजन्यपदार्थोपस्थित्योर्मिथः कार्यकारणभावस्य सुतरां दुर्ववत्वात् वृत्तिज्ञानजन्यपदार्थोपस्थितेः कारणत्वेन, शाब्दबोधस्य च कार्यत्वेन ज्ञानाभावादिति भावः। अत्र शाब्दबोधकस्य हेतुवृत्तेरिति च समानाधिकरणे षष्ठ्यौ। तथा च पदार्थोपस्थितिनिष्ठा, या शाब्दबोधहेतुता-शाब्दबोधकारणता, तस्या अवच्छेदकं किमिति जिज्ञासायामाह-पदार्थोपेति। पदार्थोपस्थितेर्हेतुभूता या वृत्तिस्तस्या ज्ञानाभावे सतीत्यर्थः। तत्र यद्यपि शाब्दबोधकारणता, पर्याप्तिसंबन्धेन वृत्तिज्ञानजन्यपदार्थोपस्थितिनिष्ठा भवति तथाप्याश्रयतासंबन्धेन तद्‌घटकवृत्तिनिष्ठाऽपि भवति। यथा घटकारणतायाः पर्याप्तिसंबन्धेन दण्डचक्रचीवरादिनिमित्तसमुदाये सत्त्वेऽपि आश्रयतासंबन्धेन केवलदण्डेऽपि तत्सत्त्वाद्, घटकारमता दण्डे इत्युच्यते तद्वदिति भावः। तादृशवृत्तेरज्ञानं च शाब्दबोधहेतुतावच्छेदकस्येति संबन्धार्थे षष्ठीति हेतुतावच्छेदकसंबन्धिनी नाम शाब्दबोधहेतुतावच्छेदककुक्षिप्रविष्टा या पदार्थोपस्थितिहेतुवृत्तिरित्यर्थो युक्त इति मे भाति। यद्वा नागृहीतविशेषणा बुद्धिर्विशेष्य उपजायत इति न्यायेन विशिष्टवद्धिं प्रति विशेषणज्ञानस्य कारणत्वाद्विशेषणीभूतवृत्तित्वज्ञानं विना तद्विशिष्टाया वृत्तेर्ज्ञानासंभवादादौ वृत्तित्वज्ञानमावश्यकमिति पर्यालोच्य शाब्दबोत्रहोत्वित्यादिना पदपदार्थयोः संबन्धत्वमित्यन्तेन द्वितीयलक्षणेन वृत्तित्वस्वरूपं प्रदर्शितम्। तत्र पदार्थोपस्थितौ शाब्दबोधहेत्विति विशेषणदानात्पदार्थोपस्थितौ शाब्दबोधहेतुत्वज्ञानावश्यकत्वेन शाब्दबोधहेतुत्वविशिष्टा या पदार्थोपस्थितिस्तदनुकूलस्तज्जनको यः पदपदार्थयोः संबन्धस्तत्त्वं वृत्तित्वमित्यर्थः। तथा च पदपदार्थसंबन्धत्वरूपवृत्तित्वज्ञाने शाब्दबोधपदार्थोपस्थित्योः कार्यकारणभावज्ञानं कारणं, शाब्दबोधपदार्थोपस्थित्योः कार्यकारणभावज्ञाने च पदपदार्थसंबन्धत्वरूपवृत्तित्वज्ञानं कारणमित्यन्योन्याश्रयेण वृत्तित्वज्ञानासंभवेन तद्विशिष्टवृत्तिज्ञानस्याप्यसंभवेन शाब्दबोधं प्रति वृत्तिज्ञानजन्यपादार्थोपस्थितिः कारणमित्येवं वृत्तिज्ञानघटितः शाब्दबोधपदार्थोपस्थियोः कार्यकारणभावो दुर्वच इत्यर्थो बोध्य-।
ननु लक्षणाङ्गीकर्तृमतेऽपि पदार्थोपस्थितिं प्रति शक्तिज्ञानं कारणमथ त लक्षणाज्ञानं कारणमित्येवं भेदेन न पदार्थोपस्थितिकारणता, किं तु पदार्थोपस्थितिं प्रति शक्तिज्ञानं कारणमित्येवमेकरूपेण शक्तिज्ञानत्वेनैव पदार्थोपस्थितिकारणतेत्याशङ्कते-अथ ममापीति। लक्षणानङ्गीकर्तुस्तवेव लक्षणाङ्गीकर्तुर्ममापीत्यर्थः। अत्र मत इति शेषः। शक्तिज्ञानत्वेनैवेति। न तु शक्तिज्ञानत्वेन, लक्षणाज्ञानत्वेन चेत्यर्थः। हेतुतेति। शाब्दबोधं प्रति, तदनुकूलपदार्थोपस्थितिं प्रति च हेतुतेत्यर्थः। तथा च नैयायिकादिमतेऽपि शाब्दबोधं प्रति शक्तिजन्योपस्थितिः कारणं, पदार्थोपस्थितिं प्रति च शक्तिज्ञानं कारणमित्येकैक एव कार्यकारणभावा इति भावः। ननु `शक्यादशक्योपस्थितिर्लक्षणा' इति पक्षे लक्षणायाः शक्तिघटितत्वं नास्ति। प्रवाहादेरूपो यो वस्तुतो गङ्गादिपदशक्यार्थस्तस्मादेव तीराग्यर्थोपस्थितेः संभवात्। नास्ति च शक्तिज्ञानस्य तीराद्यर्थोपस्थितिं प्रत्युपयोग इत्याशङ्क्याऽऽह--शक्यसंबन्धेति। शक्यस्य-शक्त्योपस्थितार्थस्य, सबन्धः-तत्संबन्धिनि संबन्धः, अर्थान्मुख्यार्थवाचकपदस्यामुख्येऽर्थे या वृत्तिः सा लक्षणा। शब्दस्यार्थबोधनाय द्वौ व्यापारौ मुखअयोऽमुख्यश्च। तत्र पदेन सह पदाथस्य यः साक्षात्संबन्धः स मुख्यो व्यापारः, शक्तिरभिधेति च भण्यते। यत्र तु मुख्येऽर्थेन्वयाद्यनुपपत्तिस्तत्रामुख्यो व्यापारो गृह्यते स एव लक्षणेत्युच्यते। अर्थात् पदेन सह पदार्थस्य यः शक्यपरम्परया संबन्धः सलक्षणेत्यर्थः। यथा गङ्गायां घोषं इत्यत्र गङ्गापदस्य शक्यार्थो जलप्रवाहविशेषः, तत्र घोषपदशक्यार्थस्याऽऽभीरपल्लीरूपस्यान्वयाद्यनुपपत्तिरस्ति, न हि जलप्रवाहे घोषस्य साक्षात्संबन्धः संभवति। तथा सति तस्यापि प्रवहणापत्तेः। प्रवाहरूपस्य मुख्यार्थस्य तु साक्षात्संबन्धस्तीरे गृहीतः, तस्माद्यः प्रवाहस्य तीर संबन्धः स एव गङ्गापदस्य तीररूपार्थबोधनाय लक्षणाव्यापार इत्यर्थः। अत्र शक्येत्यस्य शक्योपस्थितेत्यर्थाद्विशेषणतया शक्तेः प्रवेशः। तथा च गङ्गापदशक्यप्रवाहसंबन्धितीरमित्याकारक एव लक्षणाज्ञाने हेतुः, न तु प्रवाहसंबन्धितीरमित्याद्याकारक इत्याशयः। एवं च स्वशक्यसंबन्धरूपलक्षणायां विशेषणतया शक्तेः प्रवेशाल्लक्षणास्थलेऽपि पदार्थोपत्स्थितौ परम्परया शक्तिज्ञानमेव कारणं शाब्दबोधे च शक्तिजन्यपदार्थोपस्थितिः कारणमिति शक्तित्वेनव कार्यकारणभाव इति, तदश्रद्धेयमित्याह-इति चेन्नेति। शक्तिज्ञानेति। पदार्थोपस्थितिशक्तिज्ञानयोः कार्यकारणभाव इत्यर्थः। समानविषयत्वस्येति। तदर्थविषयकोपस्थितिं प्रति तदथेनिरूपिततत्पदनिष्ठशक्तिज्ञानं कारणम्, घटरूपार्थोपस्थितिं प्रति घटरूपार्थनिरूपित घटपदनिष्ठा या शक्तिस्तज्ज्ञानं कारणमिति तदर्थः। अत्र घटादिपदस्य घटत्वविशिष्टार्थे शक्तिरिति घटत्वविशिष्टविषयकशक्तिग्रहसत्त्वात्पदार्थोपस्थितिरपि घटत्वविशिष्टविषयिकैव स्वीक्रियते प्रत्यासक्तिन्यायात्। तथा च यद्विषयकः शक्तिग्रहस्तद्विषयिकैव पदार्थोपस्थितिरिति उपस्थितिशक्तिग्रहयोः समानाकारकत्वप्रवादः। एवं च घटत्वविशिष्टविषयकः शक्तिग्रहश्चेत्तर्हि घटत्वविशिष्टविषयिकैवोपस्थितिः, न तु तीरत्वविशिष्टविषयिकेति भावः। एवं घटत्वविशिष्टघटविषयिकोपस्थितिश्चेत्तर्हि साब्दबोधोऽपि घटत्वविशिष्टघटविषयक एव, नान्यविषक इत्यपि बोध्यम्। मूले शक्तिज्ञानपदार्थोपस्थित्योरित्यस्य शक्तिज्ञानशाब्दबोदयोरुपलक्षणत्वात्। अन्यथेति। उक्तवैपरीत्ये। शक्तिज्ञानपदार्थोपस्थियोः कार्यकारणभावे समानविषयकत्वास्वीकार इत्यर्थः। संबन्धाग्रहवत इति। अनेन लक्षणाख्यवृत्तिज्ञानाभावः सूचितः। गङ्गातीरयोः संबन्धग्रहे तु प्रवाहो गङ्गापदशक्य इति ज्ञानात्तीरोपस्थितिरिष्टैवेत्यपि सूचितम्। येन जलप्रवाह-तीरयोः संबन्धो नैव गृहीतः, अथ च जलप्रवाहविशेषे गङ्गापदस्य शक्तिर्येन गृहीता, तादृशस्यापि पुरुषस्य गङ्गापदात्तीरबोधापत्तिः स्यात् सत्त्वादिति। पदार्थोपस्थितिहेतुभूतं यच्छक्तिज्ञानं तस्य सत्त्वादित्यर्थः। शक्तिज्ञानपदार्थोपस्थित्योः समानविषयत्वनियमाभावादिति भावः। यस्य पुरुषस्य देवदत्तश्चेत्रपितेति चैत्रेण सह विद्यमानस्य देवदत्तसंबन्धस्य ज्ञानमस्ति, परं तु मैत्रेण सह विद्यमानो यश्चैत्रसंबन्धस्तस्य ज्ञानं सुतरां नारित सोऽसौ पुरुषो देवदत्तदर्शनात्तत्संबन्धिनं चैत्रं स्मरेदिति युक्तं, चैत्रेण सह विद्यमानस्य देवदत्तसंबन्धस्य तेन गृहीतत्वात्, किं तु चैत्रस्मरणद्वारा तत्संबन्धिनं मैत्रं कथमपि चन स्मरेत्, मैत्रेण सह विद्यमानस्य चैत्रसंबन्धस्य तेन सर्वथाऽगृहीतत्वात्। तद्वद् गङ्गापदस्य प्रवाहेण सह विद्यमानो यः संबन्धः स येन ज्ञातः, किंतु तीरेण सह वस्तुतो विद्यमानो यः प्रवाहसंबन्धः स तु नैव ज्ञातः, सोऽयं ज्ञानाज्ञानवान् पुरुषो गङ्गापदश्रवणात्तत्संबन्धिनं प्रावहं स्मरेत्, परं प्रवाहस्मरणद्वारा तत्संबन्धि तीरं नैव स्मरेत्, तीरे विद्यमानस्य प्रवाहसंबन्धस्य तेन सर्वथाऽगृहीतत्वादित्यर्थः। परं तु समानविषयकत्वमनिवेश्य पदार्थप्रतीतिं प्रति शक्तिज्ञानं कारणमित्येतावत्येव कार्यकरणभावेऽङ्गीक्रियमाणेऽत्र शाक्तेज्ञानसत्त्वाद् गङ्गापदात्प्रवाहप्रतीतेरिव तीरप्रतीतेरप्यापत्तिर्दुर्निवारा स्यादिति भावः। पदार्थप्रतीतिं प्रति सगनविषयकशक्तिज्ञानं कारणमित्येवं समानविषयकत्वं निवेश्य कार्यकारणभावे स्वीकृते तु नायं दोषो भवति। गङ्गापदनिष्ठशक्तिग्रहस्य प्रवाहत्वविशिष्टार्थविषयकत्वात्पदार्थप्रतीतेरपि प्रवाहत्वविशिष्टार्थविषयकत्वस्यैव न्याय्यत्वेन गङ्गापदशक्यसंबन्धि तीरमित्याकारकलक्षणाज्ञानस्य तीरत्वविशिष्टार्थविषयकत्वेन तीरत्वविशिष्टार्थप्रतीतेर्यथाकथंचिच्छक्तिविषयकत्वेऽपि शक्तिग्रहैण समानविषयकत्वाभावान्न शक्तिज्ञानात्प्रवाहस्येव तीरार्थप्रतीतिः। शक्तिज्ञानस्य प्रवाहत्वविशिष्टार्थविषयकत्वं, पदार्थप्रतीतेस्तु तीरत्वविशिष्टार्थविषयकत्वमिति शक्तिज्ञानपदार्थोपस्थित्योर्विभिन्नविषयकत्वेन न शक्तिज्ञानेन तीरोपस्थितिनिर्वाहः संभवतीति भावः। गङ्गापदप्रावाहयोः संबन्धो गृहीतः, प्रवाहतीरयोः संबन्धस्तु न गृहीतस्तादृशस्थले प्रवाहतीरयोः संबन्धाज्ञानेन लक्षणाया अभावान्न तीरस्य बोधः, किं तु प्रवाहस्यैव बोधः। अस्माकं मते तु लक्षणाया अभाव एव। प्रवाह इति तीरेऽपि गङ्गापदस्य शक्तेः सत्त्वात्प्रवाहस्येव तीरस्यापि गङ्गापदादेव शक्त्यैवोपस्थितिरिति बोध्यम्। दूषणान्तरमाह-अपि चेति। स्मरत इति घटमानयेति वाक्यं गजव्यक्तिं च समूहालम्बनविधया स्मरत इत्यर्थः। समूहालम्बनं नाम नानाप्रकारतानिरूपितं नानामुख्यविशेष्यताशालि ज्ञानम्। आलम्बनपदपत्र विषयपरं, समूहविषययकस्मरणात्मकज्ञानवत इति यावत्। वाक्यगजोभयविषयकत्वेऽपि स्मरणात्मकं ज्ञानमेकमेवात्रेति भावः। समुहालम्बनस्मरणवत इति। अत्र घटपदजन्यघटः, एकसंबन्धिज्ञानमिति न्यायेन गजपदजन्यहस्तिपकश्चेत्येतदुभयविषयकत्वं, घटहस्तिपकोभयविषयकत्वं स्मरणस्येति बोध्यम्। घटादिपदेभ्य इति। स्मृतिविषयघटमानयेति वाक्यघटकघटादिपदेभ्य इत्यर्थः। गजदिति। स्मृतिविषयगजव्यक्तेश्चेत्यर्थः। घटादेरिति। घटस्य, आनयनक्रियायाश्च पदनिष्ठशक्तिज्ञानादुपस्थितिः, हस्तिपकस्य तु नियाम्यनियामकभावसंबन्धेनोपस्तितिर्न तु शक्तिज्ञानात्, तथाऽपि समूहालम्बनात्मके पदार्थोपस्थितिरूपे एकस्मिञ्ज्ञाने पदशक्तिजन्यत्वसत्त्वाद् घटानयनवद्धस्तिपकस्यापि शाब्दबोधापत्तिः स्यात्। एतद्दोषपरिहारार्थं तद्विषयकशाब्दबोधे जननीये तदंशविषयकवृत्तिजन्योपस्थितिः कारणमित्येवं कार्यकारणभावो वक्तव्यः। यथा प्रकृतस्थले घटविषयकशाब्दबोधे जननीये घटस्य घटविषयकवृत्तिजन्योपस्थितिरस्ति, तथा हस्तिपकविषयकशाब्दबोधे जननीये हस्तिपकस्य हस्तिपकविषयकवृत्तिजन्योपस्थितिर्नास्ति, किं त्वेकसंबन्धिज्ञानन्यायेन स्मृतितिषयगजव्यक्तेः सकाशान्नियाम्यनियमामकभावसंबन्धेन गजनिष्ठहस्तिपकस्य भानान्न प्रकृतस्थले घटानयनवद्धस्तिपकस्य शाब्दबोध इति भावः। यद्वा प्रकृतस्थले समूहालम्बनज्ञानरूपायां पदार्थोपस्थितौ वृत्तिज्ञानजन्यत्वसत्त्वाद्धस्तिपकोपस्थितौ वृत्तिज्ञानजन्यत्वसत्त्वेऽपि यथा घटोपस्थितिर्घटविषयत्वावच्चिन्ना, न तथा हस्तिपकोपस्थितिर्हस्तिपकविषयत्वावच्छिन्ना, किं तु गजनिष्ठत्वसंबन्धावच्छिन्ना। नापि वृत्तिज्ञाननिष्ठजनकतायां हस्तिपको विषयतयाऽवच्छेदकः, वृत्तिज्ञाने धर्मित्वेन घटस्येव धर्मित्वेन हस्तिपकस्य ज्ञानाभावान्नोक्तबोधापत्तिरिति बोध्यम्। वृत्तिजन्यत्वसत्त्वादिति। शक्तिज्ञानजन्यत्वसत्त्वादित्यर्थः। अत्र शक्तिजन्यत्वेति वक्तव्ये वृत्तिजन्यत्वेत्युक्तिस्तु वृत्तिजन्योपस्थितिर्हेतुरिति पक्षेऽपि दोषपदर्शनार्थेति बोध्यम्। एवं च शक्तिज्ञानपदार्थोपस्थितिशाब्दबोधाः समानविषयका एवेति नियमः फलतीति भावः। एवं चेति। घटादिहस्तिपकोभयसमूहालम्बनात्मकपदार्थोपस्थितिरूपकारणाद्धस्तिपकस्य शाब्दबोधो मा भूदित्येतदर्थं तद्विषयकशाब्दबोधं प्रति तदंशविषयकवृत्तिजन्योपस्थितिर्हेतुः(हस्तिपकांशस्यापि वृत्तिजन्यैवोपस्तितिर्हेतुः)इत्येवं कार्यकारणभावस्वीकारावस्यकत्वे चेत्यर्थः। हेतुत्वंमसंभवदिति। पदार्थोपस्थितिं प्रति शक्तिज्ञानस्य कारणत्वाल्लक्षणायां च शक्तेः प्रवेशाद्‌गङ्गायां घोष इत्यादिलक्षणास्थले गङ्गापदाच्छक्त्या प्रवाहस्येव तीरस्यापि गङ्गापदशक्तिज्ञानादेवोपस्थिस्थितिर्भवतीति लक्ष्यार्थोपस्थितिं प्रत्यपि शक्तिज्ञानमेव कारणमिति लक्षणाया अपि शक्तिज्ञानत्वेन हेतुत्वं यत्पूर्वमुक्तं तन्न संभवतीत्यर्थः। अयं भावः-समूहालम्बनविधया घटहस्तिपकयोरुपस्थितिस्थले घटहस्तिपकयोरुपस्थितिस्थले घटबोधवद्धीस्तपकस्यापि बोधः प्रसक्तस्तद्वारणार्थं तद्विषयकशाब्दबोधं प्रति तद्विषयकवृत्तिज्ञानजन्योपस्थितिर्हतुरित्यवश्यं वक्तव्यम्। तदर्थस्तु घटविषयकशाब्दबोधं प्रति घटपदं घटरूपार्थे शक्तमित्येवं यद् घटविषयकवृत्तिज्ञानं तादृशवृत्तिज्ञानजन्या या घटार्थोपस्थितिः सा, घटमानयेत्यादौ घटविष्यकशाब्दबोधे कारणमिति। समूहालम्बनरूपायां घटहस्तिषकरूपपदार्थोपस्थितौ घटांशे यथा घटविषयकवृत्तिज्ञानजन्योपस्थितिर्वर्तते तथआ हस्तिपकांशे हस्तिपकपदं गजनियन्तरि शक्तिमित्येवं यदुधस्तिपकविषकवृत्तिज्ञानं तादृशवृत्तिज्ञानजन्योपस्थितिर्नास्ति, हस्तिपकस्य पदादनुपस्थितेः, किं तु समृतिविषयभूतगजव्यक्तेः सकाशात्तन्नियन्तुहस्तिपकस्य स्मरणं जातमित्येव, तथा च वृत्तिज्ञाने घटस्येव हस्तिपकस्य विषयतासंबन्धेन भानाभावान्न यथा घटवद्धस्तिपकस्य बोधः। तथा प्रवाहोपस्थितौ गङ्गापदं प्रवाहविशेषे शक्तमित्येवं विषयतासंबन्धेन गङ्गापदनिष्ठवृत्तिज्ञानजन्यत्वसत्त्वेऽपि तीरोपस्थितौ विषयतया गङ्गावदनिष्ठवृत्तिज्ञानजन्यत्वं नास्ति, इति कृत्वा तीरोपस्थितौ गङ्गापदशक्यप्रवाहसंबन्धीत्येवं गङ्गापदनिष्ठवृत्तिज्ञानजन्यत्वसत्त्वेऽपि गङ्गापदनिष्ठतीरविषयकवृत्तिज्ञानजन्यत्वाभावान्न शक्तिज्ञानाल्लक्ष्यार्थोपस्थितिः संभवति। अन्यथा प्रवाहविषयकं वृत्तिज्ञानं, उपस्तितिस्तु तीरस्येति अनुचितं स्यात्। यद्विषयकं वृत्तिज्ञानं तद्विषयिकाया एवोपस्थितेर्न्याय्यत्वादिति भावः। मुख्ये लक्ष्ये चेति सर्वत्रार्थे पदस्य शक्तिरेवेति शक्तिमात्रवादिनामस्माकं गङ्गापदस्य तीरेऽपि शक्तिरेव, तथा च तीरविषयकं वृत्तिज्ञानं तीरविषयक एव च शाब्दबोध इति न दोषः। एतेनेति। शक्तिलक्षणात्मकद्विविधवृत्तिज्ञानस्यैकरूपेण हेतुत्वासंभवेनेत्यर्थः। उक्तस्थलेहस्तिपकस्य शाब्दबोधापत्तिरूपदूषणेन शक्यार्थोपस्थितिं प्रति शक्तिज्ञानस्येव लक्ष्यार्थोपस्थितिं प्रत्यपि शक्तिज्ञानस्य हेतुत्वासंभवेनेति यावत्। शक्तिप्रयोज्यैवेति। प्रयोज्यत्वं साक्षात् परम्परया वोद्पन्नत्वं, जन्यत्वं तु साक्षादेवोत्पन्नत्वमिति ज्ञेयम्। तथा च गङ्गायां घोष इत्यादिलक्षणास्थले स्वशक्यसंबन्धात्मक लक्षणायाः शक्तिज्ञानजन्यत्वेन लक्षणाज्ञानजन्यतीरविषयकोपस्थितौ शक्तिज्ञानप्रयोज्यत्वस्य(परम्परया शक्तिज्ञानजन्यत्वस्य)सत्त्वान्न लक्षणावादिमते तत्र कार्यकारणभावान्तरकल्पना, किं तु शाब्दबोधं प्रति शक्तिजन्योपस्थितिः कारणं, पदार्थोपस्थितिं प्रति च शक्तिज्ञानं कारणमित्येवमेकविध एव कार्यकारणभावः, न तु शक्तिज्ञानत्वेन लक्षणाज्ञानत्वेन चेति पार्थक्येन कार्यकारणभावो लक्षणाङ्गीकर्तुर्ममापीति यदुच्यते तत्परास्तं निराकृतं वेदितव्यमित्यर्थः। निराकरणे हेतुमाह-अनतिप्रसक्तस्येत्यादि। अतिप्रसङ्गरहितस्य प्रयोज्यत्वस्य वक्तुमशक्यत्वादित्यर्थः। अयं भावः-घटपदं कम्बुग्रीवादिमति शक्तमित्येवं शक्तिज्ञानवतः पुरुषस्य घटपदात्कम्बुग्रीवादिपदर्थोपस्थितो सत्यां तन घटेन स्वसंबद्धस्याऽऽकाशस्योपस्थितौ च तादृशाकाशस्यापि घटपदजन्यशाब्दबोधविषयत्वापत्तिः स्यात्। तादृशाकाशोपस्थितावपि घटपदनिष्ठशक्तिज्ञानप्रयोज्यतायाः(परम्परया घटपदनिष्ठशक्तिज्ञानजन्यतायाः)सत्त्वादित्यर्थ इति। अतः शक्तिप्रयोज्यत्वस्य अतिप्रसङ्गरहितस्य दुर्वचत्वमिति तदाहभूषण इति। वैयाकरणभूषणे विस्तरेम प्रपञ्चितमित्यर्थ-। 37 ।।
बोधजनकत्वमेव शक्तिरिति निष्कृष्टस्वमतेन मूलावतरणिकामाह-नन्विति। एवमिति। बोधजनकत्वस्यैव शक्तित्वे इत्यर्थः। भाषादित इति। गावि गोणी गोतेत्याद्यपभ्रंशात्मकलौकिकशब्देभ्य इत्यर्थः। बोधदर्शनादिति। गाव्यादिशब्देभ्यः सास्नादिमद्‌गोव्यक्तेर्लोके बोधस्यानुभवसिद्धत्वादित्यर्थः। तत्रा पतीति। अपभ्रंशात्मकगाव्यादिभाषाशब्देष्वपीत्यर्थः। स्यादिति। बोधजनकतारूपशक्तिस्वीकार आवश्यकः स्यादित्यर्थः। ईश्वरेच्छा शक्तिरिति मते तु गगरीशब्दाद् बोधोत्पत्तेर्गगरीशब्दाद्‌घट(घागर)बोधो जायतामितीच्छाया आवश्यकत्वेऽपि तादृशेच्छायां न गगरीशब्दसंबन्धः कल्प्यते, तादृशसंबन्धानुग्राहककोशाद्यभावादिति नापभ्रंशे शक्तिकल्पनातिप्रसङ्ग इति भावः। गगरीत्याद्यप्रभ्रंशात्मकभाषाशब्देषु शक्तिकल्पनाया इष्टापत्तौ त्वाह-तथा चेति। गवीत्यादिभाषाशब्दानां साधुत्वमपि स्यादित्यर्थः। भाषाशब्दानां साधुत्वप्राप्तौ हेतुमाह-शक्तत्वस्यैवेति। व्याकरणाधिकरण इति। अo1 पा.3 आ.9 सू.27 `तत्र तत्त्वमभियोगविशेषत्स्यात्' इति जैमिनीयसूत्र इत्यर्थः। तत्र `एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति' `तस्माद्‌ब्राह्मणेन नम्लेच्छितवै-नापभाषितवै, म्लेच्छो ह वा एष यदपशब्दः' इति गुणदोषप्रतिपादकवाक्याभ्यां साधूनेव प्रयुञ्जीत नापशब्दानिति नियममुक्त्वा `गवाग्य एव साधवः, न तु गाव्यादयः' इत्युक्तम्। गावाद्याः शब्दा व्याकरणशास्त्रसंस्कृता इति संस्कृता इत्युच्यन्ते, नैवं गाव्यादय इति ते भाषाशब्दा इत्युच्यन्ते। तत्र श्तिग्राहकशिरोमणेर्व्यवहारस्य संस्कृते भाषायां च समानत्वेऽपि संस्कृतस्य सर्वदेशे एकत्वाव्द्याकरणशास्त्रसिद्धत्वाच्च संस्कृत ए शक्तिः कल्प्यते। भाषाणां त तत्तद्देशभेदेन भिन्नत्वात्संस्कृतैः सह पर्यायतापत्तेश्च न तत्र शक्तिः कल्प्यते। नचापभ्रंशाद्बोधो न स्यादिति वाच्यम्। अस्यामेव कारिकायामपभ्रंशानां बोधकत्वप्रकारस्योपपादयिष्यमाणत्वात्। एवं च गवादीनां शक्तत्वाद् गवाद्याः साधव इत्युक्तत्वाच्छक्तत्वमेव साधुत्वमिति पर्यवस्यतीति भावः। द्विधेति। अपभ्रंशानां साधुताऽपि स्यादित्याशङ्कां प्रकारद्वयेन समाधत्ते। तत्रापभ्रंशानां साक्षाद्‌बोधकत्वानभ्युपगम एकः प्रकारः, तेषां वाचकत्वे इष्टापत्तिरित्यपरः, तत्राऽऽद्यः प्रकारो नैयायिकादिमतेन, द्वितीयः स्वमतेनेति ज्ञेयमित्याह-असाधुरनुमानेनेति। असाधुरिति। गावी गगरीत्यादिरपभ्रंशात्मकभाषाशब्द इत्यर्थः। अनुमानेनेति। साधुशब्दमनुमायेत्यर्थः। वाचकः-बोधकः, कैश्चित्--नैयायिकादिभिः, इष्यत इत्यर्थः। असाधुशब्दातत्ताधुशब्दस्य स्मरणं, स्मृतात्साधुशब्दाच्चार्थप्रतीतिरिति परम्परयाऽसाधुशब्दोऽर्थं बोधयतीति यावत्। तथा च यथा लिपेः शब्दस्मरण एवोपयोगो, न गवाद्यर्थवाचकत्वं तद्वदसाधोः शब्दस्य साधुशब्दस्मरण एवोपयोगो, न साक्षाद्‌गवाद्यर्थवाचकतेति नापभ्रंशानां साधुत्वमिति भावः। साधुस्मरण एवोपयोग इति। अपभ्रंशानां साक्षाद्वाचकत्वं तु नास्ति, तेषां साधुत्वस्याभावादसाधुत्वज्ञानस्य प्रतिबन्धकत्वाद्वेत्याशयः। ततश्च साक्षाद्वाचकत्वमेव साधुत्वमिति पर्यवस्यतीत्यर्थः। अत्रार्थे हरिसंमतिमाह-उक्तं हीति। त इति। अपभ्रष्टशब्दा इत्यर्थः। प्रत्ययोत्पत्तीति। गवाद्यर्थप्रतीतिनिदानानीत्यर्थः। प्रकारान्तरमाह-तादात्म्यमिति। शब्दार्थयोस्तादात्म्यं हि साधुशब्द एव। यो यदर्थवाचक्रस्तत्रैव तदर्थादात्म्याङ्गीकारात्। अपभ्रंशानां वाचकत्वाभावत्तेष्वर्थतादात्म्यं यद्यपि न संभवति तथापि अर्थादात्म्यापन्नो यः साधुशब्दः, तादृशसाधुशब्दतादात्म्यात्परम्परयाऽपभ्रंशेऽर्थतादात्म्यमित्यर्थः। उपगम्येवेति। गृहीत्वेवेत्यर्थः। अपभ्रंशे साधुशब्दतादात्म्यग्रहस्य भ्रंमत्वसूचनाय `इव' इत्युक्तम्। तेन च तेषां वाचकत्वाभावो ध्वनितः। अर्थवाचक एवार्थतादात्म्याभ्युपगमात्। अस्यायं भावः-गोशब्दे उच्चारणीये वागिन्द्रियापाटवेन गावीत्युच्चरितं, वस्तुतो गोशब्द एवायमिति साधुशब्दतादात्म्येन भासमाना गाव्याद्यसाधुशब्दा गवादीरूपार्थस्य प्रकाशका भवन्तीति। अपभ्रंशानां साक्षाद्वाचकत्वाभावे उपपत्तिं ब्रूतेन शिष्टैरिति। शिष्टैः साधवः पर्याया `माहेयी सौरभेयी गौरुस्त्रा माता च शृङ्गिणी' इत्यादयो मथा निघण्टुकोशादिनां संगृहीताः, तथा ते-अपभ्रंशाः शिष्टैः कोशादिना साधुपर्यायसमुदाये यतो न संगृह्यन्ते ततोऽपभ्रंशाः साक्षान्न वाचका इत्यर्थः। ते साधुष्वित्यादिनोक्तमेवार्थं विशदीकरोति-बंबंबेति यदेति। शब्दोच्चारणे शिक्ष्यमाणो बालो यदा यस्मिन्कालेऽसामर्थ्याद् बंबंबेत्यव्यक्तं प्रभाषते तदा तद्विदां-साधुशब्दं जानतां, तेन-अव्यक्तेन, व्यक्ते साधुशब्दे, स्मृते सतीति शेषः। निर्णय-अर्थनिश्चयो भवतीत्यर्थः। असाधोः साधुशब्दप्रकृतित्वात्सादृश्येन साधुशब्दस्मरणमिति भावः। अत्र बं बं बेति पाठ एव युक्तः, ने तु `अम्बाम्बा' इति, तस्य(अम्बाम्बेत्यस्य)साधुत्वादित्यशयः। न शिष्टैरित्यादिद्वितीयकारिकां व्याचष्टे-एवं साधाविति। एवमिति। इत्थमित्यर्थः तसाधौ गवदिशब्दे प्रयोक्तव्ये सति यपभ्रंशः गाव्याद्यसाधुशब्दः, प्रयुज्यतेन-असाधुशब्देन, साधुव्यवहितः-साधुशब्दस्यरणपूर्वकः, कश्चित्प्रसिद्धोऽर्थोऽभिधीयते प्रतिपाद्यत इत्यर्थः। द्विर्बद्धं सुबद्धं भवतीति न्यायेन पूर्वोक्तमेवार्थं द्रढपयितुं शङ्कते-नन्विति। अपभ्रंशानां साक्षात्तत्तदर्थवाचकत्वाभावे प्रमाणं किमिति प्रश्नः। प्रमाणं नास्तीत्यत्र हेतुमाह--शक्तिकल्पकेत्यादि। घटमानयेत्यादौ कम्बुग्रीवादिमन्तमर्थं बोधयितुं वृद्धैर्घटमदप्रयोगकरणात्कम्बुग्रीवादिमत्यर्थघटपदस्य शक्तिरित्यवगम्यते। तथा च कम्बुग्रीवादिमदर्थे घटपदप्रयोगकरणरूपवृद्धव्यवहार एव घटपदस्य घटत्वावच्चिन्ने शक्तिं कल्पयतीति भावः। सोऽय शक्तिकल्पको वृद्धव्यवहारो यथा साधुशब्देषु दृश्यते तथाऽप्भ्रंशेष्वपि शक्तिकशक्तिकल्पको वृद्धव्यवहारो यथा साधुशब्देषु दृश्यते तथाऽपभ्रंशेष्ववि शक्तिकल्पको वृद्धव्यवहारो दृश्यत इति साध्वसाध्वोः शक्तिकल्पकस्य वृद्धव्यवहारस्य तुल्यत्वाद्यथा साधुशब्दाः साक्षात्तत्तदर्थवाचकास्तथाऽपभ्रंशा अपि गाव्यादयोऽपि साक्षाद् गवाद्यर्थवाचका भवेयुः। तथा चापभ्रंशानां साक्षाद्वाचकत्वाभावे प्रमाणं नास्तीति भावः। तेदतदङ्गीकरोतीत्याह-सत्यमिति। सत्यत्वेनाङ्गीकार सूचितः। महाराष्ट्रादिभाषास्थशब्दानां तत्तद्देशभेदेन-महाराष्ट्रोत्तरहिन्दुस्थानद्राविडादिदेशभेदेन, भिन्नत्वं दृश्यते, यथा--महाराष्ट्रियैर्घटार्थे `घागर' शब्दः प्रयुज्यते, उत्तरहिन्दुस्थानीयैस्तु तत्रैवार्थे `गगरी' शब्दः प्रयुज्यते। ततश्च देशभेदेन भिन्नानां तेषामनेकत्वेनाऽऽनन्त्यादनन्तेषु तेषु शक्तिकल्पने शक्त्यानन्त्यापत्तेर्बहूवेव गौरव स्यादिति भाषास्थशब्देषु शक्तिर्न कल्प्यते। अतोऽसाधुशब्दानां साक्षाद्वाचकत्वं नस्तीति भावः। प्रमाणसिद्धं गौरवं न दोषायेत्यासङ्कते--न च पर्यायेति। अयं भावः-मथा `विष्णुर्नारायणः कृष्णः' इत्यादयः सर्वेऽप्यनेकपर्याया एकस्यार्थस्य वाचकाः, एकार्थानेरूपिता वाचकता शक्तिर्विष्ण्वादिषु अनेकेषु कल्पिता, न च तत्र गौरवं मन्यन्ते, तद्वत् घटरूपैकार्थनिरूपितावाचकताशक्तिर्धागरगगरीत्यादिद्यनेकेषु बाषाशब्देषु आस्ताम्। न च गौरवं, विष्ण्वादिष्वपि अनेकपर्यायेषु एकार्थनिरूपितशक्तिकल्पनानापत्तेः। तस्मात् विष्ण्वादिपर्यायेष्विव भिन्नेष्वपि गगरीत्यादिभाषाश्ब्देषु शक्तिः कल्पयितुंम युक्तेत्याशयेनोक्तं-पर्यायतुल्यतेति। तथा च विष्ण्वादिपर्यायशब्दा इव गगरीत्यादये भाषाशब्दा अपि साक्षाद्वाचका एवेति चेन्न। विष्ण्वाद्यनेकेषु पर्यायेषु शक्तिकल्पने यथा साधकमुपलभ्यते तथा भाषाशब्दषु अनेकेषु शक्तिकल्पने साधकं नास्तीति भाषास्थशब्देषु न शक्तिः कल्प्यते, एतदेव विशदीकर्तुं दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं प्रदर्शयति-तेषामित्यादि। तेषां-विष्ण्वादिसाधुपर्यायाणां, सर्वदेशेषु-हिमाल, यमारम्भ सेतुबन्धपर्यन्तेषु राजपुताना-विहारोत्तरहिन्दुस्थानमालवमद्रमहाराष्ट्रकर्नाटकद्राविडादिसकलतत्तद्देशेषु, एकत्वात्-अभिन्नरूपत्वादेकजातीयत्वादिति यावत् विनिगमनाविरहेण-यथा विष्णुशब्दः सर्वदेशेषु यमर्थं प्रतिपादयति, तथा नारायणादिशब्दा अपि सर्वदेशेषु तमेवार्थं प्रतिपादयन्तीति प्रसिद्धम्। अत एव विष्ण्वादिपर्यायाणां मध्ये एकस्यैव शक्तिः कल्पनीया, नान्येषामित्यत्र निश्चायकप्रमाणाभावेन विष्ण्वादिपर्यायाणां सर्वदेशेषु समानरूपत्वात्सर्वेष्वपि विष्ण्वादिपर्यायेषु एकार्थनिरूपिता वाचकता शक्ति कल्प्यते। यदि च भिन्नरूपता स्यात्तर्हि य एव पर्यायः सर्वदेशे सुप्रसिद्धस्तत्रैव शक्तिः सिध्येन्नेतरत्रेति भावः। विष्ण्वादिपर्यायाणां सर्वदेशेष्वेकरूपत्वादेव विनिगमनाविरहः, विनिगमनाविरहाच्च सर्वपर्यायेषु प्रत्येकं शक्तिकल्पनेऽपि गौरतं दोषापादकं न भवति। शक्तिग्राहकसर्वदेशीयवृद्धव्यवहारेण विष्ण्वादिसर्वपर्यायेषु प्रत्येकं शक्तेः सिद्धत्वात्। एवं च विष्ण्वदिपर्यायाणामेकरूपत्वमेव शक्त्यानन्त्यकल्पने साधकमिति तात्पर्यम्। अपभ्रंशानां तथा-एकरूपता नेति योजना। गगर्याद्यपभ्रंशरूपभाषास्थशब्दानां देशभेदेन भिन्नत्वेनैकरूपताभावादेव यस्मिन्देशे गगरीशब्दो घटार्थं ब्रूते, न तस्मिन्‌देशे वागरशब्दो घटार्थं वक्ति। यस्मिंश्च देशे घागरशब्दो घटरूपार्थमाचष्टे, न तस्मिन्‌देशे देशे गगरीशब्दस्तमर्थं प्रतिपादयति। ततश्च भाषास्थशब्दानां देशभेदेन भिन्नत्वादेकरूपताभावेन साधुशब्देष्विव शक्तिग्राहकसर्वदेशीयवृद्धव्यवहाराभावादपभ्रंशेषु शक्त्यभावस्यैव सिद्धत्वेन तद्विरुद्धशक्तिकल्पनस्यात्यन्तायेगान्न तेषु सक्तिः कल्प्यत इति भावः। यदि चैकरूपताऽभविष्यत्तदा साधुष्विवापभ्रंशेष्वपि शक्तिरप्यभविष्यदित्यर्थः। अन्यथेति। उक्तवैपरीत्ये। अपभ्रंशेष्वेकरूपत्वाभावेऽपि शक्तिकल्पन इत्यर्थः। पर्यायतयेति। साधुष्विवापभ्रंशेष्वपि शक्तितमत्त्वसत्त्वात्साधूनां पर्यायत्वेन यथा कोशादौ परिगणनं कृतं तद्वदपभ्रंशानामपि संस्कृततपर्यायत्वेन कोशादौ परिगणनकर्तव्यताऽऽपद्येतेत्यर्थः। एवं चेति। अपभ्रंशानां साक्षाद्वाचकत्वाभावे चेत्यर्थः। मतमिति। शक्तत्वमेव साधुत्वमित्येवं यन्नैयायिकमीमांसकादिनां मतं तद्‌ `ते साधुष्वनुमानेन' इत्याद्युक्तवाक्यपदीयानुसारेणैवेति बोध्यम्। इदानीमिति। अपभ्रंशानां साक्षादवाचकत्वविपये मीमांसकादिमतप्रतिपादनानन्तरमित्यर्थः। स्वमतमिति। वैयाकरणमतमित्यर्थः। वाचकत्वाविशेष इति। जपभ्रंशात्मकबाषाशब्दानां बोधकत्वस्य हरिसंमत्योपपादितत्वात्तेषु शक्तिकल्पनं वैयाकरणानां दुराग्रह इत्याशङ्क्येतनैयायिकादिभिरित्यतस्तदुक्तरीत्याऽपभ्रंशानां बोधकत्वं दुर्वचमित्याशयेनाऽऽह--अयं भाव इति। अशक्तत्व इति। यद्यपभ्रंशेषु शक्तिर्बोधकतारूपा न कल्प्येत तर्हि तेभ्योऽर्थबोधो न स्यात्, स तु जायत इति सर्वानुभवसिद्धमित्यर्थः। शक्तिकल्पनं विनैवापभ्रंशानां बोधकत्वं प्रकारान्तरेम स्यादित्याशङ्कते-न चेति। साधुस्मरणादिति। अपभ्रंशानां साधुशब्दप्रकृतिकत्वेन सादृश्यादपभ्रंशेभ्यः प्रकृतिभूतः साधुशब्दः स्मृतो भवति, स्मृताच्च साधुशब्दादर्थबोधो जायत इति परम्परयाऽपभ्रंशानां बोधकत्वं, न तु साक्षात्। तेषु शक्त्यभावादिति भावः। इति चेत्तन्नेत्याह-तानविदुषामिति। तत्तदर्थबोधकत्वेन साधुशब्दानजानतामित्यर्थः। साधुशब्दाज्ञाने कारणमाह-पामराणामिति। संस्कृतानभिज्ञानामित्यर्थः। अपभ्रंशमात्रव्युत्पन्नाः पामरा इति भावः। बोधादिति। गगरीत्याद्यपभ्रंशेभ्यो घटाद्यर्थबोधादित्यर्थः। तेषां-पामराणां साधोरबोधाच्चेति। अपभ्रंशमात्रव्युत्पन्नत्वेन तत्तदथकत्वेन साधुशब्दज्ञानाभावात्साधुशब्देभ्यः पामराणां गवाद्यर्थबोधात्यन्तासंभवाच्चेत्यर्थः। एवं च यस्मात्साधुशब्दज्ञानाभाववतामपि गाव्याद्यपभ्रंशेभ्यो गावाद्यर्थप्रतीतिर्जायत इति लोकेऽनुभूयते, तस्मादपभ्रंशाः साक्षाद्वाचका इत्येव युक्तं, न तु साधुशब्दानुमानेन परम्परयाऽर्थबोधका इत्युक्तिरुपपद्यत इत्याशयः। गवाद्यर्थनिरूपितायाः साधुशब्दनिष्ठवाचकताशक्तेरपभ्रंशेषु भ्रान्त्या सत्त्वमादाय तेभ्यो बोधः संभवेदित्याशङ्कते-न च शक्तिभ्रमादिति। अपभ्रंशे कि बोधकत्वशक्तेर्भ्रान्तिरभिप्रेयते उत्तेश्वरेच्छारूपाया इति संदिह्य तत्र नाऽऽद्य इत्याह-बोधकत्वस्येति। अपभ्रंशे तत्तदर्थबोधजनकत्वस्येत्यर्थः। अबाधेनेति। नायं तदर्थबोधक इत्याकारकबाधज्ञाननिश्चयाभावादपभ्रंशेषु बोधजनकत्वशक्तेरबाधेनेत्यर्थः।९तद्‌ग्रहस्याभ्रमत्वादिति। अपभ्रंशे बोधजनकत्वग्रहस्य भ्रमत्वासंभवादित्यर्थः। यथा रज्जौ सर्पज्ञानानन्तरं समीपं गत्वा सूक्ष्मेक्षिकया नायं सर्पः किंतु रज्जुरिति पश्चात्तनेन बाधज्ञानेन पूर्वजातसर्पज्ञानस्य भ्रमत्वं कल्प्यते तद्वत् गगरीशब्दाज्जायमानस्य घटरूपार्थज्ञानस्य पश्चात्तनेन किंचिद्विषयकज्ञानेन बाधाभावादपभ्रंशे बोधकत्वग्रहस्य भ्रमत्वकल्पनं न संभवतीत्यर्थः। ज्ञानस्य भ्रमत्वकल्पेन तादृशज्ञानविषयवस्तुनो बाधस्यैव कारणत्वादिति भावः। द्वितीयकल्पे त्वाह--ईश्वरेच्छेति। सन्मात्रविषयिण्या इति। अत्र `मात्रं कार्त्स्न्येऽवधारणे' इति कोशान्मात्रशब्दः कृत्स्नार्थकः। घटः सन्, पटः सन् इति सामानाधिकरण्यानुरोधाच्चेतनाचेतनेषु सर्वत्र सत्त्वावगमाच्छब्देष्वपि सत्त्वं प्रतीयते। तथा चापभ्रंशानपभ्रंशात्मकसर्वशब्दविषयिकाया ईश्वरेच्छारूपशक्तेरित्यर्थः। बादाभावादिति। यथा कम्बुग्रीवादिमानर्थो घटशब्दजन्यबोधविषयो जायतामित्यनपभ्रष्टशब्दविषयीणीश्वरेच्छा वर्तते तथा घटरूपोऽर्थो गगरीशब्दजन्यबोधविषयो भवत्वित्यपभ्रष्टशब्दावेषयिण्या अपि ईश्वरेच्छायाः स्वीकारावस्यकत्वेनापभ्रष्टेष्वपीश्वरेच्छारूपशक्तेर्बाधाभावात्। अन्यथेश्वरेच्छायाः सर्वशब्दविषयकत्वं नोपपद्येतेत्यर्थः। अपभ्रंशात्मकभाषाशब्दाद् गगरीगावीत्यादेस्तत्तदर्थबोधस्य शिष्टाशिष्टसर्वानुभवसिद्धत्वेनापभ्रष्टेष्वपीश्वरेच्छया बाधाभावादीश्वरेच्छा शक्तिरिति मतेऽपि शक्तिज्ञानस्य भ्रमत्वं नोपपद्यते। ज्ञानस्य भ्रमत्वे विषयबाधस्यैव नियामकत्वात्। स च विषयबाधः प्रकृते नास्तीति भावः। स्वरूपतः सक्तेर्भ्रमत्वं सर्वथाऽसंभवीत्याशयेन शक्तेः स्वरूपमाह-पदपदार्थविशेषेति। अयं भावः-इदं पदममुमर्थं बोधयतु, इत्येवमर्थनिरूपितपदशक्तिबोधकमिदं सामान्यवचनं निर्विसेषं न सामान्यमिति न्ग्रायेन, शृङ्गग्राहिकया(प्रतिपदोक्तस्वरूपेण)वा घटपदं घटार्थं बोधयतु, पटपदं पररूपमर्थं बोधयतु, इत्यादिविशेषवाक्यानां(प्रातिस्विकवाक्यानां)परिचायकम्। तथा च घटपदजन्यबोधविषयत्वप्रकारतानिरूपितघटरूपार्थनिष्ठविसेष्यताकेच्छा शक्तिरित्येवं पदविशेषार्थविशेषघटिता शक्तिरिति वक्तव्यमिति गगरीशब्दजन्यबोधविषयत्वप्रकारिका घटविशेष्यिकेच्छैव शक्तिः प्रकृतस्थले वाच्या, सा चेद्यद्यस्ति, न तर्हि शक्तिभ्रमः, यदि नास्ति तर्हि सुतरां न शक्तिभ्रमः सिध्यति। क्वचित्प्रसिद्धस्य स्वविरहिणि ज्ञानस्यैव भ्रमत्वात्। यथा सत्यरजते प्रसिद्धस्य रजतत्वस्य रजतत्वविरहिण्यां शुक्तौ यद्रजतत्वप्रकारकं ज्ञानं तस्यैव भ्रमशब्दव्यवहार्यत्वादिति भावः। यद्यपि इदं पदममुमर्थं बोधयत्वित्यादिसामान्यमुखप्रवृत्तशक्त्यावेदकवचनानुसारेण सामान्यरूपेण पदपदार्थघटितायाः शक्तेः पटपदं घटे शक्तं, घटपदं वापटे सक्तमित्येवं भ्रमत्वं संभवेत्। तथाऽपि शृङ्गग्राहिकया घटपदं घटे शक्तं, पटपदं च पटे शक्तमित्येवं प्रातिपदिकरूपेण शक्त्यावेदकवचनानुसारेण पदपदार्थविशेषघटितायाः शक्तेभ्रमत्वं सुतरां दुर्वचमिति भावः। यच्च पूर्वमस्मिन्नेव प्रकरणे `शक्तिभ्रमानुरोधेन' इति ग्रन्थेन शक्तिभ्रम उक्तः स च `इदं पदममुमर्थं बोधयतु' इत्येवं सामान्यरूपेण शक्त्यावेदकवचनानुसारेण योज्यः, तदानीमेव शक्तिभ्रमसंभवात्। न तु घटपदं घटे शक्तमित्येवं विशेषरूपेण शक्त्यावेदकवचनानुसारेण, तदानीं शक्तिभ्रमसंभवस्याप्यभावादेति। बोध्यम्। अपभ्रशानां साक्षाद्वाचकत्वमिति वैयाकरणसंमतपक्षेऽपि वाक्यपदीयानुमतिमाह-उक्तं चेति। अपभ्रंशरूपभाषाशब्दा अपि शक्ताः-नाम साक्षाद्वाचका एव, न तु साधृस्मरणद्वारेत्युक्तमित्यर्थः। विगुणेष्विति। नागृहीतविशेषणा बुद्धिर्विशेष्य उपजायत इति न्यायेन पुरुःस्फूर्तिमद्‌वक्तृनिष्ठं वैगुण्यमत्रेन्द्रियासामर्थ्यं नाम जिहवाजाड्यादिरूपं बोध्यम्। तथा चोच्चारयितृजिह्‌वाजाड्यादिदोषवशादपभ्रंशा निष्पद्यन्ते इति अभिधातृषु-त्रयोक्तृषु विगुणेषु-जिह्‌वाजाड्यादिदोषयुक्तेषु सत्सु, पारम्पर्यात्-परम्परैव पारम्पर्यं, चतुर्वर्णादित्वात्स्वार्थे प्यञ्, परम्परया-वृद्धव्यवहारपरम्परया येष्वर्थेषु, प्रसिद्धिं-ख्यातिमागताः-प्राप्ताः, तेषां-अपभ्रंशानां, साधुः-शब्दः, अवाचकः-अबोधक इत्यर्थः। ननु साधुरवाचक इत्ययुक्तं, यतो यस्मिन्नर्थे अपभ्रंशाः प्रयुज्यते तदर्थवाचकत्वं साधूनामपीति सर्वसंमतत्वात् इत्यत एवं व्याख्येयम्-अपभ्रंशानां प्रकृतिभूतः साधुर्व्यवहितो न तत्र बोधकः, किंतु अपभ्रंशानां साधुप्रकृतिकत्वात्किंचिद्वर्मव्यत्यासेऽपि त एव इमे इति प्रत्यभिज्ञया साधुतादात्म्यापन्नास्तत्तदानुपूर्व्यवच्छिन्ना असाधवएव साक्षादाचका इति। दैवी वागिति। संस्कृतभाषामयी देवानां वागित्यर्थः। अशक्तेरिति। संस्कृतशब्दोच्चारणासमर्थैर्जिह्‌वाजाड्यादिदोषवशादित्यर्थः। अभिधातृभिः-वक्तृभिः, व्यवकीर्णा-उच्छिन्नानुपूर्वीका कृतेति शेषः। अनित्यत्वदर्शिनामिति। सर्वे शब्दा अनित्याः, स्फोटस्तु नास्त्येवेति वादिनां नैयायिकानामित्यर्थः। अस्निन् वादै-शक्तिविचाराख्ये, वुद्धिविपर्ययः-साधव एव वात्तकाः, न त्वपभ्रंशा इत्येवं विपर्ययो वैपरीत्यं संजातमित्यर्थः। अयं सारार्थः-अपभ्रंशरूपा वाक्,वक्तॄणां वागिन्द्रियादिदोषवशादुच्छिन्नानुपूर्वीकाऽपि विशिष्टं शुद्धान्नातरिच्यते, एकदेशविकृतमनन्यवदित्यादिन्यायानुसंधानेन किंचिद्वर्णव्यत्यासेऽपि दैवी-संस्कृतरूपैव भवति। ततश्चापभ्रंशानां संस्कृतप्रकृतिकत्वात्सेयमिति प्रत्यभिज्ञया प्रकृतिविकृत्योस्तादात्म्येनाभेदात्। अपभ्रंशानामेव साक्षाद्वाचकत्वसंभवे सति संस्कृतापभ्रंशयौर्भेदं परिक्ल्प्य तत्र संस्कृतैव वाचिका, नाभ्रंशरूपा वागित्येवं नैयायिकानां इत्युक्तं भवति। अथ संस्कृता एव वाचकाः, नापभ्रंशा इत्यत्र प्रमाणाभावेनापभ्रंशात्मकभाषाशब्दा अपि वाचका एवेत्याशयेनाऽऽह--किं चेति। विनिगमनाविरहादिति। अन्यतरकोटिनिश्चायकप्रमाणाभावादित्यर्थः। यथा संस्कृता वाक् हिमालयमारभ्य रामेश्वरपर्यन्तं सर्वदेशेषु एकरूपा भवति, यथा गौरित्ययं संस्कृतः शब्दः महाराष्ट्रदेशे प्रयुज्यते, तथा सौराष्ट्रमागवादिदेशेष्वपि तादृशानुपूर्वीक एव तादृशार्थ एव च प्रयुज्यते संस्कृताभिज्ञैः, तथाऽपभ्रंशरूपा गगरीत्यादिर्वागपि, सर्वदेशेषु समानरूपत्वाभावेऽपि तत्तद्देशे एकरूपैव-समानरूपैव भवति, यथा महाराष्ट्रसंचारयोग्यदेशेषु सर्वत्र गगरीशब्दो `घागर' इत्यर्थे प्रयुज्यमानो दृश्यते। यद्यपि आर्थसंचारानर्हयावनादिदेशेषु गगरीशब्दो न दृश्यते तथापि यावनादिव्यतिरिक्तसर्वदेशेषु दृश्यत इति अपभ्रंशरूपा वागपि सर्वदेशे एकरूपैवाऽऽस्ते। एवं च सर्वदेशेत्यत्रत्यसर्वशब्दो विवक्षितसर्वदेशपरः, न तु साकल्येन(अनवच्छेदेन)सर्वदेशपरः। तथा सति यवनहूणादिमयदेशे संस्कृतवाचोऽप्यसत्त्वेन तस्या अपि अनवच्छिन्नसर्वदेशेषु एकरूपतानापत्तेः। ततश्च संस्कृतापभ्रंशरूपयोर्द्वयोरपि वाचोर्बहुषु देशेषु एकरूपत्वाविशेषात्तत्र संस्कृतैव वाचिका, नापभ्रंशरूपा वागित्यत्रैकतरपक्षनिश्चायकप्रमाणाभाव इति भावः। भाषायामपीति। अपभ्रंशरूपायामपीत्यर्थः। शक्तिरिति। संस्कृतेष्विवापभ्रंशेष्वपि वाच्यवाचकबावापरपर्याया शक्तिरवश्यमास्थेयेत्यर्थः। भाषाणां देशभेदेन भिन्नत्वेन नानारूपत्वात्तत्र शक्तिकल्पनं गौरवापादकत्वान्न युक्तमित्याशयेन शङ्कते-न चेति। तासां-भाषाणाम्। दोष इति। भाषाणां नानात्वमेव दोषः-भाषासु शक्तिकल्पने प्रतिबन्धकमित्यर्थः। गौरवान्नानारूपासु भाषासु न शक्तिः कल्प्यत इति भावः। तदेतन्न युक्तमित्याह-संस्कृतवदित्यादिना तादवस्थ्यादित्यन्तेन। संस्कृतवदिति। यथा गौरित्यादिः संस्कृता वाक्, संचारयोग्येषु महाराष्टादिसर्वदेशेषु एकरूपैवास्ति। यावनादिदेशेषु संस्कृतवाचः सर्वथाऽसत्त्वात्संचारयोग्यसर्वदेशेष्विति सर्वशब्दार्थसंकोचस्याऽऽवश्यकत्वेन विवक्षितसर्वदेशेषु संस्कृता वाग्यथैकरूपा वर्तते तथाऽपभ्रंशरूपा वागपि विवक्षितोत्तरहिन्दुस्तानदेशे एकरूपैव भवति। यत उत्तरहिन्दुस्थानदेशेषु घटी यर्थे गगरी शब्द एवापभ्रंशः, न तु `घागर' इत्यादिकः। तथा महाराष्टदेशे पुंस्त्वविशिष्टघटार्थे `घडा' इत्यपभ्रंशः, घटीत्यर्थे `घागर' इत्यपभ्रंशः, कलशीत्यर्थे `कळशी' इत्यपभ्रंशः, न तु तत्र गगरीत्यपभ्रंशः। ततश्च संस्कृतवाग्यथा विवक्षितसर्वदेशे एकरूपा, तथा प्रत्येकमपभ्रंशरूपा वागपि विवक्षिततत्तदेशे एकरूपैवेत्येवं स्थितौ सत्यां संस्कृतः शब्दो वाचकः, नापभ्रंशः शब्द इत्यर्थे विनिगमनाविरहस्तदवस्थ एवेति भावः। सर्वत्रैकत्वेनेति। महाराष्ट्रसंचारयोग्येष्वेकरूपत्वेनेत्यर्थः अपभ्रंशानां वाचकत्वे शाधकान्तरमाह-किंचेति। अवच्छेदिकेति। शक्तं पदं, पदे शक्तता, शक्तता नाम अर्थबोधजनकता, तस्या अवच्छेदिका, घटादिपदनिष्ठा घकारोत्तरवर्त्यकारोत्तरवर्तिटकारोत्तरवर्त्यकार इत्येवं वर्णानुपूर्वी अर्थबोधजनकत वच्छेदिकेत्यर्थः। सा च घटः कुम्भः कलश इत्यादिपर्यायेषु यता भिन्ना भिन्ना वर्तते तथा घागरगगरीत्याद्यपभ्रंशेष्वपि शक्ततावच्छेदिका वर्णानुपूर्वी भिन्ना भिन्ना वर्तत इति साध्वरभ्रंशयोः को विशेषः। विष्णुर्नारायणः कृष्ण इत्यादिनानापर्यायनिष्ठा नानानुपूर्व्यो यथा शक्ततावच्छेदिका अङ्गीक्रियन्ते, तथाऽपभ्रंशनिष्ठा अपि ताः शक्ततावच्छेदकत्वेन स्वीक्रियन्तामविशेषादिति भावः। एवं च यथा संस्कृतशब्दा अर्थविशेषस्य साक्षाद्वाचकास्तथाऽपभ्रंशशब्दा अपि साक्षादेव वाचकाः, न तत्र वैषम्यं कर्तुं युज्यत इति तात्पर्यम्। एतदाशयेनोपसंहरति-तथा च संस्कृतवदित्यादि। ननु यदि संस्कृतवद् भाषाशब्दा अपि शक्ताश्चेत्तर्हि आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलमितिवद् गगरीगावीत्यादयो भाषाशब्दा अपि संस्कृतपर्यायत्वेन कोशादौ परिगणनीयाः स्युरित्याशङ्कते-न च पर्यायतयेति। अपभ्रंशानां कोशादावपरिगणने कारणयाह-साधूनामेवेति। एवकारेणासाधूनां=अपभ्रंशानां व्यावृत्तिः। साधुत्वघर्मविशिष्टानां शब्दानां कोशादौ परिगणनं, न तु वाचकताधर्मविशिष्टमात्रस्येत्यर्थः। विभागाभिधानादिति। इन्द्रो मरुत्वान् मघवा बिडौजाः पाकसासनः, इत्येवंरीत्या विभागेन त्रतिपादनादित्यर्थः। ननु यदि कोशादौ परिगणने साधुत्वं प्रयोजकं तर्ह्यपभ्रंशानां साधुताऽपि सुवचेत्याशङ्कतेनन्विति। एवमिति। अपभ्रंशानामपि शक्तत्व इत्यर्थः। तेषां अपभ्रंशानां साधुता स्यादिति। व्याकरणाधिकरणे(जै.सू.1-3-अधि.9 प्रयोगोत्पत्त्यशास्त्रत्वात्o)शक्तत्वस्यैव साधुत्वस्योक्तत्वादिति भावः। नियम इति। "समानायामर्थावगतौ शब्दैश्चापशब्दैश्च, शास्त्रेण धर्मनियमः" इति पस्पशान्हिके भाष्य उक्तं, तत्र समानत्वं शब्दान्तरस्मरणापूर्वकत्वेन बोध्यम्। यथा गवादिसंस्कृतशब्दात् शब्दान्तरस्मरणं विनैवाव्यवधानेनार्थबोधो जायत इत्यनुभवसिद्धं तथाऽपभ्रंशादपि शब्दान्तरस्मरणमन्तरैवाव्यवधानेनार्थबोधो जायत इति संस्कृता दपभ्रंशाच्च जायमानमर्थावगमनं शब्दान्तरस्मरणपूर्वकत्वाभावेन समानं भवतीति बोध्यम्। यदि चापभ्रंशानां संस्कृतवत्साक्षाद्वाचकत्वं न स्यात्, किं तु शब्दान्तरस्मरणपूर्वकमेवार्थबोधकत्वं स्यात्तर्हि संस्कृतापभ्रंशकरणकार्थावगतौ यत्समानत्वविशेषणं दत्तं तदसंगतं-निर्विषयं स्यात्। तस्मादपि संस्कृतवदपभ्रंशोऽपि साक्षाद्वाचक एवेत्यभ्युपगन्तव्यम्। अपभ्रंशानां वाचकत्वादेव वाचकस्य व्यञ्जकत्वे `माए घरोवअरणं अज्जहु णत्थित्ति साहिअं तुमए। ता भेण किं करणिज्जं एमे अण वासरो ठाई।।इति। भाषोदाहरणं काव्यप्रकाशकृतामाञ्जस्येन संगच्छते। निरुक्तप्राकृतगाथायाः संस्कृतम्-`मातर्गृहोपकरणमद्य खलु नास्तीति साधितं त्वया। तद्भण किं करणीयमेवमेव न वासरः स्थाती' इति। अत्र गृहाद्वहिर्गमनेऽनुज्ञां देहीति व्यज्यते। यदि शब्दैश्चापशब्दैश्च समानायामर्थावगतौ सत्यां किं शास्त्रेण क्रियते? इत्यत आह-शास्त्रेण धर्मनियम इति। अस्येयं प्रकृतिरथं प्रत्यय इत्यादिप्रकृत्यादिविभागज्ञानद्वारा गवादय एव प्रयुक्ता धर्मजनकाः नतु गगरीगाव्यादय इत्येवं नियमः शास्त्रेण क्रियत इत्यर्थः। पुण्यजननेति। एकः शब्दः सम्यग् ज्ञातः सुपयुक्तः शास्त्रन्वितः स्वर्गे लोके कामधुग्भवतीति `एकः पूर्वपरयोः' इति सूत्रे भाष्योक्तेः पुण्यजननाय साधुभिर्भाषितव्यमिति विधिः, पुण्यजनकः साधुशब्दप्रयोग इत्यर्थः। विधिना विधेये इष्टबोधनादिति भावः। पापजननेति। नासाधुभिरिति निषेधः, पापजनकोऽसाधुशब्दप्रयोग इति बोदनायेत्यर्थः। निषेधेन निषेध्येऽनिष्ठबोधनादिति भावः। एवं च यत्फलितं तदाह-जनकतावच्छेदकधर्मवत्त्वम्। तत्रेति। साधुशब्देष्वित्यर्थः। जातिरिति। सम्यग्ज्ञातः-साधुत्वेन ज्ञातः सास्त्रान्वितः सास्त्रव्युत्पादनमार्गेणाभिसंहितः। सुप्रयुक्तः-शिक्षाद्युक्तमार्गेम प्रयुक्त इत्यर्थक `एकः शब्द-'---इति श्रुतिप्रमाणसिद्धा, जातिः-जातिविशेषः। पुण्यजनकतावच्छेदक इत्यर्थः। स च जातिविसेषः, रत्नतत्त्ववच्छास्त्रपरिशीलनशालिगम्य इति बोध्यम्। साधुत्वं च व्याकरणव्यङ्ग्योऽर्थविशिष्टशब्दनिष्ठः पुण्यजनकतावच्छेदकजातिविशेष इत्युक्तं लघुमञ्जूषायाम्। कत्वादिना संकर्यान्न तस्य जातित्वमिति चेदस्तूपाधित्वमित्यर्थः। तज्ज्ञापकं चेति। तस्याः पुण्यजनकतावच्छेदिकाया जातेर्ज्ञापकमनुमापकं चेत्यर्थः। कोशादीति। कोशादित्यादिपदेन शिष्टप्रयुक्तत्वाप्तवाक्यादिपरिग्रहः। व्याकरणादित्यादिपदमुपमानसंग्रहाय कोशदेः साक्षात्प्रातिपदिकशक्तिग्राहकतया प्रथमतस्तदुपादानं, प्रायः कोशादित एव शक्तिग्रहाच्च। एवमेवेति। अर्थविशेषविशिष्टानामेव तत्तच्छब्दानां स धुत्वलाभेनेत्यर्थः। ब्राह्मणे फलाजनकेति। राजा राजसूयेन यजेतेत्यत्र राजपदस्य रूढ्या क्षत्त्रियार्थकतया ब्राह्मणस्य राजसूयानधिकाराद् ब्राह्मणेन कृते राजसूये वथा फलजनकत्वाभावस्थथा गवादिशब्दानामश्वादौ प्रयोगे न साधुत्वं, गवाद्यर्थ ेव ध्रयुक्तानां गवादिशब्दानां पुण्यजनकत्वरूपसाधुत्वाभ्युपगमादिति भावः। अत ेव दन्त्यमध्योऽस्वशब्दो नाश्वे साधुर्तापि तालव्यमध्योऽश्वशब्दो दरिद्रे साधुरिति संगच्छते। नन्वाधुनिकपुरुषाद्यर्थकचैत्रमैत्रादिशब्दानामाधुनिकपुरुषाद्यर्थपुरस्कारेण शास्त्रेऽव्युत्पादनात्तेषागाधुनिकपुरुषाद्यर्थे साधुत्वं न स्यादत आह-आधुनिकदेवदत्तेति। त्रिपुरुषानूकं द्व्यक्षरं चतुरक्षरं वा नाम कृतं कुर्यादित्यादिभाष्येण व्युत्पादनादाधुनिकदेवदत्तादिनाम्नामपि साधुत्वं बोध्यमित्यर्थः। फलितमाह-एवं चेति। यः कोऽपि शब्दो यस्मिन्नर्थे व्याकरणेन फलितमित्यर्थः। तत्तद्देशभाषानुरोधेन क्रियमाणानां कूचीमञ्चीत्यादिनाम्नां(धोंडोपंत, कोंडोपंत)शास्त्रेऽव्युत्पादितत्वान्न ते साधव इति भावः। गौणानां साधुत्वमाह-गौणानामिति। सिंहो माणवक इत्यादौ सिंहादिशब्दानां शौर्यकौर्यादिगुणयोगात् पूरुषे आगतानां=प्रवृत्तानामित्यर्थः। तत आगतः(पा.सू.4-3-74)इत्यण्‌प्रत्ययः। गुणे-गोत्वादिधर्मे। व्युत्पादनात्-गोगतज्यादिगुणसंबन्धाद् गोत्वारोपेण व्युत्पादनादित्यर्थः। तत्पुरस्कारेण-तत्तद्धर्मपुरस्कारेण-शक्यतावच्छेदकधर्मारोपेणेत्यर्थः। साधुत्वमेवेति। सिंहादिगतशौर्यादिधर्मारोपेण माणवके प्रवृत्तानां सिंहादिशब्दानां साधुत्वमेवेत्यर्थः। आरोरे निमित्तं क्रौर्यशौर्यादिगुमयोगः। सिंहो माणवक इत्यादौ सिंहत्वादिरूपेण माणवकादेर्भानमिति भावः। गङ्गायां घोष इत्यादावपि शक्यतावच्छेदकगङ्गात्वरूपेण तीरदिर्भानमिति बोध्यम्। आधनिकलाक्षणिकानां त्विति। शक्तवाच्छेदकातिरिक्तरूपेण येन केतचित्संबन्धेन प्रयुक्तानां सास्त्रतात्पर्याविपयभूतानामेतादृशलाक्षाणिकानां त्वसाधुत्वमेवेत्यर्थः। केचित्तु गुणवाचकशुक्लादिशब्दपरत्वेन प्रकृतग्रन्थं योजयन्ति। तथाहि-गुणे व्युत्पादनादिति। गुणे-शुक्लनीलादिरूपे स्वशक्थे, व्युत्पादनात्-गुणवचनेभ्यो मतुपो लुगिति वचनेन गुमे शुक्लादयः पुंसीत्यादिकोशेन च व्युत्पादनाद् गौणानां-गुणिपराणां शुक्लादिशब्दानां शुक्लाद्यर्थपुरस्कारेण प्रयुक्तानां साधुत्वं बोध्यमिति, तेषां सिंहो मामवक इत्यादीनामसंग्रहापत्तिरिति ध्येयम्। अत एवेति। स्वेच्छया येन केनचित्संबन्धेन यस्मिन्कस्मिन्नपि सास्त्रतात्पर्याविषयभूतेऽर्थे प्रयुक्तानामसाधुनत्वनियमादेवेत्यर्थः। ब्राह्मणाय देहीत्यर्थ इति। अत्र दानक्रियाकर्मणा संबन्धमानस्य ब्राह्मणस्य संप्रदानत्वात्ततश्चतुर्थी। ब्राह्मणसंप्रदानकं यत्किचिद्‌द्रव्यकर्मकं विधिविषयो दानमित्यर्थः। अत्र चतुर्थ्यर्थः संप्रदानम्। लक्षणयाऽपीति अथं भावः-स्वशक्यसंबन्धो हि लक्षणा। स्वं-द्वितीया, स्वशक्योऽर्थः-कर्म, तत्संबन्धः संप्रदानसंज्ञके ब्राह्मणेऽस्तीति द्वितीयाया लक्षणया संप्रदानार्थकत्वं गृहीत्वा ब्राह्मणाय देहीत्यर्श्चे ब्राह्मणं देहीति प्रयोगो लक्षणयाऽप्यसाधुरित्यर्थः। ईदृशलक्षणायाः शास्त्रसंमतत्वाभावादिति भावः। यदि चान्यार्थिकाया विभक्तेरन्यविभक्त्यर्थे लक्षणायाः शाखसंमतत्वं स्यात्तर्हि कर्मर्थे षष्ठ्यादिविधायकानुसासनस्य वैयर्थ्यमेव स्यात्। षष्ठ्यादीनां लक्षणया कर्मार्थप्रतिपादकत्वसंभवात्। यतश्च कर्मार्थ षष्ठ्यादिविधायकमनुशासनं प्रणीयते तत एवं ज्ञायते यदीदृशलक्षणायाः शास्त्रतात्पर्यविषयत्वं नास्तीति। कर्मार्थे षष्ठ्यादिविधायकं-कर्तृकर्मणो---गत्यर्थकर्मणि---इत्यादि। एवं च शास्त्रतात्पर्यागोचराणामाधुनिकलक्षणिकानामसाधुत्वमेवेति भावः।। 38 ।।
अतिरिक्तशक्तीति। इच्छाविशेषातिरिक्ता या ज्ञक्तिरित्यर्थः। सा च बोधजनकतारूपा, पदार्तान्तररूपा वा। ग्रहोपायमिति। शक्तिज्ञानोपायं ब्रूते-संबन्धिशब्दे संबन्ध इति। अस्यायमर्थः-यथा चक्षुरादीनां रूपादिविषयकज्ञानजननेऽनादिः पुरुषप्रयत्नानपेक्षा=स्वाभाविकी योग्यता-रूपादिज्ञानजनकतावच्छेदकधर्मवत्त्वरूपा, अस्ति, तथा शब्दानामर्थेऽनादिस्तादात्म्यलक्षणसंबन्ध एव योग्यता-तत्तदर्थबोधजनकतावच्छेदको धर्मः। संबन्धिशब्दे योग्यतां प्रतिबोध-नकतावच्छेदकधर्मरूपयोग्यतानिरूपकः शब्दार्थयोस्तादात्म्यलक्षणसंबन्ध एव संबन्धिशब्दे योग्यता, सा च स्वाभाविकी, सैव च शक्तिरित्यर्थः। नन्वेवं संकेतस्य नोपयोग इत्यत आह-समयादिति। पारम्परिकवृद्धव्यवहारात्स्वाभाविक्येव सा यौग्यता ज्ञायत इत्यर्थः। तत्र दृष्टान्तमाह-मातापुत्रादीति। नहीयमस्य पुत्रस्य मातेति संकेतेन निर्वृत्तो जन्यजनकभावः, वस्तुसिद्धस्यैव प्रतिपादनात्। यथा मातापुत्रयोर्जन्यजनकभावसंबन्धः सिद्ध एव आप्तोपदेशादिव्यवहारान्निश्चीयते तद्वच्छब्दार्थयोः सवस्थित एव संबन्धो वृद्धव्यवहारान्निर्णीयते। एवं च कोशव्याकरणाद्यनभिज्ञानां तत्तदर्थे तत्तच्छब्दप्रयोगरूपवृद्धव्यवहाच्छक्ति ज्ञानं भवतीति भावः। `संबन्धो विषय इति। अयमेतत्संबन्धीति व्यवहारे संबन्धो विषयः, ज्ञानविषयः। योग्यतां प्रतिइदमत्र योग्यमिति व्यवहारे योग्यता विषयः, ज्ञानविषय इत्यर्थः। यत एवं, अतः समयात्-निरुक्तव्यवहाराद्योग्यताया बोधकतारूपशक्तेः संवित्-ज्ञानं भवतीत्यर्थः' इति दर्पणटीकायामुक्तम्। तदेव मया लिखितम्। संबन्धयोग्यताशब्दयोरर्थप्रदर्शनस्य प्रकृत उपयोगमाह-घटपदमिति। अत्र योग्यं-घटरूपार्थो योग्यं-तद्विषयकबोधजननयोग्यमित्यर्थः। एतत्संबन्धीति। घटसंबन्धीत्यर्थः। सा-शक्तिः। तथा च प्राथमिकशक्तिग्रह उक्तव्यघहाराद्भवति, तत्र च संबन्धादिशब्दशक्तिग्रहोऽपेक्षितोऽतस्तदर्थः प्रदर्शित इति तात्पर्यम्।। 39 ।।
इति वैयाकरणभूषणसारटीकायां शांकर्यां शक्तिस्वरूपनिरूपणम्।
रङ्गभट्टतनूजस्य शंकरस्य विनिर्मितौ।
शक्तिरवरूपकथन पूर्णं सारीयविवृत्तौ।। 6 ।।