वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/लकारार्थनिर्णयः

← धात्वर्थनिर्णयः वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)
लकारार्थनिर्णयः
[[लेखकः :|]]
सुबर्थनिर्णयः →

अथ लकारविशेषार्थनिरूपणम्।।
विशेषार्थजिज्ञासायाः सामान्यार्थज्ञानपूर्वकत्वनियमादाख्यातसामान्यार्थे निरूपितेऽवसरसंगत्य लकारविशेषार्थनिरूपणमरभत इत्याह-प्रत्येकमिति। एकैकस्येत्यर्थः। एकमेकं प्रतीति वीप्सायामव्ययीभावे षष्ठ्या अम्भावादिति भावः। दशलकाराणामिति। दशानां लकाराणामित्यर्थः। दिक्संख्ये संज्ञायामिति समासः। सप्तर्षिवदियं लडादीनां संज्ञेति भावः। लकाराणामिति संबन्ध सामान्ये षष्ठी। प्रत्येकमित्यत्रान्वयः। दशलकाराणां मध्ये एकैकस्येत्यर्थः। अर्थमिति। जात्येकवचनम्। निरूपयति-प्रतिपादयति-वर्तमाने परोक्ष इति। कारिकाया गोलार्थमाह-लडादय इत्यादिना। वर्तमानत्वस्य लडर्थत्वे प्रमाणमाह-वर्तमाने लडितीति। वर्तमानत्वं लक्षयति प्रारब्धापरीति। प्रारब्धापरिसमाप्तक्रियोपलक्षितकालत्वमित्यर्थः। वर्तमानत्वस्य कालगतत्वेन सर्वानुभवसिद्धत्वादिति भावः। प्रारब्धा च अपरिसमाप्ता च या क्रिया तादृशाक्रियाश्रयकालत्वमिति अक्षरार्थः। भाष्ये `न्याय्या त्वेषा वर्तमानकालताऽऽरम्भानपवर्गादवश्यं भुञ्जानो हसति जल्पति, पिबति, निमिषति च' इत्युक्तम्। नान्तरीयकत्वात्तासां न विच्छेदकत्वमिति हसनादिदशायामपि `भुङ्क्ते' इति प्रयोगोपपत्तिः। अनेकदिनादिसाध्यग्रन्थाध्ययनसमये भोजनगमनादिनानाविधक्रियाणामपि न विच्छेदकत्वम्। अत एव संहिताद्यध्ययनसमाप्तिपर्यन्तं देवदत्तः संहितां पठतीति प्रयोग उपपद्यते। इतोऽपि लघु लक्षणमाह-भूतेति। तथा च भूतभविष्यद्भिन्नकालत्वं वर्तमानत्वमित्यर्थः। तत्र भूतत्वं-वर्तमानद्वंसप्रतियोगिक्रियाश्रयकालत्वं, भविष्यत्त्वं तु-वर्तमानप्रागभावप्रतियोगिक्रियाश्रयकालत्वं ज्ञेयम्। वर्तमानत्वं च ध्वंसे प्रकृतप्रयोगाधिकरणकालवृत्तित्वं, एवमेव प्रागभावेऽपि वर्तमानत्वं बोध्यम्। प्रकृतप्रयोगाधिकरणकालश्च प्रहरीदनाद्यात्मको बुद्धिस्थस्तत्र तत्र विशिष्य निवेश्यः। लक्ष्ये लक्षणं संगमयति-पचतीत्यादाविति। अधिश्रयणादिति। अधिश्रयणं-चुल्ल्युपरि स्थालीस्थापनं, आदिर्यस्य, अधःश्रयणं-चुल्ल्या, सकाशात्स्थाल्यवतारणं, अन्तो यस्येति बहुव्रीहिद्वये कृते सति कर्मधारयः। क्रियासमूहोऽन्यपदार्थः। कर्मधारयेऽपि स समूह एव विशेष्यः। तादृशसमूहान्तर्गतमध्ये इत्यर्थः। तत्तत्फलानुकूलव्यापारारम्भक्षणसमाप्तिक्षणयोरन्तराले इति यावत्। तत्-उक्तरूपं वर्तमानत्वमस्तीति लठ्‌प्रयोगो भवतीत्यर्थः। नन्वात्माऽस्ति पर्वताः सन्तीत्यादौ लट्‌प्रयोगानुपपत्तिः। तत्राऽऽत्मधारणानुकूलव्यापारस्य नित्यतया प्रारब्धत्वाभावात्प्रराब्धापरिसमाप्तत्वरूपवर्तमानत्वस्यासंभवादित्याशङ्क्य समाधत्ते-आत्मेत्यादिना। तत्तत्कालिकानां भूतभविष्यद्वर्तमानानां राज्ञां याः क्रियाः स्थित्यादिरूपास्तासामनित्यतया-उत्पत्तिध्वंसशालितया तद्विशिष्टस्य-अनित्यराजक्रियाविशिष्टात्मधारणानुकूव्यापारस्योत्पत्त्यादिकं-उत्पत्तिसमाप्तभूतादिकालभेदमादाय-आत्मादिनिष्ठात्मधारणानुकूलव्यापारे तत्तत्कालविशिष्टराजक्रियागतोत्पत्त्यादिमत्त्वमारोप्य प्रारब्धापरिसमाप्तत्वरूपं वर्तमानत्वमात्मधारानुकूलव्यापारस्य निर्वाह्यम्। अयमर्थः-पर्वतादिकर्तृक्रात्मधारणानुकूलव्यापारस्य नित्यतयोत्पत्त्यादिरहितत्वेऽपि भूतभविष्यदादिकालिकराजक्रियाविशिष्टस्य निरुक्तव्यापारस्योत्पत्त्यादिमत्त्वेन प्रारब्धापरिसमाप्तत्वरूपवर्तमानत्वं सूपपादमिति। आत्मास्तीत्यत्राऽऽत्मनो नित्यतयोत्पत्त्यादिशून्यत्वेऽपि शरीरस्योत्पत्त्यादिमत्तया तादृशशरीरविशिष्टस्याऽऽत्मन उत्पत्त्यादिकं कल्पयित्वा वर्तमानत्वादिबोदकप्रत्ययानां प्रयोग उपपादनीयः। तथा च केवले आत्मधारणानूकूलव्यापाररूपार्थे उत्पत्त्याद्यसत्त्वेऽपि उक्तविशेषणविशिष्टे तस्मिन् विशेषणद्वारोत्पत्त्यादिसत्त्वं नैवानुपपन्नीमत्याशयः। अथवा तद्विशिष्टस्येत्यत्रत्यतच्छब्देनाव्यवहितपूर्वत्वादनित्यत्वस्य परामर्शः। तथा च तादृशानित्यक्रियागतं वर्तमानत्वादिकमारोप्य तदर्थको लट् प्रत्यय इत्यर्थः। अत्रार्थे प्रमात्वेन वर्तमानेलट्‌सूत्रस्थं भाष्यं निर्दिशति--उक्तं हीति तिष्ठतेरधिकरणमिति। राजक्रियाणामाधेयतासंबन्धेन कालविशिष्टत्वात्तादृशक्रियाधारः कालस्तिष्ठतेः पर्वतादिगतस्थितिक्रियाया अधिकरणमित्यर्थः। राजादिक्रियाधारकालस्य पर्वतादिगतस्थितावाधेयतासंबन्धेनाऽऽरोप इति यावत्। तत्र कैयटोऽपथिं व्याचष्ट-`राज्ञां स्थितिर्भूतादिभेदेन भिन्ना पर्वतादिस्थित्यादेर्भोदिकेति क्रियारूपत्वं कालत्रययोगश्चोपपद्यते, इति, क्रियारूपत्वं कालत्रययोगश्च पर्वतादिस्थित्यादेरुपपद्यत इत्यर्थः। अन्यथा पर्वतादिस्थितीनां सदृशावयवत्वात्पूर्वापरीभूतावयवकसमूहत्वरूपक्रियात्वानुपपत्तिः, एवं तासां दुरवधारभेदतया कालभेदानुपपत्तिश्च स्यादिति भावः। परतो भिद्यत इति। सर्वं आत्मसत्तादिकं, पच्यादिधात्वर्थसामान्यमिति यावत्। परतो भिद्यते-परत एव भिद्यते, स्वापेक्षया परेणान्येन वर्तमानत्वादिना भिद्यत इत्यर्थः। आत्मा तु-आत्मसत्तादिकं तु न विकल्पते न स्वतो भेदकं भवति, भेदसाधकं स्वातिरिक्तमेव आत्मसत्तादेः सदृशावयवत्वेन तद्भेदस्य दुरवधारत्वादिविसदृशस्वभावावयकस्तत्रैकसपाप्त्यनन्तरं द्वितीयस्याऽऽरम्भात्ततस्तृतीयस्येत्येवमवधृतभेदतया कालत्रयभेदः प्रसिद्धः-आत्मसत्तादौ तु नैवमित्याशयः। तस्मात्-आत्मसत्तादेः स्वतो भेदसाधकत्वासांभवादेवेत्यर्थः। पर्वतादीति। आदिशब्देनाऽऽत्मादेर्ग्रहणम्। पररूपेणेतिस्वापेक्षया परस्य राजादिनिष्ठक्रियारूपार्थस्य रूपेण-तद्धर्मेणोत्पत्त्यादिमत्त्वेन भि, द्यते इत्यर्थः। इति वाक्यपदीये चोक्तमित्यनेन संबन्धः। ननु तम आसीत्, तुच्छेनाभ्वपिहितं यदासीत्, एको ह वै नारायण आसीत्, अहमेकः, प्रथममासं वर्तामि च भविष्यमि च, इत्यादिश्रुतिषु तमआदिपदार्थानां सदा सत्त्वेन वर्तमानध्वंसप्रतियोगिक्रियाश्रयत्वरूपभूतत्वाभावाद्भूतकालार्थकप्रत्ययोऽनुपपन्न इत्याशङ्क्य समाधत्ते-एवमिति। अयं भावः-अधिश्रयणादरधःश्रयणपर्यन्त ओदनफलावच्छिन्नः संतानरूपो व्यापारनिचयः क्रिया पचेरर्थः। एवं सर्वत्र। स च यावता कालेन निवर्तते तावान्कालो वर्तमानः। तद्योगाद्वर्तमानो धात्वर्थः। तेन निष्पन्नस्यार्थस्य भूतत्वादनिष्पन्नस्य च भावित्वान्निष्पन्नानिष्पन्नव्यतिरेकेण राश्यन्तरस्याभावाद्वर्तमानाभाव इति शङ्का निरस्ता। ततः पर्वतास्तिष्ठन्ति, आत्मऽस्ति, स्रवन्ति सिन्धव इत्यादौ पर्वतादिस्थित्यादेः सर्वदा विद्यमानत्वाद्भूतभविष्यदभावात्तत्प्रतिद्वंद्विरूपस्य वर्तमानस्याप्यभाव इति लण्न प्राप्नोतीत्याशङ्क्य कालत्रवर्तिनां राज्ञां याः क्रियाः परिपालनादिरूपा भूतादिभेदेन भिन्नास्ताः पर्वतादिस्थित्यादेर्भेदिकाः। ततश्च संप्रति ये राजानस्तत्क्रियाभेदेन भिन्नायाः पर्वतादिस्थितेर्वर्तमानत्वं, एवं च कृत्वा भृतभविष्यत्कालोऽप्युपपद्यते-तस्थुः पर्वता नलदुष्यन्तादिकाले, स्थास्यन्ति पर्वताः कल्किविष्णुकाले, इत्येवंरीत्या यथा पर्वतादिस्थित्यादौ भूतत्वादिकं साधितं तद्वत्तमआदिसत्तायां भूतत्वं साधनीयमिति। ननु वर्तमानत्वादीनां लडादिप्रत्ययद्योत्यत्वमथवा तद्वाच्यत्वम्? तत्र न द्वितीयः। वर्तमानत्वादीनां लडादिप्रत्ययवाच्यत्वे हि सति कर्त्रादीनामर्थानां लकारान्तरे (लोट्‌लिङादौ)चरितार्थानां वर्तमानत्वादयोऽर्था बाधका भवेयुः। विशेषेण सामान्यस्य बाधात्। ततश्च लडादीनां कर्त्राद्यभिधायकत्वं न स्यात्। विशेषेण सामान्यस्य बाधात्। ततश्च लडादीनां कर्त्राद्यभिधायकत्वं न स्यात्। तथा च चैत्रमैत्रौ पचतः, मैत्राः पचन्तीत्यादौ कर्तुरभानात्तद्गतद्वित्वाद्यप्रतीतौ द्विवचनबहुवचने न स्याताम्। शबादयश्च न स्युः। लडादेर्वर्तमानत्वाद्यभिदायकत्वेन कर्त्राद्यभिधायकत्वाभावाद्युष्मादादेस्तत्सामानाधिकरण्याभावात्पुरुषव्यवस्था न स्यात्। चैत्रः पचतीत्यत्र लटा कर्तुरनभिधानेनानभिहितत्वप्रयुक्ता कर्तरि तृतीयापत्तिश्च स्यादिति वर्तमानत्वादीनां लडादिप्रत्ययद्योत्यत्वमेव युक्तम्। द्योतकत्वं च स्वसमभिव्याहृतपदगतशक्त्युन्नायकत्वम। वर्तमानत्वादीनां लडादिप्रत्ययवाच्यत्वे त्वित्थमुपपत्तिः-वर्तमानत्वादिभिरर्थैः कर्त्रादयोऽर्था न बाध्यन्ते, परस्परषिरोधाभावात्। शक्ततावच्छेदकभेदेनार्थद्वयसंभवात्। तथा हि-लः कर्मणीत्यत्र `लः' इति बहुवचननिर्देशेन सर्वलकाराणां संग्रहाल्लडादीनामपि कर्त्रादयोऽप्यर्था भवेयुः। तथा च कर्त्राद्यर्थे शक्ततावच्छेदकं लकारत्वं, वर्तमानत्वाद्यर्थे तु लट्‌त्वादिकमिति भावः। किं च कर्त्राद्यर्थे शक्ततावच्छेदकं लकारत्वं, वर्तमानत्वाद्यर्थे तु लट्‌त्वादिकमिति भावः। किं च कर्त्रादयोऽपि निरवकाशाः। न च लिङादयोऽवकाशाः। वर्तमानत्वादिवद्विध्यादेरपि लिङगादिवाच्यत्वादिति। तदेवं पक्षद्वयस्य भाष्यारूपढत्वेऽपि वाचकतापक्षे प्रत्ययार्थतया वर्तमानत्वादीनां प्राधान्यापत्तिः। तदर्थं प्रकृतिप्रत्ययार्थयोः' इति न्यायस्य तिङन्तातिरिक्तत्वेन संकोचः कल्पनीयः। द्योतकतापक्षे तु द्योत्यार्थस्य विशेषणत्वनियमात्प्रत्ययवाच्यविषयस्य `प्रत्ययार्थः प्रधानं' इति नियमस्य नात्रावतार इति न नियमसंकोचप्रसङ्ग इति लाघवाद्‌द्योतकतापक्ष एव साधीयानित्याशयेनाऽऽह-तच्चेत्यादि। वर्तमानत्वादीत्यर्थः। द्योत्यत इति। लडादिर्द्योतकः। द्योतकत्वं च लडादिसमाभिव्याहृतधातुगतशक्त्युद्बोधकत्वम्। तच्च धातोर्वर्तमानत्वादौ शक्तिं विना न संभवति। एवं च बहूनां धातूनां तत्र शक्तिकल्पनायां गौरवापातादल्पतरप्रत्ययानामेव वाचकत्वमेव स्यान्न द्योतकत्वमित्याशङ्‌क्याऽऽह-क्रियासामान्येति। कालस्य सर्वाधारत्वात्कालसामान्यवृत्तिक्रियावाचकस्य धातोर्वर्तमानादिकालविसेषविशिष्टे व्यापारे लक्षणेत्यर्थः। वैशिष्ट्यं च व्यापारे, वर्तमानादिकालनिष्ठाधिकरणतानिरूपिताधेयतासंबन्धेन बोध्यम्। तात्पर्यग्राहकत्वेनेति। विशिष्टलक्षणायां तात्पर्यग्राहकत्वमेव प्रकृते लडादेर्द्योतकत्वमिति भावः। तथा च लडाद्यादेशत्वेन तिबादीनं वर्तमानकालादिद्योतकत्वात्पचति, अपाक्षीदित्यादौ न भूतक्रियावर्तमानक्रिययोः प्रतीतिः। वाचकतापक्षमभ्युपेत्याऽऽह-अन्वयेति। यत्सत्त्वे यत्सत्त्वमन्वयः। यदभावे यदभावो व्यतिरेकः। यथा दण्डसत्त्वे घटनिष्पत्तिर्दृश्यते, दण्डाभावे घटनिष्पत्तिर्न दृश्यत इत्यन्वयव्यतिरेकाभ्यां घटं प्रति दण्डकारणता, एवं लडादिसत्त्वे वर्तमानत्वादेः प्रतीतिर्जायते, यथा-पचति, पक्ष्यति, अपाक्षीदिति। एवमन्वयव्यतिरेकाभ्यां तद्रूपं-वर्तमानत्वादिरूपं, लडादिवाच्यमित्यर्थः। अन्वयव्यतिरेकाभ्यां वाच्यवाचकभावो निर्धार्यत इति यावत्। वाचको लडादिः। वाचकतावच्छेदकं लट्‌त्व-लिट्‌वादिकं तदपि लडाद्यादेशे तिबादावनुभवसिद्धमेव। अनुभवबलादेव च तल्लट्‌त्वादिकं तिबाद्यादेशेष्वारोपितं बोध्यम्। अत एव यजेतेत्यत्र प्रत्ययेऽप्यस्ति अंशद्वयम्। आख्यातत्वं लिङ्त्वं च। तत्र लिङ्‌त्वांशेन शाब्दीबावनोच्यत इति मीमांसाग्रन्थः संगच्छते। अंशद्वयं शक्ततावच्छेदकद्वयमित्यर्थः। वैयाकरणा अपि-पच्यादिष्वस्ति वाचकतावच्छेदकद्वयम्। पच्यादित्वं धातुत्वं च। तत्र धातुत्वेन सामान्यरूपेण पच्यादय उत्पत्त्यनुकूलव्यापारात्मिकां क्रियामाहुः। पच्यादित्वविशेषरूपेण तु विक्लित्त्यादितत्तत्फलविशेषानुकलफूत्कारादितत्तद्व्यापारविशेषात्मिकां क्रियामाहुरिति वदन्ति। अन्यया-अन्वयव्यतिरेकाभ्यां वाच्यवाचकबावानिर्धारणे विलोपापत्तिरिति। पक्तेत्यादावपि पचेर्त्वयापाराश्रये लक्षणा। न च कर्तरि कृदित्यादीनां वैयरथ्यम्। धातोस्तादृशेऽर्थे लक्षणायां कर्तरि कृदित्यादिसूत्राणां तात्पर्यग्राहकत्वेनोपयोगसंभवात्। एवं सर्वत्रापीति प्रत्ययानां वाचकत्वं क्वापि न सिध्येदिति तादृशोक्तेरुच्छेद एव स्यादिति भावः।
परोक्षे लिडिति सूत्रादिति। अनद्यतने लङित्यतोऽनद्यतन इति अनुवर्तते, भूत इत्यधिकृतम्। परोक्षत्वं च धात्वर्थविशेषणम्। परोक्षशब्दोऽयमतीन्द्रियवाची प्रसिद्धः। व्युत्पत्तिस्तु-अक्ष्णः परं परोक्षं, मयूरव्यंसकादित्वात्समासः। अक्ष्णोऽर्शनादित्यच् समासान्तः। वृत्तिविषये चाक्षिशब्दः सर्वेन्द्रियवचनो, न चक्षुःपर्यायः, अन्यथेन्द्रियान्तरविज्ञातं वस्तु परोक्षमापद्येतेत्यर्थः। तथा च-अद्य भवोऽद्यतनस्तद्भिन्नबूतकालवृत्तिर्या परोक्षा क्रिया तद्वाचकाद्धातोर्लिडिति सूत्रार्थः। एवं चैतन्मते भूतानद्यतनकालद्योतको लिट्। पक्षान्तरे तु लड्‌वत्तद्वाचकः। एवं सर्वलकारेषु द्योतकत्वं वाचकत्वं च बोध्यम्। कालशून्येषु लिङादिषु तु द्योतकत्वं वाचकत्वं च मूल एव स्पष्टम्। अद्यतनानद्यतनविभागस्तु-अतीताया रात्रेः पश्चार्धेनाऽऽगामिन्याः पूर्वार्धेन च सहितो दिवसोऽद्यतनस्तद्भिन्नोनद्यतन इत्येकः प्रकारः। अतीताया रात्रेरन्त्यतृतीयभागेनाऽऽगामिन्या आद्यतृतीयभागद्वयेन च सहितो दिवसोऽद्यतनस्तद्भिन्नोऽनद्यतन इति द्वितीयः। उदयादुदयं यावदद्यतनस्ताद्भिन्नोऽनद्यतन इति तृतीयः। एष्वन्यतमाङ्गीकारे देशाचाराद्व्यवस्था। परोक्षत्वं तु वर्षशतवृत्तत्वमित्येके। वर्षसहस्रवृत्तत्वमित्यपरे। द्व्यहवृत्तत्वं त्र्यहवृत्तत्वं चेत्यन्ये। कुड्यकटाद्यन्तरितत्वमितीतरे। एते पक्षा भाष्ये स्थिताः। तत्र प्रयोक्तुरिन्द्रियागोचरत्वं परोक्षत्वमित्येव सर्वसंमतं, सर्वत्रेन्द्रियागोचरत्वस्याव्यभिचरित्वादिति बोद्यम्। अनद्यतने, भूते, परोक्षे, इति विशेषणत्रयस्य क्रमेण व्यावर्त्यमाह-तेनाद्यतन इत्यादिना। अद्य प्रातरेव जगामेति न भवति। अत्र गमनक्रियाया भूतकालवृत्तित्वेऽपि प्रयोक्तुरिन्द्रियागोचरत्वेऽपि च भूतकालस्याद्यतनत्वात्। श्वो जगामेति न लिट्। अत्र गमनक्रियाया अनद्यतनत्वेऽपि भविष्यत्कालवृत्तित्वेन भूतकालवृत्तित्वाभावात्। अद्राक्षमहं गतेऽह्रिः पातरेव स जगमेति लिण्न प्रयुज्यते। अत्र गमनक्रियाया अनद्यतनभूतकालवृत्तित्वेऽपि प्रत्यक्षत्वेन परोक्षत्वाभावात्। परोक्षत्वं लक्षयति-साक्षात्करोमीत्यादि। साक्षात्करोमीत्येतादृशशब्दाभिलप्यमानविषयताशालि यज्ज्ञानं तादृशज्ञानविषयत्वाभाववत्त्वम्। ज्ञानं च प्रयोक्तृनिष्ठत्वेन विवक्षितम्। ततश्च प्रयोक्तुरिन्द्रियागोचरत्वं परोक्षत्वमित्येव फलितम्। परोक्ष इति धात्वर्थविशेषणमित्युक्तं तत्र शङ्कते-न चेत्यादि। क्रिया नामेति। साध्यत्वेनाभिधीयमानो गुणभूतावयवः पूर्वापरीभूतानेकव्यापाराणामेकफलजनकत्वविषयैकबुद्ध्या विषयीकृतः समूहः क्रियेत्युच्यते तान्त्रिकैः। इयमिति। सा चेयं क्रिया यतः पूर्वापरीभूतनेकव्यापारसमूहरूपाऽतोऽत्यन्तापरदृष्टा-परेण प्रत्यक्षप्रमाणेनात्यन्तमदृष्टा प्रत्यक्षप्रमामजन्यज्ञानाविषयेत्यर्थः। पिण्डीभूतेति। अवयवानामाशुतरविनाशित्वेन पिण्डीभावस्यैवाभावेन निदर्शयितुं न शक्येति भाष्येण तस्या इन्द्रियागोचरत्वाभिधानात्परोक्ष इति तद्विसेषणं व्यर्थमिति शङ्काशयः। अव्यावर्तकमिति। यदि तु कस्याश्चित्क्रियायाः प्रत्यक्षं स्यात्तार्हि तादृशप्रत्यक्षविषयक्रियायां लिड्वारणाय परोक्ष इति विशेषमं सार्थकं स्यात्। सर्वस्या अपि क्रियायाः परोक्षत्वे तु व्यावर्त्याभावात्तदकिंचित्करमिति भावः। समाधत्ते-पिण्डीभूताया इत्यादिना। अवयवानां क्षणिकत्वेन तन्मेलनात्यन्तासंभवात्पिण्डस्यैवाभावात्पिण्डीभूताया निदर्शयितुमशक्यत्वेऽपि अवयशः एकैकावयवस्य साक्षात्करोमीत्यतादृशलौकिकप्रतीतिविषयत्वसंभवादवयवद्वारा वक्तुः प्रत्यक्षविषयक्रियायां लिड्वारणाय तत्सार्थकमिति भावः। अवयवानां प्रत्यक्षत्वे साधकमाह-अन्यथेति। उक्तवैपरीत्ये, अवयवानामपि प्रत्यक्षत्वाभाव इत्यर्थः। पश्य मृगो धावतीत्यत्र मृगकर्तृकधावनक्रियाया दर्शनाक्रियानिरूपितकर्मत्वं न स्यात्। तथा च तादृशप्रयोगे भाष्यसंमतैकवाक्यत्वानुपपत्तिरिति भावः। ननु क्षणावच्छिन्ना अवयवा अपि अप्रत्यक्षा एव। वस्तुसौक्ष्म्यवत्सूक्ष्मकालावच्छिन्नत्वस्यापि प्रत्यक्षे प्रतिबन्धकत्वावश्यकत्वेन प्रत्यक्षासंभवात्। अत्यन्तापरदृष्टेति भाष्यस्यापि समूहरूपेणावयवरूपेण च प्रत्यक्षप्रमाणेनात्यन्तमदृष्टेत्येवार्थः। तस्मादादित्यगतिवदुत्तरदेशसंयोगादिरूपफलानुमैयैव सर्वा क्रिया। पश्य मृगो धावतीत्यत्र दृशेर्ज्ञानसामान्यार्थक्रत्वाङ्गीकारेण क्षिप्रं क्षिप्रं देशान्तरसंयोगदर्शनेन च धावनमनुमीयत इत्यनुमितिविषयत्वमेव तत्र धावनस्येति लघुमञ्जूषायां नागेशभट्टैरुक्तत्वात्तदनुसारेण परोक्षपदसार्थक्यं प्रदर्शयति-व्यापाराविष्टानामिति। व्यापारविशिष्टानां क्रियानुकूलसाधनानामेवात्र पारोक्ष्यं विविक्षितमित्यस्य व्यापारविशिष्टे कारके परोक्ष इति विशेषणं, न तु धात्वर्थक्रियायां, तस्या अतीन्द्रियत्वेन परमाणोरिव बहिरिन्द्रियजन्यप्रत्यक्षायोग्यत्वात्। ततश्च अनद्यतनभूतकालिको यो व्यापारस्तादृशव्यापारविशिष्टः परोक्षश्च यो देवदत्तादिस्तन्निष्ठक्रियावाचकाद्‌धातोर्लिडिति परोक्षे लिडिति सूत्रार्थः। तेन पचनादिक्रियानाविष्टस्य चैत्रस्य प्रत्यक्षत्वेऽपि चैत्रः पपाचेति प्रयोनस्य नानुपपत्तिः। पचनादिव्यापारविष्टस्य परोक्षत्वादिति भावः। नोक्तदोष इति। प्रयोक्तुर्व्यापाराविष्टसाधनस्य देवदत्तादेः प्रत्यक्षत्वदाशायां `अयं पपाच' इति प्रयोगवारणार्थतया परोक्षपदसार्थक्ये सतिः अव्यावर्तकत्वरूपो दोषो नेत्यर्थः। व्यापाराविष्टानामित्यस्य प्रयोजनमाह-अयं पपाचेति। व्यापाराविष्टस्य प्रत्यक्षत्व एव लिण्नेष्यते, न तु व्यापारानाविष्टस्य प्रत्यक्षत्व इति भावः। एवं च प्रयोक्तुः प्रत्यक्षाविषयकर्तृकस्थल एव चैत्रः पपाचेति लिट्‌प्रयोगो भवति। यदा हि प्रयोक्ताऽनद्यतनभूतकालिकगमनादिक्रियाकर्तारं सज्जीकृताश्वादिकं बद्धपरिकरं गमनोद्यतं साक्षात्कृतवांस्तदाऽयं जगामेति। प्रयोगो न भवति व्यापाराविष्टस्य धद्धपरिकरादिकस्य गन्तुः परोक्षत्वाभावात्। यदा तु तादृशगमनादिक्रियाकर्तारं क्रियानाविष्टत्वेन साक्षात्करोति तदाऽयं जगामेति लिड् भवति। क्रियाविष्टस्य गन्तुः परोक्षत्वादिति तात्पर्यम्। यद्यपि क्रियाय अप्रत्ययत्वे, विशिष्टज्ञाने विशेषणज्ञानस्य कारणत्वेन तत्र विशेषणभूतक्रियायाः प्रत्यक्षत्वाभावेन तादृशक्रियाविशिष्टसाधनप्रत्यक्षं दुरुपपादमेव, तथा च तद्वैयर्थ्यं तदवस्थमेव तथाऽपि फूत्कारसीत्कारादिक्रियावैशिष्ट्यसमये साधनसमये साधनपरोक्षत्वस्य विवक्षितत्वान्नोक्तदोष इति ध्येयम्। यत्र साधनशक्तयाश्रयभूतं फूत्कारसीत्कारादिविशिष्टं संरब्धरूपं द्रव्यं प्रत्यक्षं तत्र धात्वर्थ एव प्रत्यक्षाभिमानो लौकिकानां, अभिमानो मिथ्याज्ञानं तद्व्य वृत्तये परोक्षग्रहणमिति यावत्। अवेदं बोध्यम्-प्राचीनमते परोक्षत्वं धात्वर्थे विशेषणं, नवीनमते तु धात्वर्थसाधने तद्विशेषणम्। तत्र प्रथममतमेवोचितम्। यतो धातोरित्यधिकारस्य धात्वर्थे लक्षणायां स्व(धातु)वाच्यत्वं संबन्धः, साधनलक्षणायां तु स्व(धातु)वाच्यसाधनत्वं संबन्ध इति गौरवात्। न च सर्वा क्रिया परोक्षेत्यव्यावर्तकं तत्। समुदायस्य परोक्षत्वेऽपि प्रत्येकमवयवस्यापरोक्षत्वात्। अत एव `पिण्डीभूता न निदर्शयितुं शक्या इति भाष्ये विशिष्य पिण्डीभूताया एव निर्दर्शयितुमशक्त्यत्वं प्रदर्शितम्। अतएव पश्य मृगो धावतीत्यत्र धावनाक्रियाया एव पश्येत्यत्र कर्मत्वं सर्वसिद्धमेव। न च प्रत्येकं न क्रियात्वमिति वाच्यम्। तावताऽपि घात्वर्थत्वाक्षतेः किं च फलस्यापि स्वजनकव्यापारगतपौर्वापर्यारोपेण क्रियात्वम्। अत एव च्यते तण्डुलः स्वयमेवेत्यादौ फलमात्रवाचकत्वे तस्य धातुसंज्ञासिद्धिः। परोक्षत्वमपि भाप्योक्तं क्रियायां संगच्छत इति प्रतिभाति इति। नन्वेवं क्रियायाः क्रियाविष्टसाधनस्य वा प्रत्यक्षत्वे लिडनुपपन्न इत्याशङ्कते-कथं तर्हीति। उदयनः किरणावलीं व्यातेने इत्यत्रेत्यर्थः। वितस्तरे इत्यर्थः। तनु विस्तार इति स्मरणात्। कथंत्वे हेतुमाह-स्वक्रियाया इति। उदयनकर्तृकक्रियायः प्रयोक्तुरुदयनस्यावश्यं प्रत्यक्षत्वेन विस्तारक्रियायाः पारोक्ष्याभावाल्लिडनुपपन्न इत्यर्थः। साधनपारोक्ष्यपक्षे क्रियाविष्टसाधनस्य स्वप्रत्यक्षत्वादिति हेतुर्वोध्यः। ननु स्वव्यापारस्यापि वर्तमानदशायां विषयान्तरासक्तिरूपव्यासङ्गादिना स्वयमप्रतिसंधानेऽपि ततः कर्येणानुमितौ भवत्येव लिट्। यथा-बहु जगद पुरस्तात्तस्य मत्ता किलाहम्' इति। अत्र यथा हर्षातिरेकादिना मनसोऽसंनिहितत्वात्क्रियापारोक्ष्यं तद्वत्प्रकृतेऽपि विषयान्तरसंचाररूपव्यासह्गादिना उदयनकर्तृकव्यापारस्य व्यापारविशिष्टसाधनस्य चोदयनप्रत्यक्षविषयत्वाभावरूपपरोक्षत्वसंभवान्न लिटोऽसंगतिरिति चेन्न। स्वव्यापारस्य यताकथंचित्परोक्षत्वोपपादनेऽपि तत्रानद्यतनातीतत्वयोरुपपायितुमशक्यत्वेन लिटोऽसंगतिरेवेत्याह-बहुतरमन प्रणीति। अतिशयितं यन्मनःप्रणिधानं मनसस्तदेकतानत्वं तन साध्यो य शास्त्रार्थनिर्णयस्तज्जनके वाक्यसंदर्भविरचनरूपग्रन्थे या विस्तृतिक्रिया तस्यामद्यतनभिन्नत्वं वर्तमानध्वंसप्रतियोगिक्रियाश्रयकालत्वरूपभूतत्वं चोपपादयितुं सर्वथा दुःशकमिति `व्यातेने' इति अनद्यतनातीतत्वार्थको लिट्‌प्रयोगोऽयुक्त एवेति भावः। असंभवादिति। किरणावलीकर्मकविस्तारानुकूलव्यापारावच्छेनाद्यतनभिन्नत्वाभावादतीतकालसंबन्धाभावाच्च तदसंभव इत्याशयः। व्यातेने इत्यादि तु भूतत्वानद्यतनत्वपरोक्षत्वानामारोपेणोपपन्नम्। आरोपफलं तु ग्रन्थेऽतिसुकरत्वशीघ्रनिष्पाद्यत्वादिप्रत्यायनम्। तत्फलं त्वध्येतॄणां पदार्थतत्त्वनिश्चयफलकैतद्‌ग्रन्थं ज्ञातुं सोत्कण्ठानामाह्‌लाद इत्यादि मञ्जूषायामनुर्संधेयम्। कृभ्वाद्यनुपयोगस्थलेऽप्रयुक्तानां कृभ्वसां क्रियासामान्यमर्थः। क्रियात्वरूपसामान्यधर्माश्रय इति यावत्। आम्‌प्रकृतेस्तु तत्तत्क्रियाविशेषः। सामान्यविशेषयोरबेदान्वयः। तथा च `एधांचक्रे' इत्यत्र एकचैत्राभिन्नाश्रयिका भूतानद्यतनकालाधिकरणिका पारोक्ष्पवती वृद्ध्यभिन्ना क्रियेति बोधो ज्ञेयः। अथवा एकत्वपरोक्षत्वविशिष्टचैत्राभिन्नाश्रयिका भूतानद्यतनकालाधिकरणिका वृद्ध्यभिन्ना क्रियेति बोधः। लुडर्थमाह-अनद्यतने लुडिति सूत्रादिति। भविष्यति गम्यादय इत्यतो भविष्यतीत्यनुवर्तते। धातोरित्यधिकृतम्। भविष्यत्यनद्यतन इत्यस्य धात्वर्थक्रियायामन्वयः। तथा च भविष्यदनद्यतनकालवृत्तियां क्रिया तद्वाचकाद्वातोर्लुडिति तदर्थः। अनद्यतनपदार्थो लिट्‌सूत्रे पूर्वमुक्तः। भविष्यत्त्वं च वर्तमानप्रागभावप्रतियोगिक्रियाश्रयकालत्वम्। उदाहरणं-घटः श्वो भवितेति। अत्र घटनिष्ठसत्तायाः परिस्मिन्नहनि भावित्वेनाद्य तादृशसत्तायाः प्रागभावो वर्तत इति वर्तमानो यः प्रागभावस्तादृशाभावप्रतियोगिनी या क्रिया घटनिष्ठसत्ता तादृशसत्ताश्रयपरिदिनरूपकालत्वं भविष्यत्त्वमिति लक्षणसमन्वयः। एकघटाभिन्नाश्रयिका भविष्यदनद्यतनकालधिकरणिका सत्तेति बोधः। ननु कारिकामां श्वो भाविनीत्युक्तं तदयुक्तम्। यतः श्वःशब्दार्थस्याव्यहितागमिदिनतया तृतीयादिदिनभाविन्यपि पाकादौ पक्तेत्यादिप्रयोगस्येष्टत्वादतः श्वो भाविनीत्यस्यानद्यतने भाविनीत्यर्थः सार उक्तः। एवं च श्वोग्रहणमनद्यतनोपलक्षणमिति भावः। एवं च चेत्रस्तण्डुलं पक्ता इत्यत्र तण्डुलनिष्ठविक्लित्त्यनुकूला एकचैत्राभिन्नाश्रयिका भविष्यदनद्यतनकालिकी क्रियेति बोधः। लृडर्थमाह भविष्यसामान्य इति। अद्यतनानद्यतनैतदुभयचगत भविष्यत्त्वमात्र इति यावत्। तत्र प्रमाणमाह-लॄट् शेषे चेति। दातोरित्यधिकृतम्। अनुवृत्तस्य भविष्यतीत्यस्य धात्वर्थक्रियायामन्वयः। पूर्वसूत्रे क्रियायां क्रियार्थायामित्यर्थनिर्देशः, ततोऽन्यः शेष इति क्रियायां क्रियार्थायामसत्यामिति लभ्यते, चकारात्तस्यां सत्यामपीति। तथा च भविष्यत्कालवृत्तिर्या क्रिया तद्वाचकाद्धातोर्लृड् भवति क्रियार्थकक्रियायां सत्यामसत्यां चेति तदर्थः। उदाहरणं-घटो भविष्यतीति। एकघटाभिन्नाश्रयिका भविष्यत्कालिकी भवनक्रियेति बोधः। तत्त्वं चेति। भविष्यत्त्वं चेत्यर्थः। अवेदं वोध्यम्-अनद्यतनभविष्यत्यपि भविष्यत्त्वमात्रविवक्षायां लृडेव। यथा-सावर्णिको मनुर्नाम भवान्भुविभविष्यति, इत्यादौ। एवमनद्यतनभूतेऽपि भूतत्वमात्रविवक्षायां लुङ्, यथा सुरथो नाम राजाऽभूत्, इत्यादाविति। ननु लृट् इत्येव सूत्रमस्तु। शेषे चेति मास्तु। भविष्यदर्थाद्धातोर्लृङित्येतावतैव क्रियार्थकक्रियायां सत्यामसत्यां च लृटः सिद्धेरिति चेन्न। शयिष्यत इति स्थीयते इत्यादौ क्रियार्थकक्रियायां सत्यां तुमुन्ण्वुलाविति तुमुना लृटो बाधापत्तेः। न च वासरूपविधिना लृटः सिद्धिरिति वाच्गम्। क्तल्युट्‌तुमुन्खलर्थेषु वातरूपविविर्नेति वासरूपविधेर्निषेधात्। शयिष्यत इत्यत्र भावे लृट्, इतिशब्दस्तु द्वयोः संबन्धबोधकः। तथा च भविष्यत्कालिकशयनफलिका मत्कर्तृका स्थितिरिति बोध-। विध्यादेर्लेडर्थत्वे प्रमाणमाहलिङर्थे लेडिति। ननु लिङर्थे लेड्विधानेऽपि कथं तस्य विध्याद्यर्थकत्वमत आह-लिङर्थश्च विध्यादिरितीति। आदिना निमन्त्रणादीतां तत्सूत्रोक्तानां ग्रहणम्। लोडर्थमाह-प्रार्थनेति। प्रतीकमिदं प्रार्थनादावित्यस्य। प्रार्थनस्याऽऽदिः, प्रार्थनमादिर्यस्येति तत्पुरुषबहुव्रीह्योस्तन्वेण निर्देश इत्याशयवानाहआदिना विध्याद्याशिष इति। अत्रार्थे प्रमाणमाह-आशिषि लिङ्लोटावित्यादि। तथाऽवगमादिति। लोटो विध्याद्याशीरर्थावगमादित्यर्थः। उदाहरणमाशीर्विषयकमाह-भवत् ते शिवप्रसाद इति। आशीस्तु-सुखादिशुभविषयकाशंतनरूपेच्छा, सा च लोट्‌लिङाद्यन्तशब्दप्रयोक्तृगता। तादृशेच्छायाश्च विषयतासंबन्धेन कारकविशिष्टक्रियायामन्वयः। तथा च-सुखादिशुभविषयकमतेकर्तृकाशंसनरूपेच्छाविषयः-त्वत्संबन्धिशिवकर्तृकप्रसादकर्तृकं भवनमिति बोधः। विध्यादिपदार्थानामिदानीं निर्णयाभावात्तदुहारणाप्रदर्शनं ज्ञेयम्। ननु विध्यादीनामनिर्णये कथं लेटलोटारेर्थानिर्णय इत्यत आह-एतयोरिति। लिङर्थ एव लेट्‌लोटोरर्थ इत्यर्थः। तन्निर्णयेनेति। लिङर्थनिर्णयेनैव लेट्‌लोटारेर्थनिर्मयो भविष्यतीत्यर्थः। लिङर्थनिर्मयस्तु विधिनिमन्त्रणोतिलिङ्‌विधायकसूत्रे करिष्यत इति भावः।। 22 ।।
लङादीति । आदिपदेन लिङ्‌लुङ्‌लृङां ग्रहणम्। ङितामिति। ङकारेत्संज्ञकानां लङादिचतुर्णामित्यर्थः। अर्थं प्रदर्शयन्नाह-ह्यो भूते प्रेरणादौ चेति। ह्यःशब्दार्थस्याव्यवहितातीतदिनतया तदर्थविवक्षे द्व्यदिदिनव्यवहितभूतेऽपीष्टो लङ् न स्यादतस्तदनद्यतनभूपोपलक्षमित्याशयवानाह-अनद्यतने भूत इति। उपलक्षणत्वे प्रमाणं ब्रूते-अनद्यतने लङिति सूत्रादिति। अत्र धातोरिति भूत इति चाधिकृतम्। अनद्यतन इति भूतविशेषणम्। भूत इति च धात्वर्थक्रियाविशेषणम्। तथा चानद्यतनभूतकालवृत्तिर्या क्रिया तद्वाचकाद्धातोर्लङिति तदर्थादित्यर्थः। भूतत्वं च-वर्तमानध्वंसप्रतियोगिक्रियाश्रयकालत्वमित्युक्तमेव। उदाहरणगाह-अस्य पुत्र इति। यदा च लङ् प्रयुज्यते तत्प्राग्दिन एव पुत्रोत्पत्तेः संपूर्णतया जातत्वेन क्रियाया वर्तमानध्वंसप्रतियोगित्वरूपानद्यतनभूतकालवृत्तित्वं संगतम्। तथा चानद्यतनभूतकालिक एतत्संबन्ध्येकपुत्राभिन्नाश्रयक उत्पत्त्यनुकूलो व्यापार इति बोधः। प्रेरणादेर्लिङर्थत्वे प्रमाममाह-बिधिनिमन्त्रणेत्यादि। विध्यादिष्वर्थेषु द्योत्येषु वाच्येषु वा धातोर्लिङ् स्थादिति तदर्थादित्यर्थः। विध्यादीनां द्योत्यत्वं वाच्यत्वं चेति पक्षद्वयमपि भाष्ये स्थितम्। तत्र द्योत्यत्वे इत्थमुपपत्तिः-विध्यादीनां लिङ्‌वाच्यत्वमनुचितम्। तथाहि सति कर्त्राद्यर्थानां लडादिलकारान्तरे चरितार्थानां विध्यादयोऽर्था बाधका भवेयुः। ततश्च लिङः कर्त्राद्यभिदायकत्वं न स्यात्। तथा च चैत्रमैत्रौ भवेतामित्यादौ कर्तुरभानात्तद्गतद्वित्वाद्यप्रतीतौ द्विवचनबहुवचनानापत्तिः। सार्वधातुकस्य कर्त्रर्थकत्वाभावाच्छबाद्यनुपपत्तिः। लिङो विध्याद्यर्थाभिधायकत्वेन कर्त्राद्यभिधायकत्वाभावाद्युष्मदादेस्तिङ्‌वाच्यकारकवाचकत्वाभावेन पुरुषव्यवस्था न स्यात्। नुरुक्तोदाहरणेऽभिहतत्वप्रयुक्ततृतीयादिविरहश्च न सिध्येदिति विध्यादीनां लिङ्‌द्योत्यत्वमेव युक्तम्। वाच्यत्वे त्वित्थमुपपत्तिः-विध्यादिभिः कर्त्रादयो न बाध्यन्ते। परस्परविरोधाभावात्। शक्ततावच्छेदकभेदेनार्थद्वयस्यापि संभवात्। तथा हि-लः कर्मणीत्यत्र `लः' इति बहुवचननिर्देशेन सर्वलकाराणां संग्रहाल्लिङोऽपि कर्त्रादयोऽप्यर्थाः स्युरेव। तथा च कर्त्राद्यर्थे शक्ततावच्छेदकं लकारत्वं, विध्याद्यर्थे तु लिङ्‌त्वमिति भावः। किं च कर्त्रादयोऽपि निरवकाशा एव। न च लडादयोऽवकाशाः। विध्यादिवद्वर्तमानत्वादेरपि लडादिवाच्यत्वादिति ज्ञेयम्। अथापि भवेदित्यादौ धात्वर्थं प्रति विध्यादेः प्रत्ययार्थतया विशेष्यत्वं स्यात्। तथा चैकचैत्राभिन्नाश्रयकं विधिविषयो भवनमिति धात्वर्थमुख्यविशेष्यकशाब्दबोधवर्मनमयुक्तं स्यात्। प्रत्ययार्थतया विशेष्यत्वापादनस्य कर्त्रादावपि तुल्यत्वात्। प्रत्ययार्थः प्रधानं, प्रकृत्यर्थो विशेषणमित्पौत्सर्गिकमाख्याते त्यज्यते, बावप्रधानमाख्यातमिति भाष्यानुरोधादिति चेत्तर्हि तत एव न दोष इत्यवधेयम्। विध्यादिशब्दार्थान्निर्वक्ति-तत्रेति। तेषां विध्यादीनां मध्यइत्यर्थः। प्रेरणमिति। प्रवर्तनमित्यर्थः। प्रवर्ततं च प्रवृत्त्यनुकूलो व्यापारः। यथा निकृष्टस्य भृत्यादेः प्रभुणा स्वाभिलषिते प्रवर्तनम्। इथमेवाऽऽज्ञा। अप्रवृत्तप्रयोज्यस्य तदभिलषिताज्ञातोपायप्रवर्तनमुपदेशः। यथा स्वर्गकामो यजेतेत्यादिः। यथा वाऽनेन पथा याहीत्याप्तवचः। सोऽपि विधिरेव। आद्ये स्वर्गोऽभिलषितः। अत्राप्रवृत्तस्य प्रयोज्यस्य देवदत्तादेर्यदभिलषितं स्वर्गः, तत्प्रातिविषये योऽज्ञातोपायः-यागः, तादृशे स्वर्गप्राप्त्युपायभूते यागे प्रवर्तनं देवदत्तादेरनेन वाक्येन क्रियत इत्ययमपि विधिरित्यर्थः। अन्त्ये काश्यादिप्राप्तिरबिलषितमित्याद्यूह्यम्। भृत्यादेर्निकृष्टस्येति। स्वसमानोत्तमयोः प्रवर्तनायामतिव्याप्तिवारणाय निकृष्टत्वोक्तिः। एवं च न तत्र विधित्वमिति भावः। आज्ञाप्यत्वेन निकृष्टत्वं विवक्षितमिति बोदयितुं-भृत्यादेरिति। तेन स्वापेक्षयाऽधिकवयस्कभृत्यप्रेरणाया विधित्वमेव। नियोगकरणमिति। आवश्यके श्राद्धभोजनादौ स्वभिलषिते दौहित्रादेः प्रवर्तनमित्यर्थः। आमन्त्रणमिति। स्वामिलषिते कामचारेण प्रवदौहित्रादेः प्रवर्तनमित्यर्थः। आमन्त्रणमिति। स्वामिलषिते कामचारेम प्रवर्त्यप्रवर्तनमित्यर्थः। कामचारश्च प्रवर्त्यस्यैव। एषैव च कामचारानुज्ञा। प्रवृत्तस्य प्रयोज्यस्य निवृत्तिप्रतिबन्धेन तद्धिते प्रवर्तिकोक्तिरनुज्ञा। आरब्धं कुर्वेवेत्येवंरूपा। तथा कुरुष्व यथाहितमित्यप्यनुज्ञैव। एतत्सर्वोपलक्षणमामन्त्रणम्। अधीष्ट इति। सत्कारपूर्वक इति। सत्कृत्य क्वचनोचिते महति कर्मणि प्रवर्तनमित्यर्थः। यथा-पाणवकमध्यपयेति। एषैवाभ्यर्थना। प्रार्थना तु स्वाभिलषितवस्तुदानादिप्रवर्तिकोक्तिः। संप्रश्नः-संप्रधारणमिति। एकतरकोटिकनिर्णयेच्छा। यथा-किं भो वेदयधीयीयोत तर्कमिति। एतच्चतुष्टयेति। विध्याद्यधीष्टान्तेषु चतुर्ष्वनुस्यूतमनुगतं यत्प्रवर्तनात्वं प्रवर्तनागतं सामान्यं तद्रूपेणव चतुर्णां वाच्यता स्वीकर्तव्या शक्यतावच्छेदकत्वे लाघवात्, न तु विधित्वादितत्तद्विशेषरूपेण, शक्यतावच्छेदकत्वे गौरवात्। यजेतेत्यादिविधिवाक्याद्विध्यादीनां बोधस्य सर्वानुभवसिद्धत्वेऽपि तत्तद्विशेषरूपेण वाच्यतायां तत्तद्रूपस्यनेकत्वेन शक्यतावच्छेदकानेकत्वस्य दुर्वारतया गौरवात्प्रवर्तनात्वेन वाच्यतायां प्रवर्तनात्वस्यैकत्वेन तस्य शक्यतावच्छेदकत्वकल्पने लाघवं भवतीति प्रवर्तनात्वेनैव विध्यादीनां वाच्यतोचितेति भावः। अवार्थे वाक्यपदीयानुकूल्यं दर्शयितुमाह-उक्तं चेति। हरिकारिकायामित्यर्थः। प्रवर्तनारूपमिति। प्रवर्तनाया रूपं प्रवर्तनात्वमित्यर्थः। तत्प्रवर्तनात्वं विध्यादिषु चतुर्षु अनुगतमस्तीत्यतस्तत्रैव प्रवर्तनात्ववत्येव लिङ् विधातव्यः, आकृत्यधिकरणन्यायेन धर्ममात्रे शक्तिरिति मते प्रवर्तनात्व एव लिङ विधातव्य इति यथाश्रुतमेव साधु। किं भेदस्येति। तत्तद्विशेषरूपेण पार्थक्याद्भेदविवक्षया किं प्रयोजनं न किमपीत्यर्थः। प्रत्युत भेदविवक्षा गौरवग्रस्तेति भावः। नन्वेवं तर्हि सूत्रकृता चतुर्णां पृथगुपादानं किमति कृतं तदाशयमाह-न्यायव्युत्पादनेति। न्यायः-विध्यादितत्तत्पदप्रवृत्तिनिमित्तविशेषः, तदवगमार्थमित्यर्थः। प्रवर्तनाया भेदबोधनायेति यावत्। ननु लोकव्युत्पत्त्यैव तदवगमो भवेदित्यत आह-प्रपञ्चार्थमिति। लोकव्यवहारेण प्रवर्तनाबेदावगम उत्तमाधिकारिणां सुशकः, मध्यमाद्यधिकारिणां तु दुरवगम इति तेषां स्पष्टप्रतिपत्तये सूत्रे चतुर्णामुपादानमिति भावः। प्रवर्तनात्वं चेति। प्रोपसृष्टाद्‌वृतुधातोर्ण्यन्ताण्ण्यासश्रन्थो युजिति युचि निष्पन्नस्य प्रवर्तनाशब्दस्य प्रवृत्त्यनुकूलो व्यापारविशेषोऽर्थः। तस्य व्यापारविशेषस्य स्वरूपतः प्रवृत्तिजनकत्वादर्शनात्प्रवृत्तिविषयस्येष्टसाधनत्वज्ञानत्वज्ञानद्वारैव तस्य प्रवृत्तिजनकत्वं वाच्यम्। अन्यथा प्रवृत्तिविषयस्येष्टसाधनत्वाज्ञाने प्रवृत्त्यनुपपत्तिः स्यात्। अतः प्रवृतितजनकं यज्ज्ञानं, तादृशज्ञानीयविषयतायां यवच्छेदकं तत्त्वमवच्छेदकत्वंतद्‌रूपमेव प्रवर्तनात्वमित्यर्थः। तच्चेति। प्रवृत्तिजनकज्ञानीयविषयतावच्छेधकत्वं चेत्यर्थः। तदेवेति। इष्टसाधनत्वमेवेत्यर्थः। एवकारेम कृतिसाध्यत्वादेर्व्यावृत्तिः। विध्यर्थो ज्ञेय इति शेषः। नन्विष्टसाधनत्वज्ञानस्येव कृतिसाध्यताज्ञानस्यापि प्रवृत्तिहेतुत्वमवश्यमङ्गीकर्तव्यम्। अत एव कृत्यसाध्यसुमेर्वानयनादावप्रवृत्तिरुपपद्यत इति चेदाह-यद्यपीत्यादि। एतदिति। प्रवृत्तिजनकाज्ञानविषयतावच्छेदकत्वभित्यर्थ-। कृतिसाध्यत्वस्यापीति। अस्तीति शेषः। तत्सत्त्वे हेतुमाह-तज्ज्ञानस्येति। कृतिसाध्यत्वज्ञानादपि प्रवृत्तिदर्शनादित्यर्थः। कृतिसाध्यत्वज्ञानस्य प्रवृत्तिहेतुत्वं निरस्यति-तथाऽपीति। लोकत एवेति। यागो मत्कृतिसाध्यः, मत्कृतिसाध्यत्वविरोधिधर्मानाक्रान्तत्वादित्याद्यनुमानाख्यलौकिकप्रमाणादेवेत्यर्थः। गम्यत इति। यागादौ सर्वत्र कृतिसाध्यत्वमनुमानेनावगम्यत इत्यर्थः। यागादौ स्वर्गादिष्टसाधनत्वं तु न लौकिकप्रमाणतोऽवगन्तु शक्यं किंतु वेदेनैव तदवगन्तुं शक्तत इति तव शक्तिकल्पनमावश्यकमिति भावः। अन्येतु कृतिसाध्यताज्ञानं न प्रवर्तकं, कृत्यसाध्यत्वेन निश्चिते प्रवृत्तिस्तु न, तत इष्टाभावेन वृथाश्रमजनकत्वेन द्वेषादिति वदन्ति। एवं च कृतिसाध्यत्वस्यान्यलभ्यत्वादनन्यलभ्यो हि शब्दार्थ इति न्यायान्न तल्लिङ्शक्यमिति भावः। ननु मधुविषसंपृक्तान्नभोजनादौ प्रवृत्तिवारणाय बलवदनिष्टाजनकत्वज्ञानस्यापि प्रवृत्तिहेतुत्वं कल्पनीयं, तथा च तत्रापि लिङः शक्तिरावस्यकीति चेदाह-बलवदनिष्टेत्यादि। बलवदनिष्टाजनकत्वज्ञानं चेत्यर्थः। न हेतुरिति। न प्रवृत्तिहेतुरित्यर्थः। ननु यागपाकदेरपि नान्तरीयकानिष्टदुःखजनकत्वेन कथं तत्र प्रवृत्तिः स्यादत उक्तं बलवदिति। तथा च यागपाकादौ यत्किंचिद्‌दुःखादिस्वल्पानिष्टजनक्तवेऽपि सुखाधिकदुःखाभावाद्बलवदनिष्टाजनकत्वेन प्रवृत्तिर्भवत्येव। बलवदनिष्टं च सुखाधिकदुःखमिति भावः। बलवदनिष्टाजनकत्वज्ञानस्य प्रवृत्तिहेतुत्वाभावे युक्तिमाह-द्वेषाभाबेनान्यथासिद्धत्वादिति। अयं भावः-कार्यमात्रं प्रति प्रतिबन्धकाभावो हेतुरित्यवश्यमङ्गीकरणीयम्। अन्यथा चक्रचीवरकुलालादियावदपेक्षितकारणसामग्रीसत्त्वेऽपि यद्‌घटोत्पत्त्यदर्शनं तन्न संगच्छेत। प्रतिबन्धकाभावस्य हेतुत्वे तु तत्र सहसैव कुलालस्याऽऽमवातरूपरोगविशषोपद्रुतत्वाज्जडीभूतकलेवरत्वरूपप्रतिबन्धकसत्त्वेन युज्यते घटोत्पत्त्यदर्शनम्। मधुविषसंपृक्तान्नभोजने तृप्तिसुखापेक्षयाऽधिकस्य मरणरूपदुःखातिशयस्य सत्त्वात्तादृशदुःखे यो द्वैषस्तादृशद्वेषरूपप्रतिबन्धकसत्त्वेन प्रवृत्त्यभावः। यत्र तु तादृशप्रतिबन्धकस्याभावस्तत्र प्रवृत्तिर्भवत्येव। यथा बह्वायासद्रव्यव्ययादिसाध्ये यागादौ बहुतरदुःखजनकत्वेऽपि तादृशदुःखे स्वर्गसुखापेक्षयाऽधिक्याभावेन द्वेषाभावाद्‌द्वेषरूपप्रतिबन्धकाभावात्प्रतृत्तिर्निर्बाधा। एवं च द्वेषाभावेन(प्रतिबन्धकाभावेन)प्रवृत्त्युपपत्तौ न यलवदनिष्टाजनकत्वज्ञानस्य प्रवृत्तिहेतुत्वं स्वीकार्यम्। प्रतिबन्धकाभावेनान्यथासिद्धेः-गतार्थत्वान्न पृथग्बलवदनिष्टाजनकत्वज्ञानस्य प्रवृत्तिहेतुत्वं कल्पनीयमिति भावः। किं च नियतान्वयव्यतिरेकाभ्यां कार्यकारणाभावो निश्चीयते तान्त्रिकैः। तत्रान्वयव्यभिचाराभावेऽपि व्यतिरेकव्यभिचारदर्शनेन बलवदनिष्टनरकपातादिजनकत्वज्ञानसत्त्वेऽपि आस्तिककामुकस्य रागान्धस्य परकीयसुन्दरीगमने रागौत्कट्येन द्वेषाभावकल्पनया प्रवृत्तिदर्शनेन व्यभिचारात्-व्यतिरेकव्यभिचारात्कारणाभावे कार्यसत्त्वरूपाद्बलवदनिष्टाजनकत्वज्ञानस्य न प्रवृत्तिहेतुत्वं संभवतीत्यर्थः। बलवदनिष्टाजनकत्वज्ञानसत्तेव प्रवृत्तिसत्त्वमित्यन्वयः, बलवदनिष्टाजनकत्वज्ञाना भावे(बलवदनिष्टजनकत्वज्ञानसत्त्वे)प्रवृत्त्यभाव इति व्यतिरेकः। व्यतिरेकव्यभिचारस्तु कारणाभावे कार्यसत्त्वरूपः। परकीयसुन्दरीमने बलवदनिष्टाजनकत्वज्ञानरूपकारणाभावे प्रवृत्तिरूपपकार्यसत्त्वाद्व्यभिचार इति बोध्यम्। अत्राऽऽस्तिकेत्युक्त्या परकीयसुम्दरीगमने नरकसाधनताज्ञानसत्त्वावश्यकत्वं सूचितम्। उत्कटेच्छयेत्यनेन तत्र द्वेषाभावस्य भ्रमरूपत्वं सूचितम्। एतेन यत्र बलवदनीष्टजनकत्वज्ञानं तत्र द्वेषध्रौव्यं, यत्र तु द्वेषाभावस्तत्र बलवदनिष्टाजनकत्वज्ञानसत्त्वाद्युक्तैव प्रवृत्तिरिति न व्यतिरेकव्यभिचार इत्यपास्तम्। तत्र द्वेषाभावस्य भ्रमरूपत्वादिति भावः। एवं च वस्तुतो बलवदनिष्टजनकत्वज्ञानसत्त्वेन बलवदनिष्टाजनकत्वज्ञानरूपकारणाभावेऽपि आस्तिकस्य परकीयसुन्दरीगमने प्रवृत्तिदर्शनाद्‌दृढो व्यतिरेकव्यभिचार इत्याशयः। तथा च कृतिसाध्यत्वस्यानुमानेन गम्यत्वात्, बलवदनिष्टाजनकत्वस्य प्रवृत्त्यनुपयोगित्वाच्चेष्टसाधनत्वमेव लिङ्‌शक्यार्थ इत्याह-तस्मादित्यादि। प्रवर्तनेति। लिङाद्यर्थ इत्यर्थः। इष्टसाधनत्वमवे लिङादिशक्यमित्यत्र मण्डनमिश्रोक्तिं प्रमामयति-उक्तं चेति। पुंसां नेष्टेत्यादि। इष्टाभ्युपायत्वं-इष्टसाधनत्वं, तस्मादन्यः-बलवदनिष्टाजनकत्वादिः, पुंसां यागादिक्रियासु प्रवर्तको न-प्रवृत्तिजनकज्ञानविषयो न भवति, अपि तु इष्टसाधनत्वमेव प्रवृत्तिजनकज्ञानविषय इत्यर्थः। चशब्दो हतौ। यतः। प्रवृतितिहेतुं धर्मं-प्रवृत्तिजनकज्ञानविषयतावच्छेदकं धर्मं प्रवर्तनाशब्दार्थं वदन्तीत्यर्थः। अयं भावः-प्रोपसर्गविशिष्टवृतुधातोर्णिजन्ताद्युचि निष्पन्नः प्रवर्तनाशब्दः प्रवृत्त्यनुकूलव्यापारमाह। तादृशव्यापारश्च यागादिगतेष्टसाधनत्वज्ञानमेव। यजेतेत्याद्युक्तेऽपि यदा ह्यसौ यागादि मदिष्टसाधनमित्येवं जानाति तदैवायं यागादौ प्रवर्तते नान्यथेति दृष्टत्वात्। तथा च यागादिकर्तरि समवेतं यज्ज्ञानं तादृशज्ञानीयविषयता यागाभिन्ने मदिष्टसाधने, तादृशविषयतावच्छेदकं च, `संभवति लघुधर्मस्यावच्छेदकत्वे गुरुधर्गस्यावच्छेदकत्वं न कल्प्यम' इति न्यायेन लघुत्वादिष्टसाधनत्वमेवेति तदेव प्रवर्तनाशब्दार्थः, स एव च लिङादिशक्य इति। प्रपञ्चितं चैतदिति। लौकिकप्रमाणावगतत्वात्कृतिसाध्यत्वज्ञानस्य, प्रवृत्त्यनुपयोगित्वाच्च बलवदनिष्टाननुबन्धित्वज्ञानस्य प्रवृत्तिहेतुतानिराकारणेनेष्टसाधनाताज्ञानस्यैव प्रवृत्तिहेतुत्वनिर्धारणं चेत्यर्थः। प्रपञ्चस्तु संक्षेपतो निरुक्तरीत्या दर्शितप्राय एवेति बोध्यम्।
आदिनेति। कारिकायां प्रेरणादौ चे त्यत्रत्यादिशब्देनेत्यर्थः। हेतुहेतुमतोरिति। हेतुभूताक्रियावाचकात् फलभूतक्रियावाचकाच्च धातोर्लिङ् स्याद्भविष्यतीति तत्सूत्रार्थः। हेतुहेतुमद्भावेति। हेतुर्हेतुमानशीश्चेत्यर्थः। तत्राऽऽशिष्युदाहरणमुक्तम्। अथ हेतुहेतुमद्भावोदाहरणं वक्ति-यो ब्राह्मणायेत्यादि। अवगोरणं हननार्थं दण्डाद्युद्यमनम्। ब्राह्मणायेति क्रियया यमभिषैतीतिवार्तिकात्पत्ये शेते इतिवत्संप्रदानत्वाच्चतुर्थी, तथा च यो-यत्कर्तृकः, ब्राह्मणाय-ब्राह्मणोद्देश्यकः, अवगुरेत्-दण्डाद्युद्यमनादिव्यापारः, तादृशव्यापारहेतुकाः, तं-तादृशपुरुषकर्मिकाः, शतेन यातयेत्-शतसंवत्सरपर्यन्तं यमदूतकर्तृका यातनाः, इति शाब्दबोधः। अत्र कारकविशिष्टक्रियायाः-यत्कर्तृकब्राह्मणोद्देश्यकदण्डाद्युद्यभनक्रियायाः, यातयेदिति यातनारूपक्रियायां हेतुहेतुमद्भावसंबन्धेनान्वयः, न तु हेतुहेतुमदर्थकत्वं लिङः। हेतुहेतुमद्भूतक्रियावाचकाद्धातोर्लिङिति सूत्रार्थस्य पूर्वमुक्तत्वात्। तादृशसंबन्धेनान्वयबोधे तात्पर्यग्रहकत्वेन सूत्रसार्थक्ये सति पुनस्तत्र लिङः शक्ति कल्पनस्य गौरवपराहतत्वात्। लुङर्थमाह-भूतमात्र इति। मात्रशब्दोऽवधारणार्थक इत्याशयवानाह-भूतसामान्य इति। भूतत्वरूपसामान्यधर्मावच्छिन्ने, न तु विशेषधर्मावच्छिन्न इत्यर्थः। तत्र प्रमाणमाह-मूते लुङिति सूत्रादिति। भूतत्वरूपसामान्यधर्मावच्छिन्नं `भूते' इति पदमधिधिकृत्य धांतोर्लुङ्विधानादित्यर्थः। तत्र भूते इति धात्वर्थक्रियायां विशेषणम्। भूतकालिकक्रियावाचकाद्धातोर्लुङिति तदर्थः। अत्रेति। `भूते' इत्यधिकारसूत्र इत्यर्धः। भूतत्वमाह-वर्तमानेति। वर्तमाने, वर्तमानो वा ध्वंस इति द्विविधसमाससंभवेऽपि अर्थैक्यसंभवाद्वर्तमानकालिको यो ध्वंस-अतीतक्रियाध्वंसः, तादृशध्वंसप्रतियोगिनी या अतीतक्रिया तस्यां प्रतियोगत्वसत्त्वाद्वर्तमानध्वंसप्रतियोगिक्रियाश्रयकालत्वं भूतत्वमित्यर्थः फलतीत्याशयेनाऽऽह-तच्च क्रियायां निर्बाधमिति। वर्तमानध्वंसप्रतियोगित्वं च क्रियायामतीतक्रियायामक्षतमित्यर्थः। तेन संप्रति घटस्य विद्यमानत्वेऽपि घटनिष्ठोत्पत्त्यनुकूलव्यापारस्य परिसमाप्तत्वादेकघटाभिन्नाश्रयको भूतकालिक उत्पत्त्यनुकूलो व्यापार इत्यर्थबोधकः, `घटोऽभूत्' इति प्रयोग उपपद्यते। वर्तमानध्वंसप्रतियोगीत्यनेन भूतकालिकत्वं प्रदर्शितम्। अयमत्रेति। अयं-बुद्धिस्थत्वेन संनिहितो वक्ष्यमामः। संग्रह इत्यस्य द्रष्टव्य इत्यनेन संबन्धः। आद्य इति। अद्यभवोऽद्यतन इत्यर्थः। भेदादिति। तथाचाऽऽद्ये पचति, पक्ष्यति, अपाक्षीदिति त्रिविधोऽपि प्रयोगो दृश्यते। अन्त्य इति। अद्यतनभिन्नोऽनद्यतन इत्यर्थः। भूतो भविष्यंश्चेति। भूतत्वरूपसामान्यधर्मावच्छिन्नो भूतः, भविष्यत्त्वरूपसामान्यधर्मावच्छिन्नो भविष्यन्नित्यर्थः। भूतत्वमात्र इति। मात्रशब्दोऽवधारणार्थकः। भूतत्वरूपसामान्यधर्मेणैव विवक्षायां लुङ्, इत्यर्थः। अनद्यतनत्वावच्छिन्भूतत्वरूपविशेषधर्मेण विवक्षायां तु लङ्। तत्रैव परोक्षत्वविवक्षायां लिट्। भविष्यत्तामात्र इति। अत्रापि मात्रशब्दोऽवधारणार्थकः। भविष्यत्त्वरूपसामान्यधर्मेणैव विवक्षायां लॄट्। अनद्यतनत्वावच्छिन्नभविष्यत्त्वरूपविशेषधर्मेण विवक्षायां तु लुट्। हेतुहेतुमद्भावादीति। आदिशब्देन इच्छार्थेषु लिङ्‌लोटौ, शकि लिङ्‌चेत्यादिलिङ्‌निमित्तानां संग्रहः। अनयोरिति। भूतत्वभविष्यत्त्वरूपसामान्यधर्मेण विवक्षितयोर्भूतभविष्यत्कालयोरित्यर्थः। लॄङिति। लिङ्‌निमित्ते, भूते च, इति सूत्राभ्यां भूते भविष्यति च सामान्यधर्मेण विवक्षिते लृङ्‌विधानात्। लृङर्थभाह-सत्यामितीति। क्रियाया अनिष्पत्तौ गम्यमानायां भूते भविष्यति च काले हेतुहेतुमद्भावादिलिङ्‌निमित्ते सति लॄङ् भवतीत्यर्थः। अत्रार्थे प्रमाणमाह-इति सूत्रादिति। हेतुहेतुमद्भावादिलिङ्‌निमित्तत्वाक्रान्तक्रियावाचकाद्धातोर्भूतत्व-भविष्यत्त्वरूपसामान्यधर्मेण विवक्षिते भूते भविष्यति च काले लॄङ् स्यादिति तत्सूत्रार्थादित्यर्थः। तत्र भविष्यत्यर्थे उदाहरणं-सुवृष्टिश्चेदित्यादि। अत्र सुवृष्टिभवनं सुभिक्षभवनस्य हेतुः। सुभिक्षभवनं च हेतुमत्-फलमित्यर्थः। अत्रासकृत्प्राक्सुवृष्टिभवने सति सुभिक्षभवनं दृष्ट्वा भाविनोऽपि सुवृष्टिभवनस्य सुभिक्षभवनं प्रति हेतुत्वमनुमानादवगच्छति। एवं क्रियातिपत्तिमपि प्रतिबन्धकसद्भावात्साधनवैकल्याद्वाऽवगच्छति। प्रतिबन्धकसद्भावो यथा-समीपस्थयोर्बुधशुक्रयोर्मध्ये सूर्यश्चेत्स्यात्स वृष्टिप्रतिबन्धकः। तदुक्तं-बुधशुक्तौ समीपस्थौ कुर्वतः सजलां महीम्। तयोरन्तर्गतो भानुः समुद्रमपि शोषयेत्।। एवमादिप्रतिबन्धकम्। साधनं-सजलं प्रवेशलग्नं दशमं सजलं चन्द्रशुक्रादिशुभग्रहाणां जललग्ने पूर्णदृष्ट्यादिकं स्त्रीपुरुषयोगश्चन्द्रसूर्ययोगः, गजमहिष्यादिजलप्रियवाहनयोगस्चेत्यादि। तस्य वैकल्यमभावः। एवं प्रतिबन्धकात्साधनाभावाद्वा सुवृष्टिक्रियाया अनिष्पत्ताववगतायां तदतिपत्त्यैव च सुभिक्षभवनक्रियाया अतिपत्तिर्गम्यते। प्रकरणात्क्रिययोरतिपत्तिरिति द्विवचनान्तस्य समासः। एवं हेतुहेतुमद्भावं क्रियातिपत्तिं च प्रमाणान्तरादवगत्य वक्ता वाक्यं प्रयुङ्क्ते-`सुवृष्टिश्चेदभविष्यत्सुभिक्षमभविष्यत्' इति। तत्र हेतुहेतुमतोः सुवृष्टिभवनसुभिक्षभवनयोर्भविष्यकालविषययोरतिपत्तिरितो वाक्याद्गम्यते। तथा च सुवृष्ट्यभिन्नाश्रयकभिविष्यत्कालाधिकरणकातिपन्नभवनहेतुकं सुभिक्षाभिन्नाश्रयकं भविष्यत्कालिकमतिपन्नं भवनमिति बोधः। लृङ्‌समभिव्याहारे धातोर्लॄङो वाऽभावोऽप्यर्थः, अभावे धात्वर्थव्यापारस्यान्वयः, अभावयोश्च प्रयोज्यप्रयोजकभावसंबन्धेनान्वय इत्यभिप्रायेणोदाहरणान्तरमाह-वह्निश्चेत्प्राज्वलिष्यदित्यादि। अत्र पक्षे शाब्दबोधं प्रकटयति-वह्न्यमिन्नेत्यादि। वह्न्यभिन्नाश्रयको यः प्रज्वलनानुकूलव्यापारः, तादृशव्यापाराभावप्रयोज्यः-ओदनाभिन्नाश्रयको यो विक्लित्त्यनुकूलव्यापारस्तादृशव्यापाराभाव इत्यर्थः। अत्राभावयोः प्रयोज्यप्रयोजकभावसंबन्धोत्कीर्तनमभावप्रतियोगिनोर्वह्निप्रज्वलनौदनपाकयोर्हेतुहेतुमद्भावप्रदर्शनार्थम्। यस्याभावो यदभावाधीनः स तज्जन्य इति नियमात्। यस्य-ओदनपाकस्य अभावः, यदभावाधीनः-वह्‌निप्रज्वलनाभावाधीनः, अतः सः-ओदनपाकः, तज्जन्यः-वह्‌निज्वलनजन्य इति नियमार्थः। ततश्चौदनपाकाभावस्य वह्‌निप्रज्वलनाभावाधीनत्वेऽवगते तत्प्रतियोगिनोर्वन्हिप्रज्वलनौदनपाकयोर्हतुहेतुमद्भावावबोधः सुगमो भवतीत्याशयः। एवं भूतेऽप्युदाहरणं-यदि चैत्रो नाभविष्यत्तदोदनपाको नाभविष्यदित्याद्यह्यम्। कालिदासेन तु रघुवंशे बहुसमीचीनं भूतलॄङुदाहणं प्रदर्शितम्। यथा-परस्परेण स्पृहणीयशोभं न चेदिदं द्वंद्वमयोजयिष्यत्। अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां विफलोऽभविष्यत्। इति। अर्थनिर्देश इति। वर्तमाने लडित्यादिना प्रदर्शितो वर्तमानत्वाद्यर्थ इत्यर्थः। उपलक्षणमिति। लडाद्यर्थैकदेशप्रदर्शनमित्यर्थः। अर्थान्तरेऽपीति। लट् स्मे, स्मे लोट्, इत्यादिना भूतेऽपि प्राप्तकालेऽपि च लट्‌लोटादेर्दशनादित्यर्थः। प्रसिद्धत्वाद्वर्तमानत्वाद्यर्थे लडादेः शक्तिः, अन्यत्रार्थे तु लडादेर्लक्षणेति तु दर्शनान्तरीया रीतिः। वैयाकरणमते तु सर्वस्मिन्नुक्तेऽर्थे लडादेः शक्तिरेव, न लक्षणेति बोध्यम्। प्रसङ्गसंगत्या लडादिक्रमनियामकं ब्रवीति-एतेषामिति। दशलकाराणामित्यर्थः। अनुबन्धक्रम एवेति। अकारेकाराद्यनुबन्धक्रम एवेत्यर्थः। लङादीनां तु ङकारानुबन्धसहकृताकारेकाराद्यनुबन्धक्रमो नियामक इति। वर्तमाने लडित्यादिना पाणिनिनाऽऽदौ टिल्लकाराणां निर्देशादेव मीमांसकैर्लेटः पञ्चमो लकार इति व्यावहारः कृतः संगच्छते। एवं च पाणिनिनोक्ता लकारक्रमो मीमांसकानामपि संमत इति भावः। दिगिति। तदर्थस्तु यत्र प्रत्ययस्य प्रकृतेर्वाऽश्रवणं तत्र श्रूयमाणस्यैवाश्रुतार्थबोधकत्वं कल्प्यम्। अत एव यः शिष्यते स लुप्यमानार्थाभिधायीति प्रवादः संगतो भवतीति भावः।। 23 ।।
इति वैयाकरणभूषणसारव्याख्यायां शांकर्यां लकारविशेषार्थनिरूपणम्।
रङ्गभट्टतनूजेन शंकरेण विनिर्मिते।
व्याख्याने भौषणे पूर्णो लकारार्थविनिर्णयः।। 2 ।।