वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-१०

← वैयाकरणसिद्धान्तमञ्जूषा-९ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-१०
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-११ →

अथ कृदर्थविचारः

अथ धातुप्रकृतिककृदर्थो विचार्यते

तत्र कर्तृकर्मविहितकृतामाश्रयोऽर्थः । तत्र कर्त्तरि व्यापारश्रयः, कर्मणि फलाश्रयः, कर्मकृत्समभिव्याहारे च फलव्यापारयोर्व्यत्यासः । एवञ्च 'गतो ग्रामः' इत्यादौ व्यापारजन्योत्तरदेशसंयोगाश्रयो ग्राम इति बोधः ।

न च तिङन्ते कर्तृकर्मणोर्धात्वर्थविशेषणताया दृष्टत्वेनात्रापि तथैवोचितमिति वाच्यम्, तिङन्त एव 'भावप्रधानम्' इत्यस्य प्रवृत्तेः, 'सत्त्वप्रधानानि' इत्युत्तरनिरुक्तेन तयोस्तत्र विशेष्यताय बोधनाच्च । नाम्नि सत्त्वप्राधान्यं चस्वघटप्रकृतिभूतधात्वर्थापेक्षयैव । तेन विभक्त्यर्थस्यासत्त्वभूतस्य प्राधान्येष़पि न क्षतिः । नामपदेन चात्र सत्त्ववाचकप्रत्ययान्तं गृह्यते, अत एव 'पचति कल्पम्' इत्यादौ न दोषः । भावकृत्सु कृत्यसञ्ज्ञकतव्यादीनां क्तखलर्थानाञ्च साध्यावस्थापन्नधात्वर्थानुवादकत्वमेव । अत एव 'एधितव्यम्' इत्यादौ न क्रियान्तराकाङ्क्षादि । अतस्तेष्वेकवचनमेव । 'सत्त्वप्रधानानि नामानि' इत्युक्तेः साध्यावस्थस्यापि लिङ्गयोगः । लिङ्गयोगान्वयित्वमेव च सत्त्वम् । तत्र लिङ्गान्तरासम्भवात् लिङ्गसर्वनामत्वाच्च नपुंसकत्वमेव । अत एव "तयोरेव कृत्यक्त" [ 3।4।70 ] इति सूत्रे "लः कर्मणि" [ 3।4।69 ] इति सूत्रगृहीतभावकर्मणोरेव तयोरित्यनेन परामर्शः सङ्गच्छत इत्याहुः ।

घञादिवाच्यभावस्तु सिद्धावस्थापन्नः, 'पाकः' इत्यादौ क्रियान्तराकाङ्क्षादीनां दर्शनात् । न चैवम् 'ओदनस्य पाकः' इत्यादौ कारकान्वयो न स्यात्, साध्यावस्थापन्नक्रियायास्वेव तदन्वयव्युत्पत्तेः ; 'कारके' इत्यधिकारात् ; 'कारकम्' इति महासञ्ज्ञाकरणाद् वेति वाच्यम्, प्रकृत्या साध्यावस्थापन्नस्यैवोपस्थापनात् ।

न चाध्याहृततिङन्तार्थक्रियायामेव 'ओदनस्य पाकः' इत्यादौ कारकान्वयोऽस्त्विति वाच्यम्, "कर्तृकर्मणोः" [ 2।3।65 ] इति कृद्योगषष्ठ्यनापत्तेः, असामर्थ्यात् 'ओदनपाकः' इति षष्ठीसमासानापत्तेश्च । न च शेषष्ठ्यैव समासः, समासस्य वैकल्पिकत्वाच्च वाक्यमपि सिद्धमिति वाच्यम्, कर्मत्वादिप्रकारकबोधानुभवानापत्तेः ।

किञ्चैवम् 'कर्तृकर्मणोः' इत्यर्थस्य व्यर्थत्वापत्तिः । न चैवम्, 'काष्ठैः पाकः' इत्यपि स्यादिति चेत्, इष्टापत्तेः ।

न चैवम् 'पाकः' इत्यादौ वारद्वयं क्रियाबोधः स्यादिति वाच्यम्, एकस्यैव पदार्थस्य साध्यत्वसिद्धत्वाभ्यामुपस्थितिरित्यत्र तात्पर्यात् । न च विरुद्धाभ्यामाभ्यां कथमेकपदोपस्थितिः, भाष्यादिप्रामाण्येन बोधकभेदेन चैकाधिकरणवृत्तित्वेनोपस्थितिस्वीकारात् । तयोर्विरोधस्यैवाभाव इत्यन्ये ।

तत्र धात्वर्थफलान्वये "शोभनं पाकः" इत्येव । पाकादिपदेभ्योऽपि फलस्यैव साध्यत्वतेनैवोपस्थापनात् "कर्तृकर्मणोः" [ 2।3।65 ] इति षष्ठी तु न, कर्तृसाहचर्येण कर्मणोऽधात्वर्थस्यैव तत्र ग्रहणात् । स्पष्टञ्चेदम् "पूजनात् पूजितम्" [ 8।1।67 ] इत्यत्राष्टमे भाष्ये । व्यापारान्वये तु घञा तत्र सिद्धत्वस्यापि बोधनात् 'शोभनः पाकः' इत्येव । तिङन्ते तु व्यापारान्वयेऽपि 'ज्योतिष्टोमेन भक्तिपूर्वं यजेत' इत्यादौ नपुंसकतैव । परन्तु प्रथमा, न तु द्वितीया, तस्य कर्मत्वाभावेन तद्विशेषणे तदप्राप्तेः ।

1[fn धातूनां सुब्विभक्त्यप्रकृतित्वात् तदर्थे सुबर्थसङ्ख्याकर्मत्वादीनामन्वयानुपपत्त्या धातोरिव
घञन्तस्यापि क्रियावाचकत्वमभ्युपेयम् । प्रकृत्येकदेशार्थे तदन्वयाऽभ्चुपगमे तु यत्र पाककर्तादेर्द्वित्वादिकं बाधितम्, पाकादेश्च तदबाधितम्, तत्र 'पचन्तौ पश्यति' इत्यादिप्रयोगापत्तेः, धातूपस्थाप्यार्थे सुबर्थान्वयबोधं प्रति तद्धातूत्तरधर्मिकयत्किञ्चिर्थपरत्वज्ञानस्य प्रतिबन्धकत्वोपगमे तु गौरवम् ।
एवञ्च यत्र धातुमात्रस्य पाकादौ तात्पर्य्यम् तत्र तद्विशेषमतावाचकस्तोकपदाद् द्वितीयैव, यत्र तु कृदन्तसमुदायस्य, तत्र तद्विशेषणवाचकपदं तत्समानविभक्तिकमेवेति कातन्त्रपरिशिष्टकृन्मतं नव्यनैयायिकमतत्वेनानूद्य दूषयति -- एतेनेति । ] एतेन 'सङ्ख्यावर्तमानत्वाद्यबोधकानां घञादीनां प्रयोगसाधुतामात्रम्' इति ?0नैयायिकनव्योक्तमपास्तम् ?0।

तदुकतम् ---
साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना ।
सिद्धभावस्तु यस्तस्याः स घञादिनिन्धनः ।। इति ।
सिद्धस्य भावः = सिद्धत्वम् । स्पष्टञ्चेदम् "सार्वधातुक" [ 3।1।67 ] इति सूत्रे भाष्ये ।

न च साध्यावस्थाया अपि भाने 'पञ्चकृत्वः पाकः' इत्यपि स्यात्, कृत्वसुजादेः क्रियान्वये एव साधुत्वदिति वाच्यम्, 'द्विः प्रयोगो द्विर्वचनेऽचि' इत्यादिप्रयोगदर्शनेनेष्टापत्तेः । अतिप्रसङ्गस्त्वनभिधानाद् वारणीय ?0इत्येके ?0।

अन्ये तु -- क्रियाया एवाब्यावृत्तिगणने कृत्वसुजित्यत्र क्रियाग्रहणवैर्थ्येन तत्समार्थ्यात् साध्यस्वभावाया एव क्रियायास्तत्र ग्रहणेन न दोषः । 'द्विः प्रयोगः' इत्यादि तु "दुर्वचनेऽचि" [ 1।1।56 ] इति ज्ञापकान्निर्वाह्यमितयाहुः ।

किञ्च, तत्र साध्यत्वाभाने धातुसम्बान्धिकारविहितक्त्वादयः, क्रियार्थक्रियोपपदे विधीयमानतुमुनादयश्च न स्युः, 'भोक्तुं पाकः' इत्यादिक्रियापदस्य साध्यत्वविशिष्ट एव सङ्केतात् । एवम् 'भुक्त्वा पाकः' इत्याद्यपि । 'भोक्तुं पाचकः, भुक्त्वा पाचकः ' इत्यादि तु न, 'गुणानाञ्च परार्थत्वात्' इत् न्यायेन गुणभूतक्रियान्वयानौचित्यादिति क्त्वर्थनिरूपणे निरुपयिष्यामः ।

न च 'युक्तुं पचति पश्य' इत्याद्यपि न स्यात्, अन्तरङ्गत्वेन पदार्थोपस्थितिकालिकाप्राधन्यस्यैव ग्रहणात् । 'भोक्तुं पाचकोऽस्ति' इत्यादौ तु "शकधृष" [ 3।4।65 ] इति सूत्रेण तुमुन्, 'भूक्त्वा पाचकः' इति तु 'अस्ति' इत्यादिक्रियायामप्यन्वयः, आकाङ्क्षावशात् । अत एव 'दत्तेन गतो ग्रामः, कतृपूर्वीकटम्' इत्यादौ कारकान्वय इत्याहुः, तत्, न ; 'गुणप्रधानसन्निधौ गुणेन नान्वयः' इत्येव तदर्थः, प्रधानासन्निधौ तु गुणेनापीति 'भौक्तुं पाचकः, भुक्त्वा गतः, भूक्त्वा पाचकः' इत्याद्यपि साध्वेवेति वदन्ति ।

नन्वेवं पाकादिपदोपात्तस्य प्रसज्यप्रतिषेधार्थकनञर्थेऽन्वयापत्तौ पाको नाऽस्तीत्यपि स्यात्, द्वित्वावच्छिन्नपाकाभावकर्तृका सत्तेति बोधादिति चेत्, न ; व्युत्पत्तिवैचित्र्येण प्रतिषेधार्थकनञः साध्यावस्थआमात्रक्रियावाचकार्थान्वयित्वस्यैव स्वीकारात् ।

यद्यपि "तेन तुल्यम्" [ 5।1।125 ] इति वतिरपि क्रियान्वयी, तथापि स इष्यत एव यागवत् पाकः इति । अत ए 'गोषु दुह्यमानासु देवदत्तस्य गमनम्' इत्यादौ "यस्य च भावेन" [ 2।3।37 ] इत्यादि षष्ठ्यादिकम्, धातुना साध्यावस्थापन्नस्य बोधनादिति दिक् ।

एवं तुमुनादीनामपि भाव एवार्थः, '1 [fn भाष्यकृतस्तु -- "तुमर्थे" इति सूत्रे "तुमर्थो भाववः" इति
प्रत्याचक्षणाः क्वादीन् भाव एवाभ्युपयन्ति । परन्तु क्त्वातुमुनादेरसत्त्वभूत एव भावोऽर्थः, पाक इत्यादाविव । ] अव्ययकृतो भावे' इत्युक्तेः । स भावोऽसत्त्वभूत एव, अव्ययार्थे लिङ्गाद्यन्वयाभावेन प्रत्ययार्थे वैलक्षण्याननुभवात् । तत्र "तुमुन्‌ण्वुलौ क्रियायां क्रियार्थायाम्" [ 3।3।10 ] इत्युक्तेस्तादर्थ्यमपि तुमुन्‌द्योत्यम्, तादर्थ्यमुद्‌देश्यत्वरूपम् । तच्च संसर्गः प्रकारो वा । प्रकृत्युपपदार्थयोः समानकर्तृ कत्वमपीहाभिधानबलाल्लभ्यः प्रयोगोपाधिः, द्वयोः क्रियायोरधिकरणाकाङ्क्ष्यां प्रत्यासत्त्यैकग्रहमस्यैवौचित्यात् । तच्च संस्रगः प्रकारो वा । प्रतृत्युपपदार्थयोः समानकर्तृ कत्वमपीहाभिधानबलाल्लभ्यः प्रयोगोपाधिः, द्वयोः क्रिययोरधिकरणाकाङ्क्षायां प्रत्यासत्त्यैकग्रहमस्यैवौचित्यात् । एतद्विहितण्वुल् तु कर्त्तर्यैव । तत्र तुमुन्‌प्रकृत्यर्थ उपपदार्थं प्रति विशेषण् ।

एवञ्च 'कृष्णं द्रष्टुं याति' इत्यादौ कृष्णकर्मकभविष्यद्‌दर्शनोद्‌देश्यकं च यानमिति बोधः2 [fn अयमत्र सङ्ग्रहः -- 'भोक्तुं पचति' इत्यत्र भोजनं पचिक्रिययोर्जन्यजनकभावसम्बन्धस्तुमुन्द्योत्यः, "तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्" इत्युक्तेः । तादर्थ्यञ्च जन्यजनकभावरूपमिति भावः । तादर्थ्यवत् समानकर्तृ कत्वमपि क्रिययोः संसर्गतया भासते, शब्दशक्तिस्वभावात् । अत एव विभिन्नकर्तृ कक्रियाद्वय तात्पर्यकः 'भोक्तुं पचति' इति न प्रयोगः ।
तत्त्वविदस्तु --- उद्दे श्यत्वनिरूपकत्वरूपं तादर्थ्यं तुमुनापि द्योत्यं संसर्गतया भासते । तच्च तदिच्छाधीनेच्छाविषयत्वम् । "तुमुन्णवुलौ" इतिय्त्र 'भविष्यति' इत्यनुवृत्तेर्भविष्यतवमपि तद्‌द्योत्यम् । तथा च भविष्यद्बोजनोद्देश्यको भोजनकर्तृकः पाक इति बोधः । तुमुन् तु न कर्तरि, 'अव्ययकृतो भावे' ] इत्युक्तेः, "कर्तरि कृत्" इत्यस्यात्राप्रवृत्तेः, अनिर्दिष्टार्थकेष्वेतत्प्रवृत्तेः ।
एतेन तुमुनाख्यातार्थकर्त्रोः परस्परमभेदान्वयेनैव विभिन्नकर्तृ कक्रियाद्वयतात्पर्यकतादृशप्रयोगापत्त्यभावेन समानकर्तृकत्वं न सम्बन्ध इत्यपास्तम्, 'भोक्तुं पच्यते, भोकतुं स्थीयते' इत्यादौ तदसम्भावच्च । न च तत्रापि देवदत्तेनेत्यध्याहारात् तृतीयार्थकर्तर्यभेदान्वयान्नानुपत्तिरिति वाच्यम्, अध्याहारं विनापि वाक्यार्थबोधस्यानुभवसिद्धत्वादिति दिक् ।
"तुमुन्ण्वुलौ" इति सूत्राविहितो ण्वुल् तु "कर्तरि कृत्" इति कर्तयेव, सम्बन्धश्च क्रिययोः पूर्वोक्त एव। एवञ्च 'कृष्णं दर्शको याति' इति वाक्यात् कृष्णकर्मकभविष्यद्दर्शनोद्‌देश्यकं दर्शनकर्त्तृकं वर्तमानकालिकं यानमिति बोध इति वदन्ति ।
युक्तञ्चैतत्, कृण्णदर्शनौद्देश्यकयानेन मार्गस्थजनान्तरदर्शनोत्पादऽपि 'जानं द्रष्टुं याति' इति प्रयोगविरहात्, 'कृष्णं द्रष्युं याति, न यवनादिकम्' इति प्रयोगाच्च । अत ए नव्यतार्किकाः कर्तृ कर्तृ कत्वविशिष्टेच्छाधीनेच्छाविषयत्वस्य तुमुन्वाच्यतामनुमन्यन्ते । अत एव चतुर्थीकारके व्युत्पत्तिवादे 'अत्र चाहर्तु मिति तुमुनन्तार्थः स्वमभिव्याहृतक्रियान्वयिस्वार्थप्रयोजनकत्वान्वय्याहरणम्' इत्युक्तम् । स्वार्थप्रयोजनकत्वस्य वाच्यतां विनाऽन्वययीत्युक्तेरसङ्गतिः ।
अन्यथा तस्य वृत्त्यनियामकतया तत्सन्बन्धावच्छिन्नप्रतियोगिताया अप्रसिद्ध्या तथाविधप्रतियोगिताकयवनादिगोचरदर्शनाभावस्य बोधयितुमशक्यात्वा । उक्तम्बन्धेन यवनादिगोचरदर्शनविशिष्टगमनाश्रयत्वाभाव एव प्रथमान्तार्थो बोध्यत इति तु न, 'कृष्णं द्रष्टुं स्थीयते, न यववादिकम्' इत्यादौ तदसम्भवादिति दिक् ।
शब्दिकनये तु सकलविशेषणविशिष्टमुख्यविशेष्यक्रियाया एव सर्वत्र बोधस्वीकारान्नानुपपत्तिरिति ध्येयम् । 'भोक्तुमिच्छति' इत्यादौ "समानकर्तृकेषु" इति तुमुन्, इच्छार्थेषु तुमुन्‌प्रकृतिभूतधात्वर्थसमानकर्तृ कार्थप्रतिपादकेषूपपदेषु धातोस्तुमुन्निति तदर्थः । क्रियार्थक्रियोपपदाभावार्थमिदम् । तुमुनर्थविषयित्वविशिष्टकर्तृ कर्तृ कत्वसम्बन्धेन प्रकृत्यर्थक्रियेच्छायामन्वये तात्पर्यग्राहकस्तुमुन् । परमते तु तस्य तदवाच्यम् । परकर्तृ कभोजनेच्छायां भोक्तुमिच्छतीति प्रयोगवारणाय समानकर्तृक्वस्यापि सम्बन्धमध्यनिवेशः । "शक्तिमिच्छतीति प्रयोगवारणाय समानकर्तृकत्वस्यापि सम्बन्धमध्यनिवेशः ।"शक्नोति भोक्तुम्, धृष्णोति पठितुम्, जानाति पठितुम् " इत्यादौ "शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्" इति तुमुन् । आद्ये सामर्थ्यापरपर्यायशक्ति रूपधात्वर्थे
फ्रकृत्यर्थस्य प्रयोजनकत्वसम्बन्धस्तुमुन्‌द्योत्यः । द्वितीये शङ्खाराहित्यपप्रागल्भ्यघटकशङ्क्याया विषयित्वं सम्बन्धः, प्रयोजकत्वं वोक्तप्रागल्म्ये सम्बन्धः । तृतीये विषयित्वं सम्बन्धः स्पष्ट एव ।
अत्रापि सर्वत्र समानकर्तृ कत्वमपि सम्बन्धे निवेश्यम् । अत्र यः सम्बन्धः, स परमते तद्वच्यः । अत्र सक्नोतेरर्थे समभिव्याहृततत्तद्धात्वर्थोऽन्तर्भावनीयः । तथा हि -- गलाधस्संयोगानुकूलक्रियायां व्यापारे शक्तौ च शक्नोतेर्वृत्तिः । तत्र शक्तौ शक्त्याख्या, इतरत्र लक्षणा । तत्र तुमुन्प्रकृतिभुज्यादिस्तात्पर्यग्राहकः । एतादृशेऽर्थे वृत्तिः कर्मप्रत्ययस्थले एव, न तु कर्तृ प्रत्ययस्थलेः ; प्रयोजनविरहात् । तत्र प्रयोज्यत्वसम्बन्धेन शक्त्यान्वितव्यापारस्य जन्यत्वसम्बन्धेनीक्तक्रियायामन्वयः । तथाविधक्रियारूपफलशालित्वादोदनादेः जन्यत्वसम्बन्धेनोक्तक्रियायामन्वयः । तथाविधक्रियारूपफलशालित्वादोदनादेः कर्मत्वम् । एवञ्च "शक्यते ओदनो भोक्तुम् ।" इत्यतः शक्तिप्रयोज्यव्यापारजन्यगलाधस्संयोगानुकूलौदनाश्रयिकक्रियेति बोधः ।
तार्किकनये तु -- तथाविधक्रियाश्रयतावानोदन इति बोधः । शक्तिश्च मीमांसकनये पदार्थान्तरम् । न्यायनये तत्तत्कारणानुकूलासाधारमकारणकलापः । यथा प्रकृते प्रदीप्तडठरानलसंयोगादिः, लिङ्गसङ्ख्याननुभवात् । तथा च धात्वर्थनुवादक एव तुमुनादिरिति पर्यवसन्नम् । ] एवं क्त्वाप्रत्ययस्यापि भाव एवार्थः ।

यत्तु -- "समानकर्तृ कयोः पूर्वकाले" [3।4।21] इति स्मरणात् क्वाद्यर्थः कर्ता । अन्यथा 'इष्टकाः पक्त्वाऽहं पाक्त्वाऽहं भोक्ष्ये' इत्यत्र तृतीयाप्रसङ्गः ।

न चाख्यातेन कर्तुरभिधानान्न सेति वाच्यम्, भोजनक्रियाकर्त्तुरुक्तत्वेऽपि पाककर्त्तुस्तत्त्वाभावात् । 'अनभिहिते भवति' इति पर्युदासाश्रयणात् । अत एव 'प्रासादे आस्ते' इत्यत्र प्रासादनक्रियाधिकरणस्याभिधानेऽप्यासिक्रियाधिकणस्यानभिधानात् सप्तमीति भाष्यादौ स्पष्टमिति । तत्, न ; 'प्रासादे आस्ते' इत्यत्र द्वितीयापत्तेरेवमप्यनुद्धारात्, 'समाने कर्तरि' इत्यव सिद्धे सूत्रे "समानकर्तृकयोः" (3।4।21) इत्यस्य वैयर्थ्यापत्तेश्च । तस्मात् समानकर्तृ कत्वं पूर्वकालत्व़ञ्च द्योत्यमेव ।

द्योतकत्वं चार्थयोः संसर्गे तात्पर्यग्राहकत्वम् । तथाहि - अत्र भावः साध्यावस्थ एव, स च धातुना लभ्यः, क्त्वाप्रकृत्यर्थभूता च क्रिया क्रियान्तरे विशेषणम् । धातुसम्बन्धाधिकारात् तयोः सम्बन्धः सामानाधिकरण्यमुत्तरकालिकत्वञ्च । तत्र सम्बन्धतात्पर्यग्राहकाः क्त्वादयः । क्वचित्तु जन्यत्वाव्याप्यत्वादिकमप्याधिकं भासते । तत्तु मानान्तरगम्यत्वाद् न क्त्वादियोत्यम् । एवञ्च 'भुक्त्वा व्रजति', 'भुक्त्वैवाहं तृप्तः, न पीत्वा', 'अधीत्य तिष्ठति', 'ईश्वरो ज्ञात्वा तिष्ठति' इत्यादौ परेषामिवास्माकमपि बोधः ।

एवञ्च 'कतृतिङ्प्रकृत्यर्थयोः सामानाधिकरण्यसंसर्गबोधेनैव समानकर्तृ कत्वलाभात् तत् क्त्वावाच्यम्' इति मीमांसकोक्तमयुक्तम् । 'समानकर्तृ कता, पूर्वकालता च प्रतीयते' इति ग्रन्थास्तु संसर्गतया प्रतीतिसत्त्वान्नानुपपन्नाः । तत्प्रकारकबोधानुभवस्तु नास्त्येव । सूत्रे तु "समानकर्तृकयोः" इति निर्धारणे षष्ठी, सप्तमी वा । 'पूर्वकाले' इति बहुव्रीहिः । एवञ्च 1 [fn अयं भावः -- समानकर्तृ कयोर्धात्वर्थयोर्मध्ये पूर्वकालविशिष्टार्थबोधकाद् धातोः क्त्वेति सूत्रार्थात् पूर्वकालः क्त्वाप्रकृत्यर्थप्रकारः, आनन्तर्यं च धात्वन्तरार्थे तादृशप्रकृत्यर्थस्य प्रकारताघटकः सम्बन्धः ।
अत एव भाष्ये -- 'पूर्वं भुङ्क्ते पश्चाद् व्रजति' इत्यत्र क्त्वाप्रत्ययशङ्खा पूर्वशब्दोऽत्र पूर्वकालार्थः, न तु धातोस्तत्र वृत्तिरित्यर्थकेन स्वशब्देनोक्तत्वादित्यनेन समाहिता । उक्तार्थानामिति न्यायपरत्वं तु न तस्या, तथा सतीह कस्मान्न भवति -- 'आस्यते भोक्तुम्' इति शङ्कापराभाष्यस्यातङ्गत्यापत्तेः । तत्रापि तुमुना तदुद्दश्यकत्वरूपसम्बन्धं बोधयताऽऽसतेः पूर्वकालत्वस्य द्योतितत्वेन तदप्राप्तेः । तत्र पूर्वकालानवगमे तु कथं शङ्का पदं निदध्यात् ? वासरूपन्यायेन लटा साधनमित्यन्यत् ।
.दा त्वासेः क्त्वा, तदा भुजेस्तुमुत्र भवति, अनभिधानादिति कैयटग्रन्थः । 'पूर्वं भुक्त्वा पश्चाद् व्रजति' इत्यत्र त्वन्येभ्यो भोक्तुभ्यः पूर्वं भुक्त्वान्येभ्यो व्रजितृभ्यः पश्चाद् व्रजतीत्यर्थः' इति साधनान्तरक्रियावधिकमेव पूर्वकालत्वं प्रतीयत इति नास्य सूत्रस्य विषयः, किन्तु 'विभाषाग्रे प्रथमा' इत्यम्येति स्पष्टमत्र भाष्ये । 'दर्शपूर्णमासाभ्याम्' इत्यत्र त्वानन्तर्यसम्बन्धेन पूर्वकालिकदर्शादिवैशिष्ट्यं सोमे प्रतीयत इतिन तत्र दोषः ।
एवञ्च 'पूर्वकालः' इति कर्मधारयः, एवञ्च षष्ठीवत् कत्वादिरपि समानकर्तृ क्तवादिसम्बन्धवाचक इति वक्तुं शक्यमिति प्राहुः ।
अत्र पूर्वकालत्वं प्रागभावावच्छिन्नकालत्वम्, प्रागभावे व्रजनक्रियायास्तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वयः । आनन्तर्यञ्च तदधिकरणसमयाध्वंसाधिकरणमुहुर्तादिध्वंसानधिकरणत्वविशिष्टतदधिकरणसमयध्वंसाधिकरणक्षणवृत्तित्वम् । तेन न पूर्वोक्तदोषः ।
'ईश्वरो ज्ञात्वा तिष्ठति' इत्यत्रेश्वरज्ञानर्ध्वसाऽप्रसिद्ध्या तद्ध्वंसोनानन्तर्थे निवेशितः ।
इदमत्र बोध्यम् -- 'स्नात्वा भुक्त्वा पीत्वा व्रजति' इत्यत्र व्रजनक्रियावधिकपूर्वकालत्वमादायैव सर्वत्र क्त्वा, न तु भोजनादिक्रियावधिकं तदादाय । तथा सति 'तस्यापत्यम्' इत्यादावेकत्वादेरिव प्रकृतेः समानकर्तृकयोरिति द्विवचनोपात्तस्य द्वित्वस्याविवक्षायामप्यमीषां ब्राह्मणानां पूर्वं आनीयतामित्युक्ते सर्वपूर्वं एव आनीयते, न तु यत्कॢ्चित्पूर्वो मध्यमः, तथात्रापि स्नातेरेव क्त्वाप्रत्ययः स्यात्, न तु भुज्यादेः ।
एवञ्च स्नानक्रियायाः यानक्रियायाश्च व्रजनक्रियायामेवान्वयः, न तु स्नानादिक्रियाया भोजनादौ । अत एव तत्र 'भुक्त्वा स्नात्वा पीत्वा व्रजति' इति विपरीतप्रयोगोऽप्युपपद्यत इति स्पष्टं भाष्ये । ]समानकर्तृकयोः क्रिययोर्मध्ये पूर्वकालिकक्रियावाचकात् क्वेत्यर्थः ।

?0यत्तु नैयायिकाः?0 --- अव्यवहितपूर्वकालिकत्वमात्रं शक्यम् । वर्षान्तरीयभोजनमादाय तथा प्रयोगवारणाय अ?0व्यवहितेति?0 । तच्च योग्यता, सा च तात्पर्यादिभिर्दण्डमासमुर्हूर्त्तादिभिरवसीयते । एवञ्च ' भुक्त्वा व्रजति' इत्यादौ भोजनोत्तरं व्रजतीत्यन्वयबोधात्, व्रजनपूर्वकाले भोजनमित्यबोधाच्च तथा नाव्यवधानमपि । वर्षान्तरीयभोजने तथा प्रयोगः सति तात्पर्ये इष्ट एव, असति तात्पर्ये तदभावादेव न बोधः । औत्सर्गिकं पुनरव्यवधानमाद्रियत एव ।

अत एव 'दर्शपूर्णमासाभ्यामि [ ष्ट्वा ] सोमेन यजेत' इति वाक्यं दर्शोत्तरकालं सोमाङ्गत्वेन विधत्ते । अन्यथा क्त्वाश्रुतेः पूर्वकालार्थायाः प्रकरमानुरोधाद् बाधापत्तेरिति मीमांसकसिद्धान्तासङ्गतिः स्यात् ।

एवञ्च तिङन्तार्थक्रियायाः प्राधान्यमप्यौत्सर्गिकमबाधितं भवति । तस्मादुत्तरः कालः क्त्वार्थः । आनन्तर्यञ्च न तद्ध्वंसाधिकरणक्षणवृत्तित्वम्, 'स्थित्वा पश्यति' इत्यादावभावात् । स्थितेर्दशनकालेऽपि सत्त्वेन तद्ध्वंसाधिकरणक्षणवृत्तित्वरूपान्तर्यस्य बाधात् । किन्तु तात्कालिकप्रागभावप्रतियोगित्वरूपम्, तदधिकरमसमयध्वंसाधिकरणसमयोत्पत्तिमत्त्वरूपं वा आनन्तर्यं शक्यम् ।

न चैवं मुखव्यादानोत्तरं तदभावकाले 'मुखं व्यादाय स्वपिति' इति प्रयोगापत्तिः, 'भुक्त्वैवाहं तृप्तः, न पीत्वा' इति प्रयोगानापतिः ; उभयानतन्तर्याविशेषात्, 'ईश्वरो ज्ञात्वा तिष्ठति' इत्यस्य चानापत्तिरिति वाच्यम्, तज्जन्यत्वव्याप्यत्वादीनामपि क्त्वाद्यर्थत्वात् । तथा च 'मुखं व्यादाय' इत्यादौ कालिकादिसम्बन्धेन व्याप्यत्वाभिप्रायेणैव प्रयोगादन्यदातननिद्रायास्ततात्वाभावान्न प्रयोगः । अत एवाध्ययनकालिकस्थितिमादायैव 'अधीत्य तिष्ठति' इति प्रयोगो नाध्ययनाबावकालिकस्थितिमादायेत्युपपद्यत इति ?0नैयायिकनव्यः?0 । तदप्येतेन परास्तम्, उक्तरीत्या सम्बन्धिविधयैव भानोपपत्तौ वाच्यत्वकल्पनस्यायुक्त्वात् । अत एव वाक्यार्थीभूत एव सम्बन्ध इह द्योत्यः, न पदार्थभूत इति कर्मप्रवचनीयेभ्यो वैलक्षण्यम् ।

?0किञ्च?0, तेषां वाच्यत्वे कृतिप्रत्ययार्थविशेष्यत्वनियमात् तस्यैव विशेष्यत्वापत्तिः) । न चेष्टापत्तिः, क्रियाप्राधान्यविरहेणाभीक्षण्यद्वित्वाभावापत्तेः, गुणीभूतक्रियामाश्रित्य तत्प्रवृत्तौ पाचकदावतिप्रसङ्गात्, भावविधायकानुशासनविरोधाच्चेति दिक् ।

'अहं भुक्त्वा व्रजामि' इत्यादौ तृतीया तु न, क्तान्तार्थविशेष्यप्रधानतिङन्तार्थक्रियानिरूपितशक्त्यभिधाने गुणक्रियानिरुपितशक्तेरप्यभिहितत्वस्य भाष्यादिप्रामाण्येनाङ्गीकारात् । उक्त़ञ्च हरिणा ---
प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् ।
शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते ।।
प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते ।
यदा गुणे तदा तद्‌वदनुक्तापि प्रतीयते ।। इति ।

अत एव 'पक्त्वौदनो भुज्यते' इत्यत्रौदने न द्वितीया । न च परिपूर्णं पदानतरेणान्वेतुं योग्यमिति व्युत्पत्तेः कारकसम्बन्धं विना क्रियास्वरूपस्यैवाभावाच्च 'पक्त्वा' इत्यस्यापि कर्तृकर्माकाङ्क्षासत्त्वाच्चान्तरङ्गतया द्वितीयादिकं दुर्वारम्, न हि तत्काले प्रधानक्रियानिरूपितशक्तेर्ज्ञानमस्ति, नापि तदभिहितत्वस्येति वाच्यम्, भाष्यप्रामाण्येन धातुसम्बन्धाधिकारविहिताव्ययकुदतिरिक्तविषयत्वाद् व्युत्पतीनामित्यदोषात् ।

किञ्च, पूर्वं क्रियान्तरान्वयस्य बुद्धिविषयत्वे हि क्त्वाः साधुरिति अन्तरङ्गत्वादिकमयुक्तमेव । 'ओदनं पक्त्वा ग्रामो गम्यते देवदत्तेन' इत्यत्र तु द्वितीया भवत्येव, प्रधानक्रियागुणक्रियानिरूपितशक्त्योरेकनिष्ठत्वाभावेन तदभिहितत्वेनैतदभिधानाभावादिति भाष्यादिसम्मतः पन्थाः । स्पष्ट़्चेदम् "स्वादुमिणमुल्" [ 3।4।26 ] इति सूत्रे भाष्ये ।

?0अत्रेदं बोध्यम्?0 -- आख्यातवाच्यक्रियायाः प्राधान्यात् तां प्रत्येव क्त्वान्तोपस्थिताः सर्वा विशेषणम्, न तु तासां परस्परं सम्बन्धः, 'गुणानाञ्च परार्थत्वात्' इति न्यायात् ।

एतेन 'अमीषां पूर्वमानय' इत्युक्ते यथा मध्यमो नानीयते, एवमत्रापि मध्यमक्रियावाचकात् प्रत्ययो न स्यादित्यपास्तम् ।

अत एवानियतः प्रयोगः 'स्नात्वा भुक्त्वा पीत्वा व्रजति, व्रजति पीत्वा भुक्त्वा' इत्यादि चेति । 'मुखं व्यादाय स्वपिति' इति तु व्यादानोत्तरकालेऽपि स्वापस्य सत्त्वात् साधु इति दिक् ।

?0इति कृदर्थविचारः ।

?0*********