वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-११

← वैयाकरणसिद्धान्तमञ्जूषा-१० वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-११
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-१२ →

अथ नामार्थविचारः

अथ कृदन्तस्य नामत्वात् तदर्थो निरूप्यते

तत्र कृदन्तस्य प्रातिपदिकार्थः, शक्तिपरिच्छेदकशिरोमणिना व्यवहारेण व्यक्तावेव तत्परिच्छेदात् । ननु केवलव्यक्तिषु शक्तिग्रहौऽसम्भवी, अनन्तव्यक्तीनामेकपदोपस्थित्यभावेन सङ्केतग्रहासम्भवात् । न च यत्र क्वचिदेव व्यक्तौ शक्तिग्रहस्य कारणतैव न स्यात्, गोपदाश्वपदादेरपि भानापत्तेश्च ।

किञ्च, हस्तिपकव्यक्त्यन्तरे हस्तिपकत्वं धर्मितावच्छेदकीकृत्य हस्तिसम्बन्धग्रहाद्यत्र हस्तिपके न गृहीतः, तस्यापि हस्तिदर्शनेन स्मरमापत्त्या व्यक्त्यन्तरसम्बन्धज्ञानस्य व्यक्यन्तरस्मरणाहेतुत्वात्, शक्तेर्मीमांसकमते1[fn अत्र मीमांसकाः -- शब्दानां जातौ शक्तिः, लाघवात्, व्यक्तीनामानन्त्येव तत्र शक्तौ गौरवात् । जातेः शब्दशक्यत्वे "जात्याख्यायामेकस्मिन्o" [ 1।2।58 ] इति सूत्रम् । 'सवर्णेऽणग्रहणमपरिभाष्यम्, आकृतिग्रहणात् सिद्धम्' । इति वार्तिकम् "सरूप" [ 1।2।64 ] सत्रस्थम् 'आकृतिं वाजप्यायनः' इति भाष्यञ्च प्रमाणमित्याहुः, तत्, न ; व्यक्तीनामानन्त्येऽपि शक्यतावच्छेदकजातेरुपलक्षणत्वेन तदैक्येन च तादृशजात्युपलक्षितव्यक्तौ शक्तिस्वीकारेणानन्तशक्तिकल्पनाविरहेणागौरवात् ।
वस्तुतस्तु ' न ह्याकृतिपदार्थस्य द्रव्यं न पदार्थः ' इति सरूपसूत्रभाष्याद् विशिष्टमेव वाच्यम्, तथैवानुभवात्, अनुभवसिद्धस्यापलापानर्हत्वाच्च । लिङ्गम्, सङ्ख्या कारकञ्च प्रादिपदिकार्थः,
एकं द्विकं त्रिकं चैव चतुष्कं पञ्चकं तथा ।
नामार्थ इति सर्वेऽमी पक्षाः शास्त्रे निरुपिताः ।।
इत्यनेन जातिष्यक्तिलिङ्गसङ्ख्याकारकाणां नामार्थत्वबोधनात् । प्रत्ययानां द्योतकत्वेन प्रकृतेवचिकत्वं युक्तम् । धातुप्रत्ययप्रत्ययान्ततदादिभिन्नो योऽर्थवान् शब्दः, तत्त्वं प्रातिपदिकत्वमित्यनुगतस्य प्रातिपदिक्त्वस्य शक्ततावच्छेदकतया नानन्तशक्ततावक्छेदकत्वकल्पनम्, न वा शक्त्यानन्त्यम् । शक्त्यानन्त्येऽपि फलमुखगौरवास्यादोषत्वान्न दोषः ।
यद्यपि अन्वयव्यतिरेकाभ्यां विभक्तीनामेव संख्यावाचकत्वकल्पनमुचितम्, तथापि 'दधि मधु चानय' इत्यादौ विभक्तिं विनापि सङ्ख्याकारकप्रतीत्या व्यतिरेकव्यभिचारात् तदौचित्यं हेयमेवेति ।
वस्तुतस्तु न वा सङ्ख्यावाचिका प्रकृतिः, विभक्तिर्वा, किन्तु 'घटः' इति विभक्त्यान्तसमुदायः सङ्ख्याविशिष्टघटवाचकः । तदुक्तम् ---
'वाचिका द्योतिका वा स्युर्द्वित्वादीनां विभक्तयः ।'
शक्ततावच्छेदिका तत्तदानुपूर्वीति न कश्चिद् दोषः ।
विशेषणतया शब्दोऽपि शाब्दबोधे भासते, 'युधिष्ठिर आसीत्' इत्यादौ युधिष्टिरशब्दवाच्यः कश्चिदासीदिति बोधात् । तथा चोक्तम् ---
नो सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ।। इति ।
(वा.प.,ब्र.का.123) ] पदार्थान्तररूपत्वात्, तस्याश्च सम्बन्धिकत्वेन सम्बन्धिभेदेन भिन्नतया तत्तद्व्यक्तिभेदेन भेदप्रसङ्गादनन्तशक्तिकल्पनापत्तिश्च ।

किञ्च, 'गौः शुक्लश्चलो डित्थः' इत्यादीनां जातिगुणक्रियासञ्ज्ञाशब्दत्वेन विषयविभागो न सिध्येत् । तथा च 'गौः शुक्लश्चलः' इत्यादीनां सहप्रयोगानुपपत्तिरिति चेत्, न ; येन रूपेणोपस्थिते शक्तिग्रहः, तेन रूपेण पदार्थोपस्थितिः । स च धर्मोऽशक्योऽपि शक्यतावच्छेदकत्वस्य जात्यादौ सम्भवात् तान(ताम् अ) वच्छेदकीकृत्य
स्ववृत्तिजात्याद्याश्रयत्वरूपसामन्यलक्षणाप्रत्यासत्त्योपस्थितसर्वव्यक्तिशक्तिग्रहसम्भवान्नानन्त्यव्यभिचारौ1 [fn 'व्यक्तीनामानन्त्यात् शक्त्यानन्त्यप्रसङ्गः' शङ्का अपाकृता 'नानन्त्यव्यभिचारौ' इत्यनेन ।
इदमत्राकूतम् -- धर्ममुपलक्षणीकृत्य शक्तिग्रहाद् वस्तुतस्तद्धर्माकृतिविशिष्टा व्यक्तिवुद्ध्यते । न तु तद्धर्मप्रकारेण । एतदेव जात्यादेरूपलक्षणत्वत्वम्, यत् स्वाश्रयाणां सर्वेषां स्वरूपतः शक्तिग्रहविषयत्वं सम्पाद्य स्वयं शक्तिग्रहाविषयो बोधाविषयश्च भवति । यथा 'काकवन्तो देवदत्तस्य गृहाः' इत्यत्र पाकः स्वोपलाक्षिततृणत्वादिना तद्गृहमितरेभ्यो व्यावर्त्तयति, तथा जातिर्व्यक्तीरूपस्थाप्य स्वोपलक्षिताभिर्व्यक्तिभिः शक्तिमितरेभ्यो व्यावर्त्तयति । एवञ्च शक्यव्यक्तीनामानन्त्येऽपि ुपलक्षणीभूतघटत्वादिजातेरैक्यावच्छक्तेरैक्यम्,कारणताया निरूपकाश्रयव्यक्तिबाहुल्येऽप्यवच्छेदकदण्डत्वादेरैक्यवत् । शक्यतावच्छेदकभेद एव शक्तेर्भेद इति नास्ति अनन्तशक्तिकल्पनगौरवम् । ] । नापि गोपदादश्वबोधः । न च तस्याशक्यत्वे तत्प्रकारकबोधानापत्तिरिति वाच्यम्, हस्तिमात्रादौ हस्तिपकादिसम्बन्धग्रहणात्तद्रूपेणोपस्थितिवत् सम्भवात् ससम्बन्धिकपदार्थमात्र एवं यं धर्ममुपलक्षणीकृत्य सम्बन्धग्रहः, तद्विशिष्टोपस्थापकत्वात् ।

ननु उपलक्षणत्वम् -- तच्छब्दजन्योपस्थितिविषयत्वेन तद्‌वृत्तितामात्रेण (वा) । नाद्यः, अन्योन्याश्रयापत्तेः । नान्त्यः, घटत्वादिवद् द्रव्यादेरपि घटादिवृत्तित्वेन, शक्त्या सह सामानाधिकरण्यसम्बन्धेन च घटपदाद् द्रव्यत्वप्रकारकबोधापत्तेः ।

किञ्च, अशक्यस्य बोधेऽतिप्रसङ्ग इति चेत्, न; घटत्वादेः शाब्दबोधप्रकारतायां तदंशे तत्पदशक्यतावच्छेदकत्वस्यैव प्रयोजकत्वेनादोषात् । शक्यतावच्छेकत्वञ्च तत्पदशक्तिघटकबोधीयविशेष्यतावच्छेदकत्वम् । तथा च तत्त्सम्बन्धेन तद्धर्मावच्छिन्नत्वविशिष्टतादृशविशेष्यतासंसर्गकशक्तिज्ञानमेव कारणम् । घटादिपदशक्तिग्रहे च घटत्वादेरेव विशेष्यतावच्छेदकत्वम्, न द्रव्यत्वादेरिति स्वीकारेणादोषात् । एवं सर्वत्रोह्यम् ।

न च यत्र द्रव्यपदं गुणवत्त्वेन द्रव्यबोधजनकमिति शक्तिग्रहः, तत्र द्रव्यत्वस्य विशेष्यतावच्छेदकत्वे तत्प्रकारबोधापत्तिरिति वाच्यम्, द्रव्यत्वस्य विशिष्ये प्रकारत्वेऽपि विशेष्यतावच्छेदकत्वाख्यविषयताविशेषस्य गुणवत्त्वं एव 1[fn 'सवीकारेणादोषात्' इतिपाठोऽत्र युज्यते, 'न च' इति शङ्कायां पञ्चम्यन्तपाठे नैव समाधानस्याचार्यशैलीर्शनात् । ]स्वीकाराद् न दोषः । इदमेव धर्मितावच्छेदकमित्युच्यते । अत एव न्यायनयेऽप्याकाशादिपदानां शब्दाश्रयत्वविशिष्टेऽशक्तत्वेऽपि ततः शब्दाश्रयत्वरूपेण बोधः । शब्दाश्रयत्वादिविशिष्टविशेष्यकसम्बन्धग्रहस्यैव तद्विशिष्टविषयकस्मृतयादिहेतुत्वाङ्गीकारान्नक्षतिरिति मणिकृतोक्तम् ।

यत्तु शब्दाश्रयत्वस्याकाशपदवाच्यत्वानङ्गीकारे आकाशपदान्निर्विकल्पकमेव । निर्विकल्पकत्वञ्च तदंशे तत्पदोपस्थाप्याप्रकारत्वम्, न तदंशे सामान्यतो निष्प्रकारकत्वम्, विभक्त्युपस्थाप्यैकत्वादीनां तदंशे प्रकारत्वावश्यक्तवात् । पदार्थोपस्थितिस्तु निष्प्रकारिकैव । न च स्मृतावनुभवसमानाकारत्वस्यैव सिद्धान्तसिद्धत्वेन निर्विकल्पकसमरणानुपपत्तिरिति वाच्यम्, प्रकारांशे मोषस्वीकारेणादोषादिति । तत्, न ; जात्यतिरिक्तस्य स्वरूपतः पदार्थान्तरे प्रकारत्वासम्भवेन 'आकाशगामी' इत्यादौ शाब्दबोधानुपपत्तेः, 2[fn यथा अन्वयितावच्छेदकं यद् घटत्वादिकम्, तदवच्छिन्ने घट एव पदार्थान्तरस्य नीलादेरन्वयः, न तु घटत्वे । अत एव नित्यस्य घटत्वान्वयाभिप्रायेण न 'नित्यो घटः' इति प्रयोगः । ] अन्वयितावच्छेकावच्छिन्न एव पदार्थान्तरान्वय इति नियमानुपपत्तेश्च ।

न च शब्दाश्रयत्वेनाकाशपदाद् बोधे 'आकाशः शब्दाश्रयः' इति प्रयोगानापत्तिः ; तत्राष्टद्रव्यान्यद्रव्यत्वेन,
आकाशपदवाच्यत्वन वोपलक्षितेऽपि तत्पदशक्त्यङ्गीकाराददोषः, तात्पर्यतश्च निर्णयः । न च नानाधर्मावच्छिन्नैकधर्मिणि शक्तिरसांदृष्टिकीति वाच्यम्, अप्रयोजकत्वात्। तादृशधर्मान् विशेष्यतावच्छेदकीकृत्य लक्षणाया एवाभ्युपगमान्न दोषः । एवं यत्र द्रव्यादिपदस्य सामान्यावच्छिन्ने शक्तस्य सुवर्णाद्याभिप्रायेण प्रयोगेऽपि बोध्यम् । एवं विशेषधर्मावछिन्ने शक्तस्य सामान्यधर्मावच्छिन्नविशेष्यकबोधाभिप्रायेण प्रयोगेऽपि बोध्यम् ।

यथा दुःखासम्भिन्नसुखाशक्तस्वर्गपदस्य सुखसामान्यप्रयोगे लक्षणेत्येव च युक्तम् । शक्त्याप्रवृत्तिनिमित्तैकदेशं परित्यज्य न बोध इत्यनुभवात् । तादृशबोधे तद्रूपांशे शक्तिघटकबोधनिरूपिताविशेष्यतावच्छेदकत्वावगाहिशक्तिज्ञानत्वेन हेतुत्वान्नातिप्रसङ्घः । अत एव च 'गङ्गायां घोषः' इत्यादौ तीरत्वादिनोपस्थितिः । दण्डाद् घटत्वेन घटस्य, घटाच्च दण्‍डत्वेन दण्यस्योपस्थितिरिति सङ्गच्छते । 1[fn अत्र जाचिपदं तत्तत्प्रवृततिनिमित्तस्योपलक्षणन् । तनाकाशत्वाभाकत्वादीनां आतित्वाभावेऽपि न क्षतिः । ] जातिमात्रे शक्तौ हि 'गां दद्यात्' इत्यादौ गोत्वदिर्दानासम्भवादनुपपत्तिः । न च लक्षणया व्यक्तिबोधः, शक्यसम्बन्धरूपलक्षणाया अग्रहेऽपि तद्भानात्, सर्वेषु विशिष्टबोधकवाक्येषउ वृत्तिद्वयकल्पनायां गौरवाच्च इत्येके ।

?0केचत्तु?0 --- गवादिपदानां धर्म एव शक्तिः, नानाव्यक्तीनां शक्यतेवे गौरवात् । न च प्रत्येकं व्यक्तिभिर्विनिगमनाविहरः । एवं हि व्यक्त्यन्तरे लक्षणायां 2[fn स्वम् = व्यक्तिः, तत्र समवेता जातिः, तत्समवायित्वं व्यक्ताविति लक्षणसमन्वयः । ] स्वसमवेतसमवायित्वं संसर्ग इति गोरौवम्, जातिशक्तौ च3[fn स्वम् = जातिः, तत्समवायित्वं व्यक्ताविति । ] स्वसमवायित्वं 4[fn संसर्ग इत्यर्थः । ] तथेति लाघवम् ।

किञ्च व्यक्तिवादिनापि आनन्त्यव्यभिचारवारणाया तस्याः शक्यतावच्छेदकत्वमवश्यं वाच्यम्, अत एवैकाकारप्रतीतिसिद्धिः ।

एवञ्च लाघवात् सैव वाच्या।स्तु, व्यक्तौ शक्तेर्जातौ तदवच्छेदकत्वस्य कल्पने गौरवात् । यथा तव जातौ शक्यतावच्छेदकता निरवच्छिन्नैव, एवं शक्तिरपि तस्यां तथवेति न गोत्वत्वादिफ्रवेशाद् गौरवशङ्का । अत एव शाब्दबोधे व्यक्तौ तस्याः स्वरूपेणैव प्रकारता सङ्गच्छते ।

न च गौपदशक्यमिति निर्धर्मकशक्तिग्रहासम्भवः । प्राथमिकशक्तिग्रहस्यानुमित्यात्मकत्वेन निर्धर्मितावच्छेदिकाया अनुमितेरभावादिति वाच्यम्, अत्र पक्षे पदविशेष्यकस्य शक्तिघटके बोधे गोत्वादिप्रकारकस्यैव शक्तिग्रहस्य स्वूकारेणादोषात् । नहि समवायेनैव जातेः स्वरूपतः प्रकारतेति नियमः, 'घटं जानामि' इत्यादौ प्रकारितसम्बन्धेनापि घटत्वादेर्ज्ञानाद्यंशे प्रकारत्वाङ्घीकारात् । अत एव न विशिष्टे शक्तिः, 1[fn 'नागृहीतविशेषणा बुद्धइर्विशेष्यमधिगच्छति' इति न्यायस्वरूपम् । विशेषणविषयकबुद्धिर्विशेष्यं नावगाहते । विशेष्यविषयकत्वस्य विशेषणविषकत्वनियत्वमिति निष्कर्षः ।
एवञ्च विशिष्टशक्तिवादे विशिष्टशकतिग्रहस्य विशेषणविषयकत्वावश्यकतया तदुभयविषयकत्वस्य पदार्थोपस्थित्यादिकारणतावच्छेदकत्वकल्पनापेक्षया विशेषणविषयकत्वमात्रस्यैव तदवच्छेदकत्वकल्पना लाघङवादुचितेति जातावेव शक्तिः स्वीकर्तव्येति फलितोऽर्थः । ] 'नागृगीतविशेषण'न्यायेन जातेर्वाच्यत्वावश्यकत्वे तत्रैव शक्तेरिचितत्वात् ।

नन्वेवम्, 'गामानय' इत्यादौ वाहदोहाद्यन्वयानुपपत्तिः, न च साक्षात्सम्बन्धेन जातौ बाधेऽपि परम्परया तदन्वयोपगमान्न दोषः, 'गौर्जाता' इत्यादौ विशेष्यभूते गोत्वे अन्वयितावच्छेदकतया गोत्वत्वादिभानापत्तेः । शक्तौ तदन्तर्भावाद्यापत्तेश्च । जातेरपि प्रकारतयैव स्वरूपतो भानमिति नियमात् ।

एवञ्च तेषां पदानां व्यक्तिबोधजनकत्वे विवादाभावेन व्यक्तिशक्तिः सिद्धैवेति चेत्, अत्र वदन्ति व्यक्तिशक्तावस्माकं वैमत्यम्, अपि तु व्यक्तिशक्तिज्ञानहेतुतायामेव । अत एव व्यक्त्यंशे कुब्जा शक्तिरिति गीयते, तदंशे तज्ज्ञानानपेक्षणात् । एत एव व्यक्तेर्न वाच्यता, यद्विषयकत्वेन शक्तिज्ञानस्य [यद्विषयक] शाब्दधीजनकता, तत्त्वस्यैव तद्वाच्यताव्यवहारनियामकत्वात् । यथान्वयांऽशे कुब्जशक्तिसत्त्वेऽपि तद्विषयकत्वं शक्तिज्ञानजनकतायां नावच्छेदकम्, तथा व्यक्त्यंशे तत्सत्त्वेऽपि तद्विषयकत्वस्य शक्तिज्ञानकतानवच्छेदकत्वान्न व्यक्तौ वाच्यत्वव्यवहारः । गोत्वविषयकत्वस्यैव च निवेशाद् गोत्वादेर्वाच्यता ।

एवञ्चात्र पक्षे कार्यकारणभावावच्छेदककोटौ व्यक्त्यनन्तर्भावमात्रेणैव 'गौर्गापदशक्या' इति शक्तिग्रहोऽपि वक्तुं शक्यः । परन्तु तस्य गोत्वप्रकारकज्ञानत्वेन व्यक्तिविषयतामनन्तर्भाव्यैव कारणत्वाद् व्यक्तेरवाच्यतोपपत्तिः । एवञ्च तदंशे कुब्जत्वव्यवहारः, पदविशेष्यकशक्तिग्रहमते तु तज्ज्ञानानपेक्षणादपि कुब्जशक्तित्वमिति ।

एवं व्यक्तिशक्तिवादे जात्यंशे 1[fn ' हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक् ।
क्रुद्धो वायुर्यदा कुर्यात् तदा तं कुंबजमादिशेत् ।।'
इत्यायुर्वेदे कुब्जलक्षणं प्रतिपादितम् । स यथा विकृतेनाङ्गेन किमपिविधातुमशक्तः, अविकृतेन हस्तपादादिना भोजनादिकं सम्पादयति, तथैव शाब्दबोधात् पूर्वमनुपस्थिता अत एवान्वयांशनिरूपिता पदेऽज्ञाता शक्तिः न शाब्दबोधमुपकरोति, ज्ञाता च शाब्दबोधमुपकरोत्येव ।
यद्यपि उक्तलक्षणलक्षितकुब्जत्वं चेतनधर्म एव, तथाप्यत्र समानधर्मत्वादचेतनायां शक्तावप्यारोप इति तत्त्वम् । ]'कुब्जा' शक्तिरिति बोध्यम् ।

?0यत्तु भट्टाः?0 -- पदाद् व्यक्तेर्न स्मरणम्, अनुभवो वा, नापि तत्र कुब्जा शक्तिः, किन्त्वाक्षेपः ; आक्षेपिका च जातिरेव । आक्षेपश्चानुमानम् तादात्म्येन जातेराधेयतया व्यक्त्याक्षेपकत्वेन न वैयधिकरण्यम् । अनुमानञ्च गोत्वं गवाश्रितम्, गोनिष्ठप्रतियोगितानवच्छेदकधर्मवत्त्वात्, किञ्चिदाश्रितं वा, जातित्वादिति, तत्, न; तादृशहेतूपस्तितेरसार्वत्रिकत्वात्, गोपदात् तादृशरूपेण गोत्वादेरनुपस्थितेश्च ।

किञ्च, आक्षेपितव्यक्तौ कर्मत्वाद्यन्वये 'प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तिभङ्गः, 2[fn 'घटपदात् एकसम्बन्धिज्ञानिधयोपस्थइताकाशचैत्रादेः घटपदजन्यशाब्दबोधविषयत्ववारणाय च' इत्यपि बोध्यम् । ]'धूमोऽयं ज्वलति' इत्यादावन्वयबोधवारणाय पदजन्यपदार्थोपस्थितेः शाब्दबोधकारणत्वेनाक्षेपितेन पदार्थान्तरान्वयानापत्तइश्च । एतेनार्थापत्तिराक्षेप इत्यपास्तम् ।

न च समानसंवित्संवेद्यत्वमाक्षेप इति वाच्यम्, द्रव्यमित्यादिघटज्ञाने घटत्वज्ञानाभावात् । यदि तु 'गामनाय' इत्यादौ स्वाश्रयवृत्तित्वरूपरम्परया कर्मत्वादौ जाचेरन्वयः, तेन सम्बन्धेन गोत्वादिमत्त्वस्याधेयतासम्बन्धेन गवादिव्याप्यत्वात् ; गवादिमत्त्वं विनानुपपत्तेश्च ; आनयनकर्मत्वाधेयत्वादिसम्बन्धेन गवादिव्यक्तिप्रकारिका धीः आक्षेपात् संसर्गघटकतया शाब्दबोधे व्यक्तिभानेऽपि कर्मत्वाद्यंशे गोत्वाद्यवच्छिन्नव्यक्तिभानानुरोधेनाक्षेपादरः । पदाज्जातेः स्मरणं तु निर्विकल्पकमेवेति तदाशय उच्यते सौऽपि दुष्टः, प्रागुक्तेः ।

जातिशक्तस्य व्यक्तौ लक्षणेति मण्डनानुयायिनः । तेषामयं भावः -- लक्षणया जातिप्राकरक एव बोध इति नानुभवविरोधः, नीलादिपदानां शक्यनीलादिगुणपुरस्कारेण लक्षमया बोधकत्ववत् शक्यजातिपुरस्कारेण लक्षणया गवादिपदस्य बोधकत्वात् ।

शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा ।
इति तु प्रायिकमिति । तत्, न ; यतो व्यक्तौ लक्षणा निरवच्छिन्ना, सावच्छिन्ना वा . नाद्यः, असम्भवात् । नान्त्यः, तत्पक्षे हि जातेरेवा1[fn ख. पु. 'वच्छिन्नत्वम्' । ] वाच्छेदकत्वं वाच्यम् । तथा च लक्ष्यतावच्छेदकतयैव जातिभानोपपत्तौ तत्र शक्तिकल्पना व्यर्था । न च शक्यसम्बन्धरूपलश्रणानिर्वाहाय तत्र शक्तिरूपेया । एवञ्च स्वातन्त्र्येण शक्तेरनुपयोगितया तस्या वृत्तित्वानुपपत्तेः ।

ननु "जात्याकृतिव्यक्तयः पदार्थः" इति गौतमसूत्रेण गवादिपदात् संस्थानविशेषरूपाकृतेरपि बोधसयानुभविकत्वप्रदर्शनेन परैर्जात्याकृत्युभयविशिष्टव्यक्तौ शक्तिरङ्गीक्रीयते । तत्र जातेः साक्षात्समवायसम्बन्धेन व्यक्तिविशेषणत्वात् प्रवृत्तिनिमित्तत्वम्, अवयबसंयोगरूपाकृतेस्तु सामानाधिकरण्यरूपपरम्परया विशेषणत्वान्न तत्त्वम् । 'पिष्टकमय्यो गावः' इत्यादौ केवलाकृतिविशिष्टगबादौ लक्षणा ।

एवञ्च जातिशक्तिवादे आकृतेरवयव1[fn 'संयोगविशेषख्पायाः' इति पाठः समीचीनः । ] संयोगरूपाया अनन्तत्वेन तदपेक्षया एकस्या जातेरेव शक्यत्वौचितयात् ।

न चावयवसंयोगनिष्ठजातिरेव शक्या, तदन्वयश्च स्वाश्रयघटितपरम्परयेति वाच्यम्, आकृतिप्रकारकबोधस्यैवानुभवात् । व्यक्त्यनुपरक्तकेवलजातौ प्रयोगविरहश्च न शक्त्यभावसाधकः, अप्रयोजकत्वात् ।

न च कदाचित् केवलजातिमात्रेण 'गौर्नित्या' इति प्रयोगापत्तिः, शक्त्या स्वरपेणणोपस्थितायाः जातेः समानपदोपात्तौ धर्मिण्याश्रयतासम्बन्धेनैवान्वयस्य व्युत्पन्नत्वादिति चेत्, न; एवं हि तादृशबोधे आकाङ्क्षाया अपि कारणत्वकल्पने गौरवेण विशिष्टशक्तेरेवोचितत्वात् । तस्मात् कुब्जशक्तिरित्येवोचितम्, व्यञ्चनया तद्बधः - इत्यन्ते ।

वस्तुतस्तु जाचिशक्त्यैव ज्ञातया जातिव्यक्त्योरुपस्थितौ तात्पर्यात् कदाचिज्जातिर्विशेष्या, व्यक्तिर्विशेषणम् ; कदाचिद् व्यक्तिर्विवशेष्या, जातिर्विशेषण् । एवञ्च जातौ परम्पर्या वाहाद्यन्वयः, वयक्तिरेव चान्वयितावच्छेदिकेति परम्परयानवयपक्षे न प्रागुक्तदोषः । अत एव "जात्याख्यायामेकस्मिन्" [ 1।2।58 ] इति "जातिरप्राणिनाम्" [ 2।4।6 ] इति च सङ्गच्छते । अत एव च जातिप्रधान्ये समाहारद्वन्द्व एव, व्यक्तिफ्रधान्ये त्वितरेतरयोग एवेति भाष्यादिव्यवहाराश्च सङ्गच्छन्ते ।

1[fn अत्रायं विवेकः -- "सरूपाणामेकशेषः" इत्येकशेषारम्भाद् व्यक्तिरपि पदार्थ इत्येव सिद्धम्, न तु केवलव्यक्तिस्तथेति, जातिविशिष्टव्यक्तेः पदार्थत्वेऽपि तदारम्भस्यावश्यक्तवात् । अण्‌ग्रहणस्य भाष्यकृत्प्रत्याख्यानेन, सरूपसूत्रस्य शास्त्रीयप्रक्रियामात्रवहिकत्वस्याकरे सिद्धान्तित्वेन च न ताभ्यां व्यक्तिमात्रस्य प्रातिपदिकार्थत्वं सिद्ध्यतीति व्यवहारमात्रमेव शरणं केवलव्यक्तिवादिनामिति तत्त्वम् ।
वस्तुतस्तु विशिष्टस्यैव पदार्थत्वम् । यद्यपि 'आकृतिपदार्थस्य द्रव्यं न पदार्थः' इत्यादिभाष्याद् विशकलितयोरेवाकतिव्यक्त्योः पदार्थत्वं प्रतीयते, तथापि 'कस्यचित् किञ्चिद् गुणभूतम्, किञ्चित् प्रधानम्' इत्युत्तरभाष्यपर्यालोचनया विशिष्टे शक्तिरवसीयते । ] इदं सर्वपक्षेषूह्यम् -- जातिप्रकारशक्तिधिय एव जातिविशिष्टव्यक्तिबोधकत्वाद् न घटत्वादिपदाद् व्यक्तिपोधः । भावप्रत्ययरहितपदघटितजातिशक्तिधीरेव तद्बोधे हेतुरित्यन्ये ।

एवं शुक्लशब्दादिषु गुणिबोधकेषु गुणः, शक्यः, पाचक इत्यत्र क्रियाः, डित्थादौ शब्द एव । तत्र च डित्थपदं डित्थपदवति शक्तमित्येवं शक्तिग्रहः । न च शक्तिग्रहात् पूर्वं तत्‌पदवैशिष्ट्यस्यमानान्तरेणाग्रहात् तथाशक्तिग्रहासम्भवः । सम्बन्धसामान्येन तद्‌वैशिष्टग्रहात्, भाविसञ्ज्ञाविज्ञानवद् वा न दोषः । तादृशक्तिगहस्य च वाचकतासम्बन्धावच्छिन्नपदप्रकारकबोधत्वस्यैव कार्यतावच्छेदकत्वाद् नातिप्रङ्गः ।

ननु पाचकादीनां कथं क्रियाशक्तमित्युच्यते -- पचेः क्रियायां शक्तत्वेनाकस्य कर्त्तरि शक्तत्वेन तत्तत्पदाभ्यामुपस्थितयोराकाङ्क्षावशात् परस्परान्वयेन पाचकशब्दस्य शक्तेरेवाभावादिति चेत्, न ; कुम्भकार इत्यादेरेकार्थीभावविषयाणामत्रोदाहणत्वेनाक्षतेः ।

वस्तुतस्तु "कर्त्तरि कृत्" [ 3।4।67 ] इतस्यैकजातीयार्थकत्वायपाचकादावप्येकार्थीभावः । अत एव पाचकादिपदान्नोद्देश्यविधेयबावेनान्वय इति दिक् ।

वस्तुतो गुणादीनामपि शक्यत्वे आनन्त्यव्यभिचारयोः सत्त्वेन तत्रापि गुणगतजातरेव शक्या । एवञ्च पाचकादिषु क्रियागतजातिः, गुडचण्डुलपाकादिषु भिन्नेषु पाकत्वस्यैकस्य जातिरूपस्याङ्गीकारात् । डित्थादावपि डित्थादिशब्दगता जातिः, शुकाद्युच्चारणभेदेन डित्थादिशब्दानां नानात्वात् । आकाशपदादेः शक्तिरुक्तैव ।

?0यद्वा?0, कल्पभेदेन भिन्नेषु आकाशत्वमपि जातिरखण्डीपाधिर्वा तच्छक्यमिति वदन्ति ।

पदान्नियमतो जातिविशिष्टव्यक्तिमानेन तत्रापि बोधकतारूपा शक्तिरस्त्येवेति शक्यम् । घटत्वप्रकारकघटविशेष्यबोधे च घटत्वप्रकारकशक्तिज्ञानत्वेनैव हेतुतेति न गौरवम्, नापि घटत्वादिपदेभ्यो व्यक्तिबोधः । उक्तं हि भाष्ये -- 'नह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः, नापि द्रव्यपदार्थकस्याकृतिर्न पदार्थ इति' इत्यन्ये ।

अत्र पक्षत्रये लिङ्गस्यावाच्यत्वेऽपि न त्रेलिङ्ग्यम्, तत्तल्लिङ्गाभिधायि, प्रत्ययत्वेनैव शब्दानां तत्तल्लिङ्गताभ्युपगमात् । अन्वयव्यतिरेकाभ्याम् "स्त्रियाम्" इत्यधिकृत्य टाबादेर्विधानेन, "तस्माच्छसो नः पुसिं" [ 6।1।103 ] इत्याद्यनुशासनेन च तथैव युक्तत्वाच्च् । एवं सङ्ख्यादावपि द्रष्टव्यम् ।

?0अपरे तु?0 --- लिङ्गमपि नामार्थ एव । प्रत्ययार्थत्वे हि स्त्रीत्वलस्य, स्त्रिया वा प्राधान्यापत्तिः । व्यक्तिशक्तावपि स्त्रीतादात्म्यापन्नाऽजाबोध एवानुभवसिद्धः, न त्वजातादात्म्यापन्नस्त्रीबोधः1 [Fn अजपदादिति शेषः । ]

किञ्च, वागादिशब्दे विनाऽपि प्रत्ययं स्त्रीत्वस्य बोधात् प्रातिपदिकस्य शक्तत्वावश्यकत्वेन टोपोऽपि शक्त्यन्तरकल्पने गौरवम् [वात्], लिङ्गानुशासनस्य प्रकृतावेव दर्शनाच्च् । अत एव "कृदिकारादक्तिनः" इति वार्तिके 'उक्तिनः' इति चरितार्थम् । अन्यथा क्तिना स्त्रीत्वस्योक्तत्वान् ङीपोऽप्राप्तौ तद्वैयर्थ्यं स्पष्टमैव । अत एव व्यावक्रिशोत्यादौ "णचः स्त्रियामञ्" [ 5।4।24 ] इत्यञि स्त्रियां विहितेऽपि स्त्रीप्रत्ययसिद्धिः । न च तवापि प्रकृत्यैवास्योक्त्वात् स्त्रीप्रत्ययानापत्तिः ; प्रकृत्युक्तस्य तस्याव्यावर्त्तकत्वात् । अन्यथा टाबादिविधीनां वैयर्थ्यापत्तिरिति दिक् ।

ननु 'स्तनेकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः'
इत्यादिलक्षणलक्षितावयवसंस्थानविशेषरूपलिङ्गस्याचेतने खट्वादौ बाधात् स्त्रीप्रत्ययानापत्तिः । किञ्चैवं दारानित्यादौ नत्वं न स्यात्, तदर्थस्य पुंस्त्वाभावादिति चेत्, न ; आरोपेँ निर्वाहसम्भवात् । आरोपे च लिङ्गानुशासनं मानमिति केचित् ।

?0भाष्यकृतस्तु ?0-- सत्त्वरजस्तमलां प्राकृतगुणानां वृद्धिः ; पुंस्त्वम्, अपचयः, स्त्रीत्वम्, स्थिमिमात्रं नपुंसकत्वम् । अत एवोत्कर्षापकर्षसत्त्वेऽपि स्थितिमात्रमादाय "सामान्ये नपुंसक्म्" इत्युदधोषः । उत्कर्षापकर्षसाम्यावस्थात्रयसाधारणस्थितिमात्रविवक्षायां नपुं सकं भवतीति तदर्थः । ईदृशावस्थात्रयस्य पदार्थमात्रे सत्त्वादिदं केवलान्वयि ; 'इयं व्यक्तिः', इदं वस्तु, अयं पदार्थः' इति व्यवहाराणां सर्वत्राप्रतिबद्धप्रसरत्वार्थनिष्ठञ्च । तथा च ?0भाष्यम्?0 -- 'एकार्थे शब्दान्यत्वाद्दृष्टं लिङ्गान्यत्वम्, अवयवान्यत्वाच्चेति ' ।

एकस्मिन्नेवार्थे पुष्यः ; तारका; नक्षत्रमिति शब्दनानात्वदर्शनात् स्तनकेशाद्यतिरिक्तमेव लिङ्गम् 'कुटी, कुटीरः' इत्यादौ रेफस्यावयवस्योपजने लिङ्गभेददर्शनाच्चेत्यर्थ इति कैयटः ।

पुंल्लिङ्गः शब्द इति तु वाच्यवाचकयोरभेदोपचाराद् बोध्यम् । अर्श आद्यजन्तं वा तत् ।

न चैवमविकारिणि एतदभावेन 'ब्रह्मन्' शब्दे नपुंसकतानापत्तिरिति वाच्यम्, आत्मनि सर्वस्यास्तद्धेत्वेन [ ध्यस्तत्वेन ] परम्परया तत्रापि तत्सत्त्वात् । अत एवात्मा ब्रह्मेत्यादि व्यवहाराः ।

न चैवम् 'कश्चिदपि सत्त्वादिः स्वस्मिन्नात्मनि मुहूर्तमप्यतिष्ठते, वर्द्धते वा, च यावदनन वर्धितव्यमपायेन वा युच्यते' इति भाष्योक्तेरुपचयादीनां क्षणिकत्वमवश्यं वाच्यम्, ।

एवञ्च युगपद्विलिङ्गत्वादिव्यवहारानापत्तिरिति वाच्यम्, व्यवहारस्य स्वसमकालिकपदार्थसत्तानपेक्षत्वात् । अत एव भूतभाविविषयकव्यवहारः सङ्गच्छते ।

न चैवमप्युपचयादेर्विरुद्धस्यैकत्र समावेशायोगादेकस्य त्रिलिङ्गतानापत्तिरिति वाच्यम्, कोशादिप्रामाण्येन विरोधस्यैवाभावात् । तत्र कश्चिच्छब्द एकलिङ्गविशिष्टार्थे एव शक्तः, कश्चिलिङ्गद्वयविशेष्टे, कश्चित्तु त्रितयविशिष्टे इति लिङ्गानुशासनादिभ्यो निर्णेयम् ।

एवं मधुशब्देनोपचयस्थित्युभयविशिष्टं मकरन्दादिकमेवोच्यते, उपचयमात्रविशिष्टं तु चैत्रादिकमित्यपि तत एव निर्णेयम् ।

एषु च पुंसादिशब्दानां वृध्यादिवत् शास्त्रीयः संकेतः । अत एव भाष्ये उक्तम् "अवश्यं कश्चित् स्वकृतान्त आस्थेयः" इति । तत्र टिघुभादिवल्लघुभूतसञ्ज्ञाकरणस्य युक्तत्वेन गुरुभूतसञ्ज्ञाकरणसामर्थ्याद् नत्वादिशास्त्रप्रवृत्तौ लौकिकमपि लिङ्गं निमित्तत्वेनाश्रीयते । तत्र लौकिकेऽसम्भवे शास्त्रीये एव । तत्सम्भवे तु सामनाधिकरण्यसम्बन्धेन शास्त्रीयविशिष्टे लौकिके, न तु केवललौकिके, नापिकेवलशास्त्रीये, महासञ्ज्ञाकरणसामर्थ्यात्, पुंसादिसंकेतानां संख्यांज्ञाया इवार्थान्तरसंग्रहार्थं प्रवृत्तत्वेऽप्यर्थान्तरनिरासार्थमप्रवृत्तेश्च ।

अत एव 'चञ्चाः पश्य' इत्यादौ शब्दशक्तिस्वभावादपचयविशिष्टस्यैव पुमादेर्भानङ्गीकृत्य "लुपि युक्तवत्"
[ 1।2।51 ] इति सूत्रस्य "तदशिष्यम्" [ 1।2।53 ] इत्यनेन प्रत्याख्यानं सङ्गच्छते । अन्यथा युक्तवद्भावेऽभावस्याप्यतिदेशान्न पुंस्त्वप्रयुक्तं कार्यम्, प्रत्याख्याने तु प्राप्नोतीति फलभेदः स्यात् ।

एवञ्च स्त्रियां पशुनेत्यादिप्रयुक्ते शास्त्रीयलिङ्ग एव, नाभावादिकम् । पुंपशौ प्रयुक्ते तु शास्त्रीयविशिष्टे लौकिके । अत एव 'पशुना यजेत' इत्यादौ पुंस्त्वस्य विवक्षितत्वान्न स्त्रिया याग इति मीमांसकोद्घेषः ।

तत्र पुंस्त्वस्येत्यस्य लौकिकपुंस्त्वस्येत्यर्थः । 'छागो वा मन्त्रवर्णात् ' इति षष्ठान्त्याधिकरणन्यायेन छागरूपपशुविशेषस्येव मन्त्रवर्णस्य लौकिकपुंस्त्वविवक्षायां तात्पर्यग्राहकस्य सत्त्वाच्च, 'छागस्य वपायाः' इति मन्त्रे 'छागस्य' इति पठितस्य छागभिन्ने इव स्त्रियामसम्भवात् । आकारान्तच्छागशब्दस्य स्त्रीव्यक्तावप्रयोगेण लौकिपुंस्त्वसमानाधिकरणपारिभाषिकपुंस्त्वविशिष्टे शक्तत्वात् ।

शास्त्रीयमपि लिङ्गं लौकिकलिङ्गतवत् शाब्दबोधे भासते, तथानुभवात्, कोशादिप्रामाण्याच्च इत्याहुः । ?0वाक्यपदीये?0 तु -- जातित्रयमुक्तम् । तत्रापि पूर्ववदेव प्रक्रिया ।

तिस्त्रो जातय एवैताः केषाञ्चित् समवस्थिताः ।
अविरुद्धा विरुद्धाभिर्गामनुष्यादिजातिभिः ।।

इत्युक्तम् ।
केचित् तु -- शब्दनिष्ठमेव पारिभाषिकं लिङ्गम्, पुँल्लिङ्गः शब्द इत्यादिव्यवहारस्यासति बाधके गौणत्वायोगात् । 'भाषितपुंस्कात्' इत्यप्यर्थभेदेन शब्दभेदादुपपन्नम् । लिङ्गभेदस्तु न भेदप्रयोजकः, 'एकः शब्दोऽयं द्विलिङ्गः' इत्यादिव्यवहारात् । तत्र पुंस्त्वेनाभावः स्त्रीत्वादौ टाबादिकं द्योतकम् । तच्च शब्दनिष्ठमपि शब्दवाच्यम् अर्थपरिच्छेदकतयान्वेति । लिङ्गविशेषविशिष्टस्यैवार्थविशेषवाचकताया लिङ्गानुशासनशास्त्रसिद्धत्वात् । स्वाश्रयवाच्यत्वसम्बन्धेन लिङ्गार्थव्यावर्त्तकत्वोपपत्तेः । अत एव प्रयोगनियमोऽपि । एवञ्च पशुनेत्यत्र पुंस्त्वस्य परिच्छेदकत्वान्न पशुस्त्रिया यागः । न च पशुशब्दस्य नित्यपुंस्त्वात् पदार्थादिशब्दोदितलिङ्गवत् साधारण्यात् कथं स्त्रीपशुव्यावृत्तिः, 'पश्वानय' इति ऋग्वेदे दर्शनात् पशुनेति पुंस्त्वस्य विवक्षितत्वमिति निर्णयेन च तस्य नित्यपुंस्त्वाभानिर्णयात्, 'छागो वा मन्त्रवर्णात्' इति षष्ठान्त्याधिकरणन्यायेन निर्वाहाच्च । यथा 'सारस्वतौ मेषौ' इत्यत्र तद्धितप्रकृतिः [ शब्दः ] स्त्रीलिङ्गः, पुँल्लिङ्गो वेति सन्देहे 'सन्दिग्धे त वाक्यशेषात्' इति न्यायेन 'एतद्वै दैव्यं मिथुनम्' इत्यर्थवादादेकशेषेण द्वयोर्ग्रहणं निर्णीयते ।

न चैवं सर्वनामनिष्ठलिङ्गस्य चेतनाचेतनसाधारणस्त्रीपुंससाधारणत्वात् 'देवदत्तो यज्ञदत्ता चानेया अस्यै च मुद्रा देया' इति प्रेरणायां यज्ञदत्ताया अपि मुद्रादानापत्तिः । पूर्वोपस्थिततत्तद्रूपेणोपस्तापकात् सर्वनाम्नो देवदत्तत्वेनेव पुंस्त्वेनापि व्यावृत्तपूर्वोपस्थितपरामर्शान्न दोषः । अत एव गुणिपरशुक्लादिशब्दानां गुणांशस्याधिकस्य भानेऽपि विशेष्यपदोदितलिङ्गसङ्ख्यांशेऽनुवादत्वेन विशेष्यनिध्नतोपपत्तिः । अत एव पदार्थमात्रविवक्षायां गुणोत्कर्षापकर्षरूपलिङ्गस्याविवक्षितत्वादवर्जनीयसाम्यावस्थाया प्रयोगमभिप्रेत्य " सामान्ये नपुंसकम्" इति विधानं संगच्छते । "औत्सर्गिकैकवचन" न्यायादजहल्लिङ्गानां दारादिशब्दानां नित्यबहुवचनान्तानामेकस्मिन्निव लिङ्गस्यार्थआपरिच्छेदकत्वेऽपि तथाप्रयोग इत्याहुः ।

एवञ्च त्रिकं प्रतीपदिकार्थः, संख्याकारके तु प्रत्ययार्थ एव, अनन्तप्रकृतीनां संख्याकारकयोः शक्तिकल्पनामपेक्ष्य प्रत्ययानामेव तत्र शक्तिकल्पनाया उचितत्वादित वदन्ति ।

?0परे तु?0 -- संख्यापि प्रकृत्यर्थ एव, 'दधि, मधु' इत्यादौ विनाऽपि प्रत्ययं तत्प्रीततेः । अनन्तशक्ततावच्छेदककल्पनागौरवं तु फलमुखत्वान्न दोषावहम्, तथा गृहीतबोधकत्वस्य प्रकृतिमात्रादपि तद्बोधेन तेषामपि तद्बोधकारणत्वावश्यकत्वेन कल्प्यस्याभावाच्च । अतिप्रसङ्गस्तु तत्तत्संख्याबोधे तत्तद्विभकतिसमभिव्याहारकारणतया परिगरणीयः । स च 'अयं घटः' इत्यतो बोधवारणाय तवाप्यावश्यक इत्याहुः ।

केचित्तु, कारकमपि तथेत्याबुः ।
न चैवम् 'नामार्थप्रकारकबोधे सुबादजन्योपस्थितिर्हेतुः' इत्यादिकं विलीयेतेति चेत्, न ; विभक्तिद्योत्यार्थमादायोपपत्तेः । एते च सर्वे पक्षाः "सरूप" -- सूत्रादौ भाष्ये स्पष्टा इति दिक्1
[fn स्वार्थो द्रव्यञ्च लिङ्गञ्च सङ्ख्या कर्मादिरेव च ।
अमी पञ्चैव नामार्थस्त्रयः केषाञ्चिदग्रिमाः ।।
इति पञ्च पक्षा इत्यर्थः ।
अत्रायं विवेकः -- संख्यामात्रं विभक्त्यर्थः, इतरच्चतुष्टयं प्रातिपदिकार्थः ।
तथा चोक्तम् ---
'वाचिका द्योतिका वा स्युर्द्धितवादीनां विभक्तयः' इति ।
अयं भावः -- लिङ्गादिनिरूपिता घटादिशब्दे पृथक् पृथक् शक्तिरङ्गीकर्त्तव्या, एकपदोपस्थितानाम्प्यर्थानामाकाङ्क्षावैचित्र्यात् परस्परमन्वयः । तत्र लिङ्गसंख्ययोः प्रकृत्यर्थे विशेषणत्वम्, कारकस्य विशेष्यत्वम् । अथवा कारकस्यापि द्योतकत्वाद् विशेषणत्वम् । प्रातिपदिकस्य लिङ्गसंख्याविशिष्टार्थकत्वे त्वेकत्वविशिष्टे द्वित्वादिविशिष्टे च शक्तिकल्पने गौरवम्, 'गोरूपम्' इत्यादि संख्याभानवच्चित्रबोधानुपपत्तिश्च । विशकलितपदार्थत्वपक्षेतात्पर्यग्राहकत्वाभावात् तादृशबोधनिर्वाह इति केचित् ।
अन्ये तु --- धातुवद् विशिष्ट एव शक्तिः । केवलघटत्वादिविशिष्टेऽपि पृथक् शक्तिस्वीकारात् संख्याद्यविष्यकबोधनिर्वाह इत्याहुः ।
एके तु -- पञ्चानामपि प्रातिपदिकार्थप्रकारकशाब्दबोधे सुबादिजन्योपस्थितिर्हेतुः' इत्यादेर्विभक्तिद्योत्यर्थमादायोपपत्तिः कार्येत्याहुः ।
परे तु -- तद्‌विलयेऽपीष्टापत्तिरेव, द्योत्यार्थस्य विशेषणत्वेन तादृशबोधस्यैवाभावात् । ] न च लक्षणया निर्वाहः, 'जबग़देत्याह' इत्यादौ शक्याग्रहेण तत्सम्बन्धरूपलक्षणाया अग्रहात् । बाधादिप्रतसंधानं विनैव बोधाच्च ।

किञ्चानुकरणस्थले यद्यनुकार्यानुकरणयोर्भेदः, तद्विवक्षा वा, तदा शब्दोऽपि प्रातिपदिकशक्यः । यथा पटदिति कुर्वित्याद्यनुकार्यध्वनीनामनुकरणाद् भेदोध्वनिमयत्ववर्णमयत्वादिविरुद्धधर्मप्रतीत्या सिद्धः । "भुवो वुक्" इत्यादौ तु विवक्षा अर्थपदार्थकत्वशब्दपदार्थकत्वाभ्यां भेदाच्च । तथा च तत्र तदुपस्थित्यर्थमुपस्थितस्य तस्य शाब्दबोधविषयतानिर्वाहार्थं च शक्तिरवश्यमभ्युपेया । अत एव वृत्त्यार्थबोधकत्वरूपार्थकत्वात् प्रातिपदिकत्वे सुबाद्युत्पत्तौ जश्त्वादिसिद्धिः । तयोरभेदविवक्षायां तु श्रोत्रेणोपस्थित एव शाब्दबोधे भासते, न तु तत्र स्वतन्त्रवृत्तिकल्पना । तथा हि -- 'वत्तिविषय एव शाब्दविषयः' इति नियमोऽतिप्रसङ्गनिरासाय कल्प्यते । स च निरूपकताश्रयतान्यतरसम्बन्धेन वृत्तिमान् तद्विषय इति नियमेऽपि नैव भवति तस्य शाब्दबोधविषयता ।

ननु एवं सति प्रत्यक्षोपस्थितघटादेरपि शाब्दबोधविषयत्वावारणाय शाब्दबुद्धिं प्रति वृत्तिसंस्कारजन्यपदार्थोपस्थितिर्हेतुरित्यश्यं वाच्यम् ।

एवञ्चात्र वृत्तिमत्त्वे श्रोत्रादुपस्थितौ च सत्यामपि तादृशोपस्थिविषयत्वात् कथं शाब्दबोधविषयतेति चेत्,
अत्र वदन्ति -- गकारादयः क्वचिच्छक्ताः, वर्णत्वात्, नक्तादिपदं क्वचिच्छक्तम्, साधुपदत्वादिति सामान्यतोऽनुमानेन तत्पदवाच्यः कश्चिदर्थोऽस्तीत्याकारकः सामान्यतः शक्तिग्रहः एव वाच्यत्वसम्बन्धेन पदप्रकारकबोधे हेतुरित्यनुभवसिद्धम् ।

अत एवाज्ञातार्थकेष्विदमेकं पदमिति ज्ञातेषु चैत्रगवयनलादिपदेषु श्रुतेषु 'क एदर्थः' इति प्रश्यने उपमानतल्लक्षणकथनादिना कश्चित् तन्नामा राजेत्यादिना तत्प्रतिवचनादि च दृश्यते । अत एव सादृश्याद्युपायेन तद््बोधकत्वेनोपमानादेः प्रसिद्धपदसामानाधिकरण्यादितस्तद्‌बोधकत्वेन कोशादेश्च प्रामाण्यं व्युत्पादयन्ति । एवमेवाप्रसिद्धार्थकपदेषवनुभवः, सर्वसिद्धः, न तु घटादिपदेष्विव तत्तज्जात्यादिरूपेण असम्भावितश्च तथाबोधः, नलत्वादिरूपेण शक्तिग्राहकाभावेन तेन रूपेण बोधकत्वासम्भवात् ।

न चातीतनलादिभाविचैत्रादिर्त्तमानप्रसिद्धासन्निकृष्टवस्तुगोचरा अनादयो धारारूपेण विशिष्यबोधान्यथानुपपत्त्या कल्प्यन्त इति नैयायिकनव्योक्तम् [ समीचीनमिति वाच्यम् ], हेत्वसिद्धेः; विनैव तत्तद्वाचकपदश्रवणं तेषां स्मरणापत्तेश्च । उद्‌बोधकाधीनव्यवस्थायां ज्ञानसंस्कारयोः कारणत्वस्यैवासिद्ध्यापत्तिः । पदप्रकारकबोधस्यैवानुभवाच्च । अन्यथोक्तप्रश्नादयुच्छेदप्रसङ्गः ।

किञ्च, देशान्तरप्रसिद्धं चैत्रं काश्यां श्रृण्वतां विशिष्टागृहीतसङ्गतिकानामपि नलादिपदादिव बोधानुभवात् तदनुरोधेनानादिसंस्काराद्विशिष्यशक्तिग्रहसत्त्वाभ्युपगमे तेषामेव कालान्तरे गङ्गातटे तं पश्यताम् ' चैत्रोऽत्र नास्ति ' इति वाक्याद् बोधो न स्यात्, गङ्गातटत्वं धर्मितावच्छेदकीकृत्य चैत्रत्वावच्छिन्नप्रतियोगिताकाभाववत्ताज्ञानं प्रति तदेव धर्मितावच्छेदकीकृत्य चैत्रत्वप्रकारकतद्वत्ताधियः प्रतिबन्धकत्वस्य सर्वसिद्धत्वात् ।

किञ्च, विशिष्यगृहीतसंगतिकानामिव तद्दर्शनात् पदस्मरणं स्यात् 'चैत्रोऽत्र न वा' इत्यादिसंशयश्चन स्यात् ।

एतेन प्रेमयत्वादिरूपेण सकलानुभवोत्तरं प्रमेत्वांशमोषे प्रथमतस्तज्जातिविषयं निर्विकल्पकं स्मरण्, ततस्तत्तद्‌रूपेण तत्तत्पदार्थोपस्तितिमादाय शक्तिग्रहः । न च सर्वेषामर्थानामेवं बोधापत्तौ सार्वज्ञ्यापत्तिः, फलवलकल्प्योद्‌बोधकवशादेव स्मृतेः क्वाचित्कत्वकादाचित्कत्वनियमादित्यपास्तम्, अनुभवविरुद्धतादृशस्मरणकल्पने मानाभावाच्च ।

एतेन वरुणादिपदानां पाशहस्तादिपदादुपस्थिते शक्तिग्रहः । न च तस्यापि शक्तिग्रहासम्भवादनुपपत्तिः, यौगिकेषु समुदायशक्तिग्रहानपेक्षणात्, अवयवानाञ्च पाशादिपदानां लोके शक्तिग्रहात् । एवमदृष्टादिपदेष्वप्यूह्यमिति परास्तम्, जातिविशेषरूपेण पाशहस्तादिपदादुपस्थित्यभावेन तेन रूपेण शक्तिग्रहास्भवात । अन्यथा प्रत्यक्षत उपस्थिते वरुणे वरुणादिपदेषु गृहीतशक्तिकानामिव त्वदुक्तरोत्यापाशादिपदे तद्ग्रहवतां पाशाद्यदर्शनेऽपि व्यक्तिमात्रदर्शनात् 'वरुणोऽयम्' इत्यादिप्रत्ययापत्तिः । अत एव 'विष्णुः, नारायणः, कृष्णः' इत्यत्र सामानाधिकरण्यं सङ्गच्छते । अन्यथा 'घटो घटः' इत्येत्रेव तन्न स्यात् । पदप्रकारकबोधानुकूलशक्तिग्रहस्तूक्त एव । एवञ्च नलादिपदेभ्यो नलपदवाच्य इत्यादिक्रमेणैव बोधः ।

तथा च घटत्वादिजातिवच्छक्तिसम्बन्धेन शक्यविशेषणतया घटादिपदजन्यशाब्दबोधे पदस्यापि भानं नानुपपन्नम् । तत्र घटत्वादिजातिवच्छब्दांशे न वृत्तिविषयत्वम्, मानाभावात्, आश्रयत्वेनैव तत्कार्यसिद्धेः ।

तथा च सम्बन्धोभयनिरूप्यत्वेन सम्बन्धिद्वयोपस्थापकत्वाविशेषाद् घटत्वाद्यवच्छिन्नशक्त्यैव घटादिवच्छब्दस्याप्युपस्थितौ सत्यामर्थबोधनतात्पर्ये सति विशेषमतया शब्दो भासत इति न दोषः। तत्रापि घटत्वादिरूपेण विशिष्य शक्तिग्रहवद्भ्यो घटादिरदेभ्यः पदजात्युभयप्रकारको बोधः । नलादिपदेभ्यस्तु पूर्वोक्तप्रकारेण तदसाधारणधर्मानुपस्थित्या सामान्यरूपेणोपस्थितव्यक्तौ शक्तिग्रहात् 'केवलव्यक्तिविशेष्यकः, केवलपदप्रकारको नलादिपदवाच्यः कश्चिदर्थः' इत्याकारको बोधः ।

'गवित्ययमाह' इत्यादौ 'इति' शब्दसमभिव्याहारवशात् क्वचित् "स्वं रूपम्" [ 1।1।68 ] इत्यादिशास्त्रबलात् क्वचित् प्रकरमादिवशात्, क्वचिदन्वययोग्यताकाङ्क्षादिवशात् शब्दमात्रे तात्पर्यं गृह्यते । तत्र 'घटो नित्यः, स्वर्ग्री ध्वस्तः' इत्यादौ विशेषणांशवच्छब्दस्वरूपमात्रं प्रादान्येन तया शक्त्या बोध्यते । वृत्तिसत्त्वेऽपि तात्पर्यविरहादर्थांशो न बोध्यते, लवममात्रतात्पर्यदशायां सैन्धवशब्दादश्ववद् बुद्धो वा त्यज्यते ।

न चार्थशक्त्यैव तात्पर्यवशात् प्राधान्येन शब्दस्यापि भानमित्ययुक्तम्, तत्प्रकारकव्यक्तिविशेष्यकबोधत्वस्यैव तद्वृत्तिज्ञानकार्यतावच्छेकत्वात् । अन्यथा 'घटो नित्यः' इत्यादौ घटत्वे लक्षणा न स्यात् । प्राधान्येन बोधार्थं खलु तत्र लक्षणाश्रयणमिति वाच्यम्, तत्र घटत्वत्वादिरूपेम बोधानुरोधेन लक्षणाभ्युपगमात् । अन्यथा घटत्वनिर्विकल्पकापत्तिः । अत्रानुपूर्वीविशिष्टवर्णानां पदरूपत्वेन केवलतदुपस्थितावप्यानुपूर्व्या अवच्छेदकत्वेन भानान्नोक्तदोषः । विशेष्यव्यक्त्यंशाभानात् पदस्य विशेषणत्वं नास्तीति प्राधान्यमप्यर्था [दा] यातम् । मोषवादिन्यायनये प्रमेयत्वप्रकारकसकलानुभवात् प्रमुष्टविशेषणकव्यक्तिमात्रस्मरणाभ्युपगमवत् प्रमुष्टविशेषणकशब्दमात्रस्मरणे बाधकाभावात्, 'उच्चारय' इत्यादिसम्भिव्याहारस्य मोष एवोपयोगात् ।

एवञ्चार्थशक्तिज्ञानस्यैव पदप्रकारकबोधत्वादिकार्यतावच्छेदकमिति न दोषः । शक्तिग्रहवत्संस्कारैरपूस्थितत्वेन वृत्तिजन्योपस्थितिश्चास्तीति बोध्यम् ।

एतेन 'गामुच्चारय' इत्युक्ते विकृतस्यैवोच्चारणापत्तिः, तादृशस्यैव श्रोत्रेणोपस्थितेः । शब्दसयाप्रकृत्यर्थत्वात् तत्र द्वितीयार्थाद्यन्वयानापत्तिः । स्वस्यैव प्रत्यक्षएम शीघ्रमुपस्थित्या गौरस्तीत्यादावपि स्वपरत्वात्तिश्चेत्यादि परास्तम् । उक्ततात्पर्यवशाद् वृत्त्याऽविकृतस्यैव शब्दादुपस्थितेः । न चैवं तात्पर्येणैव सर्वनर्वाहेवृत्तिमात्रोच्चेदः, तस्य शब्दसामान्येऽहेतुत्वात् । किन्तु क्वचिच्छब्दजन्यबधस्य प्रमात्वे नियामकम्, क्वचित् तथाबोधेऽपीति न वृत्तिं विना निर्वाह इत्यादिवाक्यस्फोटे निरूपयिष्यामः ।

एवञ्च सति तात्पर्ये शब्दः प्रधानम्, तदभावे धात्वर्थविशेषणमेवेति सिद्धम् . अत एव 'उद्भिदा यजेत' इत्यादौ नामधेयत्वं व्यस्थाप्य तस्य विशेषणत्वेनान्वयात् 'उद्भिदभिन्नेन यागेनेष्टं भावेयेत्' इति वाक्यार्थः । सञ्ज्ञात्वावगमस्तु सामानाधिकरण्यात् । यतः सामानाधिकरम्यण्यं विशषणविशेष्ययोर्वा, सञ्ज्ञासञ्ज्ञिनोर्वा । तत्रोद्भित्पदप्रसिद्धार्थस्य विना लक्षणां यागसामानाधिकरण्यानुपपत्तेर्नीलमुत्पलमित्यादिविशेषणविशेष्यभावासम्भवे न पदपरत्वमाश्रित्य द्वितीये पर्यवसानम् । विशेषणविशेष्यभावपदेन च वाचकतातिरिक्तसम्बन्धावच्छिन्नपरिच्छेद्यपरिच्छेदकभाव उच्यते । गुणगुण्याद्योरिव वाच्यवाचकयोरभेदस्यापि 'अयं गौः' इत्यत्र कः शब्दः इति भाष्ये तद्व्याख्यानकौस्तुभे, "वृद्धिरादैच्" [1।1।1] सूत्रभाष्ये च स्पष्टमुक्तत्वात् । यागवाचकता चोद्भित्पदे योगरूढिभ्याम् ।

एवञ्च तद्बोधोत्तरं विजातीययागत्वावच्छिन्ने तत्पदशक्तिग्रहे वृत्तेऽन्यत्रोद्भित्पदेन तेनैव रूपेण यागोपस्थितिः, पदप्रकारिकैव वेत्यन्यत् । "वृद्दिरादैच्" [1।1।1] इत्यादावपि 'वृद्धिपदाभिन्ना आदैचः' इति वाक्यार्थः, प्रसिद्धवृद्धिपदार्थस्यादैच्पदार्थाभेदबोधे पूर्वोक्तानुपपत्तेश्चार्थपदोभयपरता ।
सामानाधिकरण्यसम्बन्धेनार्थविशिष्टपदाभेदस्तत्र वाक्यार्थः ।

एवञ्च संज्ञिन उद्दिश्च सञ्ज्ञाभूतपदाभेद एषु विधेयः । न च पदम् उद्दिश्य सञ्ज्ञ्यभेद एव विधेयोऽस्तु । अत एव "वृद्धिरारैच्" इत्यत्रादैचां परनिर्देश इति वाच्यम्, "अदेङ् गुणः" [1।1।2] इत्यादौ दोषापत्तेः, मङ्गलार्थं वृद्धिशब्दस्य पूर्वं पाठ इत्यादिभाष्यप्रामाण्येन संज्ञापदस्यैव विधेयत्वौचित्याच्च, टिघुभादिसंज्ञापदानां मानान्तरासिद्धत्वेनोद्देश्यत्वासम्भवाच्च । उच्चारणकृतशब्दसिद्धिस्तु नास्मच्छास्त्रे विधेयताप्रतिबन्दिका, पणादीनां विधेयत्वानापत्तेरिति दिक् ।

?0केचित्तु?0, पूर्वोक्तानुपपत्त्येवोद्भिदादिपदानां तत्काल एव नलदिपदवत् तत्पदवाच्यत्वेन सामान्यरूपेण शक्तिग्रहः, तेनैव च बोध इत्याहुः ।

यत्तु,मीमांसकमते नाम्नि लक्षणेति । तत्, न ; उक्तरीत्या क्लृप्तशक्त्यैव सिद्धेः । किञ्चैवं नामधेयत्वोच्छेदः गुणविधौ मत्वर्थलक्षणाभिया हि नामधेयत्वमुक्तम्, सा नामधेयत्वेऽपि चेत् कुतो गुणविधित्वत्यागः ? सामानाधिकरण्यानुपपत्तेर्गुणविधाविवात्रापि बीजत्वेनापेक्षणात् । नहि विना बीजे लक्षणेति दिक् ।

अत एव कथितपदत्वं दोषोऽपि क्वचिन्न दोषः ।
उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
सम्पत्तौ च विपत्तौ च महतामेकरूपता ।।
इत्यत्र ताम्रपदं विना न तादृशो बोध इति काव्यप्रकाशोक्तं सङ्गच्छते । तदुक्तं हरिणा ---
ग्राह्यत्वं ग्राहकत्वञ्च द्वे शक्ती तेजसो यथा ।
तथैव सर्वशब्दानामेते पृथगवस्थिते ।।

अस्यार्थः -- अन्धकारे चाक्षुषवारणाय द्रव्यचाक्षुषमात्रे आलोकसंयोगो हेतुरित्यवश्यं वाच्यम् । एवञ्च घटालोकसंयोगादेव घटस्येवालोक्यापि यथा प्रत्यक्षम्, तथार्थगोचरशब्दनिष्ठशक्त्यैव शब्दस्यार्थस्य च भानम् । यथा वा घटचक्षुःसंयोगाभावे तस्मादेवालोकसंयोगादालोकस्यैव भानम्, तथार्थे तात्पर्यविरहे तद्‌वृत्त्यैव शब्दमात्रबोध इति ।

?0पेर तु?0, वृत्यानुपस्थितावपि अभिहितान्वयवादे वृत्तिं विनैव यथाऽऽकाङ्क्षादि वशात् संसर्गस्य शाब्दोबोधे भानम्, तथा शाब्दज्ञानसामान्यसामग्र्यैव तात्पर्याऽ।ञकाङ्क्षादिवशात् 'गौर्नित्या, गौरनित्या' इत्यादौ गोत्वादेरिव स्वातन्त्र्येण विशेषणत्वेन वा भानम् । 'पर्वते बह्निः' इति शाब्दानुमित्यादितः सहैव वह्न्यर्थिप्रवृत्तिदर्शनात् 'अस्तिर्भवनतीपरोऽप्रयुज्यमानोऽप्यस्ति' इति भाष्याच्च ज्ञानसामान्यसामग्र्या एवार्खविशेषणतया वर्त्तमानकालभासकत्वकल्पनवत् सर्वत्र शाब्दवोधे 1 [fn शब्दस्य शाब्दबोधविषयत्वं स्वीकुर्वतां शाब्दिकानामयमाशयनिष्कर्षः -- प्रवृत्तिनिमित्ततदाश्रयाद्यर्थस्य शब्दस्य च ज्ञानमात्रे विषयत्वम् । शब्दस्य आनुपूर्व्याश्च निविकल्पकज्ञानवद् विशकलितयोर्भानम् । ततश्च 'पटः पटशब्दवाच्यः' इति विशिष्यं ज्ञानं जायते । परमत इव वैयाकरणमतेऽपि कालविशेषस्य अदृष्टविशेषस्य वा कारणत्वकल्पनेन घटपदप्रयोगकाले घटरूपार्थस्य वाचकस्य सर्वस्य कलशादिपदभानं न स्यात् । यथा पटत्वस्य निर्विकल्पकबोधकाले द्रव्यतत्वस्य भानं न भवति । 'ओमित्येकाक्षरं ब्रह्म' इति श्रुतेः, 'रामेति द्वयक्षरं नाम' इति वचनात्, "वृद्धिरादैच्" (1।1।1) इति सामानाधथिकरण्यानुरोधाच्च शब्दार्थयोस्तादात्प्ये । अर्थविशेष्यकपरामर्श एव शब्द नुमित्तौ कारणम् । तादात्म्यस्य भेदाभेदघटितत्वेन भेदस्योल्वणत्वविवक्षायां 'पटरूपोऽर्थः पटः शब्दो न' इत्यादिव्यवहाराः संगच्छन्त इत्यल प्रपञ्चेन । ]शब्दभानानुभवात् शाब्दसामान्यसामग्र्या एव शब्दभासकत्वकल्पनात् ।

एवञ्च प्रकारताविशेष्यतान्यतरसम्बन्धेन पदभिन्नविषयकशाब्दं प्रत्येव पदजन्यपदार्थोपस्थितेः कारणत्वं कल्प्यते । प्रत्ययानां प्रकृतयर्थान्वितस्वार्थबोधकत्वमिति व्युत्पत्तौ प्रकृत्यर्थत्वञ्च 'प्रकृतिजन्यबोधविषयत्वम्' इति 'गामुच्चारय' इत्यादौ न कर्मत्वाद्यन्वयानुपपत्तिः । न च घटपदजन्यबोधे सकलपर्यायाणां प्रकारतया भानापत्तिः, विनिगमकाभावादिति वाच्यम्, तत्तत्पद प्रकारकबोधे तत्तत्पदज्ञानघटितशाब्दसामान्यसामग्र्या हेतुत्वेनादोषादित्याहुः ।

एवञ्च वृत्त्याश्रतया पदोपस्थितावपि तस्य वृत्तिविषयत्वाभावेन वृत्तिविषयबोधकत्वरूपार्थवत्त्वाभावात् प्रातिपदिकत्वाभावेन 'भू सत्तायाम्' 'गवित्ययमाह' इत्यादौ विभक्त्यनुत्पत्तिः, तदनुत्पत्तावपि साधुत्वमस्त्येव परिनिष्ठितत्वात् । "भुवो वुग् लुङ्लिटोः" [ 6।4।88 ] इत्यादि तु भेदविक्षापक्षे साधु । अनयोश्च लक्ष्यानुरोधेन व्यवस्था । समानानुपूर्वीकशब्दमात्रविषयकबोधजनकत्वमनुकरणत्वम् ।

न चैवं गणपठितानामनुकरणत्वेन क्रियावाचकत्वाभावः, प्रयोगस्थानां गणपठितत्वमिति भूवादिसूत्रसङ् गतिरिति वाच्यम्, गणपठितशब्दवाच्यत्वरूपस्य गणपठितत्वस्य विवक्षितत्वान्न दोष इत्याहुः ।

केचित्तु, अनुकरणं सादृस्यसम्बन्धेन स्वसदृशशब्दानुपस्थापयति, तथोपस्थितस्यापि आकाङ्क्षादिवशादुपस्थितसम्बन्धस्येव शाब्दबोधेऽन्वयप्रतियोगित्वं व्युत्पत्तिवैचित्र्यात्, अनुभवबलात्, तात्पर्यवशाच्च स्वीक्रिये । कृत्यपदजन्यपदार्थोपस्थितेरनुकरणाजन्यशाब्दबुद्धित्वमेव कार्यतावच्छेदकम् । 'प्रत्ययानां प्रकृत्यर्थान्वित' इत्यादिव्युत्पत्तौ प्रकृत्यर्थत्वञ्च प्रकृतिजन्यबोधविषयत्वम् । अतो 'गामुच्चारय' इत्यादौ न कर्मतवाद्यन्वयानुपपत्तिः । अनुकरणत्वञ्च स्वसदृशशब्दमात्रतात्पर्यकोच्चारणविषयत्वमित्याहुः ।

सर्वनाम्नाञ्च 'बद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नबोधकं तदादिपदम्' इत्याकारः शक्तिग्रहः । तत्र शक्तिग्रहविषयताया अननुगतघटत्वपटत्वादिनिष्ठाया अप्यनुगतरूपावच्छिन्नतया शक्त्यैक्यम् । घटादिपदसंकेतविषयतानां नानाघटव्यक्तिनिष्ठानां घटत्वाद्यनुगतधर्मावच्छिन्नत्वेन तत्पदशक्त्यैक्यवत् ।

इत्यांस्तु विशेषः --- तत्र घटत्वादिप्रकारकबोधानुभवात् तेषां धर्मितावच्छेदकताख्यविषयतया शक्तिग्रहविषयत्वमुपेयते ; शक्तिग्रहविषये बोधे विषयतायाः प्रकारत्वञ्च । एवं पश्वदिशब्दानां लोमत्वेनानुगतलोमवल्लाङ्गूलशक्तानां तच्छक्तिग्रहविषयत्वम् । तया विषतया लोमत्वादीनामुपेयते । प्रकृत बुद्धिस्थत्वस्य शाब्दबोधेऽभानात् तस्य तया विषयतया शक्तिग्रहाविषयत्वेन शक्तिग्रहविषयबोधे विषयतयाऽप्रकारत्वेन च तस्योपलक्षणत्वमिति । धर्मितावच्छेदकत्वञ्च तदाश्रयनिष्ठविषयतानिरूपकत्वम् । बुद्धिस्थत्वे च तादृशविषयता सामानाधिकरण्यमात्रमिति न तत्प्रकारकबोधापत्तिः । धर्मितावच्छेदकत्वेन, विशेष्यत्वेन वा शक्तिग्रहविषयस्यैव शक्तिग्रहविषयबोधे विषयतया प्रकारस्यैव च तज्जन्यबोधविषयत्वं फलबलात् कल्प्यते ।

न चापूर्वे धर्म शक्तिग्रहासम्भवः, बुद्धिविषयतावच्छेदकत्वसामान्यलक्षणाप्रत्यासत्त्योपस्थिते धर्ममात्रे शक्तिग्रहाक्षतेः । सामान्यप्रत्यासत्त्यनङ्गीकारे तु बुद्धिप्रकारतया गृहीतपटत्वादिविशिष्टव्यवहारदर्शनात् तत्र तत्पदस्य शक्तिं गृहीत्वा यद्यत्तत्पदं यादृशयादृशधर्मावच्छिन्निविषयकबुद्ध्या प्रयुज्यते, तत्तत्पदं तादृशधर्माविशिष्टशक्तमिति सामान्यतो व्याप्तिमवधारयति । तदनन्तरञ्च प्रत्यक्षेण गृहीतचैत्रचत्वादिविशिष्टविषयकबुद्धिप्रयोज्यत्वं प्रकरणादिना यत्र, तत्तत्‌पदेतादृशहेतुना चैत्रत्वविशिष्टवाचकत्वस्य प्रागसिद्धस्यापि पक्षधर्मताबलादनुमित्यात्मकनिश्चयेनावगाहनान्नानुपपत्तिः । अत एव तत्पदात् कदाचिद् घट इति, कदाचिज्जतिमानिति, कदाचिज्जातिमान् घट इति, कदाचिद् बुद्धिस्थो घट इति बोधः सङ्गच्छते ।

न च हर्यादिपदशक्यतावच्छेदकानामप्युपलक्षणीभूतेन बुद्धिविशेषविषयत्वादिपदेनानुगमसम्भवेन नानार्थोच्छेदापत्तिः, तदादिभ्यः पूर्वोक्तरीत्या नानारूपेणैकस्यापि बोधानुभवात् तथाङ्गीकारेऽपि हर्यादिपदेभ्यस्तथाऽननुभवेन तत्कल्पनायोगात् । अत एव तेषां नानार्थत्वेमव । अन्यथा हर्यादिपदेभ्योऽपि कदाचिज्जातिमान् हरिरित्याद्याकारबोधापत्तिः ।

न च किञ्चित्प्रकारेण भासमाने धर्मेऽवच्छेदकत्वभाने तद्विशिष्ट एव भासते, न तदुपलक्षित इति नियमः । अत एव जातिमान्नास्तीत्यतो न स्वरूपेण घटत्वावच्छिन्नाभावबोधः । एव़ञ्च बुद्धिस्थत्वविशिष्ट एव धर्मितावच्छेदकत्वावगाहनात् तद्विशिष्टस्यैव बोधापत्तिरिति वाच्यम्, अवच्छेकत्वस्य संसर्गविधया भान एव यथा नियमात् । शक्तिग्रहस्त्ववच्छेद्यावच्छेदकभावप्रकार एवेति न दोषः ।

न चेदानीमुच्चारिततत्पदात् कालान्तरीणदेशन्तरीणबुद्धिस्थधर्मावच्छिन्नस्यापि बोधापत्तिरिति वाच्यम्, तात्पर्यज्ञानकारणतया निर्वाहात् । व्यक्तिस्थानीया पत्त्यभावाच्च । शक्यताच्छेदकावच्छिन्नबोधस्य जायमानत्वेन तदापादकाभावाच्च । एवं युष्मदस्मदोः स्वसम्बोध्यतावच्छेदकत्वस्वोच्चारयितृत्वाच्छेदकरूपानुगतधर्मोपलक्षितचैत्रत्वादिकं प्रवृत्तिनिमित्तमिति बोध्यम् । "देव्युवाच --- मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशुदेवताः" इत्यादौ ऋष्युच्चारितवाक्येन तादृशानुपूर्वीरूपसामान्यप्रत्यासत्त्या देवोवाक्यस्यापि ज्ञानाद् देवीमहिषासुरयोस्तादृशवाक्यप्रयोक्तृत्वसम्बोध्यत्वप्रतिसन्धानादेव युष्मदस्मद्भ्यां देवीमहिषासुरादिप्रतीतिर्निर्वाह्या । अनिवादकऋषितत्सम्बोध्ययोस्तु तात्पर्याभावान्न प्रतीतिः ।

न चैवं मौनिपुरुषज्ञानपरात् 'अयमहं पण्डितः' इति जानामीति वाक्यस्थास्मत्पदेन मौनिनः प्रतीत्यनापत्तिः, तस्योच्चारयितृत्वाभावादिति वाच्यम्, उच्चारणेनानुसन्धानोपलक्षणान्न दोषः ।

न चैवं बुद्धिविषयतावच्छेदकरूपावच्छिन्न एव युष्मदस्मदौः शक्तिरस्तु, किं सम्बोध्यत्वाद्यवच्छेदकावच्छिन्ने शक्तिकल्पनया ? अति प्रसङ्गभङ्स्तु तात्पर्यविरहादेवेति वाच्यम्, तात्पर्यसत्त्वेऽपि चैत्रोच्चारितात् 'अहं करोमि' इति वाक्यादन्यं बोधयितुं प्रयुक्तात् 'त्वं गच्छ' इति वाक्याच्चोच्चारयितृत्वसम्बोध्यत्वभ्रमं विना मैत्रादिबोधस्य सर्वानुभवविरुद्धत्वात् । अन्यथा तात्पर्येण स्वरस्त एव तथाप्रयोगापत्तेः । बुद्धिविषययावत्त्वावच्छिन्नः सर्वशब्दार्थः, यावत्त्वमत्रैकत्वातिरिक्तसङ्ख्याकृतः परिच्छेदः । यावत्त्वानाञ्च बुद्धिविषयतवनानुगमः । 'सर्वं ओदनं भुङ्क्ते' इत्यादौ त्ववयवगतसङ्ख्यापरिच्छेदस्यावयविन्यारोपो बोध्यः । यत्र तु यावत्त्वेन घटत्वादिविशिष्टानामपि सर्वे आनेया इति सर्वशब्दमात्राद् बोधः, तत्र लक्षणा बोध्या । यद्वा, बुद्धिविषयावच्छेदकयातवत्त्वेन बुद्धिविषयघटत्वादिशालिषु सर्वशब्दस्य शक्तिः । 'सर्वे घटाः' इत्यादौ तु विशेषनिर्णयाय घटादिशब्दप्रयोग इत्याहुः ।

किंपदस्य जिज्ञासाविषयधर्मावच्छिन्ने शक्ति, अत एव स्वीयजिज्ञासाज्ञापनाय किंपदघटितप्रश्नवाक्यं सङ्गच्छते । एवञ्च कः पचतीत्यतो जिज्ञासा विषयधर्मार्वाच्छिन्नकर्तृकः पाक इति बोधः । तद्विषयकजिज्ञासायास्तदिच्छाविषयीभूतज्ञानजनकात् 'विप्रः पचति' इत्यादित एव निवृत्तिरिति तादृशप्रश्नानन्तरं तदेवोत्तरम् ।

न च प्रमेयं पचतीत्यप्युत्तरं स्यात्, तज्जन्यज्ञानस्यापि तादृशेच्छाविषयत्वादिति वाच्यम्, उद्देश्यवाचककिंपदस्य स्वसमभिव्याहृतपदोपस्थाप्यकर्तृवृत्तिधर्मव्याप्यधर्मावछिन्न एव शक्त्यभ्युपगमेनादोषात् । एवम्
'को ब्राह्मणः पचति' इत्यादौ अभेदेन स्वार्थान्वितोद्देश्यवाचकपदान्तरसमभिव्याहृतकिंपदस्य स्वार्थाभेदान्वयिपदार्थतावच्छेदकधर्मव्याप्यधर्मावच्छिन्ने शक्तिः, अतस्तत्र 'चैत्रः पचति' इत्येवोत्तरम्, न तु 'मनुष्यः पचति' इति ।

एवं प्रायेण यत्र किंपदार्थान्वयः, तद्‌वृत्तिधर्मव्याप्यधर्मावच्छिन्न एव पदस्य शक्तिर्बोध्या । क्वचित्तु स्वान्वयिधर्मव्याप्यधर्मावच्छिन्न एव शक्तिरित्याद्यूह्यम् ।

एवम् 'अयं कः' इत्यादौ बिधेयवाचककिंपदस्य समभिव्याहृतपदोपस्थाप्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नोद्देश्यतानिरूपितविधेयतावच्छेदकतया जिज्ञासितो यो विशेषधर्मः, तदवच्छिन्ने शक्तिः । अत एव तत्रायं ब्राह्मण इत्येवात्तरम् । 'मुखं किमिन्दुः' इत्यादौ अव्ययकिमो वितर्कोऽर्थः । वितर्कश्च प्रयोक्तुः सम्भावनात्मकं ज्ञानम् । एवञ्चाभेदेनेन्दुप्रकारकसम्भावनाविशेष्यो मुखमिति बोधः ।

एवं धनिमिदं किं चैत्रस्येत्यादावाश्रयत्वादिसम्बन्धेन चैत्रस्वप्रकारकसम्भावनाविशेष्यो धनमिति बोधः । किमिन्दुरित्यादौ सम्भावनाबोधोत्तरं तत्प्रयोजकाह्लादकत्वादिसाधर्म्यप्रतीतिस्त्वर्थात् । किं गौरित्यादौ कुत्सार्थकमपि तत् । तत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्चिन्ने यत्पदस्य शक्तिः । अतस्तेनार्थप्रत्यायने नियमतस्तत्पदापेक्षा, तत्पदसमभिव्याहारं विनोक्तानुगमकधर्माग्रहेण शक्तिपरिच्छेदस्यासम्भवात् । तच्छब्दजन्यप्रतिपत्तेः पूर्वमपितत्प्रतिपाद्यतया वक्तुरभिसम्बन्धः प्रकरणादिना सुग्रह इति न तच्छब्दजप्रतीतेर्यत्पदशक्तिग्रहेऽपेक्षा । तत्रोत्तरवाक्यगतयच्छब्दस्य तच्छब्दाक्षेपसमर्थत्वेन न तत्र तच्छब्दोपादानापेक्षा । यथा 'चन्द्रमसि पुष्करौः कृतं मिलिनं यदभिरामताधिके' इत्यादौ । एवं यत्पदोपस्थाप्ये तत्पदशक्तिर्बोध्या । तत्र प्रसिद्धानुभूतप्रकान्तार्थकतच्छब्दस्य यच्छब्दाक्षेपः, समर्थत्वात् । न तत्र यच्छब्दोपादानापेक्षेति काव्यप्रदीपादौ विस्तरः ।

इदमेतदोः प्रत्यक्षबुद्धिविषये, अदसः परोक्षबुद्धिविषये शक्तिः ।

स्वपदस्य स्वसमभिव्याहृतपदोपस्थाप्ये शक्तिः । समभिव्याहारश्चात्रैकवाक्यघटकत्वम् । समभिव्याहृतपदोपस्थाप्यश्च समभिव्याहृतक्रियाकारकपदार्थ एव गृह्यते । तेन चैत्रस्य भ्राता स्वपुत्रं पश्यतीत्यादौ स्वशब्देन न चैत्रप्रतीतिः । स्वपुत्रदर्शितं चैत्रं मैत्रः पश्यतीत्यादौ च न चैत्रपुत्रबोधानुपपत्तिः । अत एव 'कलशे निजहेतुदण्डजः किमि चक्रभ्रमिकारिता गुणः' इत्यादावध्याहृतक्रियाकारकस्य कलशस्य स्वशब्दसमानार्थकनिजपदेन प्रतीतिः ।

यदा तु षष्ठ्यर्थस्य क्रियायामन्वयः, तत्र तदर्थबोधकोऽपि स्वशब्दः । यथा 'स्वव्यापकवह्निसामानाधिकरण्यं धूमस्यास्ति' इत्यादौ । इदमेवाभिप्रेत्य 'सर्वनाम्नामुत्सर्गतः प्रधानपरामर्शित्वम्' इत्युच्यते । तत्र प्रधानपरामर्शितवमित्यस्य प्राधानान्वयिपरामर्शकत्वमित्यथः ।

एकः शब्दः कैवल्यादिविशिष्टे शक्तः । कैवल्यञ्च सजातीयद्वितीयरहितत्वम् । तच्च सजातीयनिष्ठभेदाप्रतियोगित्वम् । तथा च 'अयमेकोऽत्र भुङ्क्ते' इत्यादावेतद्देशाधिकरणकभोजनकर्त्तृनिष्ठभेदाप्रतियोगी । 'अयमत्र भुङ्क्ते' इत्याकारको बोध इत्याद्यूह्यमिति सर्वेष्टसिद्धिः ।

इति नामार्थनिर्णयः ।