वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/सुबर्थनिर्णयः

← लकारार्थनिर्णयः वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)
सुबर्थनिर्णयः
[[लेखकः :|]]
नामार्थनिर्णयः →

।। अथ सुबर्थनिर्णयः ।।
सुबर्थ इति। प्रतिपदिकप्रकृतिकानां स्वादीनामर्थानित्यर्थः। आहप्रतिपादयति-आश्रयोऽवधिरिति। आश्रयोऽर्थ इति। ननु कर्मणि द्वितीया, कर्तृकरणयोस्तृतीया, इत्याद्यनुशासनदर्शनाद्‌द्वितीयादीनां कर्मकरणद्यर्थकत्वं लभ्यते, नाऽऽश्रयार्थकत्वं, आश्रये द्वितीया, आश्रये तृतीया, इत्यादिविध्यभावादित्याशङ्क्याऽऽह-तथा हीत्यादिना। तच्चेति। चकारस्त्वर्थे। तत्‌कर्माणि द्वितीयेत्येतद्‌घटककर्म त्वित्यर्थः। कर्तुरीप्सिततममिति। आप्नोतेः संबन्धार्थकात्सन्नन्तात्कर्मणी वर्तमानकाले मतिबुद्धीति क्तः। तद्योगाच्च कर्तुरिति `क्तस्य च वर्तमाने' इति कर्तरि षष्ठी। तथा च कर्त्रा आप्तुं-संबन्द्धुमिष्यमाणं कर्मेत्यर्थः। कर्ता च समभित्र्याहृतधातूपात्तव्यापाराश्रयः। स च कर्ताकेनाऽऽप्तुमिच्छतीति जिज्ञासायां उपस्थितत्वात्कर्तृपदार्थविशेषणीभूतव्यापारजन्यफलेनेत्यर्थाल्लभ्यते। उपस्थितं परित्यज्यानुपस्थितकल्पने प्रामाणाभावादिति भावः। तथा च इप्सिततमं-तादृशव्यापारप्रयोज्यफलाश्रय इति पर्यवसानादाह--क्रियाजन्यफलाश्रय इति। ननु ईप्सितेत्यत्रत्यसना इच्छाया बोधनादीप्सिततमपदेन तादृशफलवत्त्वेनोद्देश्यस्यैव लाभात्फलाश्रयमात्रोक्तिरसंगतेत्याह--क्रियाजन्यफलवत्त्वेनेति कर्मण एवेति। तादृशफलाश्रयस्यैवेत्यर्थः। ईप्सिततमत्वादिति। अतिशयितेच्छाविषयत्वादित्यर्थः। तथा च तादृशफलवत्त्वेन उद्देश्यत्वं कर्मसंज्ञायामेवोपयोगि, न तु वाच्यकोटौ तस्यान्तर्भाव इत्याशयः। इच्छाविषयत्वांशस्य वाच्यकोटावनन्तर्भावे युक्तिमाह-तथा युक्तं चेति। तथा युक्तं चानीप्सितमित्यनेन द्वेष्योदासीनयोः कर्मसंज्ञा विहिता तथा गतिबुद्धीत्यनेनाणि कर्तुर्णौ कर्मसंज्ञा, अधिशीङित्यनेन च आधारस्य कर्मसंज्ञा विहिता। यदि तु व्यापारजन्यफलाश्रयत्वेनेच्छाविषयत्वं कर्मत्वमित्येवमिच्छाविषयत्वमन्तर्भाव्य कर्मलक्षणं स्वीक्रियते चेत् द्वेष्यादिकर्मणि क्रियाजन्यफलाश्रयत्वसत्त्वेऽपीच्छाविषयत्वाभावेन कर्मलक्षमाप्रवृत्त्याऽव्याप्तिः स्यात्। कर्मव्यवहारस्य द्वेष्यादावपि सत्त्वेन तत्रापि कर्मलक्षणप्रवृत्तिसिद्ध्यर्थं क्रियाजन्यफलाश्रयः कर्मेत्येव द्वेष्यादिसाधारणं कर्मलक्षणमुचितम्। तेन च द्वेष्यादीनामपि कर्मलक्षणे संग्रहो भवति। एवं चेच्छाविषयत्वरूपोद्देश्यत्वस्य न द्वितीयावाच्यकोटौ प्रवेशः किं तु संज्ञाप्रवृत्तावेवोपयोग इत्याह-एवमेव युक्तमिति। उद्देश्यत्वाघटितमेव लक्षणं युक्तमित्यर्थः। ननु द्वितीयायाः क्रियाजन्यफलाश्रयमात्रार्थवाचकत्वे तण्डुलं पचतीत्यादावीप्सिततमत्वादिना बोधो न स्यादित्यत आह-ईप्सितानीप्सितेत्यादि। ईप्सितत्वानीप्सितत्वयोरिच्छाविवयत्वानिच्छविष्यत्वयोरित्यर्थः। मानाभावेनेति। इच्छाविषयत्वादिना बोदाननुभवस्य सर्वजनीनत्वादित्यर्थः। यथाऽधिशेते वैकुण्ठं हरिरित्यत्र वैकुण्ठाधारकहरिकर्तृकशयनपिति बोधाद्वैकुण्ठस्याऽऽधारत्वमात्रेणैव बोधः सर्वानुभवसिद्धिः, नाधिशीङादिसमभिव्याहृतत्वेनेति अविशीङादिसमभिव्याहारस्याऽऽवारस्य कर्मसंज्ञाकरण एवोपयोगो न तु वाच्यकोटौ प्रवेशः, कस्यापि तथाऽनुभवाभावेनेप्सितत्वादिना बोधस्य सर्वैरनङ्गीकृतत्वादितिभावः। नन्वेवंरीत्या माऽस्तु इच्छाविषयत्वादोर्द्देतीयावच्यकोटौ प्रवेशः, अस्तु च कर्मसंज्ञाप्रवृत्तौ तदुपयोगः। तथाऽपि निरुक्तसूत्रार्थानुसारात् क्रियाजन्यफलविशिष्टस्यैवाऽऽश्रयस्य द्वितीयार्थत्वं लभ्यते, न केवलाश्रयस्येत्याशङ्क्याऽऽह-तथा चेति। क्रियाजन्यफलाश्रयस्य द्वितीयार्थत्वे सतीत्यर्थः। क्रिया व्यापारः, फलं विक्लित्त्यादि, आश्रयः-तण्डुलादिराधारः, इति त्रयाणामर्थानां मध्ये व्यापारः फलं चेत्येतावर्थौ धातुनैवोक्तौ, फलव्यापारयोर्धातुतित्युक्तत्वात्। तथा च तयोरर्थयोरन्यलभ्यत्वे सति पुनस्तत्र शक्तिकल्पने गौरवापत्तेर्न तौ शब्दार्थैं-शब्दशक्यौ भवितुमर्हतः। द्वितीयावाच्यौ न भवत इति यावत्। आश्रयोऽर्थस्तु न केनाप्युक्त इति स एव शब्दार्थः-शब्दशक्यः, द्वितीयावाच्य इति यावदित्यर्थः। अनन्यलभ्यो हि शब्दार्थ इति न्यायादिति भावः। यद्यपि आश्रयोऽपि तण्डुलादिपदैर्लभ्यते तथाप्याश्रयत्वेन न लभ्यत इति स एव शक्यः। एवं च केवलाश्रय एव द्वितीयार्थः, न तु क्रियाजन्यफलविशिष्ट इति बोध्यम्। आश्रयशब्देन चाऽऽश्रयत्वशक्तिमानुच्यते। ननु यदीप्सितत्वानीप्सितत्वयोः शाब्दबोधे भानाभावस्तथाऽननुभवात्, तर्हि `क्रियाजन्यफलाश्रयः कर्म' इत्येव सूत्रमस्तु, तावतैव तण्डुलं पचति, ग्रामं गच्छंस्तृणं स्पृशति, विषं भुङ्क्ते, इत्यादिसर्वलक्ष्याणां संग्रहो भवतीति कर्तुरीप्सिततमंकर्म, तथायुक्तं चानीप्सितम्, इति किमीप्सिततमानीप्सितयोः पृथग्ग्रहणेनेति चेन्न। `क्रियाजन्यफलाश्रयः कर्म' इत्युक्तौ हि वारणार्थानामिति सूत्रमस्य(क्रियाजन्यफलाश्रयः कर्मत्यस्य)अपवादः स्यात्। विशेषविहितत्वात्। तथा चाग्नेर्माणवकं वारयतीत्यत्र माणवकस्य कर्मसंज्ञा न स्यात्। वारणार्थानां धातूनां प्रयोगे सतीप्सितार्थस्यापादानसंज्ञा विधीयते। वारणार्थानामित्यस्य चापादानसंज्ञाविधावुपयोगः, न तु वारणार्थत्वस्य शाब्दबोधे भानम्। वारणार्थत्वेन बोधाननुभवात्। ईप्सितत्वं च प्रत्यासत्त्या वारणार्थकधातूपस्थाप्यव्यापारजन्यफलाश्रयत्वम्। ईप्सितत्वं च प्रत्यासत्त्या वारणार्थकधातूपस्थाप्यव्यापारजन्यफलाश्रयत्वम्। तच्चाग्नौ मामवके चाक्षतम्। वारयतेश्च संयोगाद्यनुकूलव्यापाराभावानुकूलो व्यापारोऽर्थः। एवं सति अग्नेर्माणवकस्य च यत्किंचिद्धातूपस्थाप्यव्यापारजन्यफलाश्रयः कर्मसंज्ञको भवतीत्यर्थकेन `क्रियाजन्यफलाश्रयः कर्म' इति सामान्यसूत्रेण कर्मसंज्ञा प्राप्ता, अथ च वारणार्थकधातूपस्थाप्यव्यापारजन्यफलाश्रयोऽर्थोऽपादानसंज्ञो भवतीत्यर्थकेन वारणार्थानामिति विशेषसूत्रेणापादानसंज्ञा च प्राप्ता, तयोर्मध्ये तण्डुलं पचतीत्यादौ कर्मसंज्ञायाः सावकाशत्वात् सामान्यसूत्रेण प्राप्तां कर्मसंज्ञां बाधित्वा वारणार्थानामिति विशेषविहितत्वादग्निमाणवकयोरपादानसंज्ञा स्यात्। ततश्च माणवकमिति द्वितीया न स्यात्स्याच्चाग्नाविवमाणवकेऽपि पञ्चमी। तां वारयितुं `कर्तुगीप्सिततमं कर्म' इतिवक्तव्यमेव। ईप्सिततमत्वं च-प्रकृतधातूपस्थाप्यप्रधानीबूतव्यापारजन्यतद्धार्थत्वफलाश्रयत्वम्। तत्र प्रकृते वारणार्थकधातूपस्थाप्यप्रधानीभूतो द्वितीयव्यापारः, तादृशव्यापारजन्यतद्धात्वर्थफलं व्यापाराभावः, तदाश्रयो माणवक इति माणवकस्य प्राप्तामपादानसंज्ञां बाधित्वा परत्वादीप्सिततमत्वेन कर्मसंज्ञा भवति। अग्नेस्तु प्रकृतधातूपस्थाप्यव्यापारजन्यफलाश्रयत्वेनेप्सितत्वेऽपि प्रधानीभूतव्यापारजन्यफलाश्रयत्वाभावेनोप्सिततमत्वाभावान्न कर्मसंज्ञा किं त्वपादानसंज्ञैव। एवं चेप्सितमात्रेऽपादानसंज्ञा, ईप्सिततमत्वे तु कर्मसंज्ञेति सिध्यति। ईप्सिततमत्वस्य कर्मसंज्ञाप्रयोजकत्वादेव चानीप्सिते कर्मसंज्ञा न प्राप्नोतीति तदर्थं `तथायुक्तं चानीप्सितम्' इति पृथग्वक्तव्यमेवेति भावः।
नन्वाश्रयस्य शक्यत्वस्वीकारे आश्रयत्वं शक्यतावच्छेदकमभ्युपेतव्यम्, आश्रयत्वं चाऽऽधारत्वम्। तच्च फलव्यापारादिनिरूपसंबन्धिभेदेन भिन्नत्वादनन्तं, तदानन्त्याच्च शक्त्यानन्त्यमित्याशङ्क्याऽऽह-तत्त्वं चेति। आश्रयत्वं चेत्यर्थः। अखण्डेति। शक्तिर्धर्मः, तद्रूपमित्यर्थः। स च धर्मोऽखण्डः, अखण्डत्वं च निरूपकभेदेऽपि तद्भेदप्रयुक्तभेदरहितत्वम्। भेदराहित्याच्चैकः, एकत्वाच्च नित्यः। अर्थान्निरवच्छिन्नजातिविशेषरूप इति यावत्। यथा गोशब्दोपस्थितगोव्यक्तीनामानन्त्येऽपि व्यक्तिभेदप्रयुक्तभेदरहितत्वादत्तद्गता गोत्वादिजातिर्गोत्वत्वादिधर्मान्तरनिरवच्छिन्नैकैव तद्वदाश्रयत्वमपि निरूपकभेदययुक्तभेदशून्यत्वादेकं सदाश्रयत्वत्वादिधर्मान्तरनिरवच्छिन्नमिति भावः। आश्रयत्वत्वादीतरधर्माघटितधर्यस्वरूपमाश्रयत्वमिति यवात्। तथा च शक्गतावच्छेदकस्याऽऽश्रयत्वस्यैकत्वात्तदनुगतीकृतेषु आश्रयेषु द्वितीयादेः शक्तिरिति न शक्त्यानन्त्यमित्याशयः। यद्याश्रयत्वमप्याश्रयत्वत्वादिधर्मान्तरावच्छिन्नं सखण्मिति यावत्, स्यात्तर्ह्यनवस्थाप्रसङ्गो निरवच्छिन्न(निर्विकल्पक)ज्ञानाभावश्चाऽऽपद्येतेत्यर्थः। यथा गोत्वविशिष्टाया गोव्यक्तेर्वाच्यत्वमिति पक्षे गामानयेत्यादिवाक्ये श्रुताद्गोशब्दादगोत्वविशिष्टाया गोव्यक्तेरुपस्थितौ तादृशगोव्यक्तेरानयनादिक्रियास्वन्वयो भवतीति युज्यते। तथापि विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात्तादृशगोत्वविशिष्टगोव्यक्तेरुपस्थितेः पूर्वं विशेषणीभूतस्य गोत्वस्य ज्ञानं जातमिति वक्तव्यमेव। विशिष्टशक्तौ विशेषणशक्तेरर्थसिद्धत्वेन गोत्वेऽपि शक्तिसत्त्वात्। तत्र गोत्वविशिष्टव्यक्तौ या शक्तिः सा गोत्वाच्छिन्नैवेति निर्विवादम्। गोत्वे तु सा शक्तिः सावच्छिन्ना निरवच्छिन्ना वा? सावच्छिन्नत्वे गोत्वत्वमवच्छेदकं वाच्यम्। शक्यतावच्छेदकस्य शक्यान्तर्गतत्वनियमाद्‌गोत्वत्वस्यापि सावच्छिन्नत्वेऽवच्छेदकान्तरमित्यनवस्था प्रसज्येत, तद्वारणार्थं गोत्वे शक्तिर्निरवच्छिन्नैवेत्यङ्गीकार्यम्। तथआ च गोव्यक्तिज्ञानात्पूर्वं यद्‌गोत्वस्य ज्ञानं जायते। तन्निष्प्रकारत्वान्निरवच्छिन्नं निर्विकल्पकं भवतीति निरवाच्छिन्नज्ञानं संगच्छते। गोत्वस्यापि सविशेषणत्वे निर्विकल्पकज्ञानस्य विलय एव स्यात्। एवं च गोत्वमखण्डं नामावच्छेदकधर्माघटितं यथा, तद्वदाश्रयत्वमप्यखण्डं, अवच्छेदकधर्माघटितमिति भावः। जलं जलमित्यनुगतबुद्ध्या जलपदशक्यतावच्छेदकतया च जलत्ववदाश्रयत्वसिद्धिर्ज्ञेया। उदाहरणेषु कर्मत्वलक्षणस्य समन्वयं दर्शयति-ओदनं पचतीत्यत्रेति। विक्लित्त्याश्रयत्वादित्यनेन कर्तृनिष्टप्रकृतधातूपात्तव्यापारप्रयोज्यत्वे सति तादृशव्यापारव्यधिकरणतद्धात्वर्थफलाश्रयत्वं कर्मत्वमित्युक्तम्। नैयायिकैः कृञो यत्नमात्रार्थकत्वमङ्गीकृतं तदयुक्तमिति सूचयन्नाह-घटं करोतीति। उत्पत्तेर्धात्वर्थत्वादिति। किं तूत्पादनमेवात इत्यत्र यत्नार्थकत्वनिरसनपूर्वकं कृञ उत्पत्त्यर्थकत्वस्य साधितत्वादिति भावः। घटं जानातीच्छतीत्यादिसविषयार्थकधातुषु ज्ञानेच्छाद्ययत्वाभावात्कर्मत्वानुपपत्तेरित्याशङ्क्य परिहर्तुमाह-जानातीत्यत्रेति। क्षवरणभङ्गेति। आवरणभङ्गानुकूलव्यापारो जानात्यर्थः। घटं जानातीत्यत्र क्रियाजन्यावरणभङ्गरूपफलाश्रयत्वाद्‌बटस्य कर्मत्वमित्यर्थः। आवरणभङ्गानुकूलव्यापारश्च घटाद्याकारा बुद्धिवृत्तिरेव। तदुक्तं-वुद्धितत्स्थचिदाभासौ द्वावेतौ व्याप्नुतो घटम्। तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत्।। इति। धीवृत्त्याऽज्ञाननाश आवरणभङ्ग इति तदर्थः। ननु विद्यमाने घटे धीवृत्तिजन्यावरणभङ्गाश्रयत्वसंभवेऽपि विनष्टेऽनुत्पन्ने वा घटे तदाश्रयत्वासंभवात्कथं तस्य कर्मत्वमत आह-अतीतानागतेति। परोक्षस्थलेऽपीति। प्रत्यक्षस्थल इव परोक्षस्थलेऽपीत्यर्थः। ज्ञानजन्यस्य-धीवृत्तिजन्यस्य, तस्य-आवरणभङ्गस्य, आवश्यकत्वात्-अवश्याङ्गीकर्तव्यत्वादित्यर्थः। परोक्षघटे तदा आवरणभङ्गाश्रयत्वाङ्गीकारे युक्तिं दर्शयति-अन्यथेति। विनष्टादिघटे आवरणभङ्गानङ्गीकारे। यथा पूर्वमिति। पूर्वं घटस्य विद्यमानत्वात्तदानींतनधीवृत्तेरावरणभङ्गजनकत्वेऽपि इदानीं घटस्याविद्यमानत्वादिदानींतनधीवृत्तेरावरणभङ्गजनकत्वासंभवात् `घटं यथापूर्वं जानामि' इति प्रयोगो न स्यादीत्यर्थः। अत्र यथापूर्वमिति पदार्थानतिक्रमेऽअव्ययीभावः। जानातिक्रियाविशेषणमेतत्। पूर्वं पूर्वज्ञानमनतिक्रम्येति यथापूर्वम्। पूर्वज्ञानस्यानतिक्रमो यस्मिंस्तथाभूतं ज्ञानं न स्यादित्यर्थः। अयं भावः-घटस्य विद्यमानतादशायां तात्कालिकधीवृत्त्या विद्यमानघटगतं यदावरणमाच्छादनमज्ञानरूपं तद्भङ्गस्य(आवरणनाशस्य)कृतत्वाद्यथा सुव्यक्तं घटज्ञानं जायते तद्वद्घटस्याविद्यमानतादशायां तात्कालिकधीवृत्त्याऽविद्यमानघटगतावरणभङ्गस्याकृतत्वादावरणस्य सत्त्वात्सुव्यक्तं घटज्ञानं न जायत इति पूर्वज्ञानस्यातिक्रमसत्त्वाद्यथापूर्वं जानामीति प्रयोगो न भवेत्। परं तु विद्यमानघटस्य यथा सुव्यक्तं ज्ञानं जायते तथाऽविद्यमानघटस्यापि सुव्यक्तं ज्ञानं जायत इत्यनुभवसिद्धम्। तादृशानुभवोपपत्तयेऽविद्यमानघटेऽपि आवरणभङ्गोऽस्तीत्यवश्यमङ्गीकार्यम्। सुव्यक्तज्ञानं प्रति आवरणभङ्गस्य कारणत्वादित्यर्थः। अन्यथा विद्यमानघट इवाविद्यमानघटे सुव्यक्तं ज्ञानं न स्यादिति भावः। ननु विनष्टे भाविनि वा घटे आवरणभङ्गाश्रयता कथं घटेत, आश्रयस्याविद्यमानत्वात्, विद्यमान एव हि सा वक्तुं युज्यत इत्यत आह--अतीतादेराश्रयता चेति। नैयायिकानामिवेति। नैयायिकैर्हि अनुभवागुसारेम यथाऽतीतादिघटादेर्विषयतया ज्ञानाश्रयताऽङ्गीकृता तथाऽस्माभिरपि अतीतादिघटे विषयतयाऽऽवरणभङ्गाश्रयताऽनुभवानुरोधेन स्वीक्रियत इति भावः। नन्वतीतादिघटे विषयतासत्त्वेऽपि विषयतया ज्ञानाश्रयत्वे विप्रतिपत्तिदर्शनाद्‌दृष्टान्तासंगतिरत आह--सत्कार्यवादेति। `सदेव सोम्येदमग्र आसीत्' इति श्रुतेर्घटादिकं सर्वं कार्यजातं कारणे सूक्ष्मरूपेण पूर्वमस्थितमेव। यद्यपि घट उत्पन्नो घटो नष्ट इति व्यावहारो दृश्यते तथाऽपि उत्पन्न इत्यस्य दण्डचक्रादिव्यापारेण व्यक्तीभूत इत्यर्थः। नष्ट इत्यस्य चाव्यक्तो जात इत्यर्थः। घटस्तु व्यक्तीभावात्पूर्वं मृत्तिकारूपेणास्त्येव तथा नाशोत्तरमपि मृत्तिकायामव्यक्तरूपेण घटोऽस्त्येव। न हि असतः सत्त्वं, सतो वा नाशः संभवति? सिकतासु व्यापारसहस्रेणापि तैलादर्शनात्। कारणे सूक्ष्मरूपेणावस्तानमेव तत्प्रागभावः कारणे सूक्ष्मरूपेणावस्थानादेव यथा घटो जायत इत्यत्र घटस्य कारकत्वं कर्तृत्वं चोपपद्यते तद्वदावरणभङ्गरूपफलाश्रयत्वमप्युपपद्यत इत्यर्थः। कार्यं सदा सदेव विद्यमानमेव न तु कदाप्यविद्यमानगित्येवं यो वादः स सत्कार्यवाद इति भावः। ननु कार्यस्य सर्वदा सत्त्वे नास्ति नश्यतीति व्यवहारानुपपत्तिरत आह-तिरोभावाभ्युपेति तिरोभावसंपादककारणसामग्रया तिरोभावे कृते सैव विरोभावावस्थैव भावानां नास्तिता नष्टतेत्यर्थः। लब्धः क्रमो येन तादृशे तिरोभावे सतीत्यर्थः। तिरोभावोत्पत्तिगतवर्तमानत्वनिमित्तको नश्यतीति व्यवहार इत्यर्थः। लब्धक्रम इत्यनेन तस्य व्यापाररूपताऽऽवेदिता। प्रतीयत इत्यनेन प्रतीतिः प्रमाणत्वेनोक्ता। तिरोभावो नाम कारणे सूक्ष्मरूपेणावस्थानं, तथा च घटस्य तिरोभावेऽपि कारणे सूक्ष्मरूपेणावस्थानात्तत्राऽऽवरणभङ्गाश्रयत्वस्य नानुपपत्तिरिति भावः

निरुक्तकर्मत्वलक्षणस्य निष्कृष्टार्थ स्पष्टयितुमाशङ्कते-नन्विति। चैत्रश्चैत्रमिति। प्रकृतधातूपात्तव्यापारजन्यफलाश्रयः कर्म, इत्येवं कर्मलक्षणमुक्तम्। चैत्रो ग्रामं गच्छतीत्यत्र गमिधात्वर्थः-संयोगानुकूलो व्यापारः। स च पादप्रक्षेपरूपश्चैत्रे कर्तरि वर्तते। तथा च गमधातूपात्तपादप्रक्षेपरूपव्यापारजन्यं यत्फलं संयोगः तदाश्रयत्वाद्‌ग्रामस्य यथा कर्मसंज्ञा भवति तद्वत्संयोगस्य द्विष्ठत्वेन तादृशसंयोगस्य चैत्रऽपि सत्त्वाच्चैत्रस्यापि प्रकृतधातूपात्तव्यापारजन्यफलाश्रयत्वात्कर्मत्वापत्तौ चैत्रश्चैत्रं गच्छतीति प्रयोग आपद्यते। चैत्रपदार्थस्य कर्तृत्वकर्मत्वैतदुभयलक्षणाक्रान्तत्वेनैकस्यैव चैत्रशब्दस्य प्रथमान्तता द्वितीयान्तता च स्यादिति यावत्। तथा प्रयागतो निःसृत्य काशीं गच्छति चैत्र इत्यत्र गमधातूपात्तपादप्रक्षेपरूपव्यापारजन्यफलं यथा संयोगः स च काश्यां वर्तते तथा तादृशव्यापारजन्यत्वाद्विभागोऽपि फलमिति कृत्वा विभागरूपफलाश्रयत्वात्प्रयागस्यापि कर्मत्वापत्तौ प्रयागं गच्छति इति च प्रयोग आपद्यत इति भावः। एतामाशङ्कां निराकरोति-नेति। तत्र प्रथमामापत्तिं निरस्यति-ग्रामस्येवेत्यादि। ग्रामो यथा गमधात्वर्थव्यापारजन्यसंयोगरूपफलाश्रयस्तथा चैत्रोऽपि कर्ता यद्यपि तादृशसंयोगरूपफलाश्रयो भवति तथाऽपि व्यापाराश्रयत्वेन तज्जन्यफलाश्रयत्वेन च चैवस्य कर्तृकर्मसंज्ञयोः प्राप्तौ परत्वात्कर्तृसंज्ञया कर्मसंज्ञाया बाधान्न चैत्रश्चैत्रमिति प्रयोग आपद्यत इत्यर्थः। ननु कर्मसंज्ञाया बाधेऽपि क्रियाजन्यफलाश्रयत्वरूपवास्तवं कर्मत्वमादाय द्वितीया दुर्वारित्यत आह-द्वितीयोत्पत्ताविति। कर्मसंज्ञायां सत्यामेव द्वितीयोत्पद्यते, न केवलं फलाश्रयत्वमादायेत्यर्थः। द्वितीयोत्पत्तौ फलाश्रयत्वस्य निमित्तत्वे स्वीकृते दूषणमाह-अन्यथेति। गमयतीति। पुरोदेशसंयोगानुकूलव्यापारो गमधात्वर्थः। तदुत्तरणिचश्च तादृशव्यापारानुकूलव्यापारोऽर्थः। तत्र णिजुपात्तव्यापाराश्रयत्वेन चैत्रस्य कर्तृसंज्ञा। गमदातूपात्तव्यापारजन्यफलाश्रयत्वेन गोकुलस्य कर्मसंज्ञा। कृष्णस्य तु णिजर्थव्यापारजन्यफलाश्रयत्वेन कर्मसंज्ञा। तथा च गमयति गोकुलं कृष्णं चैत्र इति गोकुलपदादिव कृष्णपदादपि द्वितीया भवति। पाचयतीति। विक्लित्त्यनुकूलव्यापारः पचेरर्थः। तदुत्तरणिचश्च तादृशव्यापारानुकूलव्यापारोऽर्थः। तत्र णिजर्थव्यापाराश्रयत्वेन चैत्रस्य कर्तृसंज्ञा। पचिधात्वर्थव्यापारजन्यविक्लित्तिरूपफलाश्रयत्वेन तण्डुलस्य कर्मसंज्ञा। पच्‌धात्वर्थव्यापाराश्रयस्य कृष्णस्य तु णिजर्थव्यापारजन्यफलाश्रयत्वेन कर्मसंज्ञाप्राप्तावपि णिजर्थव्यापारजन्यफलाश्रयस्य कर्मसंज्ञा कर्तव्या चेद्भवति तर्हि गतिबुद्धितिसूत्रोपात्तदातुप्रकृतिकणिजर्थव्यापारजन्यफलाश्रयस्यैव कर्तव्या नान्यस्येति गतिबुद्धित्यनेन नियमात् प्रकृते णिजन्तस्य पचिप्रकृतिकत्वेन गत्याद्यर्थधातुप्रकृतिकत्वाभावान्न कृष्णस्य कर्मसंज्ञा, किंतु कर्तृसंज्ञैवेति ततस्तृतीया भवति। तथा च पाचयति तण्डुलं कृष्णेन चैत्र इति प्रयोगः संपद्यते। एवं सति कर्मसंज्ञाया अभावेऽपि वस्तुतः क्रियाजन्यफलाश्रयत्वमादाय यदि द्वितीयोत्पत्तिः स्वीक्रियेत तर्हि गमयति गोकुलं कृष्णमित्यत्र कृष्णपदादिव प्राचयत्यादियोगेऽपि कृष्णपदाद्‌द्वितीयापत्तौ पाचयति कृष्णमित्यनिष्टं प्रसज्येतातो द्वितीयोत्पत्तौ कर्मसंज्ञैव निमित्तं, न तु वस्तुतः क्रियाजन्यफलाश्रयत्वमात्रमित्यवश्यमङ्गीकरणीयमिति भावः। ननु चैत्रश्चैत्रमित्यस्य कर्तृवाचकचैत्रपदाद्‌क्रियाजन्यफलाश्रयत्वेन द्वितीयापत्तिः स्यादिति न व्रवीमि, किं तु चैत्रस्य व्यापाराश्रयत्वेन व्यापारजन्यफलाश्रयत्वेन च चैत्रकर्तृकं चैत्रकर्मकं वर्तमानं गमनमित्येवंशाब्दबोध आपद्येतेत्यर्थ इति चेत्तदपि नेत्याह-तथा व्युत्पन्नानामिति। चैत्रो गच्छतीति वाक्ये चैत्रश्चैत्रमिति चैत्रकर्तृकं चैत्रकर्मकं गमनमित्याकारकशाब्दबोधजनकत्वसामर्थ्यमस्तीत्येवंशक्तिग्रहवतां निरुक्तशाब्दबोध इष्ट एव, नानिष्ट इत्यर्थः। धात्वर्थफलविशेषकशाब्दबोधं प्रति सामान्यत आश्रयोपस्तितेर्हेतुत्वादिति भावः। तथा च चैत्रो गच्छतीति वाक्यात्तादृशशाब्दबोधस्यानिष्टत्वापादनमसंगतमिति भावः। चैत्रो गच्छतीति वाक्याच्चैत्रकर्तृकं चैत्रकर्मकं गमनमिति बोधस्याननुभवादिष्टापत्तिरयुक्तेत्यत आह-उच्यतां वेति। अङ्गीक्रियतामित्यर्थः। प्रकारतासंबन्धेनेति। धात्वर्थफलीवशेष्यकशाब्दबोधे जननीये, धात्वर्थफलनिष्ठविशेष्यतानिरूपितप्रकारतासंबन्धेन धात्वर्थव्यापारानाधिकरणत्वविशिष्टाश्रयोपस्थितिः कारणमित्येवं कार्यकारणभावः स्वीकार्य इति भावः। अत्र धात्वर्थफलविशेष्यकशाब्दत्रोधः कार्यं, धात्वर्थव्यापारानधिकरणत्वविशिष्टश्रयोपस्थितिः कारणमिति बोध्यम्। चैत्रो ग्रामं गच्छतीत्यत्र लक्षणसमन्वयः-पुरोदेशसंयोगानुकूलो व्यापारो गमधात्वर्थः, व्यापारश्चात्राग्रेऽग्रेपादप्रक्षेपः। पुरोदेशश्च ग्रामः। वैयाकरणानां मते व्यापारमुख्यविशेष्यकः शाब्दबोध इति सिद्धान्ताद् निरुक्तव्यापारः। चैत्रस्यामेदेन लडर्थकर्तर्यन्वयः। ग्रामस्य निष्ठत्वसंबन्धेन गमदात्वर्थफले देशसंयोगरूपेऽन्वयः। तादृशसंयोगरूपफलस्यानुकूलतासंबन्धेन व्यापारेऽन्वयः। तथा च ग्रामस्य धात्वर्थफलाश्रयस्य प्रकारता, तन्निष्ठधात्वर्थफलस्य च विशेष्यतेति ज्ञेयम्। धात्वर्थफलं यः पुरोदेशसंयोगस्तद्विशेष्यको यः शाब्दबोधस्तस्मिञ्शाब्दबोधे जननीये धात्वर्थफलनिष्ठविशेष्यतानिरूपितप्रकारतासंबन्धेन धात्वर्थव्यापारनधिकरणत्वविशिष्टो य आश्रयः-फलाश्रयस्तदुपस्थितेः कारणत्वात्तादृशोपस्थितिर्ग्रामस्यैवेति कृत्वा चैत्रकर्तृकं ग्रामकर्मकं गमनमित्येव बोधो भवति, न तु चैत्रकर्मकमिति। यतश्चैत्रस्य धात्वर्थफलाश्रयत्वेऽपि धात्वर्थव्यापाराश्रयत्येन धात्वर्थव्यापारानधिकरणत्वविशिष्टफलाश्रयत्वेनोपस्थित्यभावान्न चैत्रकर्मकं गमनमिति बोधो जायते। किं तु चैत्रकर्तृकं ग्रामकर्मकं गमनमित्येव बोधः सर्वानुभवसिद्ध इति भावः। तथा च न दोष इत्याशयेनाऽऽह--प्रकृते चैत्रस्येत्यादि। प्रयागात्काशीं गच्छतीत्यत्र प्रयागं गच्छतीत्यापत्तिरित्याकारिकां द्वितीयामपत्तिं निराकुर्वन्नाह-प्रयागस्य कर्मत्वं त्वित्यादि। संभावितमपीति। प्रयागे कर्मत्वस्य संभवोऽपि नेत्यर्थः। उक्तप्रायत्वादिति। `क्रियाजन्यफलाश्रयत्वं कर्मत्वं' इति कर्मत्वलक्षणग्रन्थे क्रिया च धात्वर्थ एवेति धात्वर्थक्रियाजन्यफलाश्रयत्वमित्युक्तं भवति। तथा च धात्वर्थत्वस्य क्रियायां विशेषणत्वात्प्रत्यासत्तिन्यायेन फलेऽपि धात्वर्थस्य विशेषणत्वं लृभ्यत इति तद्धात्वर्थक्रियाजन्यत्वे सति तद्धात्वर्थफलाश्रयत्वं कर्मत्वमित्येवं कर्मलक्षणं पर्यवसन्नम्। प्रयागात्काशीं गच्छतीत्यत्र पुरोदेशसंयोगानुकूलव्यापारो गमधात्वर्थ इत्युक्तम्। संयोगरूपफलस्य तदनुकूलव्यापारस्य चेति द्वयोर्धातुवाच्यत्वमिति यावत्तत्र चैत्रनिष्ठपादप्रक्षेपरूपवव्यापारजन्यत्वात्संयोगस्येव विभागस्यापि यद्यपि फलत्व वक्तुं शक्यं तथाऽपि संयोगो यथा गमधातुवाच्यस्तथा विभागो गमधातुवाच्यो न न भवति, किं तु नान्तरीयकतया गमने उत्पद्यते। ततश्च प्रयागस्य गमधात्वर्थव्यापारजन्यविभागरूपफलाश्रयत्वेऽपि विभागस्य गमधातुवाच्यत्वाभावेन गमधात्वर्थव्यापारजन्यगमधात्वर्थफलाश्रयत्वाभावान्न कर्मत्वशङ्काऽऽपीति भावः। प्रयागे कर्मत्वसंभवप्रतिषेधोक्तिर्विभागस्य गमधात्वर्थत्वं नास्तीत्यभिप्रायेणेति बोध्यम्। विधान्तरेम पूर्वोक्तस्थलद्वये दोषमुद्धरतां नैयायिकानां मतमनुवदति-नैयायिकास्त्वित्यादि। आद्यदोषवारणायेति। चैत्रो गच्छतीत्यत्र चैत्रश्चैत्रं गच्छतीत्येवं प्रयोगापत्तिरूपो यो दोषस्तद्वारणायेत्यर्थ-। परसमवेतत्वमीति। द्वितीयाप्रकृत्यर्थापेक्षया यः परः-अन्यश्चैत्रादिः कर्ता, तस्मिन्समवायसंबन्धेन विद्यमानत्वमित्यर्थः। एततद्‌द्वितीयावाच्यमुपाददते-स्वीकुर्वन्तीत्यर्थः। तथा च-परसमवेतक्रियाजन्यफलशालि कर्मेति द्वितीयावाच्यमित्यर्थः संपन्न इति भावः। एवमपि द्वितीयदोषनिवारणं न भवतीत्याह-द्वितीयदोषेति। प्रयागात्काशीं गच्छतीत्यत्र प्रयागस्य कर्मतापत्तिरूपद्वितीयदोषेत्यर्थः। धात्वर्थतावच्छेदकत्वमिति। एतत्फले विशेषणमुपाददत इत्यर्थः। ततश्च-परसमवेतक्रियाजन्यदात्वर्थतावच्छेद कफलशालि कर्मेत्येवं लक्षणं पर्यवसन्नमिति भावः। फले धात्वर्थतावच्छेदकत्वं च-धातुवाच्यत्वे सति धातुवाच्यनिष्ठविशेष्यतानिरूपितविशेषणतापन्नत्वम्। धात्वर्थक्रियायामिति। तत्र द्वितीयावाच्यपरसमवेतत्वविशेषणस्य फलजनकसमभिव्याहृतधात्वर्थक्रियायामन्वयः। द्वितीयाप्रकृतिभूतग्रामाद्यर्थापेक्षया यः परश्चैत्रादिः, तस्मिन्समवायेन संबन्धेन विद्यमाना या धात्वर्थक्रिया-व्यापारस्तज्जन्यफलशालि कर्मेत्यर्थात् गमधात्वर्थफलरूपसंयोगस्य ग्राम-चैत्रैतदुभयनिष्ठत्वाविशेषेऽपि ग्रामसंयोगस्य द्वितीयाप्रकृत्यर्थग्रामापेक्षया परो यश्चैत्रस्तन्निष्ठव्यापारजन्यत्वेन परसमवेतक्रियाजन्यफलशालितया ग्रामस्य कर्मतया द्वितीया भवति, चैत्रसंयोगस्य चैत्रमिति द्वितीयाप्रकृत्यर्थचैत्रापेक्षया कर्तुश्चैत्रस्य परत्वाभावेन परसमवेतक्रियाजन्यफलशालित्वाभावात्(स्वसमवेतक्रियाजन्यफलशालित्वात्) न चैत्रस्य ङर्मसंज्ञेति द्वितीयाऽप्राप्तेर्न चैत्रश्चैत्रमिति प्रयोगापत्तिरिति भावः। तथैव कार्यकारणेति। द्वितीयावाच्यपरसमवेतत्वप्रकारकशाब्दबोधे जननीये धात्वर्थक्रियायाः विशेष्यतया धातुजन्योपस्थितिः कारणमित्येवं कार्यकारणभावार्न्तरस्वीक्रियते। तेन परसमवेतत्वविशेषणस्य विशेष्यतासंबन्धेन धात्वर्थक्रियायामन्वयोक्तिर्युक्तेति भावः। परत्वं चेति। द्वितीयावाच्यपरसमवेतत्वघटकपरत्वं चेत्यर्थः। प्रत्यासत्त्या द्वितीयाप्रकृत्यर्थग्रमाद्यपेक्षया परत्वं गृह्यत इत्यर्थः। ततशचैत्रस्तण्डुलं पचतीत्यादौ तण्डुलस्य कर्मत्वसिद्ध्या यादृशः शाब्दबोधो जायते तं स्पष्टयति-तण्डुलान्येति। द्वितीयाप्रकृत्यर्थतण्डुलाद्यपेक्षयाऽन्यो यश्चैत्रादिः कर्ता, तस्मिन्समवायसंबन्धेन विद्यमानो यो व्यापारस्तज्यन्यं, धातुवाच्यत्वसमानाधिकरणविशेषणताविशिष्टं च यत्फलं विक्लित्तिरूपं तदाश्रयत्वात्तण्डुलस्य कर्मसंज्ञा भवति। चैत्रश्चैत्रमित्यत्र तु द्वितीयाप्रकृत्यर्थचैत्रनिष्ठसंयोगानुकूलव्यापारस्य चैत्रान्यनिष्ठत्वाभावान्न तादृशः प्रयोगः। तथा च-तण्डुलसमवेतेत्यादि शाब्दबोधाकारप्रदर्शनम्। तदर्थस्तु संक्षेपत एवम्-तण्डुलनिष्ठा, धातुवाच्या च या विक्लित्तिस्तादृशविक्लित्त्यनुकूलस्तण्डुलान्यचैत्रनिष्ठो यो व्यापारस्तादृशव्यापारानुकूला या कृतिस्तादृशकृतिमांश्चैत्र इति। अयं च शाब्दबोधो नैयैयिकमतेन बोध्यः। तन्मतवर्णनस्यैवोपक्रमादिति भावः। प्रथमान्तमुख्यविशेष्यकः शाब्दबोधः, फलानुकूलो व्यापारो धात्वर्थः, लकारार्थश्च कृतिरिति हि तत्सिद्धान्तः। तदेतन्नैयायिकमतं गौरवग्रस्तत्वादयुक्तिमित्याह-तन्नेति। परसमवेतत्वादेरिति। सूत्राक्षरासंस्पृष्टस्यात एव स्वकपोलकल्पितस्य परसमवेतत्वस्य द्वितीयावाच्यत्वकल्पने गौरवादेः स्पष्टत्वान्न तस्य द्वितीयावाच्यत्वकल्पनं युक्तमिति भावः। ननु परसमवेतत्वस्य गुरूभूतत्वेऽपि द्वितीयावाच्यत्वं विना दूषणनिरासासंभवात्तादृशगौरवस्यादूषकत्वादित्यत आह-अतिप्रसङ्गः किमिति। द्वितीयाया इति। चैत्रश्चैत्रमिति प्रयोगापत्तिरूपोऽतिप्रसङ्ग इत्यर्थः। नाऽऽद्य इति। परसमवेतत्वस्य द्वितीयावाच्यत्वे कल्पिते चैत्रश्चैत्रमिति प्रयोगापत्त्यसंभवेऽपि अन्यत्र द्वितीयापत्तिरूपातिप्रसङ्गस्य तदवस्थत्वादिति भावः। तमेवान्यत्रातिप्रसङ्गं प्रदर्शयति-पाचयति कृष्णमिति। कृष्णेनेत्यस्य स्थाने कृष्णमिति द्वितीयापत्तेरित्यर्थः। अत्र प्रयोज्यः कृष्णः, प्रयोजको गौपः। तथा च द्वितीयाप्रकत्यर्थकृष्णापेक्षया परो यो गोपस्तत्समवेतव्यापारजन्यं, णिजन्तधातुवाच्यं सत् णिजर्थव्यापारविशेषणात्मकं यत्फलं विक्लित्तयनुकूलव्यापाररूपं, तादृशफलशालित्वरूपकर्मत्वस्य प्रयोज्ये कृष्णे सत्त्वात्कृष्णपदाद्‌द्वितीयापत्तिः स्यादित्यर्थः। ततश्च द्वितीयाप्रवृत्तौ कर्मसंज्ञैव निमित्तं, न तूक्तफलशालित्वमित्यङ्गीकरणीयम्। यदि तु पाचयत्यादियोगे गतिबुद्धीतिनियमादुक्तफलसालिनः कर्मसंज्ञा न भवतीत्युच्यते तर्हि तत एव द्वितीयापत्तिवारणसंभवेऽलं परसमवेतत्वस्य द्वितीयावाच्यत्वकल्पनयेति भावः। गोकुलं कृष्णमिति दृष्टान्ते प्रयोज्यस्य कृष्णस्य प्रयोजकनिष्ठनिजर्थव्यापारजन्यफलशालित्वेन यथा कृष्मपदाद् द्वितीया भवति तथा पाचयत्यादियोगे कृष्णमिति द्वितीया स्यादित्यर्थो बोध्यः। ननु परसमवेतव्यापारजन्यदात्वर्थतावच्छेदकफलशालित्वरूपमेव कर्मत्वं द्वितीयाप्रवृत्तौ निमित्तं, न तु कर्मसंज्ञा। पाचयति कृष्णेन गोप इत्यत्र द्वितीयाप्रकृत्यर्थकृष्णान्यगोपसमवेतव्यापारजन्यघात्वर्थतावच्छेदकफलशालित्वरूपकर्मत्वस्य प्रयोज्ये कृष्णे सत्त्वेऽपि गतिबुद्धीति सूत्रेणैतत्सूत्रोपात्तगतिबुद्ध्यादिधातुप्रकृतिक एव णिजन्ते परसमवेतैेत्याद्युक्तकर्मत्वस्य विवक्षा कर्तव्या, न गत्याद्यतिरिक्तधातुप्रकृतिकणिजन्ते पाचयत्यादाविति बोधनान्न पाचयति कृष्णं गोप इति द्वितीयापत्तिः, कर्मत्वादिविवक्षया ेव विभक्त्युत्पत्तौ निमित्तत्वादत आह-तण्डुलं पच्यते स्वयमेवेति। कर्मकर्तरि द्वितीयापत्तिः स्यादित्यर्थः। तत्र दृष्टान्तं प्रदर्शयन्नाह-तण्डुलं पचतीति। द्वितीयाप्रकृत्यर्थतण्डुलापेक्षया परो यश्चैत्रस्तत्समवेतव्यापारजन्यधात्वर्थतावच्छेदकविक्लित्तिरूपफलशालित्वात्तण्डुलस्य कर्मत्वात्ततो यथा द्वितीया भवति, विक्लित्त्यनुकूलव्यापारस्य पच्‌धात्वर्थत्वात्, फलव्यापारैतदुभयोः पचधातुवाच्यत्वादिति यावदिति भावः। एवं तण्डुलः पच्गते स्वयमेवेत्यत्र कर्मकर्तुस्तण्डुलस्य, द्वितीयाप्रकृत्यर्थतण्डुलापेक्षया परो योऽग्निस्तत्समवेतसंयोगरूपव्यापारजन्यधात्वर्थतावच्छेदकविक्लित्तिरूपफलाशालित्वाद् कर्मतया ततो द्वितीयोत्पत्तौ तण्डुलं पच्यते स्वयमेवेति प्रयोगापत्तिः स्यादित्यर्थः। तथा चात्र विक्लित्त्यनुकूलाग्निसंयोगः पच्‌धात्वर्थो विवक्षितः। विक्लित्त्यग्निसंयोगैतदुभयोः पच्‌दातुवाच्यत्वं विवक्षितमिति भावः। तदाह-विक्लित्त्यनुकूलतण्डुलान्येत्यादि। धात्वर्थाश्रयत्वादिति। अग्निसंयोगरूपधात्वर्थजन्यविक्लित्तिरूपफलाश्रयत्वादित्यर्थः। तस्माद्‌द्वितीयाविभक्त्युत्पत्तौ कर्मसंज्ञैव निमित्तं, न तु परसमवेतेत्याद्युक्तरूपं फलशालित्वमित्यङ्गीकर्तव्यम्। विभक्त्युपत्तौ कर्मादिसंज्ञाया निमित्तत्वे स्वीकृते तण्डुलः पच्यते स्वयमेवेत्यत्र कर्मकर्तुस्तण्डुलस्य कर्मसंज्ञायाः प्राप्तावपि परया कर्तृसंज्ञया तद्वाधान्न द्वितीयापत्तिः, किं तु प्रथमैवेति न कश्चिद्दोष इत्याशयः। अत्राग्निसंयोगो धात्वर्थत्वेन विवक्षित इत्याश्रित्यैवेदं दूषणं बोध्यम्। यदि तु कर्मकर्तरि विक्लित्त्यनुकूलतण्डुलमात्रनिष्ठव्यापारस्य, फलमात्रस्य वा धात्वर्थत्वमुच्यते तदा नेदं दूपणं भवतीति ज्ञेयम्। नन्वेवं चैत्रश्चैत्रमिति प्रयोगापत्तिरूपदोषासंभवेऽपि चैत्रो गच्छतीत्यतश्चैत्रकर्तृकं चैत्रकर्मकं गमनमिति शाब्दबोधापत्तिरिति चेदाह-शाब्दबोधातिप्रसङ्गोपीति। उक्तरीत्यैवेति। तथा व्युत्पन्नानां, उच्यतां वा---कार्यकारणभावान्तरम्, इत्याद्युक्तप्रकारेर्णैव निरस्त इत्यर्थः। किं च परसमवेतत्वस्य द्वितीयावच्यत्वेऽङ्गीकृतेऽपि द्वितीयाप्रकृत्यर्थप्रतियोगिकमेव परत्वं, नान्यप्रतियोगिकं, परसमवेतत्वस्य धात्वर्थक्रियायामेवान्वयः, न फले, इत्येवं नियमद्वयलाभाय तादृशतादृशकार्यकारणभावान्तरकल्पने गौरवाधिक्यस्यानिवार्यत्वात्सर्वथाऽयुक्तं तार्किकमतमिति भावः।
वाक्यपदीयोक्तं कर्मणो विभागमाह-एतच्चेति। धात्वर्थव्यापारजन्यफलाश्रयरूपं कर्म चेत्यर्थः। सप्तविधमिति। सप्तप्रकारकमित्यर्थः। तानेव सप्त प्रकारान् दर्शयति-निर्वर्त्यं येत्यादिना। यत्-ईप्सिततमं कर्म, तत्-निर्वर्त्यं, विकार्यं, प्राप्यं चेति त्रिधा मतमित्यन्वयः। अन्यत्त्विति। ईप्सिततमभिन्नं त्वित्यर्थः। चतुर्धेति-चतुर्विधमित्यर्थः। चतुर्विधत्वमेव प्रदर्शयति-औदासीन्येनेति। ईप्सितत्वाभावे सति द्वेष्यत्वाभावे च सति यत्प्राप्यं क्रियाजन्यफलाश्रयः, तदेकमित्यर्थः। अनीप्सितं-द्वेष्यं, तद्‌द्वितीयम्। संज्ञान्तरैरनाख्यातम्-अपादानादिसंज्ञादिभिरविवक्षतं, अकथितं चेति सूत्रविहितं कर्म, तत्तृतीयमित्यर्थः। अन्यपूर्वकमिति। अन्यसंज्ञाप्राप्तौ सत्यां कर्मसंज्ञकम्। यथा क्रूरमभिक्रुध्यतीत्यत्र क्रुधद्रुहेर्ष्येति संप्रदानसंज्ञा प्राप्ता क्रुधद्रुहोरुपसृष्टयोरिति विहितकर्मसंज्ञकम्। तच्चतुर्थमित्यर्थः। अत्र चतुर्विधत्वप्रदर्शनमात्रे तात्पर्यं, न तु प्रथमद्वितीयादिक्रमवर्मने। निर्वर्त्यादिकर्मत्रयस्य लक्षणमाह-यदसदिति। नैयायिकमते उत्पत्तेः प्रागसत एव घटादिकार्यस्योत्पत्तिर्जायते इति तन्मतेनेदं निर्वर्त्यकर्मलक्षणम्। सांख्यमतेनाऽऽह-सद्वेति। तन्मते हि सत एव घटादिकार्यस्य जन्मना प्रकाशो जायते। प्रकृत्यच्छेदेति। द्विविधविकार्यकर्ममध्ये किंचिदेकं प्रकृतिभूतस्याऽऽत्मनः काष्ठादेरित्यर्थः, उच्छेदं-नाशं, संभूतं प्राप्तं, भूप्राप्तावित्यस्मात्कर्तरि क्तः। किंचित्तु गुणान्तरोत्पत्त्याऽऽकारान्तरोत्पत्त्या जायते, तद्‌द्वितीयं विकार्यं कर्मेत्यर्थः। प्राप्यकर्मणो लक्षणमाह-क्रियाकृतेति। क्रिया धात्वर्थो व्यापारः, तत्प्रयोज्यो विशेषो दर्शनादनुमानाद्वा यत्र न प्रतीयते तत्प्राप्यं कर्मेत्यन्वयः। क्रमेणोदाहरणान्याह-घटं करोतीति। आद्यं निर्वर्त्यम्। असत्कार्यवादो नैयायिकानाम्। सत्कार्यवादः सांख्यानाम्। वैयाकरणानां तु सांख्यसंमतसत्कार्यवाद एवाभिप्रेतः। काष्ठं भस्मेति, सुवर्णं कुण्डलमिति च। अत्र कृधातोर्विकारनुकूलव्यापारपूर्वकोऽत्पत्त्यनुकूलो व्यापारोऽर्थः। अत एव काष्ठभस्मयोः, सुवर्णकुण्डलयोश्चेत्येवं प्रत्येकमुभयोः कर्मत्वनिर्वाहो भवति। काष्ठं विकुर्वन् भस्मोत्पादयतीति प्रतीतेः। आद्ये काष्ठं भस्मेत्यत्र प्रकृतेः काष्ठस्योच्छेदरूपो विकारः, अन्त्ये सुवर्णं कुण्डलमित्यत्राऽऽकारविशेषात्मको विकार इत्युभयत्र विकार्यकर्मता। तृतीयं-प्राप्यमित्यर्थः। अत्र घटे प्रत्यक्षादनुमानाद्वा नकश्चित्क्रियाकृतो विशेषः प्रतीयते। निर्वर्त्ये स्वरूपलाभात्मको विशेषः, विकार्येऽपि क्वचित्स्वरूपलाभः, क्वचिद्‌गुणान्तरोत्पत्त्यात्मकः। अनुमानाद्यथा-पुत्रः सुखमनुभवति। अत्र हि मुखप्रसादेन सुखानुमानं भवति। तृणं स्पृशतीति। अस्य ग्रामं गच्छन्नित्यादिः। एतदुदासीनम्। द्वेष्यं तु विषं भुङ्क्ते इति। उभयत्रापि `तथा युक्तं च' इति कर्मसंज्ञा। गां गोग्धीति। गोनिष्ठापादानत्वाविवक्षया अकथितं चेति विहितकर्मसंज्ञकमित्यर्थः। क्रूरमभिक्रुध्यतीति। अत्र क्रुधद्रुहेर्ष्येति संप्रदानसंज्ञायां प्राप्तायां तां बाधित्वा क्रुधद्रुहोरिति कर्मसंज्ञाया विहितत्वादन्यपूर्वकं कर्मेत्यर्थः। एवं वैकुण्ठमध्यास्त इत्यादौ वैकुण्ठस्थानपर्वककर्मत्वं बोध्यम्।
क्रमप्राप्तं तृतीयार्थं प्रतिपादयति-तृतीयाया इति। कर्तृतृतीयाया इत्यर्थ-। आश्रय इति। आश्रयमात्रमित्यर्थः। करणतृतीयायास्त्वश्रयव्यापारो वाच्याविति वक्ष्यते। कर्तृतृतीयाया आश्रयार्थकत्वे प्रमाणमाह-तथा हीत्यादि `नागृहीतविशेषणाबुद्धिर्विशेष्य उपजायते' इति न्यायेन स्वतन्त्रपदार्थगत। स्वातन्त्र्यस्य पुरुःस्फूर्तिकत्वेन बुद्धिस्थत्वादाह-स्वातन्त्र्यं चेति। स्वातन्त्र्यस्येतरानधीनत्वरूपस्याऽऽश्रयणे चैत्रेण पाचयति मैत्र इत्यादौ प्रयोजकाधीनतया चैत्रस्य कर्तृत्वानापत्तिरित्याशङ्क्य विवक्षितार्थमाह-धात्वर्थेति। धातूपात्तेत्यर्थः। धात्वर्थाश्रयत्वमित्येवोच्यमाने धात्वर्थफलाश्रयत्वेन कर्मण्यतिव्याप्तिरतो व्यापारपदोपादानम्। व्यापाराश्रयत्वमित्येवोच्यमाने कर्तृनिष्ठव्यापारप्रयोज्यव्यापाराश्रयत्वेन करणेऽतिव्याप्तिरतो धात्वर्थेति। यत्किंचिद्धातूपात्तव्यापाराश्रयस्य कर्तृत्वे काष्ठैः स्थाल्यां पचतीत्यत्र पचधातुसमभिव्याहारेऽपि काष्ठादीनामपि कर्तृत्वं स्यात्। काष्ठाति ज्वलन्ति, स्थाली प्रकाशते इत्यादौ काष्ठादीनां यत्किंचिद्धातूपात्तव्यापाराश्रयत्वात्। तथा च यत्किंचिद्धातूपात्तस्याव्यावर्तकत्वात्प्रकृतधातूपात्त एव व्यापारो ग्राह्यः। तेन प्रकृतपचधातूपात्तफूत्कारादिव्यापाराश्रयत्वाभावान्न काष्ठादीनां पचधातुसमभिव्याहारे कर्तृत्वापत्तिः। प्रकृतधातूपात्तव्यापारोऽपि प्रधानीभूत एव ग्राह्यः। तेन नयतेः संयोगानुकूलव्यापारानुकूलव्यापारावाचित्वे चैत्रो ग्राममजां नयतीत्यत्राजाया न कर्तृत्वम्। अत्र द्वितीयो व्यापारो विशेष्यभूतः, स च चैत्रनिष्ठः। प्रथमस्तु व्यापारो द्वितीयव्यापारस्य विशेषणभूतः, स एव चाजानिष्ठ इति नाजायाः कर्तृत्वमिति बोध्यम्। न च कर्मसंज्ञया बाधान्नाजायाः कर्तृतापत्तिरिति वाच्यम्। कर्तुरीप्सिततममिति कर्मसंज्ञायाश्चैत्रस्तण्डुलं पचतीत्यादौ सावकाशतयाऽपवादत्वाभावात्परत्वाभावाच्च, प्रत्युत परत्वात्कर्तृसंज्ञैव बाधिका स्यात्। स्वतन्त्रपदस्य निरुक्तार्थकत्वे किं प्रमाणमत आह-धातुनोक्तेति। धातुनोक्तक्रिये कारके कर्तृता नित्यमिष्यत इत्यन्वयः। यन्निष्ठा व्यापारात्मिका क्रिया धातुनोक्ता तत्कारकं कर्तेति वाक्यपदीयाद्धात्वर्थव्यापाराश्रयत्वं कर्तृत्वमित्येव फलतीति भावः। नन्वेतादृशस्वातन्त्र्याश्रयणे स्थाल्यां पचतीत्यादावपि स्थाल्यादेः कर्तृत्वापत्तिः, पचधातूपात्तधारणाद्यात्मकव्यापाराश्रयत्वाद्, विक्लित्त्यनुकूलतण्डुलधारणाद्यात्मकव्यापारस्य पच्‌दात्वर्थत्वेन विवक्षितत्वादत आह-अत एव यदेति। अत एव-निरूक्तोदाहरणे स्थाल्यादावतिव्याप्तेरेव। न च निरवकाशाभिरधिकरणादिसंज्ञाभिः कर्तृसंज्ञाया बाध इति वाच्यम्। कर्तृसंज्ञाविषयेऽप्यधिकरणसंज्ञा प्राप्ता, तस्या अपि निरवकाशतया पर्यायतापत्तिः स्यादित्याशयात्। यो यदा धातूपात्तव्यापाराश्रयः स तदा कर्तेति स्वीकारादेवाग्निः पचतीत्यादि संगच्छते इत्याह-स्थाली पचतीत्यादि संगच्छत इत्यन्तम्। ननु यदा यन्निष्ठो व्यापारो धातुनाऽभिधीयते तदा स कर्तेति स्वीकारे, विवक्षयैकस्यापि कर्तृत्वकर्मत्वयो संबन्धस्य संभवात् `कर्तृकर्मव्यपदेशाच्च'(व्र.स.1-2-4)इत्यधिकरणे भगवता न्यासेनैकस्य कर्तृत्वकर्मत्वोभयसंबन्धो विरुद्धत्वादयुक्त इत्युक्तं तद्विरुध्येतेत्याशङ्कते-नन्वेवमित्यादिन्। अयं भावः-स क्रतुं कुर्वीतेत्यनेनोपासनं विधाय तादृशोपासनविधिविषयतया `मनोमयः प्राणशरीरः' इत्युक्तम्। तत्र मनःप्राणादिसंबन्धस्य जीवात्मन्याञ्जस्येन संभवादिहोपास्यत्वेन मनोमयादिशब्दवाच्यो जीवो निर्दिष्ट इत्याशङ्क्य, यदि मनोमयादिशब्दप्रतिपाद्यस्य जीवत्वं स्यात्तदा वाक्यशेषे-`एतमितः प्रेत्याभिसंभवितास्मि' इत्यत्र मनोमयादिशब्दप्रतिपाद्यस्य जीवस्यैकस्य प्राप्तिकर्मत्वेन प्राप्तिकर्तृत्वेन च कृतः कर्तृकर्मोभयव्यपदेशो विरुद्धः, इतः-अस्माच्छरीरात्, प्रेत्य-निःसृत्य, एतच्छरीरं परित्यज्येत्यर्थः, एतं-मनोमयादिशब्दप्रतिपाद्यं प्रकृतं जीवात्मानं, अभिसंभवितास्मि-प्राप्तास्मि, इति तदर्थादिति। अत्र एतमित्यनेन प्रकृतमनोमयो जीवात्मा प्राप्तिकर्मत्वेन निर्दिष्टः, अभिसंभवितास्मि-प्राप्तास्मीति लुडुतमेन पुरुषेण उपासकः शारीरः प्राप्तिकर्तृत्वेन व्यपदिष्टः। समुपसृष्टादाधृषीयाद्‌भू प्राप्तावित्यात्मनेपदिनो व्यत्ययेन लुटः स्थाने परस्मैपदम्। अथ वा णिच्‌संनियोगेनैवाऽऽत्मनेपदमित्येकीयपक्षे णिजभावे व्यत्ययन्तरैवोत्सर्गत एव परस्मैपदमिति ज्ञेयम्। अत्र शांकरभाष्यम्-`न च सत्यां गतावेकस्य कर्तृकर्मव्यापदेशो युक्तः' इति। अत्र सत्यां गतावित्युक्त्या आत्मानमात्मना हन्तीत्यादिवदौपाधिकबेदकल्पनाऽगतिकगतिरूपा न युक्तेति सूचितम् तत्र कालबेदेनैकस्य संज्ञाद्वयसंभवेऽपि, न युगपदेकस्य संज्ञाद्वयं युक्तम्। प्रकृतश्रुतौ तु युगपदेव संज्ञाद्वयकार्योपलम्भो विरुद्ध इत्याशयेन समाधत्ते-उच्यत इति। एवमिति। एकस्य कर्तृत्वकर्मत्वोभयाङ्गीकारे, इत्यर्थः। भनोमयस्येति। मनोमयशब्दबोद्यस्येत्यर्थः। जीबत्व इति। ब्रह्मभिन्नत्वे, इत्यर्थः। वाक्यशेष इति। एतमितः प्रेत्येत्यादिवाक्यशेष इत्यर्थः। तस्येति। मनोमयशब्दबोध्यजीवात्मन इत्यर्थः। इति मूलस्थशब्दार्थविवरणं द्रष्टव्यम्। समाधानप्रकारमाह-जीवस्यैबेति। मनोमयः प्राणशरीरः, इत्यादिना जीवस्यैवोपास्यत्वेन बोधने सति प्राप्तिकर्पत्वमपि तस्यैव वाच्यम्। एतमित्येतचब्धस्य पूर्वप्रक्रान्तार्थपरामर्शित्वात्। तस्येति। जीवात्मन इत्यर्थ। अभिसंभवितास्मि, इति-क्रियापदघटकाख्यातेन तिङा कर्तृत्वमुक्तम्। लः कर्मणि च भावे चेत्यनेन लुटः कर्तरि विधानादित्यर्थः। तत्रैकस्य युगपत्कर्तृकर्मसंज्ञाद्वयं न युज्यते-न संभवति। आकडारीयतया परया कर्तृसंज्ञया कर्मसंज्ञाया बाधात्। तथा च एतमिति द्वितीया न प्राप्नुयात्। अथ अभिसंभवितास्मीति न शुद्धे कर्तरि लुट्, अपि तु कर्मकर्तरीति यद्युच्येत-एतमिति पूर्ववाक्ये कर्मतया निर्दिष्टस्य कर्तृत्वं यथा तण्डुलं पचतीति वाक्ये कर्मसंज्ञकस्य तण्डुलस्य तण्डुलः पच्यते स्वयमेवेति वाक्ये कर्तत्वमिति न युगपत्संज्ञाद्वयमित्युच्यते चेत्तन्नेत्याह-यगाद्यापत्तिरिति। ननु लुटः कर्मकर्तृत्वेऽपि तासः सार्वधातुकत्वाभावान्न यगापत्तिरत आह-यगादीति। आदिपदाच्चिण्वद्भावात्मनेपदादेर्ग्रहणम्। तथा च चिण्वद्भाद्‌वृद्धिरात्मनेपदं चाऽऽपद्येतेति भावः। शब्दविरोधद्वारेति। एकस्य युगपत्संज्ञाद्वयकार्यासंभवात्मकविरोदद्वारेत्यर्थः। सः युगपदेकस्य संज्ञाद्वयासंभवरूपो विरोध इत्यर्थः। भेदहेतुरिति। उपास्योपासकयोः परमात्मजीवात्मनोर्भेदहेतुर्भवतीत्यर्थः। तथा च मनोमयादिशब्देन परमात्मैव निर्दिष्टः, न जीवात्मेति सिध्यतीति न पूर्वोक्तभगवद्व्यासनिर्णयविरोध इत्याशयः।
नन्वेवं कर्तृतृतीयाया अपि करणतृततीयावद्‌व्यापारविशिष्टाश्रयवाचकत्वं प्राप्नोति, नाऽऽश्रयमात्रवाचकत्वमित्यत आह-एवं चेति। धातूपात्तव्यापाराश्रयत्वस्य कर्तृत्वे चेत्यर्थः। व्यापारांशस्येति। कर्तृत्वलक्षणघटकस्य व्यापारांशस्येत्यर्थः। धातुलभ्यत्वादिति। धातुना प्रतिपाद्यमानत्वादित्यर्थः। आश्रयमात्रमिति। अनन्यलभ्यस्यैव शब्दार्थत्वादिति न्यायादिति भावः। मात्रपदेन व्यापारघ्यवच्छेदः। मीमांसकोक्तं कर्तृत्वं दूषयितुमनुवदति-कारकचक्रप्रयोक्तृत्वमिति। प्रकृतधातूपात्तक्रियान्वययोग्यकारकसमुदायप्रवर्तकत्वमित्यर्थः। उक्तापेक्षयाऽपि लाघवानुरोधेन नैयायिकसंमतं कर्तृत्वमनुवदति-कारकचक्रप्रयोक्तृत्वमिति। प्रकृतधातूपात्तक्रियान्वययोग्यकारकसमुदायप्रवर्तकत्वमित्यर्थः। उक्तापेक्षयाऽपि लाघवानुरोधेन नैयायिकसंमतं कर्तृत्वमनुवदति-कृत्याश्रयत्वं वेति। प्रकृतधात्वर्थव्यापारानुकूलकृत्याश्रयत्वं कर्तृत्वमित्यर्थः। आश्रयत्वं च समवायसंबन्धेन ग्राह्यम्। तेन पाकानुकूलकृतेः कालिकसंबन्धेनाऽऽश्रयत्वस्य घटे सत्त्वेऽपि न घटः पचति, घटेन पच्यत इत्यादेरापत्तिः। तदेतद्‌द्विविधमपि कर्तृत्वमव्याप्तिदोषग्रस्तमित्याह-अव्याप्तमिति। दण्डः करोति, स्थाली पचतीत्यादौ दण्डादेरचेतनत्वेन कारकचक्रप्रयोक्तृत्वाभावात्कृत्याश्रयत्वाभावाच्च कर्तृत्वं न स्यादिति भावः। कर्तुर्विभागमाह-अयं चेति। तृतीयार्थत्वेनोक्तः कर्तेत्यर्थः। विभागश्च कर्तृत्वव्याप्यधर्मपुरस्कारेम कथनम्। त्रिविधत्वं प्रदर्शयति-शुद्ध इत्यादिना। हेतुकर्तृ-कर्मकर्तृभ्यां भिन्नः कर्ता शुद्ध इत्यर्थः। णिजर्थव्यापाराश्रयः कर्ता प्रयोजककर्तेत्यर्थः। कर्मकर्ता तु णिच्‌प्रकृतिभूतधातूपात्तव्यापाराश्रयत्वे सति णिजर्थव्यापारजन्यफलाश्रयः, प्रयोज्यकर्तेति भावः। यो ह्यण्यन्तावस्थायां कर्तृसंज्ञः सण्ण्यन्तावस्थायां कर्मसंज्ञको भवति स कर्मकर्तेति यावत्। न तु फलाश्रयमात्रवृत्तिव्यापाराश्रयत्वरूपकर्मकर्तृत्वमिह विवक्षितमित्याशयः। शुद्धादीनां कर्तॄणां क्रमेणोदाहरणान्याह-मया हरिःo, कार्यतेo, गमयति कृष्णंo इति। उदाहरणक्रमेणैव तच्छाब्दबोधान् प्रदर्शयति-मदभिन्नाश्रयक----व्यापारः, हर्यभिन्नाश्रयक----व्यापारः, गोकुलकर्मकगमना---व्यापारः, इत्येवं क्रमेण तेषां शाब्दबोधा ज्ञेयाः, प्रथमोदाहरणे मयेति प्रयोजकत्वकर्मत्वव्यधिकरणव्यापारवत्त्वाच्छुद्धः कर्ता। द्वितीयोदाहरणे करोतेर्णिजन्तात्कर्मणि लट्, यक्। अत्र हरिः प्रयोजककर्ता। तृतीयोदाहरणे कृष्णस्याणौ कर्तुर्ण्यन्ते गतिबुद्धीतिसूत्रेण कर्मसंज्ञाविधानात्कृष्णः कर्मकर्ता। तथा च कर्म चासौ कर्ता चेति कर्मधारयः, कर्मसंज्ञया कर्तृसंज्ञाया वाधात्तदभावेऽपि प्रकृतधातूपात्तव्यापाराश्रयत्वरूपवास्तवकर्तृत्वसत्त्वान्न काचित्क्षतिः। सेवनानुकूल इति। सेवा-पादसंवाहनादिकं, प्रीतिर्वा। नवीनमते तु-मदभिन्नाश्रयव्यापारजन्या हरिकर्मिका सेवेत्यादिः शाब्दबोधो ज्ञेयः। तैर्हि कर्मप्रत्ययसमभिव्याहारे फलमुख्यविशेष्यकशाब्दबोधाङ्गीकारात्। एवं कार्यते हरिणेत्यत्रापि हर्यभिन्नाश्रयकव्यापारजन्योत्पादनेति बोधोऽवसेयः।
करमतृतीयाया व्यापारविशिष्टश्रयो वाच्य इत्याह-करणतृतीयायास्त्विति। नन्वाश्रयव्यापारयोः कर्णतृतीयावाच्यत्वे न मानं, साधकतमस्यैव करणसंज्ञाविधानादत आह-तथा हीति। साधकतमं हि करणं, तत्र तमबर्थः प्रकर्षः। स चाव्यवधानेन फलजनको यो व्यापारस्तद्वत्ता। तादृशप्रकर्षश्च कारकान्तरापेक्षो ग्राह्यः, न तु करणान्तरापेक्षः। कारकसामान्यवाचिनः साधकशब्दाद्विहितेन तमप्‌प्रत्ययेन कारकावधिकप्रकर्षस्यैव बोधनात्। करणान्तरापेक्षप्रकर्षस्य करणान्तरेऽभावाच्च। तेन, रयेन दीपिकया पथा व्रजतीति प्रयोगस्य नानुपपत्तिः। नह्यत्र रथापेक्षया दीपिकायां दीपिकापेक्षया वा रथे कियानपि प्रकर्षः प्रतीयते?। तादृशव्यापारेति। फलनिष्पत्त्यव्यवहितपूर्ववर्ती यो व्यापारस्तद्विशिष्टं यत्कारणं तदेव करणमिति भावः। तथा च व्यापाराश्रययोः करणतृतीयाशक्यत्वे साधकतममिति सूत्रमेव प्रमाममित्याशयः। एवं च `आश्रयोऽवधिरुद्देश्यः' इति मूले आश्रयपदं व्यापारस्याप्युपलक्षणमिति ज्ञेयम्। अत्रार्थे वाक्यपदीयसंमतिमाह-उक्तं चेति। क्रियाया इति। अत्र क्रियापदं फलपरम्। फलस्य धात्वर्थफलस्य साध्यतया प्रतीयमानत्वात्क्रियावेन व्यवहारः कर्मत्वत्कर्मणेति सूत्रे स्पष्टः। विवक्ष्यत इत्यस्य प्रयोजनं प्रतिपादयति-वस्तुत इति। तत्-करणत्वं, वस्तुतः-वस्तुविशेषनिष्ठत्वेनानिर्देश्यं-निर्देष्टुमशक्यम्। तत्र हेतुमाह-न हीति। हि-यस्माद्धेतोस्तत्करणत्वं, वस्तुव्यवस्थितं-वस्तुविशेषमात्रनिष्ठं न भवतीत्यर्थः। वस्तुविशेषमात्रनिष्ठत्वाभावे कारणमाह-स्थाल्येति। अधिकरणत्वनिश्चयविषयीभूताऽपि स्थाली विवक्षया करणत्वं भजजीत्यर्थः। एवमुक्तरीत्या सर्वेषां करणत्वसंभवेऽपि न युगपत्सर्वेषां करणत्वविवक्षेति न सर्वत्र तृतीयापत्तिः। युगपत्सर्वेषां करणत्वविवक्षणाभावादेव द्वितीयासप्तम्यादेरवकाशः संभवतीत्याह-तदभावादिति। करणत्वविवक्षाभावादित्यर्थः। सकृत् युगपदित्यर्थः। तण्डुलस्थाल्यादीनां युगपदनेकेषां करणत्वविवक्षाया अभावात्तण्डुलं स्थाल्यां पचतीत्यत्र तण्डुलादौ द्वितीयादयो भवन्ति इति भावः। ननु विवक्षया सर्वेषां करणत्वाङ्गीकारे कर्ता सास्त्रार्थवत्त्वादित्यधिकरणविरोध इत्याह--न चैवमिति। जीवः कर्ता, उत वुद्धिः, इत्याशङ्क्य जीव एव कर्ता न तु बुद्धेः कर्तृत्वमिति कर्ता शास्त्रार्थवत्त्वात् (व्र.सू.2-3-33) इत्यनेनोक्तम्। तद्‌दृढीकरणार्थमेव `शक्तिविपर्ययात्(व्र.सू.2-3-38)इत्यपरो हेतुरुक्तः। तदर्थस्तु यदि विज्ञानशब्दवाच्या बुद्धिरेव कर्त्री स्यात्तर्हि `तदेषां प्राणानां विज्ञानेन' इति श्रुतौ तृतीयाविभक्त्या यद्विज्ञानपदवाच्यबुद्धेः करणत्वं निर्दिष्टं तस्य विपर्ययः स्यात्। अर्थाद्‌बुद्धेः करणशक्तिर्नश्येत्। कर्तृशक्तिश्चाऽऽपद्येतेत्यर्थः। तथा चाहं गच्छाम्यहं पिबामीत्यादौ सर्वत्राहंकारपूर्विकाया एव प्रवृत्तेर्दशनात्कर्तृत्वशक्तियुक्ताया बुद्धेरेवाहंप्रत्ययविषयत्वमङ्गीकर्तव्यं भवतीति बुद्धेः कर्त्र्याः करणमन्यत्किंचित्कल्प्यं स्यादिति जीव एव कर्ता, न तु बुद्धिरिति शक्तिविपर्ययापत्त्या साधितं तन्न संगच्छेत। विवक्षया शक्तिविपर्ययस्य शास्त्रसिद्धत्वेनाविरोदाद्‌दोषापादकत्वाभावात्। तथा च न सर्वेषां वैवक्षिकं करणत्वं युक्तमाश्रयितुमिति चेन्न-तदेषामिति। प्राणानां-इन्द्रियाणां, विज्ञानं-ग्रहणशक्तिं, विज्ञानेन-मनोजनशब्दवाच्यान्तःकरणे क्लॄप्तस्य करणत्वस्य हानिः, अक्लृप्तकर्तृशक्तिश्चाऽऽपद्येतेति क्लृप्तहानिरक्लृप्ताभ्यागमप्रसङ्ग इति तत्तात्पर्यात्। न तु सर्वेषां वैवक्षिकं करणत्वं नेत्यर्थकम्। एकत्र श्रुतौ करणत्वेन क्लृप्तस्याप्यन्यत्र श्रुतौ कर्तृत्वेन विवक्षायां न किंचिदपि बाधकं, युगपत्कर्तृत्वकरणत्वविवक्षाया एव विरुद्धत्वादित्याशयदिति भावः। अत एवाऽऽह-वस्तुतस्त्विति। अन्वाचयमात्रमिति। एतदिति। शक्तिविपर्ययापत्तिरूपं दूषणमन्वाचयमात्रमानुषङ्गिकमात्रं, न तु मुख्यमित्यर्थः। बुद्धेः कर्तृत्वनिराकरणस्यैव मुख्यत्वादिति भावः। एतदेव स्पष्टयति-यथा च तक्षेति। भाष्य एवेति। पूर्वोक्तैः शास्त्रार्थवत्त्वादिभिर्हेतुभिः साधितं यज्जीवस्य कर्तृत्वं तत्किं स्वाभाविकमुतौपाधिकमिति संदिह्य कर्तृत्वस्य स्वाभाविकत्वे मुक्तिर्न स्यात्। कर्तृत्वस्य दुःखस्वरूपत्वात्, कर्तृत्वस्वभावत्वे हि अग्नेरिवौष्ण्यादात्मनः कर्तृत्वाद्वियोगासंभवात्। कर्तृत्वस्य दुःखरूपत्वे दृष्टान्तःयथा तक्षा, वास्यादिकरणहस्तो दुःखी भवति तद्रहितस्तु सुखी संपद्यते, तद्वदात्माऽपि बुद्ध्यादिसाधनापेक्षः कर्ता सन्दुःखी भवति, तदनपेक्षस्तु अकर्ता सन्सुखी भवतीत्येवं दृष्टान्तप्रदर्शनेनाऽऽत्मनः कर्तृत्वमुपाधिनिमित्तमिति स्पष्टमेव। एवं च शक्तिविपर्ययस्य बुद्धिकर्तृत्वनिराकरण एव तात्पर्यं, न तु बुद्धेः करणत्वपरित्याग इति शक्तिविपर्यस्याऽऽनुषङ्गिकत्वं स्पष्टमेवेति भावः।
सप्तम्या अर्थमाह-सप्तम्या अपीति। नन्वधिकरणे सप्तमी विहिता, तत्कथं तस्या आश्रयोऽर्थ इत्यत आह-तच्चेति। अधिकरणसंज्ञं चेत्यर्थः। ननु तावताऽपि आधारोऽधिकरणमिति सूत्रादाधारस्य सप्तम्यर्थत्वं लभ्यते नाऽऽश्रयस्येत्यत आह-तत्त्वं चेति। आधारत्वं चेत्यर्थः। आश्रयत्वमिति। आधारत्वस्याऽऽश्रयत्वादतिरिक्तत्वे प्रमाणाबावादित्यर्थः। तथा च नाममात्रे भेदो, न वस्तुनीति भावः। ननु कर्तृकर्मद्वारा तन्निष्ठक्रियाश्रयस्य सप्तम्यर्थत्वं सूत्रार्थाल्लभ्यते, न केवलाश्रयस्येत्यत आह-तत्राऽऽश्रयांश इति। क्रियातदाश्रययोर्मध्ये क्रियाया धातुनैव लाभादनन्यलभ्यः केवल आश्रयांश एव सप्तम्याशक्योऽर्थ इत्यर्थः। तत्त्वमिति। आश्रयत्वं शक्यतावच्छेदकमित्यर्थः। तच्चाखण्डशक्तिरूपमिति प्रागुक्तमेव। नन्वाधारोऽधिकरणमिति सूत्रेणाऽऽश्रयत्वमात्रपुरस्कारेण विहिताऽधिकरणसंज्ञा कर्मकर्तृकरणानां स्यादित्याशङ्कते-न चेत्यादि। कर्मकर्त्रिति। कर्मणः-फलाश्रयस्य, कर्तुः फलानुकूलव्यापाराश्रयस्य, करणस्य-फलरूपक्रियानिष्पत्त्यव्यवहितपूर्ववर्तिव्यापाराश्रयस्येत्यर्थः। आधारसंज्ञेति। आधारस्य विहिता संज्ञाऽधिकरणसंज्ञेत्यर्थः। आधारसंज्ञाया अविधानाद्यथाश्रुतेऽसंगत्यापत्तेरित्यर्थः। न चाऽऽधारसंज्ञैवाधिकरणस्य विधीयते सूत्रेणेति वाच्यम्। आधारस्य प्राङ्निर्दिष्टत्वेनोद्देश्यत्वात्पश्चान्निर्दिष्टस्यैव संज्ञात्वादाधारस्यैवाधिकरणसंज्ञा विधित्सिता,न वैपरीत्येन। स्पष्टं चेदं वृद्धिसंज्ञासूत्रे भाष्य इति भावः। समाधत्ते-स्यादेवेत्यादिना। अयं भावः-यद्यपि फलाद्याश्रयाणामधिकरणसंज्ञा प्राप्नोति तथाऽपि कर्मादिसंज्ञाभिरीधकरणसंज्ञा बाध्यते। यदि च सर्वत्रैवाऽऽधारस्थाधिकरणसंज्ञा भवेत्तर्हि कर्मादिसंज्ञा निरवकाशाः स्युरिति आकडारीयत्वान्निरवकाशाभिः कर्मादिसंज्ञाभिरधिकरणसंज्ञाया बाधितत्वान्न सा भवतीत्यर्थः। ननु यदि कर्मादिसंज्ञाभिरधिकरणसंज्ञा बाध्यते तर्हि अधिकरणसंज्ञायाः कोऽवकाशः? न च परम्परया यः क्रियाश्रयः सोऽधिकरणसंज्ञाया अवकाश इति वाच्यम्। साक्षात्क्रियाश्रये संभवति परम्परया क्रियाश्रयग्रहणस्यान्याय्यत्वादित्य आह-`कारके इत्यधिकृत्येत्यादि। विहितसप्तभ्या इति। कारकाधिकारीयं यदधिकरणसंज्ञकं तत्र विहितसप्तम्या इत्यर्थः। क्रियाश्रय इत्यवेति। साक्षात्क्रियाश्रय इत्येवेत्यर्थः। एवकारेण चैत्राद्याश्रयकटादेर्व्यावृत्तिः। तथा च तादृशस्य कर्तुः कर्मण एव वाऽधिकरणसंज्ञा स्यान्न तु चैत्राद्याश्रयकटादेरिति भावः। साक्षात्क्रियाश्रयस्य कर्तृकर्मसंज्ञाविधानात्परिशेषन्यायेन साक्षात्क्रियाश्रयद्वारा क्रियाश्रयस्य ग्रहणमित्याशयेनोत्तरमाह तथाऽप्यत्रेति। कर्तृकर्मद्वारेति। एतादृशार्थः सूत्रसामर्त्यादेव लभ्यते। तथा हि-आधारोऽधिकरणमित्यत्र कारके, इत्याधिकृतं प्रथमान्ततया विपरिणम्यते। तच्चाऽऽधारस्य विशेषणम्। आधारः कारकमधिकरणसंज्ञमिति लभ्यते। कारकं च क्रियाजनकं, करोति क्रियां जनयतीति कारकमिति व्युत्पत्तेः। एवं च कस्याऽऽधार इत्याकाङ्क्षायामुपस्थितत्वात्क्रियाया इति लभ्यते। क्रिया च धात्वर्थव्यापारफलात्मिका, तत्र साक्षात्क्रियाधारयोः पराभ्यां कर्तृकर्मसंज्ञाभ्यामाक्रान्तत्वादिदं सूत्रयनवकाशं सत् कर्तृकर्मद्वारा धात्वर्थक्रियाश्रयस्याधिकरणसंज्ञाविधायकमित्यर्थात्। तदाश्रयत्वमिति। कर्तृकर्मगतव्यापारफलात्मकक्रियाश्रयत्वमित्यर्थः। अस्त्येवेति। परम्परया क्रियाश्रयत्वमस्त्येवेति स्थाल्यां पचति, कटे शेते, इत्यादयोऽधिकरणसप्तम्यन्ताः प्रयोगा उपपद्यत इति बोध्यम्। उक्तसूत्रार्थे हरिसंमतिं दर्शयति-उक्तं चेति। कर्तकर्मव्यवहितामिति। लोके द्रव्यगुणक्रियाविषयमदिकरणम्। अत्र शास्त्रे कारकाधिकारात्क्रियाविषयमेव तत्। साक्षाद्धात्वर्थव्यापारफलात्मकक्रियाश्रययोः कर्तृकर्मणोस्ते संज्ञे बाधिके, अतस्तद्व्यवहितामित्युक्तम्। यद्यपि कालः साक्षात्क्रियाधारस्तथाऽपि कारकाधिकारे तरतमयोगो नास्तीति तमब्‌ग्रहणेन साधितम्। तथा हि-कारकं साधकमित्यनर्थान्तरम्। समानार्थकमिति यावत्। तथा च क रक इत्यधिकारादेव सिद्धे पुनः साधकग्रहणं क्रियमाणं साधकतममित्यर्थकं विज्ञायेतेति व्यर्थेन तमब्ग्रहणेन, कारकाधिकारे शब्दसामर्थ्यगम्यः प्रकर्षो नाऽऽश्रीयत इति ज्ञाप्यते। तेन गङ्गायां धोषः, कूपे गर्गकुलमित्यादौ गङ्गादेरधिकरणसंज्ञा सिध्यति। अन्यथा, आधारोऽधिकरणमित्यत्राधिकरणमित्यन्वर्थमहासंज्ञाबलादेवाऽऽधारलाभे सिद्धे पुनस्तद्‌ग्रहणसामर्थ्यात्सर्वावयवव्याप्त्या य आधारः सोऽधिकरणसंज्ञः स्यात्। तथा च तिलेषु तैलं, दधनि सर्पिरित्यादौ तिलादेरेवाधिकरणसंज्ञा स्यात्। न गङ्गादेरिति। एवं च प्रकृते परम्परया क्रियाधारस्यापि ग्रहणं सिध्यति। व्यवहितामित्युक्तेऽप्यसाक्षादित्युक्तिर्लोकानुसारेणान्वयोऽपि परम्परयैवेति सूचनाय। उपकुवत्क्रियासिद्धाविति। कटे आस्ते, स्थाल्यां पचतीत्यादावधृते कर्तकर्मणी न क्रियां संपादयत इत्यधिकरणं क्रियाधारः उपकुर्वत्तत्स्थां क्रियामुपकरोतीत्यर्थ इति हेलाराजः। स्वनिष्ठधारणादिक्रियया प्रधानक्रियां निर्वर्तयतीति यावत्। यद्यपि तण्डुलं पचतीत्यादौ धात्वर्थफलरूपकर्मद्वारा क्रियाश्रयत्वं तण्डुल देरस्ति तथाऽपि व्यापारजन्यफलाश्रयत्वसत्त्वेन परया कर्मसंज्ञया बाधान्न दोष इति बोध्यम्। परे त्वधिकरणकारकस्य कर्त्रादावेवान्वयः कटे शेते इत्यादौ कटाधिकरणकचैत्रकर्तृकशयनमित्यादिरीत्या बोधात्। तद्‌द्वारकमेवास्य क्रियान्वयित्वम्। कारकाणां भावनान्वयव्युत्पत्तिरपि एतच्छास्त्रवलादीदृशपरम्परयाऽन्वयविषयाऽपि। अथ एवाक्षशौण्ड इत्यादौ समासः। अत एव भाष्ये तत्रासामर्थ्यशङ्का न कृता। एवं चान्तर्भूतक्रियाद्वारा सामर्थ्यमिति कैयटादयश्चिन्त्या एव। अक्षशौण्डः, अक्षप्रवीण इत्यादौ दध्योदनादाविव क्रियान्तर्भावेण बोधस्याननुभवात्। अक्षविषयकप्रावीण्यवानित्येव बोधानुभवादिति प्राहुः।
निरुक्तमधिकरणं त्रिविधमित्याह-एतच्चेति। त्रिविधमिति। त्रिप्रकारकमित्यर्थः। सामान्यस्य भेदको विशेषः प्रकारः। तदेव विशदयति-औपश्लेषिकमित्यादिना। उपश्लेषः संयोगादिसंबन्धस्तत्कृतमधिकरणमौपश्लेषिकमित्यर्थः। विषयतासंबन्धकृतं वैषयिकम्। सकलावयव्याप्तिकृतमभिव्यापकमित्यर्थः। क्रमेणोदाहरणान्याह-कटे शेते, इति। देवदत्त इति शेषः। अत्र साक्षाद्देवदत्तात्मककर्तृगतां शयनक्रियां प्रति कटस्य संयोगसंबन्धं पुरस्कृत्य देवदत्तद्वारा तदाधारत्वादधिकरणत्वम्। इदं कर्तृद्वारकौपश्लेषिकाधिकरणस्योदाहरणम्। परम्परया कटाभिन्नाश्रयकः शयनानुकूलो व्यापार इति बोधः। एवं गुरौ वसतीत्यपि कर्तृद्वारकप्रौपश्लेषिकाधिकरणम्। उप-समीपे श्लेषः संबन्धस्तत्कृतमौपश्लेषिकमिति व्युत्पत्तेः। परम्परया गुर्वाभिन्नाश्रयको वासानुकूलो व्यापार इति बोधः। कर्मद्वारकौपश्लेषिकाधिकरणोदाहरणं स्थाल्यां पचतीत्यादि बोध्यम्। अत्र साक्षात्तण्डुलात्मककर्मगतां पाकक्रियां प्रति स्थाल्याः संयोगसंबन्धं पुरस्कृत्य तण्डुलद्वारा आधारत्वादधिकरणत्वम्। परम्परया स्थाल्यभिन्नाश्रयिका या विक्लित्तिस्तदनुकूलो व्यापार इत्येवं बोध ऊह्यः। वैषयिकाधिकरणमुदाहरति-मोक्षइच्छाऽस्तीति। औपश्लेषिकाभिव्यापकभिन्नमधिकरणं वैषयिकम्। अत्र साक्षात्कर्तृभूतेच्छागतां सत्ताक्रियां प्रति मोक्षस्य विषयतासंबन्धपुरस्कारेण इच्छाधारत्वादधिकरणत्वम्। परम्परया मोक्षाभिन्नविषयकः सत्तानुकूलो व्यापारः। मोक्षविषयकेच्छानिष्ठसत्तेति वा बोधः। अभिव्यापकमधिकरणमुदाहरति-तिलेषु तैलमिति। अत्र साक्षात्तैलरूपकर्तृगतां सत्ताक्रियां प्रति कृत्स्नव्यप्तिं पुरस्कृत्य तैलद्वारा सत्ताधारत्वात्तिलानामधिकरणत्वम्। परम्परया तिलाभिन्नाश्रयकस्तैलनिष्ठसत्तानुकूलो व्यापार इति बोधः।
पञ्चम्यर्थमाह-अविधिरिति। अवधेः पञ्चम्यर्थत्वे मानमाह-अपादाने पञ्चमीति। ननु सूत्रेमापादानस्य पञ्चम्यर्थत्वलाभेऽपि अवधेः कथं पञ्चम्यर्थत्वलाभोऽत आह-तच्चेति। तच्च-अपादानं चेत्यर्थः। अपायो विभागजनको व्यापारस्तस्मिन्सति प्रत्यासत्त्या तादृशव्यापारजन्यविभागाश्रययोर्मध्ये यद्‌ध्रुवं स्थिरमवधिभूतं तदपादानं, द्वयोः संयुक्तयोरन्यतरस्य चलनाद्विभागो जायंते, तत्र तादृशचलनानाश्रयभूतं, अर्थाद्विभागजनकव्यापारानाश्रयभूतं यत्तत्स्थिरं तच्चेहावधित्वेन विवक्षितमिति अवधिभूतमपादानसंज्ञकं भवतीति सूत्रार्थाद्‌ध्रुवमपाये, इत्यनेनावधेरपादानसंज्ञाविधानादवधेः पञ्चम्यर्थत्वमिति भावः। उक्तेऽर्थे हरिसंमतिं प्रदर्शयति उक्तं चेति। अपाये यदुदासीनमित्यादिना पृथक्पृथगित्यन्तेन। अस्य हरिग्रन्थस्यार्थमाह-अपाय इति। अपायो विश्लेषः, विभाग इति यावत्। अत्रापायपदमपायजनकक्रियापरं लक्षणयेत्याशयेनाऽऽह-विश्लेषहेतुक्रियायामिति। उदासीनमित्यनेन ध्रुवपदार्थ उक्तः। औदासीन्यं क्रियानाश्रयत्वमित्याह-अनाश्रय इति। प्रत्यासत्त्या प्रकृतधातूपत्तिविश्लेषहेतुक्रियानाश्रय इत्यर्थः। तच्चोदासीनं चलं वाऽचलं वा कथमप्यस्तुतद्‌ध्रुवमेवोच्यते। ननु निरुक्तमुदासीनं यद्यचलं तदा घ्रुवमुच्यतां, परंतु यदि चलं तदा कथं ध्रुवमुच्यत इत्याशङ्क्याऽऽह-अतदावेशादिति। विश्लेषहेतुक्रियानाविष्टत्वादित्यर्थः। तथा च लोके स्पन्दादियत्‌किंचित्क्रियारहितं स्थिरं वस्तु ध्रुवमित्युच्तते। अत्र शास्त्रे तु विश्लेषहेतुमात्राक्रियारहितं ध्रुवमुच्यत इति भावः। विश्लेषस्य द्विष्ठत्वेन विश्लेषाश्रययोर्द्वयोर्मध्ये यद्विश्लेषजनकक्रियानाश्रयस्तदपादानमित्युक्ते तादृशक्रियानाश्रयस्य संज्ञिनोऽर्थाद्विश्लेषाश्रयत्वं लभ्यत इत्याशयेनाऽऽह-एवं चेति। अपाये ध्रुवमित्यनेन विश्लेषजनकक्रियाशून्यत्वविवक्षणे चेत्यर्थः। विश्लेषेत्यादि सतीत्यन्तं विशेषणं यदि नोच्येत तर्हि प्रयागात्काशीं गच्छति चैत्र इत्यत्र गन्तरि चैत्रेऽपादानसंज्ञाया अतिव्याप्तिः स्यात्। गच्छतेर्विश्लेषजनकक्रियावाचित्वेन विश्लेषस्य च द्विष्ठत्वेन प्रयाग इव चैत्रेऽपि सत्त्वाविशेषात्। तथा च कर्तृसंज्ञां बाधित्वाऽपादानसंज्ञैव स्यात्। कर्तृसंज्ञायास्तु तण्डुलं पचति चैत्र इत्यादाववकाश इति भावः। सत्यन्तविशेषणोक्तौ तु चैत्रस्य विश्लेषाश्रयत्वेऽपि विश्लेषजनकक्रियाश्रयत्वेन नोक्तातिव्याप्तिरिति भावः। अथ यदि विश्लेषाश्रयत्वमिति विशेष्यं नोच्येत तर्हि पूर्वोक्त एव प्रयोगे काश्यां कर्मण्यतिव्याप्तिः स्यात्। प्रयागस्येव काश्या अपि विश्लेषजनकक्रियानाश्रयत्वात्। विशेष्योक्तौ तु प्रयागस्येव काश्या विश्लेषाश्रयत्वाभावान्नातिव्याप्तिः। तथा च कर्तरि कर्मणि चेत्युभयत्रातिव्याप्तिवारणाय विशेषणविशेष्योभयमुपात्तम्। अवेदं बोद्यम्-गच्छति, याति, इयर्ति, अतति, इत्यादौ तत्तद्धातोर्विभागजनकक्रियावाचित्वेऽपि विभागस्य तत्तद्धातुवाच्यत्वाभावः। अत एव तादृशविभागस्य धातुवाच्यव्यापारजन्यत्वेऽपि फलत्वाभावः। फलत्वस्य तद्‌धातुवाच्यव्यापारजन्यत्वे सति तद्धातुजन्योपस्थितिविषयत्वात्। यत्र च विभागस्य धातुवाच्यत्वाभावस्तादृशविभागाश्रयस्यापादानत्वम्। यथा वृक्षात्पर्णं पततीत्यादौ पतधात्वर्थो विभागजनकः संयोगानुकूलव्यापारः। तत्र संयोगस्य धातुवाच्यत्वेऽपि विभागस्य तदवाच्यत्वेन तादृशविभागश्रयस्य वृक्षस्यापादानत्वम्। यत्र च विभागस्य धातुवाच्यत्वं तत्र विभागस्य फलत्वात्तादृशविभागाश्रयस्यापादानसंज्ञां बाधित्वा परत्वात्कर्मसंज्ञैव भवति, नापादानसंज्ञा। यथा वृक्षं त्यजति खग इत्यत्र विभागानुकूलो व्यापारस्त्यजधात्वर्थः। अत्र विभागस्य धातुवाच्यत्वेन फलत्वात्तादृशविभागाश्रयस्य वृक्षस्य कर्मसंज्ञैव भवति, नापादानसंज्ञा, विभागस्य धातुवाच्यत्वादिति। नवीनमते पूर्वोक्तधातुष्वपि विभागस्यापि धातुवाच्यत्वम्। अत एव अवधित्वं च `प्रकृतधातूपात्तविभागजनकव्यापारानाश्रयत्वे सति प्रकृतधात्वर्थविभागाश्रयत्वं, इति वदन्ति। तत्र ग्रामादायाति, ग्रामाद्विभजते, इत्यादौ विभागसमानाधिकरणव्यापारार्थकधातुयोगे विभागस्य फलत्वेऽपि तादृशविभागाश्रयस्यापादानत्वम्। वृक्षं त्यजतीत्यादौ विभागव्यधिकरणव्यापारार्थकधातुयोगे विभागाश्रयस्य कर्मत्वमिति व्यवस्था। एवं च प्रयागात्काशीं गच्छतीत्यादौ विभागस्य धात्वर्थत्वेऽपि व्यापारसमानाधिकरणविभागस्य प्रतीत्या तादृशविभागाश्रयस्य प्रयागस्य न कर्मत्वम्। व्यापारव्यधिकरणविभागाश्रयस्यैव कर्मत्वादिति बोध्यम्। अपादानत्वलक्षणघटकसत्यन्तविशेषणस्य व्यावर्त्यमाह-वृक्षात्पर्णं पततीति। अत्र विभागजन्यसंयोगानुकूलव्यापारः पतधात्वर्थः। अत्र पर्णवृत्तिर्यः संयोगानुकूलव्यापारः स वृक्षपर्णयोर्विभागजनकः, विभागश्च संयोगवद्‌द्विष्ठत्वेन वृक्षपर्णैतदुभयनिष्ठः। एवं स्थिते यदि विश्लेषाश्रयत्वमपादानत्वमित्येवोच्येत तदा वृक्षस्येव पर्णस्यापि विश्लेषाश्रयत्वादपादानसंज्ञा प्रसज्येत, तद्वारणाय सत्यन्तं विशेषणमुक्तम्। ततश्च पर्णस्य विश्लेषाश्रयत्वेऽपि विश्लेषजनकव्यापाराश्रयत्वेनापादानसंज्ञाया व्यावृत्तिः सिध्यति। ननु विश्लेषाश्रयत्वे सति प्रकृतधातूपात्तक्रियानाश्रयत्वमित्येतावतैव पर्णेऽतिप्रसङ्गवारणे सति विश्लेषहेत्विति क्रियाविशेषणनिवेशनस्य किं प्रयोजनमित्याशङ्क्याऽऽह-धावतोऽश्वादिति। अत्रापि पतधात्वर्थः पूर्ववदेव। अश्वारूढपुरुषनिष्ठो यः संयोगानुकूलव्यापारः, सोऽश्वपुरुषयोर्विभागजनक इत्यश्वस्य विभागाश्रयत्वेऽपि धावत इति विशेषणात्प्रकृतधातूपात्तधावनक्रियाविशिष्टत्वात्प्रकृतऋधातूपात्तक्रियानाश्रयत्वाभावेनाश्वस्यापादानत्वं न स्यादतो विश्लेषहेत्विति क्रियाया विशेषणं दत्तम्। तेन चाश्वस्य ऋधातूपात्तधावनक्रियायुक्तत्वेऽपि विश्लेषहेतुपतधातूपात्तसंयोगानुकूलक्रियानाश्रयत्वादपादानसंज्ञा प्रवर्तते, विश्लेषहेतुक्रियाया अश्वारूढपुरुषमात्रनिष्ठत्वादिति भावः। एतेनाश्वस्य चलत्वेऽपि यस्मादश्वादसौ पतति तस्य पततस्तादृशोऽप्यश्वो ध्रुव एवेति स्पष्टीकृतम्। वृक्षावधिकविभागजनकः पर्णनिष्ठः संयोगानुकूलव्यापार इति बोधः वृक्षात्पर्णं पततीत्यत्र बोध्यः। अश्वात्पततीत्युक्ते यत्किंचिदतरक्रियानाश्रयत्वदशायामेवाश्वस्यापादानत्वं भवतीत्याशङ्का स्यादतस्तन्निवृत्तये धावत इत्यश्वविशेषणमुपात्तम्। अश्वावधिकविभागजनकः संयोगानूकूलव्यापारोऽश्ववारनिष्ठ इति रीत्या बोधः। ननु कुड्‌यात्पततोऽस्वात्पततीत्यत्र पतत इति विशेषणाद्विश्लेषजनकक्रियाश्रयत्वप्रतीतेरश्वस्यापादानत्वं न स्यादित्याशङ्क्याऽऽह-यस्मादश्वादिति। यस्मादश्वादसौ पतति सोऽश्वो यत्किंचिदवाधिकविभागजनकक्रियाश्रयोऽपि पततस्तस्य ध्रुव एव विश्लेषजनकक्रियानश्रय एवेत्यर्थ। अयं भावः-अत्र प्रयोगे विश्लेषजनिके द्वे क्रिये वर्तेते। तत्रैका कुड्यावधिकविश्लेषजनिका, साऽश्वनिष्ठा, द्वितीया त्वश्वावधिकविश्लेषजनिका, सा पुरुषनिष्ठा। तथाऽऽश्रयभेदाद्विश्लेषोऽपि द्विविधः कुड्याश्वयोर्विश्लेषः, स च कुड्यावधिकोऽश्वनिष्ठः। अश्वाश्वारोहयोर्विश्लेषश्च द्वितीयः, स चाश्वावधिकोऽश्वारोहनिष्ठः। एवं स्थिते विश्लेषहेतुक्रियानाश्रयेत्यत्र विश्लेषसामान्योपादानेन निरुक्तस्थलेऽस्वस्यापादानत्वानुपपत्तिशङ्का, यन्निष्ठविश्लेषावधित्वं तद्विश्लेषजनकक्रियानाश्रयत्वमित्येवं विश्लेषविशेषोपादाने नोक्तानुपपत्तिः। कुड्‌यात्पततोऽश्वात्पततीत्यत्राश्वस्यास्वाश्वारोहनिष्ठविश्लेषावधित्वं, तादृश(अश्वाश्वारोहनिष्ठ)विश्लेषजनकक्रियाया अश्वारोहमात्रनिष्ठाया अश्वेऽसत्त्वेनाश्वस्य तद्विश्लेषजनकक्रियानाश्रयत्वादपादानत्वमुपपद्यते। यद्यप्यश्वस्य कुड्याश्वविश्लेषजनकक्रियाश्रयत्वं विद्यते तथाऽपि सा क्रिया अश्वाश्वारोहविश्लेषजनिका न भवतीत्यश्वस्य तद्‌विश्लेषजनकक्रियानाश्रयत्वं निर्बाधमित्याशयेनाऽऽह-तद्विश्लेषहेतुक्रियेत्यादि विशेषणीयमित्यन्तम्। तच्छब्दार्थस्य यच्छब्दार्थसापेक्षत्वात्-यद्विश्लेषावधित्वं तद्विश्लेषहेतुक्रियानाश्रयत्वे सतीत्येवं यत्तच्चब्दाभ्यां निर्वृत्तो विश्लेषव्याक्तिविशेषोऽवधिलक्षणे प्रवेशनीय इत्याशयः। तथा चाश्वस्याश्वारोहनिष्ठविश्लेषजनकक्रियानाश्रयत्वमविरुद्धमित भावः। एवं कुड्यादेरपि ध्रुवत्वं सिध्यतीत्याह-तस्यापीति। यस्मादश्वादयं पतति तस्याप्यश्वस्य पतने कुड्यादिध्रुवं भवति। कुड्याश्वनिष्ठविश्लेषजनकक्रियाया अश्वमात्रनिष्ठायाः कुड्यादावसत्त्वेन कुड्यादेस्तद्विश्लेष(कुड्याश्वविश्लेष) जनकक्रियानाश्रयत्वादित्यर्थः। नन्वेवमपि यत्र संयुक्तावुभौ युगपत्पृष्ठतोगमनक्रियया विश्लेषं जनयतस्तत्र विश्लेषस्यैक्यात्प्रत्येकमपि तद्विश्लेषजनकक्रियावत्त्वेन तद्विश्लेषजनकक्रियानाश्रयत्वाभावात्परस्परस्मान्मेषावपसरत इत्यपादानन्वं न स्यादित्याशङ्कां प्रत्याचष्टे-उभावपीति, मेषान्तरक्रियेति च। तत्रोभावपीत्यादिना विभागे, इत्यन्तकारिकांशेन शङ्का। तदर्थस्त्वेवम्-उभयकर्मके-उभयं-मेषद्वयं, तस्य कर्म-तत्संबन्धिनी क्रिया। अथवा-उभयोः कर्म-द्वयोर्मेषयोः क्रियेत्यर्थः। तादृशी क्रिया जनकत्वेनास्ति यस्येति व्यधिकरणो बहुव्रीहिर्विभागश्च न्यपदार्थः। अथवा उभयपदं लक्षणयोभयस्थपरं, तथा चोभयस्थं कर्म-क्रिया, अस्ति यस्येति समानाधिकरणो बहुव्रीहिः। अन्यत्पूर्वत्। उभयनिष्ठक्रियाजन्यविभागे, इत्यर्थः। क्वचित्तु मुद्रितपुस्तकेऽध प्रदेशे `उभयकर्मजे' इति पाठो दृश्यत, सतु सुगम इति प्रतिभाति। यद्यपि उभयनिष्ठक्रियाजन्यविभागे उभावपि मेषावध्रुवौ विश्लेषजनकक्रियाश्रयौ, स्त इति शेषः। तथा चापादानत्वं न स्यादिति। प्रविभक्ते त्वित्याद्यविशिष्टकारिकांशेन निरुक्तशङ्काप्रत्याख्यानम्। प्रविभक्ते इति। आश्रयभूततत्तन्मेषभेदात्तद्‌वृत्ती विश्लेषजनकक्रिये भिन्ने सत्यौ व्यवस्थिते भवतः, तन्मेषवृत्तिर्विश्लेषजनकक्रियाऽपरमेषवृत्तिरपरप्रेषवृत्तिश्च तादृशक्रिया तन्मेषवृत्तिर्न भवतीत्येवं व्यवस्थिते स्तः, न त्वव्यवस्थिते इत्यर्थः। तत्रेति। यत्रैको मेषो निश्चलं स्थितस्तस्माच्च मेषादपरो मेषोऽपसरति, तत्रेत्यर्थः। एतदेव मेषान्तरक्रियेत्यादिकारिकया स्पष्टीक्रियत इत्याह-यथा निश्चलेति। अयमन्यतरकर्मजन्यविभागस्थलीयदृष्टान्तः। निश्चलमेषादिति। विश्लेषजनकक्रियानाश्रयो यो मेषस्तस्मादपसग्न्पृष्ठतो गच्छन् यो द्वितीयमेषस्तादृशस्थले यथाऽपसरन्मेषस्थक्रियापेक्षया क्रियानाश्रयमेषस्य ध्रुवत्वं, तद्वदुभयनिष्ठक्रियाजन्यविभागस्थले विभागस्यैक्वेऽपि तत्तन्मेषनिष्ठत्वरूपधर्मवौशिष्ट्येन क्रियाया भेदं प्रकल्प्यैकमेषनिष्ठक्रियापेक्षयाऽपरस्य मेषस्य ध्रुवत्वं, अपरमेषनिष्ठक्रियामादायैकपेषस्य च ध्रुवत्वं सूपपादम्। अन्यतरनिष्ठक्रियाजन्यविभआगस्थले तद्विश्लेषजनकक्रियानाश्रयत्वस्यान्यतरस्मिन्संभवान्मेषो मेषादपसरतीतिवदुभयनिष्ठक्रियाजन्यविश्लेषस्थलेऽपि आत्मानमात्मनेत्यादावन्तःकरणाद्युपाविकृतभेदवत्तत्तन्मेषनिष्ठत्वरूपधर्मोपाधिना क्रियाभेदं गृहीत्वाऽन्यतरस्मिंस्तद्विश्लेषजनकक्रियानाश्रयत्वस्य संभवात्परस्पस्मान्मेषावपसरत इत्युपपद्यत इति भावः। नवीनास्तु-प्रकृतधातूपात्तव्यापारजन्यविभागाश्रयत्वमपादानत्वं, तच्च परस्परपदोपात्तयोरेव विवक्ष्यते, मेषपदोपात्तयोस्तु क्रियाश्रयत्वात्कर्तृत्वं विवक्ष्यते, न विभागाश्रयत्वम्। प्रयोगानुसारित्वाद्विवक्षणस्येत्याहुः। एवं च यादृशमपादानलक्षणं फलितं तत्प्रदर्शयति-तद्विश्लेषेत्यादिना तत्क्रियायामपादानन्वमित्यन्तेन। तत्र सतीत्यन्तस्यार्थः स्पष्ट एव। तज्जनकेति। तच्छब्देन विश्लेषग्रहणाद्विश्लेषजनकेत्यर्थः। तत्क्रियानाश्रयेति। अत्र तच्छब्देन तत्तन्मेषनिष्ठत्वरूपोपाधिविशिष्टक्रियाविशेषस्य ग्रहणात्क्रियाविशेषानाश्रयत्वमित्यर्थः। तत्क्रियायामिति। अत्रापि तत्पदं क्रियाविशेषपरम्। विशेषक्रियायां तदपादानमिति सिद्धमिति भावः। क्रियाविशेषग्रहणं च परस्परस्मान्मेषावपसरत इत्यत्रापादानत्वसिद्ध्यर्थामिति भावः। ननु यत्र वृक्षनिष्ठक्रिययैव विभागो जन्यते तत्र वृक्षाद्वस्त्रं पततीति प्रयोगो न स्यात्। वृक्षस्य वृक्षवस्त्रविबागजनकतत्क्रियानाश्रयत्वाभावादत आह-क्रिया चात्रेति। धात्वर्थ इति। पततीत्यादिप्रकृतधातुवाच्यैव गृह्यते, न स्पन्दमात्रमित्यर्थः। स्पन्दमात्रग्रहणेन वृक्षे स्पन्दसत्त्वाद्‌वृक्षस्यापादानत्वानुपपत्तिशङ्का, धात्वर्थग्रहणे तु पततीतिप्रकृतपतधात्वर्थविभागजनकसंयोगानुकूलक्रियानाश्रयत्वाद्‌वृक्षस्यापादनत्वोपपत्तिः। तेनेति। प्रकृतधातूपात्तक्रियाग्रहणेनेत्यर्थः। सगच्छत इति। विभागजनकसंयोगानुकूलक्रिया पततेरर्थः। तथा च वृक्षवस्त्रविभागजनिका या क्रिया प्रकृतपतधातूपात्ता, सा वस्त्रे विद्यते, न वृक्ष इति कृत्वा वृक्षस्य प्रकृतधातूपात्तविभागजनकक्रियानाश्रयत्वादपादानत्वं संगच्छत इत्यर्थः। नन्वत्र वस्त्रनिष्ठक्रियया वृक्षवस्त्रविभागः, न वृक्षनिष्ठक्रिययेति वृक्षकर्मजविभागवतीति वस्त्रविशेषणं न संगच्छत इति चेन्न। वृक्षचलनेन वस्त्रे तादृशी क्रिया समुत्पन्ना, यया वृक्षाद्विभज्य तद्वस्त्रमधः पतितम्। यदि तु वृक्षे चलनक्रिया नाजनिष्ट तर्हि वस्त्रे विभागजनिका क्रिया नोदपादि, ततशअच वस्त्रमपि नाधोऽपप्तत् इति परम्परया वस्त्रपतनं प्रति वृक्षनिष्ठचलनक्रिया कारणमित्याशयेन वृक्षकर्मजविभागवतीति विशेषणमुक्तम्। ननु निरुक्तापादानस्य पञ्चम्यर्थत्वे गौरवमनुसंधायाऽऽह-वस्तु इति। एतावदिति। विश्लेषाश्रयत्वे सति विश्लेषजनकतत्क्रियानाश्रयत्वमित्येवं विशेषणविशिष्टमित्यर्थः। पञ्म्या वाच्यमिति। पञ्चमीवाच्यतावच्छेदकं नेत्यर्थः। पञ्चम्या वाच्यं-अपादानं, तच्च विश्लेषाश्रयं सद्विश्लेषजनकतत्क्रियानाश्रयं, वाच्यतावच्छेदकं त्वपादानत्वं, तच्च निरुक्तविशेषणविशिष्टं विश्लेषाश्रयेत्यादि क्रियानाश्रयत्वमित्यन्तम्। तथा च निरुक्तमपादानत्वं न पञ्चमीवाच्यं, किं तु पञ्चमीवाच्यतावच्छेदकं तदिति भावः। वाच्यतावच्छेदकस्यापि वाच्यत्वदर्शनादपादानत्वं पञ्चमीवाच्यं नेत्येवं वाचोयुक्तिरपि युक्तैवेति ज्ञेयम्। लक्षणमात्रमिति। मात्रशब्देन वाच्यतावच्छेदकत्वव्यावृत्तिः। ननु यदि विश्लेषाश्रयं सद्विश्लेषजनकतात्क्रियानाश्रयमित्येवं विसिष्ठं पञ्चमीवाच्यं न, तर्हि किं पञ्चमीवाच्यमित्यपेक्षायां यद्विश्लेषाश्रयं तावदेव पञ्चमीवाच्यमाश्रीयते। तथा च विश्लेषाश्रयत्वमित्येतावदेवापादानत्वमभिप्रेयते चेत्ग्रामादायाति देवदत्त इत्यत्र आयातेर्विभागपूर्वकोत्तरदेशसंयोगानुकूलव्यापारार्थत्वेन संयोगवद्विभागस्य द्विष्ठत्वेन आयातिधात्वर्थक्रियाजन्यविबागस्य ग्रामनिष्ठत्वस्येव देवदत्तनिष्ठत्वस्यापि सत्त्वेन ग्रामस्येव देवदत्तस्याप्यपादानत्वं प्राप्नोतीति ग्रामाद्देवदत्तादायातीत्यनिष्टः प्रयोग आपद्येतेति चेन्न। ग्रामं गच्छति चैत्र इत्यत्र गमधात्वर्थव्यापारजन्योत्तरदेशसंयोगरूपफलस्य ग्रामवृत्तित्ववच्चैत्रवृत्तित्वस्यापि सत्त्वेन ग्रामस्येव चैत्रस्यापि कर्मत्वाच्चैत्रश्चैत्रं गच्छतीत्याशङ्क्य चैत्रस्य व्यापारजन्यफलाश्रयत्वेन कर्मसंज्ञाप्राप्नोति, अथ च व्यापाराश्रयत्वेन कर्तृसंज्ञाप्राप्नोति, तत्र आकडारीयत्वेन परत्वात्कर्तृसंज्ञया कर्मसंज्ञाया बाधान्न चैत्रश्चैत्रमित्यपत्तिरित्येवं समाहितम्। तद्रीत्या प्रकृतेऽपि प्रकृतधात्वर्थव्यापारजन्यविभागाश्रयत्वेन देवदत्तस्यापादानत्वं प्राप्तमथ च प्रकृतधात्वर्थव्यापाराश्रयत्वेन कर्तृत्वं च प्राप्तं, तत्र परत्वात्कर्तृसंज्ञया अपादानसंज्ञाया बाधान्न ग्रामाद्देवदत्तादित्यनिष्टं प्रसज्येतेति समाधानस्य वक्तुं शक्यत्वाद्‌गौरवेण न पञ्चमीवाच्यकोटौ विश्लेषजनकतत्किरयानाश्रयत्वमित्यंशस्य प्रवेशः कल्पनीय इति प्रतिभाति-रोचत इति भावः। एतत्सर्वमनुसंधायाऽऽह-द्वितीयार्थोक्तरीत्येत्यादि प्रतिभातीत्यन्तम्। शङ्कते-न चैवमपीति। देवदत्तो देवदत्तादित्याद्यनिष्टप्रयोगवारणेऽपत्यिर्थः। वृक्षात्स्पन्दत इति। वृक्षात्तत्सकाशात्किंचिच्चलितमीषद्विभक्तं भवतीत्यर्थप्रतीतेः प्रकृतस्पन्दधात्वर्थव्यापारानाश्रयत्वे सति तज्जन्यविभागाश्रयत्वस्य वृक्षे सत्त्वेन वृक्षस्यापादानत्वापत्तिरिति शङ्ककाशयः। विश्लेषाश्रयत्वे सति तज्जनकतत्क्रियानाश्रयत्वमित्येवं विशिष्टस्य पञ्चमीवाच्यत्वपक्षेऽपीयमापत्तिः। उक्तामापत्तिमिष्टापत्त्या परिहरति-इष्टत्वादिति। आसनाच्चलितः, राज्याच्चलितः, इत्यादौ चलधातूपात्तव्यापारजन्यविबागाश्रये अपादानत्वस्येष्यमाणत्वात्तद्वत्तदर्थकस्पन्दधातूपात्तव्यापारजन्यविभागाश्रयेऽपादानत्वाङ्गीकारे बाधकाभावेनेष्टत्वादित्यर्थः। वृक्षात्स्पन्दते इति प्रयोगापत्तिरूपदूषणदातुरित्थमभिप्रायः-आसनाच्चलित इत्यादिप्रयोगदर्शनाच्चलधातूपात्तव्यापारजन्यविभागस्य प्रतितेर्विभागस्य चावधिसापेक्षतया तत्र तादृशविभागाश्रयस्यापादानत्वेऽपि स्पन्दधातोः कभ्पनमात्रार्थकतया विभागाप्रतीतेरवधित्वाभावेन वृक्षात्स्पन्दत इति प्रयोगो नोचितः, किंतु वृक्षे स्पन्दत इत्येव। अन्ये तु सकर्मकधातुसमभिव्याहारे तादृशधातूपात्तव्यापारजन्यविभागश्रयस्यापादानत्वं-यथा प्रयागात्काशीं गच्छतीत्यादौ, स्पन्दे स्त्वकर्मकतया तत्समभिव्याहारे तादृशधातूपात्तव्यापारजन्यविभागाश्रयस्यापादानत्वं नोचितमित्याशयेनाऽऽह-पञ्चमीजन्येत्यादि उपस्थितेर्हेतुत्वमित्यन्तम्। पञ्चमीजन्यो योऽपादानत्वप्रकारकबोधस्तस्मिन् बोधविषये-प्रत्यासत्त्याऽपादानपदार्थघटकविभागजनकतया सकर्मकधातुजन्यव्यापारोपस्तितिर्हेतुरिति कार्यकारणभावाङ्गीकाराद्‌ वृक्षात्स्पन्दत इत्यत्र विभागजनकव्यापारोपस्थापकस्पन्दधातोरकर्मकतया न तत्समभिव्याहारेऽपादान्त्वबोध इति कृत्वा वृक्षात्स्पन्दत इत्यनुचितमिति भावः। सोऽयं समाधानप्रकारः समाधानाभास इत्याह-समाधानामास इति। वृक्षात्स्पन्दत इत्यत्रापादानत्वबोधवारणाय यदि निरुक्तकार्यकारणबावोऽङ्गीक्रियते तर्हि राज्याच्चलित इत्यत्रापि विभागजनकव्यापारोपस्तापकचलधातोरकर्मकतया तत्समभिव्याहारेऽप्यपादानत्वबोधो न स्यादिति राज्याच्चलित इत्यादिप्रयोगानिर्वाहो, यदि तु आसनाच्चलित इत्यादिप्रयोगनिर्वाहाय चलधातुसमभिव्याहारेऽपादानत्वोधोऽनुभवबलादभिप्रेयते तर्हि दर्थकस्पन्दधातुसमभिव्याहारेऽपादानत्वबोधस्यापरिहार्यतया वृक्षात्स्पन्दत इति प्रयोगस्य दुर्वारतया निरुक्तकार्यकारणभावरूपसमाधानस्य समाधानप्रतिभासत्वमिति भावः। अपास्त इति। तादृशसमाधानाभासोऽप्यपास्त इत्यर्थः। वृक्षात्स्पन्दत इति प्रयोगवारणायोक्तकार्यकारणभावाङ्गीकारे राज्याच्चलित इत्यादिप्रयोगस्य शिष्टेष्टस्यानुपपत्तेस्तादृशकार्यकारणभावो नाभ्युपगन्तुं शक्य इति वृक्षात्स्पन्दत इति प्रयोगेऽपीष्टापत्तिकरणादित्याशयः। शङ्कते-न चैवमपीति। विभागश्रयत्वस्यापादानसंज्ञाप्रयोजकत्वेन वृक्षात्स्पन्दत इति प्रयोगनिर्वाहेऽपीत्यर्थः। वृक्षात्त्यजतीति। अत्र खगः कर्ता। दुर्वारमिति। विभागाश्रयत्वे सति विभागजनकव्यापारानाश्रयत्वस्य वृक्षे सत्त्वेनापादानसंज्ञाप्राप्तेर्वृक्षात्त्यजतीति दुर्वारमिति चेन्न। विभागानुकूलव्यापारस्य त्यजत्यर्थत्वाद्विभागस्य धात्वर्थतया फलत्वाद्‌व्यापारजन्यफलाश्रयत्वेन प्राप्तया कर्मसंज्ञया परत्वरूपबलाश्रितयाऽपादानसंज्ञाया बादात्पञ्चम्यसंभवेन द्वितीयैव भवतीति। ननु कर्मसंज्ञया बाधादपादानसंज्ञाया अभावात्पञ्चम्याः साधुत्वाभावेऽपि अपादानसंज्ञाभ्रमेण कृतात्तादृशप्रयोगादपादानत्वबोदापत्तिरित्याशङ्कां प्रत्याचष्टे-भ्रमादित्यादिना। बोधाभाव इति। अपादानत्वबोधाभाव इत्यर्थः। अनुभवसिद्ध इति। अनुभवरूपप्रत्यक्षप्रमाणासिद्ध इत्यर्थः। पञ्चमीजन्येति। पञ्चमीजन्यो योऽपादानत्वबोधस्तस्मिन्भाव्यत्वेन विवक्षिते त्यज्यादिधातुभिन्नधातुजन्यविभागजनकव्यापारोपस्थितिर्हेतुरिति कार्यकारणभावो मन्तव्यः। अथ पञ्चमीजन्यापादानत्वबोदः कार्यं, त्यज्यादिधातु भिन्नधातुजन्यबुद्धिः कारणमित्यर्थः। त्यज्यदित्यादिपदेन नरकं पतित इति भाष्यप्रयोगघटकः पतधातुर्ग्राह्यः। तत्र हि विभागानुकूलव्यापारः पतधात्वर्थ इति स्पष्टम्। यदि बोधाभाव इत्यत्र यदीत्युपादानेन तत्रापादानत्वबोध इष्ट एवेति गम्यते। तथा च निरुक्तः कार्यकारणभावोऽकिंचित्कर इति भावः। ननु बलाहकाद्विद्योतत इत्यत्र द्युतधातोः प्रकाशार्थतया सविता प्रकाशत इत्यत्रेव तस्माद्विभागाप्रतितेर्वलाहकादित्यपादानत्वानुपपत्तिरत आह-निःमृत्येत्यध्याहार्यमिति। निःसरणपूर्वके विद्योतने द्युतधातुं वर्तयित्वा निःसरणक्रियानिरूपितमपादानत्वमभ्युपगम्य पञ्चम्युपपाद्येति भावः। निःसरणपूर्वके विद्योतने धातोर्वृत्तिरेवात्राध्याहारः। बलाहकान्निःसृत्य विद्योतत इत्यर्थः। तदुक्तं कैयटे-बलाहको नाम धूमज्योतिःसलिलमरुतां संघातः, तादृशसमुदायात्मकमेघादवयवभूतज्योतिरूपविद्युतो भेदविवक्षणाद्बलाहकस्यावधित्वमिति। ननु रूपं रसात्पृथगित्यत्र रूपे विभागपूर्वकसंयोगानुकूलव्यापाररूपनिःसरणस्याभावाद्रसादित्यपादानत्वानुपपत्तिरित्याशङकां निराकरोति-बुद्धिपरिकल्पितेत्यादिना। रूपरसयोर्गुणयोः परस्परं वास्तवसंयोगस्य तथा विभागस्य चासंभवाद्‌बुद्धिपरिकल्पितौ तयोः संयोगविभागौ गृहीत्वा तादृशविभागवधित्वमाश्रित्य रसादिति पञ्चम्युपपाद्येति भावः। बुद्धिपरिकल्पितापादानत्वस्य गौणत्वं मत्वाऽऽह-पृथग्विनेति। एतत्सूत्रेण पृथकूशब्दार्थयोगे रसादिति पञ्चमी बोध्या। रसप्रतियोगिकपृथक्त्वाविशिष्टं रूपमित्यर्थः। इदं चेति आदानं चेत्यर्थः। अपादानत्वावान्तरधर्मभेदात्त्रिविधमित्याह-निर्दिष्टविषयमित्यादि। निर्दिष्टः-शक्त्या बोधितः, विषयो-विभागनिरूपकार्थो यस्येत्यर्थः। अत्र विषयशब्दो निमित्तभूत(विभागनिरूपक)गतिपर इत्याशयेनाऽऽह यत्र साक्षादिति। विभागजनकक्रियाध्याहारं विनैवेत्यर्थः। धातुनेति। विभागजनकव्यापारार्थकत्वेन प्रसिद्धेन पततिगच्छतीत्यादिधातुनेत्यर्थः। गतिरिति। विभागजनिका क्रियेत्यर्थः। निर्दिश्यते-उपस्थाप्यते, तत्र यदपादानं तन्निर्दिष्टविषयमिति निर्दिष्टविषयलक्षणमिति भावः। निर्दिष्टविषयस्योदाहरणमाह-यथा-अश्वात्पततीति। उपात्तविषयं लक्षयति-उपात्तो लक्षणादिना स्वीकृतो न तु शक्त्येति यावत्, विषयो-विभागनिरूपकार्थो यस्येति समासार्थाश्रयेणाऽऽह-यत्र धात्वन्तरेति। विभागनिरूपको धात्वन्तरार्थो निःसरणादिरङ्गं विशेषणं यस्य तादृशं स्वार्थं धातुर्ब्रूते तदुपत्तिविषयमपादानमित्यर्थः। एतस्योदाहरणमाह-यथा बलाहकादिति। सविता प्रकाशत इत्यत्रेव दीप्त्यर्थकाद्विद्योततोर्विभागाप्रतीतेर्लक्षणया धात्वन्तरार्थनिःसरणपूर्वक विद्योतने विद्योततेर्वृत्तिः स्वीक्रियत इत्याह निःसरणाङ्गेत्यादि बलाहकावधिकं यन्निःसरणं, तदनन्तरकालिकं विद्युत्कर्तृकं विद्योतनमिति बोधः। अपेक्षितक्रियं लक्षयति-अपेक्षितेति। अपेक्षिताऽऽकाङ्क्षिता, क्रिया विभागजनिका क्रिया यत्रेत्यर्थः। अन्त्यमिति। अपेक्षितक्रियामित्यर्थः। आकाङ्क्षा च प्रतीयमानाया अनुपादाने सति भवतीति प्रत्यक्षसिद्धमागमनं मनसि निधाय पृच्छति-कुतो भवानिति। उत्तरयिताऽपि तथैवोत्तरयति-पाटलिपुत्रादिति। अत्र प्रश्नोत्तररूपे द्वे अपि वाक्ये अपेक्षितक्रिये इत्याशयेनाह-आगमनमर्थमध्याहृत्येति। तथा च कुतो भावानिति प्रश्नवाक्ये आगत इति, तथोत्तरवाक्ये पाटलिपुत्रादित्यस्मिन्, आगतोऽहमिति च शेषः कल्प्य इति भावः। किंप्रदेशावधिकविभागजनकागमनव्यापारवान् भवनिति प्रश्नवाक्यार्थः, पाटलिपुत्रावधिकविभागजनकागमनव्यापारवानहमिति चोत्तरवाक्यार्थो ज्ञेयः। एतेन गम्यगम्यमानाऽपि क्रिया कारकविभक्तौ प्रयोजिकेति सूचितम्।
अथ चतुर्थ्यर्थमाह-उद्देश्य इति। चतुर्थ्यर्थ इति। संपदानचतुर्थ्यर्थ इत्यर्थः। उद्देश्यस्य संप्रदानचतुर्थ्यर्थत्वे प्रमाणमाह-तथा हीति। ननु चतुर्थी संप्रदाने, इति सूत्रात्संप्रदानस्य चतुर्थ्यर्थत्वसिद्धावपि नोद्देश्यस्य चतुर्थ्यर्थत्वं सिध्यतीत्याशङ्कां निराकुर्वन्नाह-तच्चेति। संप्रदानं चेत्यर्थः। कर्मणा यमभिप्रैतीति सूत्रादुद्देश्यमित्यन्वयः। संप्रदानस्योद्देश्यरूपतासंपादकं विशेषणमाह-कर्मणेत्यादिना इत्यर्थकादित्यन्तेन। कर्मणा-करणभूतेनेति। करणत्वं च संबन्धक्रियापेक्षम्, कर्मसंज्ञकेन गवादिद्रव्येण संबन्धुं कर्ता यमभिमैति-ईप्सति, उद्दिशतीति यावत्। स संप्रदानमित्यर्थः। कर्म चात्र पारिभाषिकं कर्तुरी प्सिततममित्यादि ग्राह्यम्। अत क्रिया यमभीति अकर्मकक्रियोद्देश्यस्य संप्रदानसंज्ञा विहिता। तथा च यत्किंचिद्धातूपस्थाप्यव्यापारजन्यफलाश्रयरूपकर्मसंबन्धाय क्रियायां यदुद्देश्यं तत्संप्रदानमित्यर्थादुद्देश्यस्य चतुर्थ्यर्थत्वं फलतीति भावः। इदमेवेति। उद्देश्यत्वमेव शेषित्वमङ्गित्वमित्युच्यत इत्यर्थः। तदुद्देश्यकेति। तत्-संप्रदानं, उद्देश्यं यत्र, तादृशेच्छाविषयीभूतं वस्तु, गवादि, तच्छेषमित्युच्यते। पूर्वतन्त्र इति। पूर्वमीमांसायां `शेषः परार्थत्वात्'(3-1-2-2)इत्यत्रेत्यर्थः। परार्थत्वं च परोद्देशप्रवृत्तकृतिव्याप्यत्वम्। परं-प्रधानं-मुख्यं कर्म, अथवा परं-उत्कृष्टं फलं स्वर्गादि, तदुद्देशेन प्रवृत्तस्य पुरुषस्य या कृतिः-तद्‌व्याप्यत्वं-कारकत्वेन तत्संबन्धित्वमित्यर्थः। यथा दर्शपूर्णमासोद्देशेन प्रवृत्तपुरुषकृतिव्याप्यत्वं प्रयाजानुयाजावघातप्रोक्षणादीनां सुप्रसिद्धमिति तेषां शेषत्वम्। दर्शादेस्तु प्रयाजाद्युद्देशेन प्रवृत्तपुरुषकृतिव्याप्यत्वाभावान्नातिव्याप्तिः। केवलप्रयाजाद्युद्देशेन कस्यचिदपि पुरुषस्य प्रवृत्त्यभावादित्यर्थः। निरूपितमिति। इत्यादि वर्णितमित्यर्थः। एतेन विप्रे शेषित्वं, गवि शेषत्वं च प्रदर्शितम्। अत एवेति। शेषित्वस्य प्रधानकर्मप्रयोजकत्वादेव। प्रासनवदिति।(4-2-6-16)इति जैमिनीयाविकरणे। क्रीते सोम इति। सोमक्रयणानन्तरं मैत्रावरुणाय प्रोक्तं दण्डदानं प्रतिपत्तिकर्म, अर्थकर्मवेति संदिह्य चात्वाले कृष्णविषाणां प्रास्यतीतिदद्दण्डदानं प्रतिपत्तिकर्म, दण्डेन दीक्षयतीति दीक्षायां दण्डस्य विनुयुक्तत्वादिति पूर्वपक्षयित्वा मैत्रावरुणायेति संप्रदाने चतुर्थीश्रवणात्, संप्रदानत्वस्य च क्रियोद्देश्यत्वात्, उद्देश्यत्वस्य च प्रधानत्वसमनियतत्वामन्मैत्रावरुणस्योद्देश्यत्वलक्षणप्राधान्यावगमाद्दण्डप्रदानमर्थकर्म-प्रधानकर्मैव, न तु प्रतिपत्तिकर्मेति सिद्धान्तितं संगच्छते। उपयुक्तस्याऽऽकीर्णक करस्य द्रव्यस्य विहितप्रदेशे प्रक्षेपः प्रतिपत्तिकर्म। यत्तु स्वातन्त्र्येण मुख्यकर्मण उपकारकं तत्प्रधानकर्मार्थकर्म चेत्युच्यत इति अर्थप्रतिपत्तिकर्मणोर्भेदः। ननु यत्र दाधातोर्निर्णेजनानुकूलेच्छारूपो व्यापारस्तत्र तादृशेच्छारूपव्यापारजन्यनिर्णेजनरूपफलाश्रयत्वेन कर्मत्वात्कर्मणा वस्त्रेणाभिप्रेयमाणत्वाद्रजकस्येति संप्रदानत्वाद्रजकाय वस्त्रं ददातीत्याशङ्क्येष्टापत्त्या परिहरति-रजकायेत्यादि। इत्यपीति। अस्येष्टमेवेत्यग्रिमेण संबन्धः। रजकायेत्यादिप्रयोगत्येष्टत्वे भाष्यप्रयोगः प्रमाणमित्याह-खडिकोपाध्याय इति। बालकानामुपाध्यायः। शिष्याय चषेटामिति। चपेटा प्रसतकरतलम्। प्राकृतभावायां `चापट' इत्युच्यते। अत्र ददातेः संयोगविशेषानुकूलव्यापारार्थकतया मुख्यपदानार्थकदाधातुयोग एव संप्रदानसंज्ञाङ्गीकारे शिष्याय चपेटां ददातीति भाष्योदाहरणानुपपत्तिः। न चात्र ददातीव ददातीति ददातिर्भाक्तः। सिंहो माणवक इत्यत्रेवेति वाच्यम्। संप्रदानसंज्ञाया अन्वर्थत्वाभिप्रायेण वार्तिककृता पत्ये शेते, इत्यत्र चतुर्थ्युपपत्तये कृतं `क्रियाग्रहणं कर्तव्यं' इति वचनं खण्डयद्भिर्भाष्यकारैः, यत्किंचिद्धातूपस्थाप्यव्यापारजन्यफलाश्रयरूपकर्मणा संबन्धुमभिप्रेयमाणोऽर्थः संप्रदानमिति सूत्रार्थाश्रयणात्संप्रदानसंज्ञाया अन्वर्थत्वानङ्गीकारेणोक्तप्रयोगस्य रजकायेत्यादिप्रयोगस्य च मुख्यत्वोपगमात्। एवं न शूद्राय मतिं दद्यादित्यप्यत एव संगच्छते। तत्र ददातिर्बोधनार्थः। मतिशब्दस्तज्जनकवेदादिपरः। शूद्रसंप्रदानकं ज्ञानजनकवदादिकर्मकं यद्बोधनं तन्न कुर्यादित्यर्थो ज्ञेः। संप्रदानसंज्ञाया अन्वर्थत्वं मन्यमानानां वृत्तिकाराणां मतं वर्णयति-वृत्तिकारास्त्विति। सम्यक् प्रदीयते यस्मायिति। अन्वर्थसंज्ञयेति। तथा च स्वस्वत्वनिवृत्तिपूर्वक परस्वत्वोत्त्यनुकूलो व्यापारो दाधात्वर्थ इति भावः। एवं च रजकाय वस्त्रं ददातीत्यादौ निरुक्तदाधात्वर्थाभावाद्रजकस्य वस्त्रं ददातीत्येवं संबन्धसामान्ये षष्ठ्येवेति वदन्ति। विपाय गां ददाती यत्र दानक्रियाकर्मीभूतगोसंबन्धाय विप्रो दानक्रियोद्देश्यः। गोविप्रयोः स्वस्वामिभावः संबन्धः। तथा च विप्रोद्देश्यकः, गोकर्मकः, परस्वत्वोत्पत्त्यनुकूलो व्यापार इति बोधः। मैत्राय वार्ताः कथयतीत्यत्र कथनाक्रियाकर्मीभूतवार्तासबन्धाय मैत्रः कथनक्रियोद्देश्यः। मैत्रवार्तयोर्ज्ञातृज्ञेयभावः संबन्धः। तथा च मैत्राभिन्नसंप्रदानकं वार्ताकर्मकं कथनमिति बोधः। तद्विभजते-इदं चेति। कर्मणा यमभिप्रैतीत्यनेनोक्तं संप्रदानं चेत्यर्थः। अस्य त्रिविधमित्यनेनान्वयः। विभागश्च संप्रदानत्वावान्तरधर्मपुरस्कारेण कथनम्। अनिराकरणादिति। त्यागाङ्गमिति। त्यागो-दानं, तस्याङ्गं विशेषणं, समभिव्याहृतधात्वर्थे त्यागे विशेषणतया प्रतीयमानत्वं त्यागाङ्गत्वमित्यर्थः। कर्मणेप्सितमिति। समभिव्याहृतधात्वर्थत्यागजन्यफलाश्रयरूपकर्मणा संबन्धुमभिप्रेयमाणमित्यर्थः। तथा च त्यागाङ्गं सत् यत्कर्पणा संबन्धुमभिप्रेयमाणं तत्कारकं, कर्तुरनिराकरणात्, तथा कर्तुः प्रेरणया, कर्तुरनुमतिप्रदानेन च संप्रदानतां लभते इत्यर्थः। तत्रानिराकरणहेतुकं संप्रदानं प्रदर्शयति-सूर्यायेति। अत्र स्वस्वत्वनिवृत्तीच्छार्धानपरस्वत्वोत्पत्तीच्छारूपस्त्यागो दाधातोरर्थः। अत्र सूर्योऽर्घ्यप्रदातारं न देयमर्घ्यमिति न प्रत्याचष्टेतः सूर्यः संप्रदानम्। न प्रार्थयते नानुमन्यत इति। सूर्ये प्रार्थनानुमत्योर्निराकरणं तद्रूपानाक्रान्तत्वबोधनाय। तथा च प्रवृत्तिनिवृत्त्यनुकूलव्यापाराशून्यत्वमनिराकरणमिति भावः। प्रेरणाहेतुकं संप्रदानं दर्शयति-विप्रायेति। अत्र विप्रेण मह्यं देहीति प्रवर्तितो ददातीत्यर्थः। प्रेरणा च कर्तृनिष्ठदानादिविषयकेष्टसाधनत्वबोधनानुकूलव्यापारः। अनुमतिहेतुकं संपदानमाह-उपाध्यायायेति। अत्रोपाष्यायो गोप्रदानं न प्रार्थयते न निराकरोति वा, किं तु दीयमानं गोप्रदानमनुमन्यते इति भावः। अनुमतिश्च-इमां गां तुभ्यं दातुमिच्छामीति परोक्तार्थस्य यत्स्वीकरणं तदनुकूलो व्यापारः-दीयतां प्रतिग्रहीष्यामीत्येवंशब्दप्रयोगरूपः। गवादिनिष्ठस्वस्वत्वादिफलाभ्युपगमानूकूलव्यापारस्तथेत्यादिशब्दप्रयोगरूप इति यावत्। अन्ये तु संप्रदानत्वं च-तत्तद्धात्वर्थकर्मनिष्ठफलनिरूपकत्वेनेच्छाविषयो यस्तत्त्वम्। तत्तद्धात्वर्थभूतं यत् कर्मनिष्ठफलं तन्निरूपकत्वेनेच्छाविषयत्वमित्यर्थः। गवादिकर्मनिष्ठं यद्धात्वर्थफलं-स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्तिरूपं, तन्निरूपकत्वसंबन्धेनेच्छाविषयो विप्र इति तस्य संप्रदानसंज्ञेति वदन्ति। द्वितीयादिकारकप्रकृत्यर्थविभक्त्यर्थयोरन्वयबोधं निरूपयति-अत्र सर्वत्रेति। हरिं भजतीत्यादिषु। प्रकृतिप्रत्ययार्थयोरिति। प्रकृत्यर्थस्य प्रत्ययार्थेऽभेदसंबन्धेन विशेषणत्वमित्यर्थः। तत्र द्वितीयार्थस्याऽऽश्रयस्याऽऽधेयतासंबन्धेन फलेऽन्वयः-तण्डुलाभिन्नो य आश्रयस्तन्निष्ठाधारतानिरूपिताधेयतावती विक्लित्तिरित्यन्वयः। विप्राभिन्नोद्देश्यकं गोकर्मकं दानं, वृक्षाभिन्नावधिकं पर्णनिष्ठं पतनमित्यादिरीत्याऽन्वयबोध ऊह्यः।। करणतृतीयार्थस्याऽऽश्रयस्य तृतीयोपात्ते व्यापारेऽन्वयः। बाणाभिन्नो य आश्रयस्तन्निष्ठाधारतानिरूपिताधेयतावान् व्यापार इत्यन्वयबोधः। ननु द्वितीयार्थाश्रयस्याऽऽधेयतासंबन्धेन धात्वर्थफलेनान्वयो न संभवति। हर्यादिनामार्थाभिन्नस्य तस्य धात्वर्थे भेदसंबन्धेनान्वयस्याव्युत्पन्नत्वादिति चेन्न। नामार्थधात्वर्थयोर्विभक्त्यर्थमद्वारीकृत्य परस्परमन्वयो न भवतीत्येव व्युत्पत्तेः। प्रकृते विभक्त्यर्थद्वारा तथान्वये बाधकाभावात्। ननु प्रकृतिप्रत्ययार्थयोरभेदः संसर्गो न संभवति, विभक्तीनां कर्मत्वादिधर्ममात्रवाचकत्वादित्यत आह-विभक्तीनां धर्ममात्रवाचकत्व इति। विभक्तीनां लाघवात्कर्मत्वादिधर्ममात्रवाचकत्वमुचितम्। मात्रपदेन धर्मिव्यवच्छेदः। कर्मणीति। कर्मणि द्वितीयेत्यादिसूत्रस्वरसभङ्गापत्तेरिति। अयं भावः-लोके कर्मादिपदानां कर्मत्वविशिष्टे शक्तत्वेन धर्मिपरत्वेन प्रतीतेः शास्त्रेऽपि धर्मिपरत्वावश्यकत्वात्। अन्यथा कर्मत्वे द्वितीयेत्याद्येव वदेत्, न तु कर्मणि, करणे, इत्यादीति। तथा च कर्मादिपदानां कर्मत्वादिधर्मवाचकत्वे सूत्रस्वरसभङ्गः स्यादित्यर्थः। ननु कर्मणि द्वितीयेत्यादेः कर्मणि वाच्ये द्वितीयेत्यादिरर्थो नाभिप्रेयते, किं तु कर्मणि बोध्ये द्वितीयेत्यादिरर्थोऽभिमतः। तादृशार्थनिर्वाहश्च प्रकृत्यर्थस्य प्रत्ययार्थेऽन्वयाद्भवति। एवं च न सूत्रस्वरसभङ्गापत्तिः। न च प्रत्ययार्थभूते आश्रयत्वे हर्यादेः प्रकृत्यर्थस्यान्वयेऽपि हरिनिष्ठमाश्रयत्वमित्येव बोध-, न त्वाश्रयत्ववान् हरिस्तत्कथं कर्मवाधेनिर्वाहकत्वं द्वितीयाया इति वाच्यम्। आश्रयत्वे प्रकृत्यर्थहर्यादेरन्वयबोधे हरिराश्रय इति पार्ष्ठिकमानसबोधसंभवात्। यथा राजसखो देवदत्त इति वाक्याद्देवदत्ते राजमित्रत्वस्य शब्दशक्तिमर्यादया प्रतीतौ सत्यां, मित्रत्वस्योर्थः। इत्याशङ्‌कामपनिनीषुराह-कर्मार्थककृत्तद्धितादाविति। कृत्प्रत्ययेपक्वस्तण्डुल इत्यादौत, तद्धितप्रत्यये-शत्योऽश्व इत्यादौ। आदिपदात्पच्यमानस्तण्डुल इत्यादिः शानच् प्रत्ययो ग्राह्यः। तथा दर्शनादिति। निरुक्तस्थले कर्मवाचककृदादिप्रत्ययानां धर्मिवाचकताया दृष्टत्वादित्यर्थः। तथा च तयोरेवेत्यादिसूत्रविहितक्तादीनां धर्मिवाचकत्ववत्कर्मणि द्वितीयेत्यादावपि धर्मिवाचकत्वमेव युक्तमिति भावः। ननु कर्मणि द्वितीयेत्यादेः कर्मणि शक्तिग्रहकसूत्रस्य, फलस्य धातुलभ्यतया आश्रयमात्रे शक्तिग्राहकत्वकल्पनया भवन्मतेऽपि सूत्रस्वरसभङ्गापत्तिः। लाघवानुरोधेन आश्रयमात्रे तत्कल्पनमितिचेन्ममापि मते लाघवाद्धर्मे तत्कल्पनमिति तुल्यमेवेत्यत आह-द्वितीयाद्यर्थकेति। प्राप्तोदक इति। धर्मिवाचकत्वेति। प्राप्तोदक इत्यत उददककर्तृकप्राप्तिकर्म, इत्याकारकसमासार्थस्य, ग्रामस्य च सामानाधिकरण्यविषयकबोधस्यानुभवसिद्धस्य निर्वाहाय द्वितीयायाः कर्मणि शक्तिरावश्यकी। अन्यथा द्वितीयार्थकबहुव्रीहेरपि कर्मत्वबोधकत्वापत्त्या सामानाधिकरण्यनुपपत्तेः। कर्मदिपदानां धर्मिवाचकतायां भाष्यमपि प्रमाणमित्याह-सुपां कर्मादय इति। यदि द्वितीयादिसुब्‌विभक्तीनां कर्मत्वादिधर्मोऽर्थो वाच्यत्वेनाभिप्रेतः स्यात्तर्हि सुपां कर्मत्वादयोऽप्यर्था इत्येव वदेत्। यसमाच्च तथा नोक्तं तस्मात्कर्मत्वादिधर्माणां द्वितीयादिविभक्तिवाच्यत्वं मुनित्रयासंमतत्वादप्रामाणिकमिति भावः। ननु कर्मणि द्वितीयेत्यादौ कर्मादिपदे लक्षणापत्तावपि द्वितीयादीनां धर्ममात्रवाचकत्वमुचितं लाघवात्, अस्तु च बहुव्रीहेरपि धर्मयात्रवाचकत्वं, सामानाधिकरण्यं च लक्षणयोपपाद्यमित्यत आह-इति दिगिति। दिगर्थस्तु एवं सति कृतस्तद्धितस्यापि तव्यादेर्धर्मिवाचकत्वं न सिध्येत्। `एक्तव्यास्तण्डुलाः' इत्यादौ तण्डुलादिसामानाधिकरण्यानुभवानुरोधात्तेषां धर्मिवाचकत्वमिति चेन्न। लक्षणयैव सामानाधिकरण्योपपत्तेः। पक्तव्य इत्यादितः कर्मत्वमात्रबोधोऽनुभवविरुद्ध इति चेत्प्राप्तोदकादावपि स तुल्य इति भावः।
ननु द्वितीयादीनामाश्रयेऽपि न शक्तिः। फलव्यापारयोर्धातुलभ्यत्ववदाश्रयस्यापि प्रकृतिभूतप्रातिपदिकेन लभ्यत्वात्, अपि त्वाश्रयत्वमात्रे-अनन्यलभ्यत्वात्। धर्मधर्मिणोश्चामेदात्कर्मणीत्यादिनिर्देशो नानुपपन्नः। अत एव द्वितीयादेः कर्मत्वादिशक्तिवाचकत्वमिति सिद्धान्ते प्राप्तोदकादिबहुव्रीहेर्धर्मिबोधकतानिर्वाहः। शक्तिमदभेदापन्नाया एव शक्तेर्विभक्तिवाच्यत्वात्। तिङकृदादेरतु पचति, पक्ता पक्व इत्यादित एवाऽऽश्रयप्रतीतेः `युष्प्रद्युपपदे समानाधिकरणे' इति व्यावहारानुरोधाच्चाऽऽश्रये शक्तिर्युक्तेत्याशयेनाऽऽह-आश्रयस्यापीत्यादिना। आश्रयस्यापि प्रकृत्यैव लाभान्न विभक्तिवाच्यतेत्यन्ययः। न विभक्तीति। न द्वितीयादिविभक्तिवाच्यतेत्यर्थः। नन्वाश्रयत्वस्य वाच्यत्वे आश्रयतात्वस्य शक्यतावच्छेदकत्वमुपेयं, तथा च गौरवं, तस्य तदाश्रयाद्यतिरिक्तावृत्तित्वे सति सकलतदाश्रयवृत्तित्वरूपत्वादित्यत आह-तदवेति। आश्रयत्वमेवेत्यर्थः। एवकारेणाऽऽश्रयतात्वव्यवच्छेदः। ननु तद्‌वृत्तेस्तस्य कथं तन्निष्ठवाच्यतावच्छेदकत्वमित्याशङ्क्याऽऽह-तादात्म्येनेति। तादात्म्यस्य वृत्त्यनियमकत्वेऽपि संबन्धित्वं तेन संभवत्येवेत्याश्रयत्वस्य तादात्म्येन स्वसंबन्धितया न स्वनिष्ठवाच्यतावच्छेदकत्वानुपपत्तिरिति भावः। व्यापारोऽपीति। अत्रापिनाऽऽश्रयसमुच्चयः। विभागमात्रमिति। मात्रपदेनाऽऽश्रयत्वव्यवच्छेदः। उद्देश्यत्वमात्रमित्यनेन मात्रशब्देनाऽऽश्रयत्वस्य व्यवच्छेदः। अत एवेति। द्वितीयादेः कर्मत्वादिशक्तिवाचकत्वप्रतिपादनादेवेत्यर्थः। आकृत्यधिकरणमिति। (जै.सू.1-3-30)इत्यत्र हि व्रीहीनवहन्ति, गामानय, पशुमालभेत, इत्यादिप्रयोगेषु व्रीह्यादिशब्दानां व्यक्तिरर्थः। कुतः। अवहननादिक्रियाभिर्व्यक्तेरन्वेतुं शक्यत्वात्। न ह्याकृतिरवहन्तुमानेतुमालब्धुं वा योग्या तस्माद्व्यक्तिः पदार्थः, इति पूर्वपक्षयित्वा, अनन्ता हि व्यक्तयः, अतीतानागतानामनेकदेशवर्तिनां गवामियत्ताया अनवधारणात्। किं च शुक्लव्यक्तौ व्युत्पन्नो गोशब्दः कृष्णव्यक्तौ प्रयुज्यमानः स्वार्थे व्यभिचरेत्। तस्मादान्त्यव्यभिचाराभ्यां न व्यक्तौ व्युत्पत्तिः संभवति। किं तु नहि द्रव्यपदार्थकस्य चाऽऽकृतिर्न पदार्थ इति भाष्याद्विशिष्टं वाच्यम्। तत्र नागृहीतविशेषणा बुद्धिर्विशेष्य उपजायते, इति, विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे, इति च न्याय च्चाऽऽकृतेरेव शब्दार्थत्वमुचितम्। यद्याकृताववहतनादिक्रिया न पर्यवस्येत्तर्हि व्यक्तिस्तत्रोपलक्षणीया। किं च श्येनचितं चिन्वीतेत्यादावाकृतेरेव सादृश्यप्रतियोगितया कार्यान्वयो दृश्यते। तस्मादाकृतिः पदार्थ इति सिद्धान्तितं न विरुद्धं भवतीति मन्यमान आह-शक्तिरेव वेति। षण्णमपि कारकविभक्तीनां कर्मत्वादिशक्तिरेवार्थ इत्यर्थ-।
एवं कारकविभक्त्यर्थं प्रतिपाद्य प्रसङ्गसंगत्या षष्ठ्यर्थं प्रतिपादयति कारिकायां-संबन्ध इति। शेष षष्ठी इति। कारकप्रातिपदिकार्थव्यतिरेकः स्वस्वाभिभावादिसंबन्धः शेषपदार्थस्तत्र षष्ठीविधानात्तस्याः संबन्धोऽर्थ इत्यर्थः। तत्रेतरविभक्तीनामेकीयमते धर्मिवाचकत्ववदस्या अपि तथा भ्रमः। स्यात्तं निराकुर्वन्नाह सारे-संबन्धमात्रमिति। मात्रपदेन संबन्धिव्यवच्छेदः। स च संबन्धः क्वचित्संबन्धत्वसामान्यरूपेण वाच्यः। यथा मातुः स्मरतीत्यादौ। क्वचित्तु विशेषरूपेण वाच्यः। यथा-राजपुरुष इत्यादौ। कारकषष्ठ्या इति। कर्तृकर्पणोः कृतीत्यादिसूत्रविहितषष्ठ्यास्तु तत्कारकत्वशक्तिरर्थः। शक्तिः कारकमितीति। अयं भावः-सप्तमीपञ्चम्यौ-(पा.सू.2-3-7)अत्र कारकशब्दः कर्तृत्वादिशक्तिपरः, न तु कर्त्रादिपरः, व्याख्यानात्। मध्यस्य पूर्वपरावधिद्वयसापेक्षत्वाकारकयोर्मध्यमिति विग्रहः। कालाध्वनोरित्यनुवर्तते। तथा च शक्तिद्वयमध्ये यौ कालाध्वानौ तद्वाचकात्सप्तमीपञ्चम्यौ स्त इति तदर्थः। उदाo-अद्य भुक्त्वाऽयं द्व्यहे द्व्यहाद्वा भोक्तेति। अद्यतनभुजिक्रियानिरूपितकर्तृत्वमेकं, द्व्यहोत्तरदिनगतभुजिक्रियानिरूपितकर्तत्वं चापरमिति कर्तृत्वशक्त्योर्मर्मध्येऽयं कालः। यदि चात्र कारकशब्दः कर्त्रादिपरः स्यात्तर्हीह, क्त्वाप्रत्ययस्य कर्त्रेकत्वे विधानाद्देवदत्तरूपस्य कर्तुरेकत्वान्मध्यव्यवहारासंभवात्सप्तमीपञ्चम्यौ न स्याताम्। कर्तृत्वशक्तिस्तु अधिकरणकालभेदेन भुजिक्रियाभेदाद्भिद्यत एवेति। इत्यादि भाष्ये दृश्यते इत्यर्थः। अनन्तरकालवृत्तित्वं सप्तमीपञ्चमीविभक्त्यर्थः। अद्यपदार्थैतीद्दवसाधिकरणकत्वस्य भोजनक्रियायामन्वयः, तदन्वितक्त्वान्तप्रतिपाद्यभोजनक्रियायाः स्वोत्तरकालवृत्तित्वस्वसमानकर्तृकत्वोभयसंबन्धेन भोजने, प्रकृतविभक्त्यर्थस्यापि तत्रैव। एवं चैतद्दिवुसाधिकरणकभोजनोत्तरकालिकं तथाविधभोजनसमानकर्तृकमतद्दिवसानन्तरव्द्यहानन्तरकालवृत्ति यद्भोजनं तदाश्रय इत्यर्थः। इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्येदित्यत्रानन्तरदेशवृत्तित्वं विभक्त्यर्थः। इहशब्दप्रतिपाद्यस्यैतद्देशाधिकरणकत्वस्य स्थितावन्वयः। तादृशस्थितेः कृदर्थाश्रये, तस्याऽऽख्यातार्थकर्तरि, तस्य व्यधनक्रियायां तत्रैव क्रोशानन्तरदेशस्थितलक्ष्यकर्मकत्वस्य। तथा चैतद्देशाधिकरणकस्थितिकर्तृकर्तृकमेतद्देशानन्तरक्रोशानन्तरदेशस्थितलक्ष्यकर्मकं संभावनाविषयीभूतं व्यधनमिति बोध इति ज्ञेयम्।
एवं सुब्विभक्त्यर्तानुवर्ण्य तदनुसारेण संबन्धसहित-सकलकारकघटितवाक्यार्थबोधं वर्णयति-एवं चेति। उक्तरीत्या द्वितीयादीनां कर्तृकर्मादिधर्मिवाचकत्वे स्थिते चेत्यर्थः। देवदत्तस्येत्यादि। देवदत्तस्येति स्वस्वामिभावसंबन्धे षष्ठी। देवदत्तस्योक्तसंबन्धेन गव्यन्वयः। गौरिति कर्म। ब्राह्मणायेति संप्रदानम्। गेहादित्यपादानम्। गङ्गायामित्यधिकरणम्। हस्तेनेति करणम्। मयेति कर्तृकारकम्। दीयत इति कर्मणि क्रियापदम्। एतत्सर्वमनुसंधाय वाक्यार्थबोधं निर्दिशति-देवदत्तसंबन्धिनीत्यादिना मन्निष्ठो व्यापार इत्यन्तेन। कारिकास्थं यथायथमिति पदं विवृणोति-उक्तप्रकारेणेति। यथास्वे यतायथमिति निपातनम्। यादृशार्थबोधने या विभक्तिः समर्था तद्विभक्तेः सोऽर्थोऽवगन्तव्यः। तदुक्तं पूर्वं सारे-द्वितीयातृतीयासप्तमीनामाश्रयोऽर्थ इत्यादि। अत्रेति। सुपां कर्मादिधर्मिवाचकत्वे इत्यर्थः। विषयतायामिति। घटं जनातीत्यतो घटविषयकं ज्ञानमिति बोदानुभवाद्‌द्वितीयाविभक्तेस्तादृशस्थले विषयतायां लक्षणेति वदतो नैयायिकप्राचीनान्प्रत्याह-सुपां कर्मेतीति। एतदर्थं विशदयति-अयं भाव इत्यादिना। सुपां कर्मादयोऽप्यर्थाः। संख्याचेति। कर्मादय इत्यादिपदेन करणादिकारकान्तरग्रहः। अपि शब्देन शक्तिः कारकमिति `सप्तमीपञ्चम्यौ' इति सूत्रभाष्योक्तकर्मत्वादिशक्तयो गृह्यन्ते। तथा तिङामिति। तद्वत्तिङामपि कर्तृकर्मणी संख्या चार्थ इत्यर्थः। तत्रेति। सुप्सु तिङ्क्षु चेत्यर्थः। नियम इति। नियमो हि द्विविधः। प्रत्ययनियमोऽर्थनियमश्चेति। तत्र प्रत्ययनियमोऽपि द्विविधः। सामान्यापेक्षः प्रकृतार्थापेक्षश्चेति। तत्र प्रातिपदिकार्थ एव प्रथमा कर्मण्येव द्वितीया, इत्येवंरूपः प्रत्ययनियमः। यत एवकारस्ततोऽन्यत्र नियम इत्यभियुक्तोक्तेः। प्रातिपदिकार्थादन्यत्र प्रथमा न, कर्मार्थादन्यत्र द्वितीया न, इत्यर्थान्तरे प्रथमाद्वितीययोर्व्यावृत्तिपर्यवसानात्। नियमो व्यावृत्तिः। कर्मणि द्वितीयैव, प्रातिपदिकार्थे प्रथमैवेति अर्थनियमः। यत एवकार इति पूर्वोक्तयुक्तेः। कर्मणि अन्या नेति अन्यासां कर्मार्थसंबन्धस्य निवृत्तिपर्यवसानात्। तत्र द्विविधमयत्ययनियममध्ये यदि प्रातिपदिकाच्चेत्प्रथमा तर्हि कर्मादियोग्यतद्रहित प्रातिपदिकार्थ एव, न तु प्रातिपदिकार्थत्वसमानाधिकरणकर्मत्वाद्याधिक्ये, इत्येवं सामान्यापेक्षप्रत्ययनियम आश्रीयते तदा अव्ययार्थे लिङ्गसंख्याकारकत्वानामभावादव्ययानां कर्मादियोग्यत्वाभावादव्ययेभ्यो विभक्तिर्न प्राप्नोतीत्याह-नियम इति। अर्थनियमः प्रसिद्ध इत्यर्थः। तत्र कर्माद्यर्थयोग्यप्रातिपदिकाच्चेत्कर्मणि विभक्तिस्तदा द्वितीयंव, कर्मादिरहिते तद्योग्यप्रातिपदिकार्थे प्रातिपदिकाच्चेद्विभक्तिस्तदा प्रथमैव, इत्यर्थनियमपक्षे कर्मणि द्वितीयैव, प्रातिपदिकार्थे प्रथमैवेति नियमेन हि यत्र कर्माद्यर्थसंभवस्तत्रैवान्यासां निवृत्तिः संपाद्यत इति प्रत्यासत्त्या कर्माद्यर्थयोग्येत्यस्य लाभः। तथा च कर्माद्यर्थशून्यार्थकाव्ययादपि विभक्तिः सिध्यति। कर्माद्यर्थयोग्याच्चेद्विभक्तिः करणीया तदा अमुकार्थे प्रथमा, अमुकार्थे द्वितीया कर्तव्येति नियमाकारः संपन्नः। ततश्चाव्ययानां कर्माद्यर्थयोग्यत्वाभावेन नियमाकारे प्रवेशाबावान्नियमाप्रवृत्तौ सामान्यसूपेणाव्ययात्सप्तापि विभक्तयो भवन्तीति भावः। एवं प्रत्ययनियमपक्षेऽप्यव्ययाद्विभक्तिसिद्ध्यर्थमाह-नियमः प्रकृतेषु चेति। प्रकृतेष्वर्थेषु नियमः, प्रकृतार्थापेक्षः प्रत्ययनियय इति यावत्। अत्र पक्षे कर्माद्यर्थयोग्यप्रातिपदिकाच्चेद्‌द्वितीया तदा कर्मण्येव, न कारणादौ। कर्मादियोग्ये तद्रहितप्रातिपदिकार्थ एव प्रथमा, न कर्मादौ। संख्यावदर्थयोग्यप्रातिपदिकादेकत्वादावेकवचनादि, न द्वित्वादाविति नियमाकारः। अत्रापि पक्षेऽव्ययानां नियमाकारे प्रवेशाभावान्नियमाप्रवृत्तौ प्रतिपदिकात्स्वादयो भवन्तीति सामान्यसूत्रेणाव्ययेभ्यः सप्तापि विभक्तयः सिध्यन्ति। केवलं सामान्यापेक्षप्रत्ययनियमपक्षेऽव्ययाद्विभक्तिर्न प्राप्नोतीति अव्ययादाप्सुप इति ज्ञापकात्सा साध्या। यद्यपि सुपां संख्याकर्मोभयार्थकत्वेन कर्मण्येव नान्यत्र, प्रातिपदिकार्थ एव नान्यत्रेति वक्तुमशक्यं तथापि कर्मण्येव, न तु तदभावे, प्रातिपदिकार्थ एव, न तु तदभावे, इत्याकारो वक्तुं शक्यः। तदभावे, इत्यस्य कर्मत्वाभावसमानाधिकरणार्थन्तरे करणादौ, प्रातिपदिकार्थाभावसमानाधिकरणार्थान्तरे कर्त्रादावित्यर्थः। न च प्रातिपदिकार्थाभावसमानाधिकरणार्थान्तरस्याप्रसिद्ध्या नियमव्यावर्त्याप्रसिद्धिरिति वाच्यम्। प्रातिपदिकार्थ एव प्रथमा, न तु निरर्थके, इति तद्‌व्यावृत्तेरेव फलत्वात्। न च निरर्थकाप्रसिद्धः। चवैतुहीत्यादिपादपूरणार्थकानामनर्थकनिपातानां च सत्त्वात्। तेषां स्वार्थद्रव्य(प्रवृत्तिनिमित्त-तदश्रय)रूपप्रातिपदिकार्थाभाववत्त्वात्। न चानर्थके विभक्तिव्यावृत्तिरिष्टैवेति वाच्यम्। धार्मिकोऽसि वै त्वा सुखं प्राप्नोतीत्यत्र `सपूर्वायाः प्रथमाया विभाषा' इति त्वादेशप्रवृत्तेरेव फलत्वादनर्थके विभक्तिव्यावृत्तेरनिष्टत्वात्। `अव्ययादाप्सुप' इति ज्ञापकसत्त्वे तु अनर्थकनिपातेभ्यः प्रथमाया अप्राप्तिरूपो दोषो न भवति। एवं च प्रकृतश्लोकवार्तिकात्तत्स्थभाष्यात्कमादेर्वर्मिणो वाच्यता, तथा कर्माद्यर्थनियमश्च लभ्यते। तथा च द्वितीयाया विषयत्वाद्यर्थे लक्षणाङ्गीकरणं नैयायिकानामुक्तभाष्यवार्तिकविरुद्धत्वादयुक्तमित्यशयेनाऽऽह-उभयथाऽपि शिद्धनियमविरुद्धमिति। तत्र कर्मण्येव द्वितीयेत्यादिप्रत्ययनियमविरोधो द्वितीयाया विषयता लक्षणाङ्गीकारे स्पष्ट एव। विषयतायाः शेषत्वाच्छेषे षष्ठ्येवेति नियमविरोधोऽर्थनियमपक्षेऽपीति ज्ञेयम्। तथा च नियमविरुद्धलक्षणादिकमसाधुवप्रयोजकमिति कृत्वा विषयतायां निरुक्तकर्मत्वात्मकत्वाभावात्तत्र द्वितीयायाः शास्त्रेणाविधानात्। विषयतातात्पर्येण द्वितीयोच्चारणस्यानृतवदनत्वाद्याज्ञेकर्मणि नानृतं वदेदिति निषेधः प्रवर्तत एव। एवं च स्वानुभवबलेन लक्षणाङ्गीकरणमपि विभक्तिप्रवृत्तौ कारणं न भवतीत्यत आह-अत एवेति। विभक्तिप्रवृत्तौ लक्षणाया निमित्तत्वाभावादेवेत्यर्थः। व्यवहार इति। विभक्तौ लक्षणा न कर्तव्येति प्राचीननैयायिकानां व्यवहार इत्यर्थः। तादृशव्यवहारेऽयमेवाभिसंधिः-यत्-लाक्षणिकेऽर्थे शास्त्रेण तत्तदर्थे विहिता विभक्तिर्न प्रवर्तत इति। तथा च नैयायिकनव्यानां न केवलं व्याकरणविरोधोऽपि त स्वीयवृद्वप्राचीननैयायिकसिद्धान्तविरोधोऽपीति नव्यनैयायिकोक्तिरुपेक्ष्यैवेति भावः। दिगिति। दिवगर्थस्तु-विषयत्वापत्त्यनुकूलव्यापारस्य घटं जानातीत्यादौ ज्ञाधात्वर्थतया मुख्यकर्मतयैवोक्तप्रयोगोपपत्तिसंभवेन स्वेच्छया लक्षणाभ्युपगमे विभक्त्यर्थनिर्देशस्य नैष्फल्यापत्त्याऽत्यन्तायुक्तं तत्र लक्षणाङ्गीकरणमिति।। 24 ।।
इति वैयाकरणभूषणसारव्याख्यायां शांकर्यां सुबर्थनिर्णयनिरूपणम्। रङ्गभट्टतनूजेन शंकरेण विनिर्मिते।
व्याख्याने भौषणे पूर्णः सुबर्थानां निनिर्णयः।। 3 ।।