वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-१३

← वैयाकरणसिद्धान्तमञ्जूषा-१२ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-१३
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-१४ →

अथ द्वितीयाविभक्त्यर्थविचारः

द्वितीयादयो द्विविधाः -- कारकविभक्तयः, उपपदविभक्तयश्च । तत्र कारकाणि षट् -- कर्त्ता, कर्म, करण्, संप्रादानम्, अपादानम्, अधिकरणञ्चेति । तत्र कारकत्वं क्रियान्यित्वम् । अत एव 'ब्रह्मणस्य पुत्रं पन्थानं पृच्छति' इत्यादौ ब्रह्मणस्य न कारकत्वम्, क्रियान्वयित्वाभावात् । अन्यथा सुन्दरादिविशिष्टस्य पुत्रस्य क्रियाव्याप्यत्वेन सुन्दरादीनां कर्मकारकत्ववद् ब्राह्ममसम्बन्धिपुत्रस्य विशिष्टस्य क्रियाव्याप्यप्तेन तस्यापि तत्त्वं स्यात् । सुन्दरादीनाञ्च 'अरूणाधिकरण'न्यायेन, क्रियान्वयित्वम् ; पुत्रद्वारा [वा] एवञ्च साक्षात्क्रियानवय्यभिन्नतया [वा ?] क्रियान्वयित्वं कारकत्वम्, तदितिरिक्तसम्बन्धहणे मानाभावात्, भेदसम्बन्धस्य बहिरङ्गत्वाच्च ।

?0यतु?0, क्रियान्तवितप्रत्यायार्थान्वियित्वं कारकत्वमिति, तत् , न ; पक्व इत्यादौ प्रत्ययार्थस्य कारकत्वानापत्तेः ।

एतेन क्रियान्वितविभक्त्यर्थान्वयित्वं कारकत्वमित्यपास्तम्, पक्व ओदन इत्यादौ ओदनादेः कर्मकतवानापत्तेः ।

यदपि, 1[fn अत्रायं निष्कर्षः -- क्रियाजनकत्वं कारकत्वमिति कारकसामान्यलक्षण् । तच्च जनकत्वं कारणत्वरूपम् । कारणत्वञ्चाथासिद्धिशून्यत्वे सति कारयाव्यवहितप्राकक्ष्णावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगित्वानवच्छेदकधर्मवत्त्वम् । एवञ्च 'चैत्रस्य तण्डुलं पचति' इत्यादौ चैत्रस्यान्यथासिद्धत्वेन क्रियाजनकत्वाभावान्न कारकत्वम् ।
सम्प्रदानस्य त्वनुमतिप्रकाशनद्वारा क्रियाजनकवम् । अनुमतिसत्त्वे दानस्य प्रवृत्तिः, तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्याम् ।
एवम् 'कटे आस्ते' इत्यादावधिकरणकारकस्यापि स्थितिं प्रति कारणत्वात् क्रियाजनकत्वमक्षुण्णमेव ।
न च 'घटं करोति' इत्यादौ घटसानुत्पन्नत्वेन क्रियाजनकत्वाभावात् कारकवानापत्तिरिति वाच्यम्, कपालनिष्ठजनकत्वस्य घटे आरोपेणादोषात्, बौद्धर्थकर्मत्वाद् वा ।
एवमपादानस्यापि क्रियाजनकत्वम्, वृक्षाभावे पर्णविभागस्यैवा सम्भवात् ।
नैयायिकास्तु, विभक्त्यर्थद्वारा क्रियान्वयित्वं कारकत्वम् । क्रियाविषयितानिरूपितविभक्त्यर्थविषयतानिरूपितविषयताश्रयत्वमिति निष्कर्षः ।
'स्तोकं पचति' इत्यत्र क्रियाविशेषणस्य स्तोकस्य कारकत्वावारणाय विभक्त्यर्थदवारेति . 'चैत्रस्य तण्डुलं पचति' इत्यादौ तु चैत्रस्य विभक्त्यर्थद्वारा क्रियान्वयित्वाभावान्न कारकत्वमिति परिष्कुर्वन्ति ।
तत् न ; 'कटे आस्ते, स्थाल्यां पचति' इत्यादौ कटस्थाल्योः कर्तृ कर्मद्वारा क्रियान्वयित्वेन विभक्तयर्थद्वारा क्रियान्वयित्वाभावात् कारकत्वानापत्तेः, कर्तुरपि कारकत्वानापत्तेश्चेति ।
कर्तृत्वश्च -- प्रकृतधातुवाच्यव्यापाराश्रयत्वम् । तेन प्रयोज्यप्रयोजकानुक्तकर्तृणां सर्वषां संग्रहः । 'माषेष्वश्वं वध्नाति' इत्यत्र तु गलविलाधः सयोगनुकूलव्यापाराश्रयत्वेनाश्वस्य कर्तृत्वेऽपि प्रकृतधातुवाच्यव्यापाराश्रयत्वाभावान्न कर्तृ त्वापत्तिरिति ।
कर्मत्वञ्च -- प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयतवेनोद्देश्यत्वम् ।
इदमेव कर्मलक्षणे ईप्सिततमत्वम् । 'गां पयो दोग्धि' अत्र पयसः कर्मत्वसिद्धये प्रयोज्यत्वनिवेशः ।
'प्रयागात् काशीं गच्छति' अत्र प्रयागस्य कर्मत्ववारणाय प्रकृतधात्वर्थफलेति ।
नैयायिकास्तु -- धत्वर्थतावच्छेदकव्यापारव्यधिकरणफलाशालत्वं कर्मत्वम् । तादृशं च फलं
गमेस्सेयोगः, त्यजेर्विभागः, पतेरधोदेशसंयोगः । अधोदेशरूपकर्मणो धात्वर्थनिविष्टत्वादकर्मत्वेन पर्णं वृक्षाद् भूमौ पतति, संयोगमात्रफलपक्षे वृक्षाद् भूमिं पतति इति प्रयोगः इत्याहुः ।
करणत्वञ्च -- स्वनिष्टव्यापाराव्यवधानेन फलनिष्पादकत्वम् । इदमेव साधकतमत्वम् 'रामेण बाणेन हतो वाली' इत्यत्र बाणवयपाराव्यवहितोत्तरफलनिष्पादकत्वं बाणस्येति लक्षणसमन्वयः ।
सम्प्रदानत्वञ्च -- क्रियामात्रकर्मसम्बन्धाय क्रियायामुदद्देश्यं यत कारकं तत्त्वम् । यथा 'ब्राह्मणाय गां ददाति' इत्यत्र बाणव्यापाराव्यवहितोत्तरफलनिष्पादकत्वं बाणस्येति लक्षणसमन्वयः ।
सम्प्रदानत्वञ्च -- क्रियामात्रकर्मसम्बन्धाय क्रियायामुद्देश्यं यत् कारकं तत्त्वम् । यथा 'ब्राह्मणाय गां ददाति' इत्यादौ दानक्रियाकर्मीभूतगोसम्बन्धाय ब्राह्मणो दानक्रियोद्देश्यः । गोभ्राह्मणयोः स्वस्वामिभावः सम्बन्धः ।
अपादानत्वञ्च -- तत्तत्कर्तृ समवेततत्तक्रियाजन्यप्रकृतधात्ववाच्यविभागाश्रयत्वम् । तदेवावधित्वम् . विभागश्च न वास्तवसम्बन्धपूर्वको वास्तव एव,10 किन्तु बुद्धिपरिकल्पितसम्बन्धपूर्वको बुद्धिपरिकल्पितोऽपि । 'माथुराः पाटलिपुत्रकेभ्य आढ्यतराः' इत्यादौ बुद्धिपरिकल्पितापायाश्रयणेनैव भाष्ये पञ्चमीसाधनात् ।
अधिकरणत्वञ्च -- कर्त्तृकरमद्वारकफलव्यापाराधारत्वम् । यथा 'स्थाल्यामोदनं गृहे पचति' इत्यादौ कर्मद्वाराकविक्लित्तिरूपफलाधारः स्थाली, कर्त्तृद्वारकव्यापाराधारो गृहमिति ।
कारकप्रातिपदिकार्थव्यतिरक्तः । स्वस्वामिभावादिः सम्बन्धः षष्ठ्या वाच्यः । 'राज्ञः पुरुषः' इत्यादौ षष्ठीवाच्यसम्बन्धसयाश्रयिभावसम्बन्धेन पुरुषेऽन्वयः, राजनिरूपितसम्बन्धवान् पुरुष इति बोधात् ।
अत्र सम्बन्धत्वेन रूपेण तत्तत्सम्बन्धे शक्तिः ।
एवञ्च शक्यतावच्छदकस्य सम्बन्धत्वस्य कर्त्तृ त्वकर्मत्वादिषु विद्यमानत्वात् सम्बन्धत्वेन रूपेण षष्ठ्यर्थताऽस्त्येव । अत एव सम्बन्धत्वविवक्षायम् 'सता गतम्, सर्पिषो जानीते' इत्यादौ षष्ठी साधिता सिद्धान्तकौमुद्यामिति प्राचीनानां हृदयम् ।
नवीनास्तु -- न समबन्धेत्वन रूपेण स्वस्वाभिभावादिसम्बन्धः षष्ठ्या वाच्यः । अत ए 'एकशतं षष्ठ्यार्थाः' इति सूत्रस्थं भाष्यं सङ्गच्छते । 'राज्ञः पुरुषः' इत्यत्र स्वत्वस्वामित्वरूपः समूहः षष्ठ्यर्थः, न तु स्वत्वम्, स्वामित्वं वा, तस्यैकमात्रवृत्तित्वात् सम्बन्धस्य च द्विष्ठत्वनियमात् । षष्ठ्यर्थसम्बन्धस्तु संसर्गविधयैव भासते, न तु प्रकारविधया ।
एवञ्च राज्ञः पुरुषः इत्यत्र स्वसवामिभावसम्बन्धेन राजविशिष्टः, पुरुष इति मूलोक्तं तु प्रकारविधया भानानुरोधेनेत्याहुः । ] क्रियाजनकत्वं कारकत्वमिति, तत्, न ; पूर्वोदाहरणे पुत्रस्य कारकत्वानापत्तेः । तं विना प्रश्नक्रियाऽनिष्पत्तेस्तस्यापि जनकत्वमिति चेत्, तथापि संप्रदानेऽव्याप्तिः, अविद्यमानसंप्रदानकस्यापि दानस्य जायमानत्वेन तस्य नियतपूर्ववृत्तित्वाभावात् । 'जायत, करोति' इत्यादौ कर्तृ कर्मणोरव्याप्तेश्च ।

न च यागस्य पूर्ववृत्तित्वाभावेऽपि अपूर्वद्वारा जनकत्वावत् संप्रदानादिज्ञानस्य पूर्ववृत्तित्वेन तद्द्वारा तस्यापि जनकत्वं सूपपादिमिति वाच्यम्, क्रियानिष्ठशाब्दविषयतानिरूपकविषयताश्रयत्वरूपक्रियान्वयित्वापेक्षयाऽनन्यथासिद्धनियतपूर्ववर्त्तित्वघटितक्रियाजनकत्वस्य गुरुत्वात् ।

आश्रयत्वरपकृदर्थोपपत्तिस्तु जनक इवान्वयिन्यपि असूपपादा । अखण्डजन्यतानिरूपकजनकत्वमखण्डोपाधिरूपं तत्र निविष्टमित्यपि विनिगमनाविरहग्रस्तम् ।

किञ्चाश्रये ण्वुलो विधानात् क्रियाश्रयत्वस्य संप्रदानापादानयोर्बाधेन धातुना क्रियानिरूपितजनकत्वलक्षणापेक्ष[ण]या विषयतालक्षणं न्याय्याम्, तस्याः स्वरूपसम्बन्धविशेषरूपत्वेनातिरिक्तत्वाभावात् । क्रियायामन्वयश्च प्रकारत्वेन विशेष्यत्वेन वा । अत एव 'पाचको देवदत्तः, पक्वस्तण्डुलः' इत्यादौ पाकनिरूपितकर्तृत्वकर्मत्वादितकं संगच्छते । अत एव कारकाणां
क्रियायामेवान्वय इति सिद्धान्तः ।

"कारकाद्‌त्तश्रुतयोः" [ 6।2।148 ] इत्यादौ च कारकशब्दः स्वर्यते, तेन कारकाधिकारोक्तं कर्त्रादिषट्कं गृह्यत इति नातिप्रसङ्गः । एवञ्च संकेतविशेषसम्बन्धेन कारकशब्दवत्त्वं कारकत्वमिति परमार्थः ।

तत्र कर्मलक्षणबोधकसूत्रम् "कर्तुंरीप्सिततमं कर्म" [ 1।4।49 ] इति । कर्तुरिति कर्तरि षष्ठी, आप्नोत्तेः सनन्तात्, "मतिबुद्धि" [ 3।2।188 ] इति सूत्रेण वर्तमैने क्तः, मतिरिच्छेति हि तत्राकरः । एवञ्च कर्त्राप्तुमिष्यमाणं कर्मेत्यर्थः । आप्तिश्चात्र सम्बन्धः । तत्र कर्त्रा कर्मणः साक्षात् सम्बन्धस्यासंभवात् क्रियाद्वारकः परम्परासम्बन्धो गृह्यते । कर्तृविशेषणतया तस्या उपस्थितया उपस्थितपरित्यागेनानुपस्थितकल्पनायां मानाभावात् । एवञ्च कर्तृनिष्ठ्वायपारेण सम्बन्द्‌धुमिष्यमाणमित्यर्थः । सम्बन्धश्च फलव्यापारयोः संसर्गतया भासमानो जन्यतादिरूपः, तत्फलाश्रयतारूपश्च । इष्यमाणत्वञ्च, तद्‌व्यापारोद्देश्यत्वमेव ।1 [fn एवञ्च प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्वेनैच्छोद्देश्यत्वं कर्मत्वमिति फलितम् ।
तथाहि -- 'कुलालो घटं करोति' इत्यत्र प्रकृतो धातुः कृञ् धातुः, तदर्थः प्रधानीभूत इतरनिष्ठविशेष्यतानिरूपितोपस्थितीयप्रकारत्वानधिकरणीभूतः उत्पत्त्यनुकलो व्यापारः, तत्प्रयोज्यम् -- प्रकृतधात्वर्थफलम् = उत्पत्तिः, तदाश्रयत्वेनोद्देश्यता ; 'घट उत्पत्याश्रयो भवति' इत्याकारिका घटे कर्तुरुद्देश्यत्वादिति घटस्य कर्मत्वं सिद्धम् ।
फलाश्रयत्वञ्च फलतावच्छेदकसम्बन्धेन ग्राह्यम् । फलतावच्छेदक सम्बन्धश्च येन सम्बन्धेन फलाश्रयत्वप्रकारिकेच्छा भवति, स सम्बन्धः । स च तत्तद्धातुभेदाद् भिन्नः ।
यथा 'ग्रामं गच्छति' इत्यत्रानुयोगित्वविशिष्टः, समवायः फलतावच्छेदकसम्बन्धः । 'तेन सम्बन्धेन संयोगाश्रयो ग्रामो भवतु' इत्याकारकेच्छीयफलनिष्टविषयतावच्छेदकत्वस्य समवाय एव सत्त्वेन, तत्सम्बन्धेन फलाश्रयस्यैव कर्मत्वत्, न तु कालिकादिना फलाश्रयस्य, तस्य सम्बन्धस्य फलतावच्छेदकत्वा भावात् ।
अत एव संयोगस्य द्विष्ठत्वेन तस्य समवायेन ग्राम इव चैत्रे सत्त्वेऽपि चैत्रो ग्रामं गच्छतीतिवच्चैत्रः स्वङ्गच्छतीति न प्रयोगः, अनुयोगित्वविशिष्टसमवायस्य चैत्रेऽसत्त्वात् ।
तस्य च फले कर्तृनिष्ठव्यापारप्रयोज्यविभागरूपफलाश्रयत्वस्य सत्त्वेन सकर्मकत्वम् ।
न च चैत्रमैत्रोभयकर्तृकविभागस्थले प्रतियोगित्वविशिष्टसमवायेन चैत्रे विभागरूपफलसत्त्वेऽपि 'चैत्रो मैत्रं विभजते' इति प्रयोगापत्तिरिति वाच्यम्, अकर्मकधातुस्थले फलसामानाधिकरण्यस्य व्यापारे सत्त्वेन तत्र फलाधिकरणतायाः समवायेन विवक्षितत्वेन मैत्रवृत्तित्वविशिष्टसमवायेन फलस्य चैत्रेऽभवेनादोषात्, परत्वात् कर्तृसं5या बाधाच्च । ]

एतेन 'रथो ग्रामं गच्छति' इत्यादौ कर्तुरचेतनत्वेन तत्रेच्छाया असंभवात् तत्कर्मणः कर्तृगतेच्छाविषयत्वाभावेन कर्मत्वं न स्यादित्यपास्तम् । तदुपलक्षितोदद्देश्यत्वस्य तत्रापि सत्त्वात्, तत्रोत्तरदेशसंयोगस्य रथादिव्यापारोद्‌देश्यत्वात् । भाष्यनये कूलं पिपतिषतीत्यादिवच्चेतनत्वारोपेण न क्षतिरित्यप्याहुः ।

तदुद्देश्यत्वञ्च साक्षात् फलरूपे धात्वर्थे क्रियायाः फलेच्छापूर्वकेच्छाविषयत्वेन फलस्य तत्त्वात् । तत्र फले कर्मसंज्ञायाः फलाभावात् तदिभिन्ने प्रवर्तते । यथा स्तेकं पचन्तीति । एवञ्च तत्राभिन्नोऽभेदो वा द्वितीयार्थः । फलाश्रयत्त्वात् तुण्डुलादीनामप्युद्देश्यत्वम् । अत एव "लः कर्मणि" [ 3।4।69 ] इति सूत्रं संगच्छते । तत्र हि कर्तृसाहचर्येणाधात्वर्थकर्मण एव ग्रहणम् । अत एव विक्लित्यादिकर्मणि न लकारः । अत एव प्रयागात् काशीं गच्छति देवदत्ते प्रयागं गच्छतीति प्रयोगः, अन्यथा प्रयागस्यापि देवदत्तव्यापारजन्यविभागाश्रयत्वेन स दुर्बार एव । तस्य प्रकृधात्वर्थोद्‌देश्यता तु नेति स्पष्टमेव ।

न च कालिकादिसम्बन्धेन फलाश्रयेऽतिव्याप्तिः, फलतावच्छेदकसम्बन्धेन फलाश्रयस्य ग्रहणात् ।

न च 'चैत्रो ग्रामं गच्छति' इत्यत्र ग्रामसंयोगादिरूपफलाश्रयचैत्रादेः कर्मत्वं स्यादिति वाच्यम्, परया कर्तृसंज्ञया बाधात् । ग्रामनिष्ठानुयोगिताया एव फलतावच्छेदकसम्बन्धत्वेन तेन सम्बन्धेन चैत्रे तदभावाच्च । अत एव 'आत्मानमात्मना हन्ति' इत्यत्र शरीरमनोरूपवच्छेदकभेदेन कर्मत्वकर्तृ त्वोपपादनं भाष्ये कृतम् ।

'वृक्षाद् भूभौ पतति' इत्यत्र कर्तृकर्मद्वारा तद्विवक्षायामाधारत्वम् । साक्षात् तदाश्रयत्वविवक्षायां तु कर्मत्वं बोध्यम् । अत एव 'द्वितीया श्रि' [ 2।1।24 ] इति समासविधानं संगच्छते । 'घटं करोति' इत्यत्रोत्पत्तिरूपधात्वर्थफलाश्रयत्वात् कर्मत्वम्, 'घटं जानाति' इत्यादौ ज्ञानजन्यविषयावच्छिन्नाज्ञानभङ्गरूपफलशालित्वात् कर्मत्वम् ।

न चैवमपि नष्टे भाविनि च तं जानातीत्यनुपपन्नम्, तत्रापि सूक्ष्मरूपेण स्थित्यभ्युपगमात्, न्यायनये विषयताया अतीते कृतिस्वीकारवदारणतद्भङ्गयोरपि वृत्तिस्वीकारे क्षत्यभावाच्च ।

?0यद्वा?0, जानातीच्छतीत्यादौ ज्ञानेच्छाद्यनुकूलो व्यापारो धात्वर्थः । स च ज्ञानजनको मनश्चक्षुः संयोगादिरेव । अत एव 'मनो जानाति' इत्यादिप्रयोगाः संगच्छन्ते । इच्छानुकूलश्च ज्ञानादिः, फलतावच्छेदकसम्बन्धो विषयता ।

?0यद्वा?0, विषयतानिरूपकज्ञानेच्छादिरेव व्यापारः । न च विषयताया ज्ञाना जन्यतेवेन कथं फलत्वम्, अनुपदवक्ष्यमाणफलत्वस्य तत्रापि सत्त्वेनाक्षतेः ।

नन्वत्र सूत्रे कर्तृ ग्रहणं किमर्थम्, तदभावोऽपि केनाप्तुमित्याकाङ्क्षायां कारकाधिकारात् प्रत्यासतितन्यायेन प्रकृतधात्वर्थलाभः । न चैवं कर्तुरपि कर्मत्वं स्यात्, परत्वात् कर्तृत्वेन बादादिति चेत्, न ; यतः संकोचे मानाभावेन फलावच्छिन्नव्यापाररूपसंपूर्णधात्वर्थेनेप्सितस्य तण्डुलादेरेव कर्मत्वं स्यात्, न फलस्येति तस्यापि कर्मत्वाय तत्1 [fn कर्त्तृग्रहणम् । ] ।

किञ्च, 'यवेभ्यो गां वारयति' अत्र पदानामपि कर्मत्वं स्यात्, तत्र भक्षणादिफलजनकव्यापाराभावानुकूलो व्यापारो वारयतेर्थऋ । न च "वारणार्थानाम्" [ 1।4।27 ] इति सूत्रं विनिगमनाविरहादुभयत्रापि फ्रवर्तते । कर्तृ ग्रहणे कृते तु न दोषः, कर्तृ निष्ठव्यापारजन्यफलानाश्रयत्वादित्याहुः ।

ननु तमब्‌ग्रहणं किमर्थमिति चेत्, 'पयसौदनं भुङ्क्ते' इत्यादौ पयसः कर्मत्वव्यावृत्त्यर्थम् । न चात्र पयसो मृदुविशदत्वसंपादनरूपस्वव्यापारजन्यसम्बन्धेन भुजधात्वर्थेऽन्वयविवक्षायाः सत्त्वेन फलाश्रयत्वविवक्षाया असत्त्वेन च कथं तमब्‌ग्रहणाभावेऽपि द्वितीयाप्रसक्तिः, नहि युगपद्विवक्षाद्वयं कर्तुं शक्यमिति वाच्यम्, पञ्चकप्रातिपदिकार्थपक्षे पयः शब्देनैवोभयं प्रतिपाद्यमिति विवक्षायाः सत्त्वेनादोषात् । पयो निष्ठमुदुविशदत्वसंपादनरूपव्यापारजन्यपयोनिष्ठगलादधःकरणानुकूलवायपार इत्यादिबोधात्, तत्र तमबग्रहणाभावे परत्वाद् द्वितीयैव स्यात् । पतन्त्वत्र मुख्यतया भुजिक्रयोद्‌देश्यत्वमोदनस्यैव, न पयस इति बोध्यम् । न च "तथायुक्तञ्चानीप्सितम्" [ 1।4।50 ] इति कर्मत्वं पयसो दुर्वारम्, सर्वथानुद्देश्य एव तत्प्रवृत्तेः, अनीप्सितपदेन तथैव लाभात् । यदि तु तस्यापि मुख्यतया तत्त्वम्, तदा भवत्येव कर्मत्वमिति बोध्यम् । उद्देश्यतायां मुख्यत्वञ्च तद्धात्वर्थप्रकारेच्छाविशेष्यत्वे सति तद्धात्वर्थोपयुक्तधमन्तिरप्रकारकेच्छाविषयत्वाभावावत्त्वम् । प्रकृते च गलदधः
करणरूपफलाश्रयत्वाप्रकारेच्छविष्यत्वेऽपि तदुप्युक्तमृदुविशदत्वसंवादकत्वप्रकारेच्छाविषयत्वस्यापि सत्त्वान्न दोषः । सत्यन्ताभावे तु "अग्नेर्माणवकं वारयति" इत्यत्राग्नेरपि कर्मत्वापत्तिः । न च'वारणार्थानाम्' इत्यत्राग्नेरपि कर्मत्वापत्तिः । न च 'वारणार्थानाम्' इत्यस्य वैयर्थ्यम्, प्रागुकार्थकवारयत्यादियोगे चारितार्थ्यात् । अत्र वारणं सयोगाभावानुकूलो व्यापारः । न च प्रवृत्तिविधातो वारणमिति वृत्त्यादिविरोधः, धातूनाम् 1[fn अयमाशः -- 'परौ भुवोऽवज्ञाने' [ 3।1।55 ] इत्यनेन परिपूर्वकाद् भूधातोरवज्ञानेऽर्थे घञ् विधीयते । तच्च 'अनादरः परिभवः परीभावस्तिरस्क्रिया' इति कोशात् सिद्धमेव । पुनरवज्ञानेऽर्थे घञ्विधानं व्यर्थीभूय ज्ञापयति -- धातूनामनेकार्थत्वम् ।
अथ च 'कुर्द क्रीडायामेव' अत्र धातूनामनेकार्थत्वाभावे 'एव' ग्रहणस्य वैयर्थ्यं स्यात् । ] अनेकार्थत्वात् । मम त्वग्नेः संयोगाभावप्रकारकेच्छाविशेष्यत्वाभावान्न दोषः । न ह्यग्निर्माणवकसंयुक्तो मा भवत्विति इच्छा, अपि तु माणवकोऽग्निसंयुक्तो मा भवत्विति । ध्वनितञ्चेदमत्रैव भाष्ये ।

एवञ्च धात्वर्थतावच्छेदकफलम्, कर्तृ व्यापारप्रयोज्यफलतावच्छेदकसम्बन्धेन धात्वर्थफलाश्रयश्चैतदन्यतरत्वं कर्मंत्वमित्येतत्सूत्रनिष्कर्षः ।

अत्र फलत्वं कर्तृ प्रतययसमभिव्याहारे तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारताश्रयतद्धात्वर्थत्वम्, न त्वत्र जनकत्वप्रवेशः, आस्यादीनां तत्पूर्वकदर्शनादौ लक्षणायामनेन कर्मत्वप्रतिपादकभाष्यादिविरोधापत्तेः । देवदत्तकर्तृ कपचिक्रियाकर्मकोत्पत्त्यनुकूलो यत्नस्त्वत्कर्तृक इत्याद्यर्थकदेवदत्तः पचति करोषीत्यादौ पश्यमृगो धावतीत्यादौ चपाकधावनादेः क्रियाफलत्ववारणा तद्धात्विति ।

तथा हि सति देवदत्तस्य कर्मत्वे ततो द्वितीय स्यात् । पक्वौदनो युज्यते इतिवत् प्रधानानुरोधिसंज्ञाया बलवत्त्वाद् न धात्वर्थकर्तृत्वेन तद्वाधः । इदमपि तत्तत्क्रियाभेदभिन्नमेव बोध्यम् ।

तेन 'पुष्पेभ्यः स्पृहयति' इत्यत्र 'हरिं प्रीणयति' इत्यर्थकहरये रोचते भक्तिरित्यादौ च पुष्पहर्यादौ नातिप्रसङ्गः, तद्योगे धात्वर्थफलाश्रयस्य सम्प्रदानपदार्थत्वात् ।

ननु तमब्ग्रहणे सति यत्र प्रीतीयोग्युपादानं पयसौदनं भुङ्क्ते इत्यादौ तत्रैव स्यात्, न तु 'ग्रामं गच्छति', 'आदित्यं पश्यति' इत्यादौ । न च तत्रापि क्रियापेक्षयोत्कृष्टतवमस्त्येव, सा हि फलार्थमिष्यमाणत्वादीप्सिता भवति, पश्यत्यादावपि प्राकट्यरूपं फलमस्त्येवेति वाच्यम्, तुल्यजातीस्यैव प्रतियोगित्वात् । कारकतुल्यजातीयं हि कारकम्, न क्रिया । न च क्रियाया अपि संदर्शनप्रार्थनाद्यपेक्षया कर्मत्वमस्त्येवेति वाच्यम्, सर्वत्र तद्भाने मानाभावात् ।

किञ्चैवं क्रियाया अपीप्सिततमत्वेन तदपेक्षया प्रकर्षानुपपत्तेरिति चेत्, अत्राहुः, 'ललाटचकुक्कुट्यौ पश्यति, येनादर्शनमिच्छति' इत्यादिनिर्देशैः प्रतियोग्यनुपादानेऽपि कर्मसंज्ञाज्ञापनादिति ।

तत्र द्वितीयायाः कर्मणि शक्तिग्राहकं सूत्रम् "कर्मणि द्वितीया" इति । अत्र कर्मपदेनैतच्छास्त्रविहितकर्मसंज्ञकमात्रं गृह्यते, अविशेषात् । अत्र "कर्तुरोप्सिततमम्" इति सूत्रबोधितकर्मविहितद्वितीयाया आश्रयोऽर्थः, फलस्य धातुनैव 1[fn 'अनन्यलभ्योहि शब्दार्थः' इत्याप्तवचनादिति शेषः । ] लाभात्, इष्टतमत्वस्यापि मुख्योद्देश्यतारूपस्य ततोऽभानात्, वाक्यार्थविधया लाभाच्च । तत्र प्रकृत्यर्थोऽभेदेन विशेषणम् विषेष्यञ्चाधेयतया फलम् । एवञ्च 'हरिं भडति' -- इत्यादौ हर्याभिन्नाश्रयवृत्तिप्रीतिजनको व्यापार इति बोधः । प्रीतिजनक्वयापारो हि भज्‌धात्वर्थः ।

न च 2[fn तत्र हि आकृतावेव शक्तिरभ्युपगन्तव्या, लाधवात् । व्यक्तौ शक्तिस्वीकारे शक्यतावच्छदके गौरवमापद्येतेति सिद्धान्तितम् । ] आकृत्यधिकरणन्यायेनाश्रयत्वमेवार्थ इति वाच्यम्, तावताऽपि धर्मिबोधस्य तत आवश्यकत्वेन बोधकतारूपायाः शक्तेस्तत्र दुर्वारत्वात् । अन्यथा विभक्तितो धर्ममात्रबोधापत्तौ 'गां वाहय' इत्यादौ वाहाद्यनन्वयापत्तिः । बोधकतैव चास्माकं शक्तिरिति प्रपञ्चितम् । पञ्चम्याद्यर्थकसमासानां धर्मिपरताया निर्णीतत्वेन तथैव न्याय्यत्वाच्च । "कर्मणि" इत्यादिसूत्रस्वरसाच्च । कर्मेतयादिकृदन्तमहासंज्ञाकरणेन तदर्थस्येव विभक्त्यर्थस्यापि इतरत्राभेदेनैवान्वये विभक्तीनां साधुत्वबोधनाच्च । अत एव तिङ्सुपोः समानार्थत्वप्रतिपादकभाष्यादिग्रन्थाः सङ्गच्छन्ते । तिङ्श्च धर्मिण्येव शक्तिरिति निरूपितमाख्यातवादे ।

आश्रयत्वञ्चाखण्डोपाधिरिति न शक्यतावच्छेदकगौरवम् । गुरुण्यपि अवच्छेदकत्वस्य निरूपितत्वाच्च ।

न चाश्रयता निरूपकभेदेन सम्बन्धिभेदेन च भिन्ना । अन्यथा घटाश्रयतादिग्रहापत्तिरिति शक्त्याऽनन्त्यमिति वाच्यम्, पटग्रह इष्टापत्तेः । तदग्रहे च न दोषशङ्का । इयमेव च समवायस्यैकत्ववादिनां शुक्लादिगुणानामेकत्ववादिनां च गतिः ।

अस्तु वा आश्रयत्वं नाना, तथापि तदादौ बुद्धिविषयतावच्छेदकत्वबादाकाशपदशक्तौ शब्दत्वच्चाश्रयतात्वस्य शक्यतावच्छेदकतावच्छेदकस्यैवैकत्वान्न शक्त्यानन्त्यम् ।

?0यत्तु?0 आश्रयस्य शक्यत्वे आधेयत्वस्य संसर्गतवमुपेयम् । तथा च 'तण्डुलः पचति' इत्यतोऽपि बोधापत्तिः । न च द्वितीयासमभिव्याहारस्तादृशबोधे कारणम्, प्रथमायाः कर्मत्वे शक्तिग्रहदशायाम् 'तण्डुलः पचति' इत्यतोऽपि तथाबोधेन व्यभिचारादिति । तत्, न ; कर्मत्वस्य शक्यत्वेऽपि ततो बोधापत्तेर्दुर्वारत्वात् ।

न च कर्मत्वबोधकपदप्राग्वर्तिपदजन्यज्ञानत्वेन हेतुत्वमेवमाधेयतासंसर्गकघटफ्रकारकशाब्दोबधे घटबोधकपदोत्तरपदजन्यज्ञानत्वेन हेतुत्वम्, अतो नोक्तातिप्रसङ्गः, नापि घटः कर्मत्वमित्यतो विपरीतव्युत्पन्नस्य तथाबोधे व्यभिचार इति वाच्यम्, कर्मत्वं घटः, अम् घटः इत्येतादृशसमभिव्याहारव्युत्पन्नानां ततस्तथाबोधे व्यभिचारतादवस्थ्थात्, घटः कर्मत्वमित्यतोविपरीत1[fn स्वस्वशास्त्राब्यासजनितसंस्कारविशेषो व्युत्पत्तिः । यथा व्यारणशास्त्राभ्यासवतां सुबन्तादीनामेव पदत्वम्, न तु शक्तत्वसयापि । तार्किकाणां तु त्सायपीति भावः । ] व्युत्पत्तिरहितस्यापि तथाबोधापत्तेश्च । यदि तत्तत्समभिव्याहारजन्यतथाबोधे तत्तत्समभिन्याहारजनकत्वग्रहोऽपि हेतुरिति ब्रूषे, तर्ह्यस्माकमपन क्षतिः ।

एतावान् विशेषः -- परेषां कर्मत्वबोधकपदघटितानुपूर्वीत्वेन प्रवेशः, असमाकं तु कर्मबोधकपदत्वेनेति । न च त्वन्मते आश्रयवाचकपदप्रवेषः, तस्य तच्छक्यत्वात् । तथा च 'देवदत्तेन पच्यते' इत्यातोऽपि कर्मत्वबोधापततिरिति वाच्यम्, कर्मकारणादौ शक्यतावच्छेदकाश्रयत्वस्य तत्तच्छक्तिरपस्य भिन्नताम्युपगमेनादोषात् । अन्यता द्वितीयादेः पर्यायतापत्तेः । अस्तु वा, फलाश्रयत्वरूपकर्मत्वेन कार्यकारणभावे प्रवेशः, अशक्यस्यापि फलस्य तन्निष्ठतामात्रेणेतरवयावर्तकत्वसंवात् प्रवेश इतिन दोषः ।

?0यदपि?0, कर्मत्वत्वादिना बोधानुभवात् तत्तद्‌रूपेण शक्यतेति तदपि न, तथाबोधस्य तादृशव्युत्पत्त्यधीनत्वेनाप्रमाणत्वात्, सर्वेषां तथाननुभवाच्च । न चाश्रयोऽपि न शक्यः, अन्यलभ्यत्वादिति वाच्यम्, हरित्वादिना लाभेऽपि आश्रयत्वादिना अलाभात् ।

एतेन प्रातिपदिकस्यापि तदर्थकत्वात् प्रातिपदिकार्थविहितप्रथमया सह विकल्पापत्तिरिति निरस्तम्, आश्रयत्वेन तदर्थत्वाभावात् । अनयैव दिशा सर्वासां कारकविभक्तीनां धर्मिबोधकत्वं द्रष्टव्यम् ।

ननु 'आश्रयत्वेनालाभः' इत्यस्य आश्रयत्वं न लब्धमित्येवार्थः, तथा च तत्रेव शक्तिरुचिता । "कर्मणि द्वितीया" इत्याद्यनुशासनं तु शक्तितद्वसतादात्म्यमभ्युपेत्य । अन्यथा "द्वयेकयोः" इत्याद्यनुरोधाद् एकवचनादेः संख्याविशिष्टाश्रयवाचकतापत्तिः । तिङ्कृदादेस्तु 'कृतः कटः, देवदत्तः पचतिकल्पम्' इत्यादौ सामानाधिकरण्यान्वयानुरोधात् "युष्मद्युपपदे" इत्याद्यनुरोधाच्च धर्मिवाचकत्वं तल्लक्षकत्वं वेति निरूपितमाख्यातवादे । "अनभिहिते" इत्यस्य च तत्तच्छक्त्यनभिधाने इत्यर्थः । आख्यातेऽप्यवच्छेदकतया शक्तिसत्त्वान्न दोषः । तस्य निरूपकतासम्बन्धेन धात्वर्थे फलेऽन्वयः ।

?0यद्वा?0, प्रत्ययार्थत्वेऽपि रमेत्यादाविव प्रकृत्यर्थविशेषणत्वम् । अत एव तदर्थबहुव्रीह्यादीनां धर्मिपरत्वम् । विभक्तिप्रकृतिमात्रार्थत्वेन वा तेषां तत्त्वम् । अत एव षष्ठ्यर्थबहुव्रीहेरपि परमते धर्मिबोधकता संगच्छते ।

न च तस्य शक्यत्वे तत्त्वस्य शक्यतावच्छेदकत्वमिति गौरवम्, उक्तोत्तरत्वात् । तादाम्येन तस्येवावच्छेदकत्वाच्च, आश्रयतानां नानात्वे त्वाश्रयत्वत्वमेवाखण्डोपाधिरूपमिति गौरवाभावाच्च ।

न चात्र मते आश्रयत्वत्वस्यापि शक्यत्वं स्यादिति वाच्यम्, अशक्यत्वेऽपि तदवच्छेदकत्वसंभवात्, अलक्ष्यादेर्लक्ष्यतावच्छेदकत्वादिवदिति चेत्, सत्यम् । अत एव 'शक्तिरेव वा' इति पक्षान्तरमुक्तं हरिणा ।

सा चेयं द्वितीयाकृदादिभिरनुक्ते एव कर्मणि,"अनभिहिते" इति सूत्रात् । तेन 'कृतः कटः' इत्यादौ न द्वितीया, 'अनभिहिते' इति कर्मणीत्यादीनामेव विशेषणम्, संनिहितत्वात् । एतेन कर्मत्वादेः कृदादिभिरुक्तत्वेऽपि एकत्वादिसंख्यायामनुक्तत्वाद् द्वितीया स्यादेव । यथैकादिशब्देभ्यः संख्योक्तावपि कर्मत्वादिबोधनाय सा क्रियत इति निरस्तम् । संख्याबोधस्य प्रथमयापि संभवाच्चेति विस्तरः शब्देन्दुशेखरे द्रष्टव्यः ।

अपरञ्च कर्मत्वबोधकं सूत्रम् -- "तथायुक्तं चानीप्सितम्" इति । तत्रानीप्सितत्वमनुद्देश्यत्वम् । 'पराधीनतया विषं मुङ्क्ते' इत्याद्युदाहरणम् । अनुद्देश्त्वञ्च प्रत्यासत्त्या यद्धात्वर्थफलाश्रयत्वेन कर्मत्वे तद्धात्र्थकर्तुरेव बोध्यम् । तथायुक्तञ्च प्रकृतधात्वर्थफलाश्रयत्वम् । तेन 'वेषेणौदनं भुङ्क्ते, प्रयागात् काशीं गच्छति देवदत्तः' इत्यादौ विषप्रयागादेर्न कर्मत्वम् ।

अत्र च विषयस्य स्वव्यापारजन्यत्वसम्बन्धेन व्यापारे एवान्वयविवक्षेति न फलाश्रयत्वम् ।

एवञ्च सर्वथानुद्देश्यत्वे सति धात्वर्थफलाश्रय इत्येतत्सूत्रनिष्कर्षः ।
'पयसौदुनं भुङ्क्ते' इत्यादौ पयसि कर्मत्ववारणाय सत्यन्तम् । अत एवात्र सूत्रे अनीप्सितग्रहणं चरितार्थम् । अन्यथा तक्रकौण्डिन्यन्यायेनानीप्सित एवैतत्प्रवृत्तिः सिद्धा, किं तेन । अन्यथाऽमुख्योद्देदेश्येऽपि स्यादिति तद्‌व्यावृत्त्यर्थं तत् ।

अपरञ्च तद्बोधकं सूत्रम् -- "अकथितञ्च" [ 1।4।51 ] इति । अत्र पूर्वसूत्रात् 'युक्तम्' इत्यनुवर्तते । तत्र केनेत्याकाङ्क्षायम् उपस्थितकर्मण्येवान्वयः । तेनायमर्थः -- अपादानसम्प्रदानाधिकरणकर्मरूपैरविवक्षितं सम्बन्धत्वेन च विवक्षतं कर्मनिष्ठधात्वर्थस्य निमित्ततया सम्बन्धि तत्कर्मेति । अत एव करणहेत्वोरनुपादानम्, कर्मयुक्तत्वाभावात् । इदं च ---

दुह्याच्‌पच्‌दण्डरुधिप्रच्छिचिव्रूशासुजिमथ्‌मुषाम् ।
कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्‌वहामिति ।

इति परिगणितधातुयोग एव प्रवर्तते । कर्मंयुक् कर्मनिष्ठप्रकृतधात्वर्थस्य निमित्ततया सम्बन्धीत्यर्थः ।

एवञ्चैतदन्यतमधात्वर्थप्रधानव्यापारजन्यैतदन्यतमधात्वर्थव्यापारे सम्बन्धितयान्वयित्वमेतदन्यतमगौमकर्मत्वम् -- इत्येतत्सूत्रनिष्कर्षः । गौणत्वञ्चास्य 'गौणे कर्मणि दुह्यादेः' इत्यादिव्यवहाराज्ज्ञायते । एवञ्चैतत्कर्मविहितद्वितीयायाः सम्बन्धोऽर्थः ।

अस्योदारहरणम् -- 'गां दोग्धि पयः' इति । अत्र दुहेरन्तस्थितद्रवद्रव्यविभागानुकूलव्यापारानुकूलव्यापारोर्थः । तत्र विभागानुकूलो व्यापारो गोनिष्ठः, कर्तृव्यापारगोव्यापारोभयप्रयोज्यफलाश्रयत्वात् पयसः प्राधान्यम्, गोस्तु तद्वैपरीत्याद् गोणत्वम् । तत्र यद्यपि "तथायुक्तम्" इति, "कर्तुरीप्सिततमम्" इति वा कर्मत्वं सिध्यति, तथापि शेषत्वविवक्षायां षष्ठीबाधनार्थमिदम् । पयोनिष्ठविभागीयसम्बन्धस्यैव फलतावच्छेदकत्वाद् न गोरविभागाश्रयत्वेन कर्मत्वम् ।

एवञ्च गोसम्बन्धी पयोनिष्ठविभागानुकूल व्यापारः, तदनुकूलो गोपनिष्ठो व्यापारा इति बोधः ।

यदा तु द्रवद्रव्यनिष्ठविभागानुकूल व्यापार एव धात्वर्थःष तदापादानत्वविवक्षायां गोरिति पञ्चम्येव । तदविवक्षायां त्वनेन कर्मत्वमेव । स्पष्टञ्चेदं कैयटे । अपादानत्वाद्यविवक्षा चेयम् -- यद्धातोर्व्यापारद्वयार्थत्वविवक्षा, तदर्थविभागाद्यवधित्वाविवक्षा चेति बोध्यम् ।

'बलिं याचते वसुधाम्' [इत्यत्र] याच्‌धातोः स्वत्वनिवृत्तिजनकव्यापारानुकूलव्यापारोऽर्थः । तत्रद्यो व्यापारो बलिनिष्ठः, तदनुकूलो दीयतामित्याद्यभिलाषादिरूपो याचकनिष्ठः । तथा च बलिसम्बन्धी बसुधानिष्ठस्वत्वनिवृत्तिजनको यो व्यापार, तदनुकूलो याचकनिष्ठो व्यापारः इति बोधः । स्वत्वनिवृत्त्यनुकूलव्यापारमात्रार्थत्वे स्वत्ववद् द्रव्यीयविभागाश्रयत्वविक्षायामपादानत्वं बलेरित्येके ।

याचिकर्मणाभिप्रेयमाणत्वत् सम्प्रदानत्वमित्यन्ये ।

?0यत्तु?0, याचनं स्वोद्‌देश्यकदानेच्छेति । तत्, न ; 'पुत्रार्थं कन्यां याचते' इत्यनापत्तेः । पुत्रोद्‌देश्यकं त्वत्र दानम् । स्वसम्प्रदानेच्छावति फललाभशङ्कया देहीति प्रयोगाद्यभाववत्यपि 'देवदत्तो याचते' इति प्रयोगापत्तेश्चेति दिक् ।

'अविनीतं विनयं याचते' अत्र स्वीकारानुकूलव्यापारानुकूलव्यापारो याचेरर्थः । स्वीकारश्च 'इदमवश्यं करिष्यामि' इत्यादिशब्दप्रयोगादिजनको ज्ञानविशेषः । तदीयफलतावच्छेदकसम्बन्धो विषयता । एवञ्च विनयः प्रधानम्, स्वीकारानुकूलव्यापारमात्रार्थकत्वेऽविनीतस्य सम्प्रदानत्वम् । अयमेव चानुनय इत्याहुः ।

एवञ्च चावितीतसम्बन्धी विनयविषयकस्वीकारानुकूलव्यापारानुकलो व्यापारो देवदत्तनिष्ठ इति बोधः ।

'तणडुलानोदनं पचति' [अत्र] उत्पत्तिजनकविक्लित्यनुकूलव्यापारः पचेरर्थः । तत्रौदनतण्डुलयोरुत्पत्तौ
विक्लित्तौ चाश्रयतयान्वयः । उभयव्यापारोद्‌धेश्यत्वादोदनः प्रधानम्, ओदननिष्ठोत्पत्तिजनिका या तण्डुलादिसम्बन्धिनी वक्लित्तिः, तज्जनको व्यापार इति बोधः ।

यदा तु विक्लित्तिजन्योत्पत्त्यनुकूलो व्यापारोऽर्थः, तदा तण्डुलानामोदनं पचतीति । तण्डुलविकारमोदनं विक्लित्योत्पादयतीत्यर्थः । विक्लित्यनुकूलव्यापारमात्रवाचित्तवे तण्डुलानामेव कर्मत्वमिति दिक् ।

'गर्गान् शतं दण्डयति' [अत्र] स्वम्प्रदानकदानानुकूलव्यापारारनुकूलवायापारः शासनरूपो दण्डेरर्थः । शसनं नियन्त्रणम्, शतं प्रधानम्, उद्देश्यत्वात् । दानानुकूलव्यापारमात्रार्थकत्वे विभागाश्रयत्वाविवक्षायां गर्गाणामपादानत्वम्, तदविवक्षायां सम्प्रदानत्वम् ।

'व्रजमवरुणद्धि गाम' [अत्र] उत्तरकालिकदेशान्तरगतिप्रतिबन्धानुकूलानुयोगितासम्बन्धावच्छिनोत्तरदेशसंयोगानुकूलो व्यापारो रुधेरर्थः । अनुयोगितासम्बन्धावच्छिन्नः स व्रजनिष्ठः । गौः प्रधानम्, उद्देश्यत्वात् । प्रतियोगितासम्बन्धावच्छिन्नोत्तरदेशसंयोगार्थत्वे कर्मद्वारा क्रियाश्रयत्वविवक्षायामधिकरणत्वम् ।

'माणवकं पन्थानं पृच्छति' प्रश्नविषयार्थज्ञापनानुकूलव्यापारः पृच्छेरर्थः । स च व्यापारः केन पथा गन्तव्यमित्याद्यभिलाषादिरूपः । ज्ञापनाश्रयत्वाद् माणवकस्य ज्ञानविषयत्वाच्च पथस्तत्त्वं बोध्यम् । ज्ञानानुकूव्यापारमात्रार्थत्वे माणवकस्य सम्प्रदानत्वम् ।

'वृक्षमवचिनोति फलानि' विभागानुकूलव्यापारानुकूलो ग्रहणोपसर्जनव्यापारश्चिञोऽर्थः । विभागानुकूल्वायपारार्थत्वे वृक्षस्यापादानत्वम् ।

'माणवकं धर्मं ब्रूते, शास्ति वा' -- प्रतिपत्तिजनक्वयापारानुकूलव्यापारो ब्रूञः, प्रवृत्तिपर्यवसायिप्रवृत्तिजनकः स शासेः । यदा तु विषयतया ज्ञानानुकूलव्यापारोर्थः, तदा सम्प्रदानत्वं माणवकस्य ।

'शतं जयति देवदत्तम्' -- दानानुकूलः पराभवाख्यो व्यापारो जयतेरर्थः । स्वत्वोत्पत्त्यनुकूलव्यापारमात्रार्थकत्वेऽपादानत्वं सम्प्रदानत्वं वा ।

'सुधां श्रीरनिधिं मथ्यानि' --- द्रवद्रव्यगतसारभागोत्थानानुकूलव्यापारफकलव्यापारो मन्थेरर्थः । उत्थानमूद्धर्वदेशे संयोगः । उत्थानानुकूव्यापारमात्रार्थकत्वे कर्मद्वारा क्रियाश्रयत्वविवक्षणेऽधिकरणत्वम्, विभागाश्रयत्वविवक्षणेऽपादानत्वं वा ।

'देवदत्तं शतं मुष्णाति' -- पराज्ञानतद्‌द्रव्यागहणोभयानुकूलो व्यापारो मुषेरर्थः । यदा तु ग्रहणानुकूव्यापार एवार्थः, तदा देवदत्तस्यापादानत्वाम् ।

'अजां ग्रामं नयति, हरति, कर्षति, वहति वा' -- उत्तरदेशसंयोगानुकूलव्यापारनुकूलो व्यापारो नयतेरर्थः । स एव स्कन्धग्रहणादिपूर्वो वहेः, गत्यनुकूलो व्यापारविशेषः कृषेः, बलाद्‌ग्रहणपूर्वकं देशान्तरप्रापणं हरतेः । अजानयनस्योद्‌देश्यत्वाद् अजा प्रधानम् । गमनमात्राथकत्वे ग्रामस्याधिकरणत्वं बोध्यम् । यदा तु ग्रामीयाऽजासंयोग एवोद्‌देश्यः, तदा ग्राम एव प्रधानम् । एतेन 'तप्ते पयसि दध्यानयति, सा वैश्वदेव्यामिक्षा' इत्यत्र तच्छब्देन प्राधान्यात् पयसः परामर्श इति मीमांसकग्रन्था व्याख्याताः । पयः स्थाने
दध्यागमनेनार्थप्राधान्यमादाय वा तेषामुपपत्तिः अत एव सप्तम्युपादानं सार्थकमिति दिक् ।

अपरञ्च 'अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसञ्ज्ञक इति वाच्यम्' इति । देशः कुरुपञ्चालादिः, अकर्मकशब्देन देशकालादिभिन्नकरमरहिता अविवक्षितकर्माणश्च । तेन 'मासं पचति' इत्यपि गन्तव्योऽध्वा क्रोशादिः, भावो भावाद्यर्थविहिकघञजाद्यन्तः । 'कुरून् स्वपिति, मासमास्ते, क्रोशं शेते, गोदोहमास्ते ।' शेषत्वविवक्षायामेतत्प्रवृत्तेर्द्वितीयार्थः सम्बन्धः । अधिकरणत्वविवक्षायां सप्तम्येव । एतद्धात्वर्थसम्बन्दित्वेन विवक्षिताधारत्वञ्चैतत्कर्मत्वलक्षणं बोध्यम् ।

"गतिबुद्धिप्रतयवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ" [ 1।4।52 ] इति सूत्रबोधितकर्मत्वं तु णिजर्थव्यापारजन्यतत्तद्धात्वर्थव्यापाराश्रयत्वम् । तत्तद्धातुभेदेन कर्मत्वलक्षणानां भिन्नत्वान्न लक्षणातिव्याप्त्यादिकम् । ण्यन्तहृकृघटितकर्मत्वलक्षणे तृतीयान्तपदानभिधेयत्वे सतीति विशेषणं देयम् । 'तेन देवदत्तेन हारयति कटम्' इत्यादौ नातिव्याप्तिः, ण्यन्ताभिवादिदृशोस्तु तत्त्वे सति आत्मनेपदप्रत्ययान्ततद्धातूपात्तफलाश्रयत्वं कर्मत्वम् । वैकुण्ठमधिशेते,अधितिष्ठति, अध्यास्ते, उपवसति, अनुवसति, अधिवसति, आवसति, वेत्यादावाधारो द्वितीयार्थः । एतद् धातुयोगेऽधिकरणत्वमेव कर्मत्वम्, 'आधार' इत्यनुवर्त्तमाने "अधिशीङ्स्थासां कर्म" [ 1।4।46], "उपान्वध्याङ्वसः" [ 1।4।48 ], इति सूत्रस्वरसात् । उपवसतेश्चाभुक्त्यर्थकातिरिक्तोपवत्याधारत्वं बोध्यम् । तेन 'वने उपवसति' इत्यादौ नातिव्याप्तिः । अभिनिविशतिकर्मत्वञ्च सप्तम्यन्तपदानभिधेयतद्‌धात्वर्थधारत्वं बोध्यम् । 'क्रूरमभिक्रुध्यति, अभिदुह्यति' इत्यादौ विषयतासम्बन्धित्वं बोध्यम् ।

अत्र च बोधः 'हरये क्रुध्यति' इत्यादौ वक्ष्यमाणरीत्या बोध्यः । क्रीडार्थकदिव्‌धातुयोगे 'शतं दीव्यति' इत्यादौ तृतीयान्तपदानुपस्थाप्यतद्धात्वर्थसाधकतमत्वमेव तत्कर्मत्वं बोध्यम् । सकलसाधारणकर्मत्वं च सङ्केतविशेषसम्बन्धेन कर्मशब्दवत्त्वमेव बोध्यम् । धातूनां सकर्मकत्वमपि एतच्छास्त्रबोधितकर्मसंज्ञकार्थान्वय्यर्थकत्वं बोध्यम् ।

यत्तु, व्यापारव्यधिकरणफलवाचकत्वं सकर्मकत्वम्, तत्समानाधिकरणफलवाचकत्वकर्मत्वमिति । तत् न; 'अध्यास्ते' इत्यादेः सकर्मकत्वानापत्तेः, अकर्मकत्वापत्तेश्च । न चेष्टापत्तिः, "अन्तः कञ्चुकिभिर्लसन्मणिधरैरध्यासिता भूमयः" इत्यादौ 'दीव्यन्ते अक्षाः' इत्यादौ च कर्मणि प्रत्ययापत्तेः, भावे तदापत्तेश्च । अकर्मकतवञ्च च कर्मसंज्ञकार्थनिन्वय्यर्थकत्वमिति दिक् ।

1[fn नैयायिकमतं दूषयितुमिपन्यस्यति -- 'यत्तु' इत्यादिना ।
अयम्भावः -- 'चैत्रश्चैत्रं गच्छति' इति दोषवारणाय 'परमवेतत्वम्' इति क्रियाविशेषणमुपाददते नैयायिकाः द्वितीयाप्रकृतित्वेन विवक्षितार्थभिन्नसमवेत्वयापारजन्यं यत् फलम्, तादृशफलाश्रयस्यैव कर्मत्वमिति तेषां तात्पर्यम् ।
प्रकृते च द्वितीयाप्रकृतित्वन विवक्षितचैत्रार्थप्रतियोगिकभेदस्य चैत्रेऽसत्त्वात् तत्समवेतव्यापारजन्यसंयोगरूपफलाश्रयस्य न कर्मत्वम् । ग्रामप्रतियोगिकभेदवच्चैत्रसमवेतव्यापारजन्यफलाश्रयत्वाद् ग्रामस्य कर्मत्वं सिद्धयति । ]यत्तु, परसमवेतक्रियाजन्यधात्वर्थतावच्छेदकफलाश्रयत्वं कर्मत्वम् । परमवेतेति विशेषणात् 'चैत्रश्चैत्रं गच्छति' इति न प्रयोगः ।

इयान् विशेषः --- द्वितीयया स्वप्रकृत्यर्थापेक्षया परत्वम् । आख्यातेन स्वार्थसंख्यान्वय्य पेक्षया तद् बोध्यते । तच्च धात्वर्थक्रियायामन्वेति । गमिपत्योः पूर्वस्मिन् देशे त्यजेः, उत्तरदेशे स्पन्देश्च पूरवापरयोः कर्मत्ववारणाय
धात्वर्थतावच्छेदकेति । एवञ्च गमेः संयोगः, पतेरधःसंयोगः, त्यजेर्विभागस्तथेति । स्पन्देश्च न किञ्चत् फलं तथेति न दोषः । नापि त्यागो गमनमित्यनयोः पर्यातापत्तिः ।

तत्र क्रियायाः फलस्य धातुनैव लाभाद् आधेयत्वम्, भेदश्च द्वितीयार्थः । फलस्य पदार्थोकदेशत्वेऽपि तत्र द्वितीयार्थान्वयो व्युत्पत्तिवैचित्र्यात् ।

यद्वा, फलं पृथगेव धातुशक्यम् । धात्वर्थतावच्छेदकत्वञ्च धात्वर्थविशेष्यकजनकत्वसंसर्गकबोधप्रकारत्वम् । धात्वर्थप्रकारकजन्यत्वसंसर्गकबोधविशेष्यत्वान्यतरत्वम् । अत एव कर्माख्याते फलस्य विशेष्यत्वेऽपि न क्षतिः । तत्र 'ग्रामं गच्छति' इत्यादौ धात्वर्थतावच्छेदके संयोगे वृत्तित्वं भेदश्च सामानाधिकरण्येन व्यापारे भेदे च प्रतियोगितया प्रकृर्थोऽन्वेति । तथा च ग्रामवृत्तिसंयोगजनकग्रामभेद समानाधिकरणक्रियानुकूलकृतिमानितिबोधः ।

एवं कर्माख्यातेऽपि भेद आधेयत्वं चाख्यातार्थः । तत्र फलांशे आधेयत्वम्, क्रियायाञ्च यथोक्तसम्बन्धेन भेदः, भेदे च फला(यः प्रतियोगितयेत्यूह्यम् ।

ननु भेदे कर्मणः किं प्रतियोगितासामान्येनान्वयोऽन्वयितावच्चेदकावच्छिन्नप्रतियोगितया वा । नाद्यः, 'चैत्रश्चैत्रं गच्छति' इत्यापत्तेः । द्वित्वाद्यवच्छिन्नप्रतियोगिताकचैत्रभेदस्य चैत्रेऽपि सत्त्वात् । नान्त्यः, 'देवदत्तो द्रव्यं गच्छति इत्यादेरनापत्तेरिति चेत्, न ; फलान्वयिव्यक्तिविशेषावच्छिन्नं प्रतियोगितया तदन्वयेनादोषात् । ' 'ग्रामं गमयति यज्ञदत्तम्' इत्यादौ शुद्धगम्‌धात्वर्थव्यापारस्य ण्यन्तधात्वर्थव्यापारं प्रति फलत्वम्, प्रागुक्तमवच्छेदकत्वं चास्त्यवेति प्रयोज्यकर्त्तुः कर्मत्वं बोध्यम् ।

पाचयत्यादियोगे तु गत्यादिसूत्रस्य नियमर्थत्वान्न दोषः । क्रियाभेदेन कर्मत्वस्य भेदात् णिजन्तं पाचयत्यादिभिन्नक्रियाघटितमेव लक्षणं कार्यमिति तत्त्वम् ।

न च परसमवेतत्वविशेषणदाने चैत्रमैत्रोभयकमंसंयोगस्थले कर्मणः स्वान्यमैत्रसमवेतत्वाच्चैत्रस्य च तज्जन्यसंयोगादिरूपफलशालित्वाच्चैत्रे कर्मलक्षणातिव्याप्तिः । 'तैत्रः स्वात्मानं गच्छति' इति प्रयोगापत्तिश्चेति वाच्यम्, क्रियाभेदेन लक्षणभेदात् । यस्य परसमवेतयत्क्रियाजन्ययादृशफलाशालित्वम्, तत्तत्क्रियाकर्मेति, चैत्रस्य च सवक्रियायाः परसमवेतत्वाभावात् तामादाय नातिप्रसङ्गः । मैत्रक्रियामादाय तत्त्वं त्विष्टमेव, तत्रैव 'मैत्रश्चैत्रं गच्छति' इति प्रयोगात् । एतेन प्रयोगप्रसङ्गोऽपि वारितः । चैत्रनिष्ठसंयोगजनकचैत्रान्यवृत्तिक्रियाश्रय इति शाब्दबोधासम्भवात् । स्वनिष्ठक्रियायाः परसमवेतत्वबाधात् परमवेतक्रियायाश्च स्वस्मिन्नसत्त्वात् । 'घटं करोति' इत्यादौ 'बह्मिमनुमिनोमि, जानामि' इत्यादिवद् विषयतायां लक्षणा ।

एवञ्च नामार्थान्वितोद्‌दोश्यत्वातिरिक्तविषयत्वरूपविभक्त्यर्थान्वय्यर्थकत्वं गौणसकर्मकत्वं जानातोत्यादीनाम् । अत एवाभुञ्जानेऽपि 'भोजनाय यतते' इति प्रयोगाद्यतधात्वर्थे नामार्थान्वितस्य चतुर्थ्यर्थ्योद्‌देश्यत्वस्यैवान्वयान्न यतेः सकर्मकत्वम्, न वा 'भोजनं यतते' इति प्रयोगः ।

?0यत्तु?0, घटपदं कपालपरम्, तस्य घटरूपफशालित्वात् कर्मत्वम्, कपालस्य सिद्धत्वेऽपि घटत्वेन कृतिविषयता बोध्येति । तत्, न ; घटस्य धात्वर्थतानवच्छेदकत्वात् कपालं घटं करोतीति प्रयोगानापत्तेश्च । ज्ञाततारूपफलाश्रत्वेन कर्मत्वमिति तु न युक्तम्, नष्टे घटे तं जानातीत्यनापत्तेः । ज्ञातता विषयत्वापरपर्यायैवेति चेत्, इष्टापत्तेरित्याहुः ।

अत्रेदं प्रष्टव्यम् -- किं भेदे शक्तिः, चैत्रश्चैत्रं गच्छतीत्यादितो बोधवारणाय कल्पते, उत साधुत्ववारणाय ? नाद्यः -- तस्य शक्यत्वेऽपि तस्यान्यत्रान्वयवारणाय तत्प्रकारकबोधे धातुजन्यव्यापारोपस्थितिर्हेतुरिति कार्यकारणभावान्तरस्यावश्यकतया तदपक्षया तत्र शक्तिमकल्पयित्वा द्वितीयार्थाभिधेयत्वान्वितफलप्रकारकबोधं इति द्वितीयान्तार्थान्यवृत्तिव्यापारोपस्थिर्हेतुत्वमेवोच्यताम्, फलान्वयानुरोधेन तवाप्यावश्यके कार्यकारणाभावे तज्जनकतावच्छेदककोटौ द्वितीयान्तार्थान्यवृत्तित्वमात्रप्रवेशेन न कॢञ्चिन्मे गौरवम् । तव तु भेदे शक्तेस्तदन्वये हेतुहेतुमद्‌भावान्तरस्य च कल्पनेन गौरवं स्पष्टमेव ।

न च'तैत्रमैत्रो परस्परं गच्छतः' इत्यत्र व्यापारस्य द्वितीयान्तार्थवृत्तित्वाद् व्यभिचारः, द्वितीयान्तार्थवृत्त्यन्योन्याभावफ्रतियोगितावच्छेदक्वयापारोपस्थितेर्विवक्षितत्वात् ।

न च भेदे शक्तिग्रहशून्यस्य चैत्रश्चैत्रमित्यतो बोधान्न तथा कार्यकारणभाव इति वाच्यम्, तत्कारणत्वग्रहस्यापि बोधे कारणत्वादक्षतेः । अत एव विपरीतव्युत्पन्नस्य घटः कर्मत्वमित्तो बोधः, 'घटमानय' इत्यतश्चाबोधः ।

किञ्चैवं भेदस्य शक्यत्वमेव न सिध्येत्, चैत्रश्चैत्रमित्यतो विपरीतव्युत्पन्न प्रति बोधस्योष्टत्वात्, परसमवेतत्वशक्तिग्रहवतोऽनन्वयादेव बोधाभावात् । नहि पटपदस्य घटे शक्तिग्रहवतो घटबोधात् पटपदं पटशक्तं भवति ।

नान्त्यः, कर्तृसंज्ञया बाधेन तदसम्भवात् ।

किञ्च, त्वदुक्तकर्मत्वस्य द्वितीयाद्युत्पत्तौ तत् साधुत्वे वा न प्रयोजकत्वम्, 'घटं जानाति' इत्यादौ सविषयकधातुयोगे दवितीयानुत्पत्तिप्रसङ्गात् ।

न च सविषयान्यस्मिन्नेतत्, तत्र तु विषयतयान्वय एव तथेति वाच्यम्, 'कृष्णाय रोचते', 'देवदत्ताय क्रुध्यति', 'पुष्पेभ्यः स्पृहयति' इत्यादावतिप्रसङ्गापत्तेः । 'देवदत्तमभिक्रुध्यति' इत्यादौ 'वैकुण्ठमधितिष्ठति' इत्यादौ चाव्याप्तेश्च ।

अथ सञ्ज्ञैव तन्नियामिका, तर्हि भेदस्य वाच्यत्वकथनं निष्फलम् ।

किञ्च, 'घटं जानाति' इत्यादौ विषयत्वे लक्षणेत्यप्युक्तम्, स्वेच्छामात्रेण तस्या अनुचितत्वात् ।

किञ्च, द्वितीया कर्मण्येव साधुः, कर्मणि द्वितीयैव च साधुरिति क्रमेण नियमानां भाष्यादावुक्तत्वेनान्यत्र लक्षणायाप्यसाधुत्वबोधनात् । अत एव 'सुब्‌विभक्तौ न लक्षणा' इति त्वदीयवद्धानां व्यवहारः । कर्मसूत्रे तु 'कृत्रिमाकृत्रिमन्यायेन' स्वशास्त्रपरिभाषितकर्मग्रहणस्यैव न्याय्यात्वेन विषयताया अग्रहणात् ।

किञ्च, त्वदुक्तलक्षणस्य फले व्याप्तिः । तथा च स्तोकं पचतीति न स्यात् । न च 'क्रियाविशेषणानां द्वितीयान्तत्वं नपुंसकत्वं च' इति वचनात् तदुपपत्तिः, तादृशवचनाभावात् 'सोमेन यजति' इत्यादौ तृतीयानापत्तेश्च ।

किञ्चैवमवच्छेदकमपि व्यर्थम्, धात्वर्थफलशालित्वस्यैव युक्तत्वात् । धात्वर्थफलत्वञ्च धात्वर्था
रूपितजन्यताश्रयतपदर्थत्वम् ।

यद्वा, प्रकारताविशेष्यतान्यतरसम्बन्धेन धात्वर्थव्यापारान्वयित्वमित्याहुः ।

?0यत्तु, मीमांसकाः?0,साध्यत्वं द्वितीयार्थः । उक्तञ्च ---

'श्रुत्या साध्याभिधायित्वं द्वितीयायाः प्रतीयते' इति ।

एवञ्च 'व्रीहीनवहन्ति' इत्यादावहनेन व्रीहीन् भावयेदित्यर्थः । यद्यपि व्रीहयः सिद्धा एव क्रियायाः साधनानि च, तथाप्यदृष्टविशेषसाधनत्वरूपसंस्कार्यत्वमेवात्र साध्यत्वं बोध्यम् । 'सक्तु़ञ्जुहोति' इत्यत्र तु भूतभाव्यनुपयुक्तत्वेन सक्तूनां प्रायुक्तसाध्यत्वासम्भवेन सक्तुकरमकहोमानुकूलव्यापारप्रतीतये तृतीयार्थः करणत्वं द्वितीयया लक्ष्यते । एवञ्च सक्तु भिर्भावयेदित्यर्थः ।

यद्यपि प्रागुरीत्या लक्षणायामसाधुत्वम्, तथापि छन्दसि "सुपां सुलुक्" [ 7।1।39 ], 'बहुलं छन्दसि', "तृतीया च होश्छन्दसि" [ 2।3।3 ] इत्यादिभिरर्थान्तरेऽपि साधुत्वकथनान्न दोषः इत्याहुः ।

तत्र साध्यत्वं शक्तिविशष एवेति न कश्चिद्विरोधः । एतावान् विशेषःवेदे कर्मत्वशक्तिः प्रागुक्तसंस्कार्यत्वसमानाधिकरणैवेत्यलं पल्लवितेन ।

?0अथोपपदविभक्तिभूततदर्थो निरुप्यते

तत्र सामान्यत उपपदविभक्तीनां सम्बन्धोऽर्थः, तासां शेषषष्ठ्यपवाद्‌त्वात् । तद्विशेषांश्च तत्र तत्र वक्ष्यामः । 'उभयतः कृष्णं गोप्यः' कृष्णसम्बन्धि पार्श्वद्वयवर्त्तिन्य इति बोधः ।

'धिक् कृष्णाभक्तम्' धिगर्थो निन्दा, कृष्णाभक्तसम्बन्धिनिन्देति बोधः ।

'उपर्युपरि, अदोऽधः, अध्याधि, वा लोकम्' । द्विरुक्तोपर्यादेः समीपोर्ध्वभागवृत्तित्वसमीपाधस्तनभागवृत्तित्वसमीपदेशवृत्तित्वानि क्रमेणार्थाः ।

सामीप्ये द्वित्वविधानात् प्रतियोगित्वरूपः सम्बन्धो द्वितीयार्थः । लोकप्रतियोगिकसमीप्यवदूर्ध्वभागवृत्तिरित्यादिक्रमेण बोधः ।

'अभितः परितो वा कृष्णं गोपाः' --- अनयोः खण्डशः सक्त्या सर्वावयवावच्छेदेनेत्यर्थः । तदेकदेशे सर्वस्मिन् द्वितीयार्थसम्बन्धान्वयः । कृष्णसम्बन्धिसर्वावयवाच्छेदेनेत्यर्थः । 'अभितः' इत्याभिमुख्येऽपि । कृष्णसंमुखे इत्यर्थः ।

'समया, निकषा वा ग्रामम्' इत्यत्राव्ययं सामीप्यार्थे, द्वितीयार्थो निरूपितत्वम्, ग्रामनिरूपितसामीप्यवदिति बोधः । 'हा कृष्णाभक्तम्' इत्यत्र हाशब्दः शोके तत्सम्बन्धी शोक इति बोधः ।

'हा पितः क्वासि' इत्यादौ पितृसम्बोध्यकप्रश्नविषयसत्ता शोच्येत्यर्थः । अत एव पितुर्न द्वितीया,
हाशब्दयोगाभावात् । 'बुभुक्षितं न प्रतिभाति' इत्यादौ बुभुक्षितसम्बन्धिकिञ्चिद्विषयप्रतिभानाभाव इत्यर्थः । प्रतिभा भटिति स्फूर्त्तिः ।

'अन्तरा त्वां मां च हरिः' इत्यत्रान्तराशब्दो मध्यार्थकः, अवधित्वरूपः, सम्बन्धो द्वितीयार्थः । एवञ्च त्वन्मदवधिकमध्यवृत्तिर्हरिरिति बोधः ।

'अन्तरा हरिं न सुखम्' इत्यत्रात्यन्ताभाववानन्तराशब्दार्थः द्वितीयार्थः प्रतियोगित्वमभावेऽन्वेति । हरिशब्दश्च तद्‌भक्यादिलाक्षणिकः । एवञ्च हरिभक्तिकाभाववद्‌वृत्तिसुखप्रतियोगिकोऽभाव इति बोधः । एवमन्तरेणशब्दोऽप्युभयार्थः । प्रतियोगियोगितद्योगेऽपि द्वितीया ।

'जपमनुप्रावर्षत्' इत्यत्र द्वितीयार्थो लक्ष्यलक्षणभावः सम्बन्धो हेतुश्च । अनुश्च सम्बन्धविशेषद्योतकः । लक्ष्यतवञ्च ज्ञानजन्यज्ञानविषयत्वम् । जपज्ञानेन हि जपकालज्ञानद्वारा कालविशेषविशिष्टा वृत्तिर्ज्ञाप्यते । अत एव 'कदा वृष्टो देवः' इति पश्ने इदमुत्तरम् । तत्र प्रकृत्यर्थो हेतावभेदेनान्वेति । स च लक्ष्यत्वैकदेशज्ञाने, एकपदार्थयोरप्येवकारदौ परस्परान्वयदर्शनात्, जपाभिन्नहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः ।

'नदीमन्ववसिता सेना' -- द्वितीयार्थः साहित्यमनुद्योत्यम् । नद्या सह सम्बद्धेति बोधः ।

'अनुहरिं सुराः' -- अपकर्षरूपहीनत्वसम्बन्धोऽनुद्योत्यो द्वितीयार्थः, हरिप्रतियोगिकापकर्षवन्त इति बोधः । उपरिमित्यत्राप्वेवम् ।

'वृक्षं प्रति, पर्यनु वा विद्योतते विद्युत्' लक्ष्यत्वसर्वबोधो द्वितीयार्थः प्रत्यादिद्योत्यः । वृक्षप्रकाशेन विद्युज्ज्ञानात् तस्य लक्षणत्वम् । तेन हि दिग्विशेषावच्छिन्ना विद्युद् ज्ञाप्यते । वृक्षज्ञानजन्यज्ञानविषयो विद्युद्‌विद्योत इति बोधः ।

भक्तो विष्णुं प्रति --- विषयत्वं द्वितीयार्थः । तस्य चैकदेशभक्तावन्वयः ।विष्णुविषयकभक्त्याश्रय इति बोधः ।

लक्ष्मीर्हरिं प्रति -- स्वत्वमर्यर्थः । हरिप्रतियोगिकस्वत्ववीति बोधः ।

'वृक्षं वृक्षं प्रति -- सिञ्चति ' अत्र वीप्सा दिर्विचनद्यत्या । वीप्सापदेन बोधयितुमिच्छाविषयव्याप्यत्वं बुद्दिस्थायावत्प्रकृत्यर्थनिष्ठमुच्यते । व्याप्यत्वविशिष्टवृक्षादीनाञ्च स्ववृत्तिव्याप्तिनिरूपकत्वेन सेचनाद्यनवय इत्यत्र प्रत्यादयस्तात्पर्यग्राहकाः, कर्मप्रवचनीयतया सम्बन्धावच्छेदकत्वस्य युक्तत्वात् ।

यद्यपि 'वृक्षं वृक्षं सिञ्चति' इत्यादौ प्रतिं विनापि मानान्तरगृहीततात्पर्यवशात् तेनैव सम्बन्धेनान्वयः, तथापि तत्सत्त्वे सोऽपि तन्निर्णायक इत्येतावतैव सम्बन्धावच्छेदकत्वम् । तत्र वृक्षादीनां सेचनकर्मत्वेऽपि प्रथमतः प्रतिद्योत्यसमबन्धेनान्तरङ्गत्वात् तन्निमित्तोपपदविभक्तिभूतद्वितीयैव । अत एव प्रत्यर्थं शब्दनिवेश इत्यादावर्थस्य निवेशनक्रियानिरूपिताधिकरणत्वेऽपि अर्थमर्थं प्रति इत्येव विग्रहो भाष्यादौ दर्शितः ।

एतेन "उपपदविभक्तेः कारकविभक्तिर्बलीयसी" इति न्यायात् कर्मण्येवात्र द्वितीयेत्यपास्तम्, युगपदुभयान्वयस्य बुद्ध्या रूढत्व एव तत्प्रवृत्तेः । प्रतिद्योत्यसम्बन्धेनान्वयेऽपि आश्रयत्वेनानन्वयाच्च । वृत्तिविषये
तु प्रतिरेव वीप्साया अपि द्योतकः ।

किञ्च, कर्मणि द्वितीयायां प्रतिना सामर्थ्याभावात् प्रतिवृक्षं सिञ्चतीति प्रयोगानापत्तिः ।

एतेनात्र कर्मण्येव द्वितीया, पर्यादयस्तु क्रियाविशेषका एवेति हरदत्ताद्युक्तमपास्तम्, क्रियाविशेषकत्वेऽन्वर्थतया कर्मप्रवचनीयसञ्ज्ञाया एवानापत्तेः । "अव्ययंविङक्ति" [ 2।1।6 ] इतिसूत्रे हरदत्तेन सम्बन्धपरिच्छेदकत्वस्यैवोक्तत्वाच्च । अत एव भाष्येऽपि 'किमर्थं पुनरिदमुचयते , न चोपसर्गादिसञ्ज्ञाबाधनार्थम्, क्रियायोगाभावात्' इत्युक्त्वा 'द्वितीयार्थम्' इति सिद्धान्तितम् ।


वृक्षं प्रति सिञ्चतीत्युदारणे क्वचित् क्रियान्वये कर्मत्वादेव द्वितीया सिद्धेति प्रश्नः । प्रत्याद्यवच्छेद्यसम्बन्धान्वयेनान्तरङ्गात्वात् प्राप्तषष्ठीबाधनार्थमकर्मकार्थञ्चावश्यकमित्युत्तरमिति मम प्रतिभाति ।

'यदत्र ममाभिष्यात्, तद्दीयताम्' अत्र यच्छब्दो बुद्धिस्थत्वेन भागवाची, मत्सम्बन्धियद्भागकर्तृका एतदधिकरयणिका सत्ता प्रेरणाविषयः, तत्कर्मकं दानमिति बोधः ।

'सर्पिषोऽपि सयात्' अत्रापि बिन्दुरपपदार्थद्योतकः । स्यादिति त्तिङां कर्तृसामान्यवाचकेन बिन्दुत्वेन तद्विशेषो लक्ष्यत इति तत्त्वम् । सम्भावनायां लिङ्, द्योत्यबिन्दौ सर्पिष इत्यवयवावयविभावेनान्वेति । बिन्दुश्च क्रियायामाधेयतया दौर्लभ्यसम्बन्देन चान्वेति । अत्राप्यपिरेव तात्पर्यग्राहकः ।

एवञ्च सर्पिरवयवबिन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यवती तदभिन्नैककर्तृका सम्भावनाविषयः सत्तेति बोधः ।

'अपि स्तुयाद् विष्णुम्' सम्भावने लिङ् । अपिर्लिर्ङ्थसम्भावनाविषयतया शक्यत्वस्य द्योतकः । विष्णुकर्मकैतत्कर्तृकाशक्यत्वेन सम्भाव्यमाना स्तुतिरिति बोधः । विष्णुविषयायाः1[fn 'स्तुतेः' शेषः । ] शक्यत्वसम्भावने वान्यविषयानिश्चयेन शक्येति फलति ।

एतेन 'अपि वेदान्तपारगम्' इत्यादावपियोगे स्वार्थे न तात्पर्यमिति धर्मशास्त्रग्रन्था व्याख्याताः । ईदृशेषु सम्भावनाविषयतयौचित्यं द्योत्यम्, सम्भावितौचित्यस्य चानुष्ठानमयुक्तमिति स्वार्थे तात्पर्याभावो बोध्यः ।

यद्वा, शक्यत्वादिना सम्भावनं क्रियाविषयमपि द्योत्यम्,लिङ् तु विध्यादौ । एवञ्च सम्भावनेऽपि "कर्मप्रवचनीये" इत्यनुशासनं यथाश्रुतमेव । आद्ये तु सम्भावनाविषये वर्त्तमानः 'अपिः' इति तदर्थो बोध्यः ।

'अपि स्तुहि' -- स्तुताविच्छाप्रवृत्तिविषयतापि द्योत्या । इच्छाप्रवृत्तिविषया स्तुतिरिति बोधः । 'अपि स्तुयाद् वृषलम्' क्रियागतं गर्ह्यत्वमपिद्योत्यम् । वृषलकर्मिका गर्ह्या स्तुतिरिति बोधः । स्तुतेर्गर्ह्यत्वे तत्कर्त्तुरपि गर्ह्यत्वं फलति । तदेव धिग्देवदत्तमित्यादिनानूद्यते ।

'मासमधीते' अत्र त्रिंशद्दिनसमुदायो मासपदार्थः, तत्ततसम्बन्धश्च दिनपर्याप्तत्रिंशत्वव्यापकत्वम् । तत्र त्रिंशत्त्वादेर्मासादिपदादेव लाभाद् व्यापकतामात्रं द्वितीयार्थः । अतस्त्रंशत्सु दिनेषु किञ्चित्कालावच्छेदेनाध्ययनसम्बन्धेऽपि तत्प्रयोगोपपत्तिः । व्यापाकत्ञ्च त्रिंशत्त्ववन्निष्ठप्रतियोगिव्यधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकावच्छिन्नत्वम्, तच्चध्ययनादावन्वेति ।
प्रतियोगिव्यधिकरणेतिविशेषणादिनावान्तरदण्डादावध्ययनाभावऽप्युक्तप्रयोगीपपत्तिः । मासपदञ्च त्रिंशद्दिनपरमेव, न तु तावत्कालस्थाय्यखण्डवस्तुपरम्, एकदिनाध्ययनेऽपि तादृशाखण्डकाले प्रतियोगिव्यधिकरणध्ययनाभावेन मासमधीत इति प्रयोगापत्तेः । मासघटकं दिनञ्च सूर्योदयावधि सूर्योदयान्तकपर्यन्तस्थाय्यखण्डवस्तुपरम्, न तु क्रियासमूहः । तथा सत्येकैकक्रियादिव्यक्तेरपि मासत्वाधिकरणतया तत्र प्रतियोगिव्यधिकरणाध्ययनाद्यभावसत्त्वेन बाधापत्तेः । 'दिनं स्वपिति' इत्यादौ दिनपदं त्रिंशद्दण्डकूटपरम् । सूर्योदयावधि सूर्यास्तपर्यन्तक्षणकूटपरं वा । अतो नैकदण्डादिस्वप्ने तथा प्रयोगः । त्रिंशत्त्वादिकं च तात्पर्यवशाद्विशिष्य तत्र त्रिंशत्त्वमेव भासते । एतेनैकमासव्यापकाध्ययनस्थलेऽपि मासान्तरेऽध्ययनाभावसत्तवेन मासव्यापकताया अध्ययने बाधेन मासमधीत इत्याद्युपपत्तिरिति परास्तम् ।

एवम् 'क्रोशं कुटिला नदी' इत्यादावपि यत् किञ्चित् क्रोशत्ववन्निष्ठप्रतियोगिव्यधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकावच्चिन्नत्वं कुटिलादौ भासते । क्रोशत्वादिकञ्च बुद्धिस्थदण्डादिपरिच्छन्नसङ्ख्याविशेषवद् देशत्वमेवेति न कश्चिद् दोषः1 [fn ननु 'मासमास्ते' इत्यदाविव 'मासमधीते' इत्यत्रापि धातोर्व्यपन पर्यन्तं वृत्तिस्वीकारेणैव "कर्तुरीप्सित" इति कर्मत्वेन द्वितीयासिद्धौ "कालाध्वनोः" इति सूत्रं व्यर्थम् । हरिणाप्पुक्तम् ---
कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः ।
सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते ।। इति ।
अत्राकर्मकैरित्युक्तावपि न्यायसाम्येन सकर्मकधातोरपि तदर्थान्तर्भावेण बाधकाभावः । अत एव 'प्राकृतमेवैतत् कम' इति प्रकृतसूत्रस्थभाष्येणाशङ्कितमिति चेत्, सत्यम् ; 'यत्र अक्रियया संयोगः, तदर्थामदं वक्तव्यम्' इति भाष्य एव समाधानात् ।
न च कथं तर्हि 'मासमधीते' इत्युदाहरणमिति वाच्यम्, संबन्धसामान्यविवक्षायां षष्ठीबाधनाथत्वेन क्रियायोगार्थमप्यावश्यकत्वेन यत्र क्रियाकारकभावेन नान्वयविवक्षा तत्रात्यन्तसंयोगार्थमिति तद्भाष्यव्याख्यानस्यो चितत्वात् । ]।

?0इति सुबर्थवादे द्वितीयाविभक्त्यर्थनिरूपणं समाप्तम् ।