वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-१४

← वैयाकरणसिद्धान्तमञ्जूषा-१३ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-१४
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-१५ →

अथ तृतीयाविभक्त्यर्थनिरूपणम्

कारकतृतीयायाः कर्ता, करणञ्च वाच्यम्, "कर्त्तृ करणयोस्तृतीया" [ 2।3।18 ] इति सूत्रस्वरसात् । तत्र कर्तृत्वबोधकं सूत्रम् -- "स्वतन्त्रः कर्ता" [ 1।4।54 ] इति कारकाधिकारात् क्रियायां स्वतन्त्रः कर्तृसंज्ञक इति तस्यार्थः । स्वातन्त्र्यञ्च व्यापारतावच्छेदकमसम्बन्धेन तद्‌धात्वर्थनिष्ठविशेष्यतानिरूपितः प्रकारतानाश्रयत्वे सति तन्निरूपितविशेष्यतारूपमुख्यविशेष्यतावद्धात्वर्थाश्रयत्वम् । तद्धात्वर्थनिष्ठेत्यत्र धात्वर्थश्च तात्पर्यग्राहकानपेक्षधातुशक्य एव ग्राह्यः । तेन णिचो द्योतकत्वेऽपि 'देवदत्तेन यज्ञदत्तः पाचयति' इत्यादौ पच्‌धात्वर्थप्रयोज्यव्यापारश्रयप्रयोजकव्यापाराश्रययोः कर्तृत्वसिद्दिः । कालिकादिसम्बन्धेन व्यापाराश्रयेऽतिव्याप्तिवारणाय सम्बन्धविशेषनिवेशः ।

एतेन सामग्रीसाध्यायां क्रियायां सर्वेषां स्वस्वव्यापारे स्वातन्त्र्यात् 'स्वतन्त्रः' इत्यव्यावर्तकमित्यपास्तम्, प्रागुक्तस्वातन्त्र्यस्य युगपत् सर्वेष्वभावात् । मुख्यविशेष्यतालक्षणे दलद्वयोपादानन 'रूपवन्तं गच्छति' इत्यादावुत्तरदेशसंयोगरूपे फले रूपादौ च न मुख्यविशेष्यत्वमिति तदाश्रये रूपवति नातिव्याप्तिरिति बोध्यम् ।

अत्र कर्तृप्रत्ययसमभिव्याहारे इत्यपि विशेषणं बोध्यम् । तेन 'पक्वस्तण्डुलो देवदत्तेन' इत्यादौ फलस्य विशेष्यत्वेऽपि देवदत्तस्य कर्तृ त्वसिद्धिः । अत्रापि व्यापारस्यान्यत एव लाभाद् आश्रयमात्रं तृतीयार्थः । तत्र च प्रकृत्यर्थस्याभेदेनान्वयः । स च धात्वर्थे आधेयतासम्बन्धेनान्वेति । एवञ्च 'चेत्रैण सुप्यते' इत्यादौ चैत्राभिन्नाश्रयवृत्तिः स्वाप इत्यादि बोधः ।

?0यत्तु?0, तत्तत्क्रियानुकूलकृत्याश्रयत्वं तत्तत्कर्तृत्वम् । कर्त्तेत्यत्र कृधातोः कृतिवाचकत्वेन तृचश्चाश्रयवाचित्वेन योगार्थबलात् तथैव लाभात्, गुरुतरभारोतोलनादिविषयकयत्नसत्त्वेऽपि तत्तत्क्रियाया अनिष्पत्तौ तत्‌कर्त्तृत्वाव्यवहाराद् विषयत्वमपहायानुकूलत्वमुपात्तम । तत्राश्रयस्य प्रकृत्त्यैव लाभात् कृतिरेवार्थ इति । तत्, न ; कृतेरपि धातुलभ्यताया आख्याते निरूपितत्वात्, आश्रयत्वेन तस्य प्रकृत्याऽलाभाच्च । 'दण्डः पचति' इत्यादौ 1[fn कृतेश्चेतनवृत्तित्वादिति शेषो बोध्यः । ] अचेतनेऽव्याप्तिश्च । तत्राश्रये लक्षणेति चेत्, स्वेच्छामात्रेण तस्या अनुचितत्वात् । लक्षमया बोधोपपादनेऽपि तत्र साधुत्वे मानाभावाच्च । एतेनाचेतने गौणं कर्तृत्वमित्यपास्तम् । शास्त्रीयकार्यवैलक्षण्यादर्शनेन भाष्यकारादोनामैकरूप्येण व्यवहाराच्च त्वदुक्तिमात्रेण तस्यायुक्तत्वात् ।

किञ्च, कृञः कृतिवाचकत्वमेव नेति निरूपितमाख्यातवादे ।

यत्तु, मत्तो भूतम्, न तु मया कृतमिति व्यपदेशाद् 1[fn अन्तरा भवम् = अन्तरीयम्, गहादित्वात् छः । अन्तरीयमेव अन्तरीयकम् । न अन्तरीयकम् = नान्तरीयकम्। 'सह सुपा' इति समासात् नस्य लोपाभावः । ] नान्तरीयककृतिसाध्यपिष्टकमध्यस्थशर्कराभोजननिरूपितकर्तृ त्वस्यापि निवेशे तु यागादिकृतेरुद्‌देश्यतया स्वर्गादिविषयकत्वेन यागादिकर्तरि स्वर्गादिकर्तृ त्वापत्तेरिति । तत्, न ; साध्यत्वेन विषयताया एव व्यवहाराभावाच्च तत्रातिव्याप्तिः , कृतौ क्रियाविषयाविनिवेशात्, यागादिकृतावुद्‌देश्यतया स्वर्गादिविषयकत्वेऽपि स्वर्गानुकूलत्वाभावाच्च । अनुकूलताविशेषस्यैव निवेशात् । तादृशशर्कराभोजनाश्रये कर्तृत्वस्येष्टत्वमित्यपि कश्चित् ।

यदपि, कारकचक्रप्रयोक्तृत्वं कर्तृ त्वमिति । तदपि न, अचेतनेऽव्याप्तेः ।

किञ्च कारकचक्रप्रयोक्तृ त्वं कारकान्तरजन्यव्यापारजनकत्वम् । एवञ्च कर्मजन्यफलजनके करणे
कुठारादावतिव्याप्तिः । न च कारकान्तरजन्यव्यापाराभाववत्त्वरूपकारकान्तराप्रयोज्यत्वे सतीति विशेषणान्न दोषः, पुरुषादिजन्यसंयोगादिरूपव्यापारत्त्वात् करणदेरिति वाच्यम्, ईश्वरप्रयोज्यानां कर्तृत्वानापत्तेरिति दिक् ।

नन्वेवं घटो भवतीत्यादौ घटादेः कर्तृ त्वानापत्तिः, उत्पत्तेः पूर्वं तेषामभावेन धात्वर्थव्यापारानाश्रयत्वादिति चेत्, न ; 2[fn सत्कार्यवादे कार्यसयात्यन्तिकोऽभावो न भवति, किन्तु नाशकारणसामग्रीसमवधानदशायामपि सदेव कार्यं तिरोहितं भवति, उत्पत्तिकारमसामग्री समवधाने उद्‌भूतं भवति । एवञ्च घटादेरपि उपत्तेः प्राक् सूक्ष्मावस्थया वर्तमानत्वेन धात्वर्थव्यापाराश्रयत्वेन कर्तृत्वं सेत्स्यति । ]सत्कार्यवादे दोषाभावात् । मतान्तरेऽपीदृशे विषय उपादानकारणस्य व्यापाराश्रयत्वविक्षाया एव कर्तृ त्वप्रयोजकता बोध्या । एतन्मते च धात्वर्थव्यापराश्रयत्वतद्व्यापाराश्रयोपादानकत्वान्यतरत्वं स्वातन्त्र्यं बोध्यम् ।

?0केचित्तु?0 पदार्थसत्ता न बोधे प्रयोजिका, किन्तु विवक्षैव । अत एव खपुष्पमित्यादितोऽपि बोधः । एव़्च प्रकृतेऽपि बोधः । एवञ्च प्रकृतेऽपि न दोष इत्याहुः ।

अत्र केचिद् धात्वर्थव्यापारश्रयत्वं साक्षात् परम्परया वा । तत्राद्यं प्रसिद्धम्, द्वितीयं तु पञ्चभिर्हलैः कर्षतीति । तत्र हि -- स्वाश्रयप्रयोजकत्वसम्बन्धेन कर्तुर्धात्वर्थव्यापारश्रयत्वम्, अन्यथा प्रयोज्यव्यापारस्य धात्वर्थे तदाश्रयाणां बहुत्वाद् बहुवचनापत्तिः, प्रयोजनकव्यापारस्यापि धातुवाच्यत्वे तु णिचापत्तिः, अन्तर्भावितण्यर्थ इति प्रवादस्याप्ययमेवार्थ इति । तत्, न ; अन्तर्भावितण्यर्थत्वेन सकर्मकताया उच्छेदापत्तेः । अत एव सकर्मकाणामन्तर्भावितण्यर्थकत्वे द्विकर्मकतामाहुः ।

तस्मात् प्रयोजक्वयापारोऽपि तत्र तदर्थः, परन्तु यत्र णिजं विना तदर्थद्योतकमस्ति, तत्रैवेदम् । यथा प्रतृते पञ्चभिभिर्हलैरिति । क्वचित्तु एकान्ते तूष्णीमासीनत्वादिकम् । तस्मात् कृषेर्ण्यर्थान्तर्भावेण लक्षणेत्येव तत्त्वम् । स्पष्टं ?0चेदं?0 ?0कैयटे?0 ।

यदि तु, द्वितीयकर्मरहितोऽपि तत्र प्रयोगः, तदा प्रयोजकव्यापारस्यैव धात्वर्थत्वमाश्रित्य समाधेय इति दिक् ।

कर्तृत्वं च विवक्षानिबन्धनम् । तेन स्थाल्यादिव्यापारस्यापि धात्वर्थ [त्व-] विवक्षायां स्थली पचतीति भवति । एवमेकस्यैवोपाधिभेदेन कर्तृ त्वकर्मत्वकरणत्वान्‌यपि भवन्ति । यथात्मानमात्मना सृजसीति । तदुक्तं हरिणा --

एतेन ज्ञानस्वरूपस्यात्मनः स्वरूपज्ञानं विषयत्वरूपस्वप्रकाशत्वे कर्तृ कर्मविरोधः । अभेदे आदाराधेयभावस्य विषयविषयिभावस्य चाभावादिति ?0वाचस्प?0त्युक्तिः परास्ता, शब्दविशेषोपाधिकस्य कर्तृ त्वादेः प्रत्यक्षादावुक्तिसम्भवाभावात् ।

?0यदि तु?0, कर्तृकर्मशब्दयोराश्रयविषयलक्षकत्वम् । यदि वा स्वप्रकाशत्वे इत्यस्य स्वप्रकाशपदव्यवहार्यत्वे इत्यर्थः, ?0स्वं?0 प्रकाशयतीति हि स्वप्रकाशपदव्युत्पततिः, तदा सम्यगेवेत्यलं पल्लवितेन ।

करणत्वबोधकञ्च सूत्रम् "साधकतमं करणम्"[ 2।4।42 ] इति । कर्तृव्यापाराधीनयद्‌व्यापाराव्यवधानन क्रियानिष्पत्तिरविवक्ष्यते, तत्र क्रिया करणमिति तदर्थः । चैत्रश्चैत्रेण पचति, काष्ठं चैत्रेण पत्रतीति व्यावृत्त्यर्थं कर्तृव्यापाराधीनेति, अधिकरणादिव्यापाराव्यवधानेनापि यदा क्रियानिष्पतिर्विवक्ष्यते, तदा तेषामपि करणत्वमिष्टमेव । यदाह हरिः ---
वस्तुतस्तदनिर्देश्यं नहि वस्तु व्यवस्थितम् ।
स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः ।

इति कारणविभक्तेर्व्यापारोऽर्थः । तत्र प्रकृत्यर्थस्याधेयतयान्वयः, व्यापारस्य च स्वनिष्ठजनकतानिरूपिताव्यवहितोत्तरोत्पत्तिकत्वसम्बन्धेन धात्वर्थेऽन्वय इति?0 केचित्?0 ।

अत एव
आश्रयोऽवधिरुद्दश्यः सम्बन्धः शक्तिरेव वा ।
इति विभक्त्यर्थनिरूपणे हर्युक्तिः संङ्गच्छत इत्यपरे ।
दिव्‌धातुयोगे तु इदमेव द्वितीयान्तपदानुपस्थाप्यत्वविशिष्टं करणलक्षणं बोध्यम् । 'पित्रा पितरं संजानीते' इत्यत्र तृतीयायाः कर्मार्थः ।

अथोपपदविभक्तितृतीयासु बोधो लिख्यते
'प्रकृत्या चारुः' इत्यत्र प्रकृतिर्यावदाश्रयभाविधर्मविशेषः । तेन तत्सम्बन्धिचारुत्ववानित्यर्थः । तृतीयार्थः सम्बन्धः । 'प्रायेण याज्ञिकः' इत्यत्र प्रायशब्दो बहर्थः, बहुत्ववांश्चाचारादिः । तेन बहुत्ववदाचारसम्बन्धियाज्ञिकत्ववान् इति बोधः । सम्बन्धश्च ज्ञाप्यज्ञापकभावः ।

?0यद्वा?0, प्रायशब्दः सम्भावनार्थः, सम्भावनाविषययाज्ञिकत्ववानित्यर्थः. दृश्यते च तस्यां प्रायशब्दः, 'प्रायेण निष्क्रामति चक्रपाणौ' इति । 'प्रायेणास्मिन् वंशे याज्ञिकाः' इत्यादौ तु बहुत्वार्थः । बहुत्ववन्तो याज्ञिका इति बोधः ।

'गोत्रेण गार्ग्यः' इत्यत्र गोत्रसम्बन्धिगार्ग्यत्ववानित्यर्थः । सामान्यविशेषणभावः सम्बन्धः ।

'द्विद्रोणेन धान्यं क्रीणाति' --- द्रोणद्वयपरिच्छिन्‌नधान्यकर्मकः क्रय इति बोधः ।

सुखेन यातीत्यत्र सुखजनकं यानमिति बोधः ।

'नाम्ना सुतीक्ष्णः'-- ज्ञाप्यत्वरूपः सम्बन्धस्तृतीयार्थः । नामज्ञाप्यसुतीक्ष्णत्ववानिति बोधः ।

एवम् 'चरितेन दान्तः' इत्यत्रापि । सुरथो नाम राजेत्यादौ सुरथ इत्यत्र सुरथशब्दवाच्य इत्यर्थः । नामेत्यव्ययं संज्ञार्थम् । नामशब्दार्थसंज्ञायाः सुरथशब्दैकदेशे शब्देऽन्वयः । तेन संज्ञाभिन्नसुरथशब्दवाच्य इति बोधः ।

?0यद्वा?0, सुरथेति शब्दपरं संज्ञाभिन्नसुरथशब्दभिन्नो राजेति बोधः ।

?0यद्वा?0, नामेत्यपि शब्दपरत्वे तात्पर्यग्राहकम् । नाम्ना चन्द्रकलेत्यादावनव्ययनामयोगेऽप्येवमेव । अभेदस्तृतीयार्थः । एवमवच्छेदकत्वावच्छेद्यत्वादीनां सम्बन्धत्वविवक्षायां पटत्वेन ; जन्यत्वम्, प्रकारत्वम्, अभावः, इत्यादिषु प्रकृत्यादित्वात् तृतीया बोध्या ।

'अह्ना क्रोशेन वानुवाकोऽधीतः' इत्यत्र तृतीयार्थः सम्बन्धः, क्तप्रत्ययार्थातीतत्वैकदेशे नाशे,
फलप्राप्तिपूर्वकत्वञ्च द्योत्यम् । एवञ्चाहस्सम्बन्धिफलप्राप्तिपूर्वकनाशप्रतियोगि अनुवाकविषयकमद्ययनमिति बोधः ।

'पुत्रेण सहागतः' इत्यादौ "सहयुक्तेऽप्रधाने" [ 2।3।18 ] इति तृतीया, सहार्थविशेषणत्वमप्राधान्वम् । 'क्रियाप्रधानम्' इत्यादौ प्रधानशब्दस्य विशेष्यपरताया दृष्टत्वात् । सहशब्दार्थश्च स्वान्वयिसमभिव्याहृतपदार्थगतसमानकालिकत्वम् । तृतीयार्थश्च क्रियासमभिव्याहारे तत्तत्क्रियाकर्तृ त्वादिकमेव । एवञ्च शिष्येण सह स्थूलः, शिष्येण सहागतः, शिष्येण सहोपाध्यायस्य गौरित्यादौ शिष्यवृत्तिस्थौल्यसमानकालिकस्थौलियवान्, शिष्यकर्तृकागमनसमानकालिकागमनवान्, शिष्यसम्बन्धिस्वत्वसमानकालिकोपाध्यायस्वत्ववती गौरित्यादिक्रमेण बोधः । अन्त्ये च षष्ठ्यर्थसम्बन्ध एव सहार्थान्वयः, तथैवानुभवात् ।

क्वचित् समानदेशत्वं तदर्थः । अत एव माषवापोत्तरं तस्मिन्नेव क्षेत्रे तिलवापेऽपि तिलैः सह माषान् वपतिस्मेति भवति । स्पष्टञ्चेदमत्रैव भाष्यादौ तु समानकालिकत्वमात्रमर्थः, तात्पर्यादित्याहुः ।

अपरे तु सहशब्दार्थः साहित्यम् । पित्राद्यन्वयिपुत्रसाहित्यवान् पिता आगत इति बोधः । साहितयञ्च समानकालिकादिसमभिव्याहृतक्रियाद्याश्रयत्वसमानाधिकरणोऽखण्डोपाधिः, पदार्थान्तरं वेत्यन्यदेतत् । अस्यापि धर्मस्य प्रागुक्तसाहित्यसमानसंवित्संवेद्यत्वस्वीकारात् तद्विषयकबोधस्यानुभवसिद्धत्वेऽपि न दोषः । अत एव पितरि तृतीयापादनं भाष्योक्तं सङ्गच्छते ।

अन्यथा पूर्वोक्तमते सहार्थस्य क्रियादावन्वयेऽपि तेनान्वयात् तदापादनमसङ्गतमेव स्यात् ; इत्याहुः ।

एवं विद्यमानतावाचिसहशब्दयोगिऽपि तृतीया । 'सहैव दशभिः पुत्रैर्भारं वहति गर्दभी इत्यादौ' 1 [fn अस्यायमाशयः -- सहशब्दो लुप्तसप्तम्यन्तः, सा च सती सप्तमी अपिशब्दाध्याहारश्च । तेनोक्तार्थलाभः ।
केचुत्तु -- अत्र विद्यमानेत्यध्याहारः । तथा च विद्यतिक्रियाप्रयुक्तसाहित्यनिर्वाह इति प्रत्यपीपदन् । ] दशसंख्याकपुत्राणां विद्यमानत्वेऽपीत्यर्थः ।

एवं सहार्थप्रतियोगिनः शाब्दाप्राधान्येऽपि आर्थप्राधान्यमेव । अत एव समकक्षयोर्मंध्येऽन्यतरसयापरेण सहागन्तव्यमित्युक्ते दुःखं दृश्यत इति बोध्यम् ।

'अक्ष्णा काणः' इत्यत्र चक्षुर्नाशवान् । सचक्षुष्कः काणपदार्थः, चक्षुः पदार्थो गोलकम्, तृतीयार्थो विकारप्रयुक्ततवादिरूपः सम्बन्धः । गोलकविकारप्रयुक्तचक्षुर्नाशवान् सचक्षुष्क इति बोधः ।

एवम् 'पादेन खञ्जः' इत्यादौ पादिविकारप्रयुक्तसंस्थानवैधुर्यवच्चरणवानिति ।
'कायेन दशवक्त्रः, मुखेन त्रिलोचनः' इत्यादौ प्रकृत्यादित्वात् तृतीया बोध्या ।
'जटाभिस्तापसः' इत्यादौ ज्ञाप्यत्वरूपसम्बन्धस्तृतीयार्थः । जटाज्ञाप्यतापसत्ववानिति बोधः ।

'दण्डेन घटः' इत्यादौ हेतुस्तृतीयार्थः, हेतुत्वाञ्च अनन्यथासिद्धनियतपूर्ववर्त्तित्वादिरूपं कारणत्वमेव । तत्समानाधिकरणोऽखण्डोपाधिर्वा । प्रकृतिप्रत्ययार्थयोरभेदः संसर्गः । प्रत्ययार्थस्य च जन्यतासंसर्गेणेतरत्रान्वयः । एवञ्च दण्डाभिन्नहेतुजन्यो घट इति बोधः ।

'अध्ययनेन वसति' इत्यादौ फलस्याप्यध्ययनस्य हेतुत्वं 2[fn अत्र 'स्वज्ञानद्वारा' इति पाठः समीचीनः, अर्थानुकूलत्वात् । एञ्च अध्ययनस्य वासफलस्यापि स्वज्ञानद्वारा वासनिमित्ततया हेतुत्वेन विवक्षायां तृतीया । अध्ययनाभि्नहेतुक एककर्तृको वास इति बोधः । काश्यादेस्तु अध्ययननिमित्तत्वेऽपि अधिकरणत्वविवक्षायां सप्तमी । वस्तुतसतु "हेतौ" इति सूत्रे फलस्यापि हेतुत्वेन विवक्षणाद् अध्ययनरूपफलजनको वास इत्यनुभवसिद्धबोधस्य निर्वाहः सिद्ध्यति । ] सुज्ञानद्वारा बोध्यम् । 'दास्या संयच्छते' इत्यत्रोद्‌देश्यस्तृतीयार्थः, दाणयोगे अशिष्टव्यवहारे चतुर्थ्यर्थे तद्विधानात् । दास्युद्‌देश्यं कामुककर्तृकं दानमिति बोधः ।

इति तृतीयाविभक्त्यर्थनिरूपणं समाप्तम् ।

अथ कारकचतुर्थ्यर्थनिरूपणम्

कारकचतुर्थ्याः सम्प्रादानमर्थः, "चतुर्थी सम्प्रदाने" [ 2।3।13 ] इति सूत्रात् । सम्प्रदानत्वबोधकञ्च "?0कर्मणा यमभिप्रैति स सम्प्रदानम्?0"[ 1।4।32 ] इति सूत्रम् । धात्वर्थकर्मणा सम्बन्द्‌धुमिच्छति सम्प्रदानमिति तदर्थः । कर्मसम्बन्धश्च कर्मनिष्ठफलनिरूपकत्वादि । एवञ्च तत्तद्धातुकर्मनिष्ठफलनिरूपकत्वादिना इच्छाविषयस्तत्तद्धातुसम्प्रदानमिति फलितम् । कर्मनिष्ठेत्यनेन कर्मणश्चतुर्थीनिमित्तत्वप्रदर्शनात् कर्मश्रुत्यपेक्षया चतुर्थीश्रुतेर्बलवत्त्वं बोध्यते । अथ एव क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति दण्डदानं न प्रतिपत्तिः, किन्तु द्वितीयापेक्षया बलीयस्या चतुर्थीश्रुत्या मैत्रावरुणसंस्कारकमिति ?0मीमांसकाः?0 ।

?0अत्र केचित्?0, कर्त्तुरिच्छाविषयश्चतुर्थ्यर्थः, फलस्य धातुना निरूपितत्वस्य 1[fn आकाङ्क्षयेत्यर्थः । ]संसर्गमर्यादया लाभात् । अयमेव चोद्देश्य इत्युच्यते । एवञ्च 'विप्राय गां ददाति' इत्यत्र स्वत्वतन्निवृत्त्युभयानुकूल्वयापाररूपदाधात्वर्थैकदेशे स्वत्वे चतुर्थ्यर्थस्य निरूपकतयान्वयः । एवञ्च विप्राभिन्नेच्छाविषयानिरूपितस्वत्वस्वीयतन्निवृत्त्युभयानुकूलो व्यापार इति बोधः ।

यत्तु, निरुपितत्वेन कर्तुरिच्छाविषयत्वं चतुर्थ्यर्थः, दाधात्वर्थतावच्छेदकस्वत्वे च तदन्वेति, स्वत्वजनकत्यागश्च ददात्यर्थः ।

एवञ्च विप्रनिरूपितत्वेनेच्छाविषयगोनिष्ठस्वत्वजनकत्यागकर्त्तेति बोध इति । तत्, न ; नामार्थविभक्त्यर्थयोः क्लृप्तस्याभेदान्वयस्य भङ्गापत्तेः । सम्प्रदानस्येच्छाविषयत्वबोधकसूत्रस्वरसभङ्गाच्चेत्याहुः । तच्चिन्त्य; पितृभ्यः श्राद्धं दद्यादित्यादौ अनुपपत्तेः, पितृनिरूपितत्वस्य स्वत्वे बाधात् । अत एव श्राद्धस्य पित्रपेक्षया भागात्वमेव, दानत्वं तु विप्रापेक्षयेति ?0शूलपाण्यादयः?0 ।

तस्मात् स्वरूपसम्बन्धरूपमुद्‌देश्यत्वं पदार्थान्तरं वा तदाश्रयश्चतुर्थ्यर्थः । स्ववृत्त्युद्‌देश्यतानिरूपकत्वेन धात्वर्थः तस्यान्वयः । दाधात्वर्थश्च स्वत्वनिवृत्तिपूर्वकपरस्वत्त्वोत्पत्त्यनुकूलस्त्यागः । न च त्यागो न परस्वत्वहेतुः, प्रतिग्रहादेरेव तत्त्वादिति वाच्यम्, विप्रोद्‌देशेन त्यक्तायां गवि गौरियं विप्रस्य न ममेत्यादिसार्वजनीनप्रतीतेरेव प्रमामत्वात् । अत एव विदेशस्थपात्रुद्दिश्य त्यक्तधने स्वीकारमन्तरेणैव पात्रस्य मरणेऽपि उद्देश्यपुत्रादिभिरेव पितृदायत्वेन तद्धनं विभज्यते, अन्यथा तैरिवोदासीनैरपि तद्धनस्यारण्यककुशादेरिवोपादाने प्रत्यवायो न स्यात् ।

न चैवं स्वीकारो व्यर्थः, 'लब्धावष्टगुणं पुण्यम्' इति स्मृतेः प्रतिगृहीतधनदानस्य फलातिशयहेतुतया तादृशत्वसम्पत्त्यर्थमेव तदुपयोगात् । अदृष्टार्थं दत्तस्वीकार एव प्रतिग्रह इति परितोषदत्ततिलतुरगादेः । स्वीकारो न दोषावहः .

न च संसृष्टिस्थलेऽसाधारणस्वत्वनाशोत्तरं साधारणस्वत्वोत्पादात् तत्र ददातीति प्रयोगापत्तिरिति वाच्यम्, परमत्र स्वत्वानुकूलेति विशेषणान्न दोषः । न तत्र स्वत्वनाशः, किन्तु परस्वत्वोत्पत्तिमात्रम् । स्वत्ववति स्वत्वोत्पत्तिस्तु तत्रत्येच्छया उत्तेजकत्वादित्यन्ये ।

त्यागाभावान्न तथाप्रयोग इत्यपरे ।

न चोपेक्षास्थले दोषः, तत्र नियमतः परस्वत्वोत्पत्त्यभावात् । अत एव विक्रयस्थले न तथा प्रयोगः, तसय परस्वत्वाजनकत्वात् । क्रयस्यैव तज्जनकत्वात् । मूल्यदानपूर्वकस्वीकारस्यैव क्रयपदार्थत्वात् ।

ननु किमत्र स्वत्वमिति चेत्, शास्त्रानिषिद्धयथेष्टविनियोगोपायभूतक्रमप्रतिग्रहादिविषयत्वम् । तच्च न वहिरिन्द्रियवेद्यम्, प्रतिग्रहादेर्मानसज्ञानविशेषस्य बहिरिन्द्रियायोग्यतवादिति ?0प्राञ्चः?0 । ?0नव्यास्तु?0, प्रतिग्रहादिनाशोत्तरमपि स्वत्वव्यवहाराद् दानादितः स्वत्वं नश्यति, प्रतिग्रहादितश्चोत्पद्यते इत्यादिव्यवहाराच्च स्वत्वमतिरिक्तः पदार्थः । तच्च बहिरिन्द्रियवेद्यम्, स्वं पश्यामीत्यादिव्यवहारात् । तत्साक्षात्कारे च तदीयस्वत्वव्याप्यतदीययथेष्टविनियोज्यत्ववदिदमित्याकारकज्ञानं हेतुः । अतो न तद्‌ग्रहे तदीययथेष्टविनियोज्यत्वे तदीयस्वत्वव्यभिचारित्वग्रहे च न तद्‌ग्रह इत्याहुः ।

अनुमेयमेव स्वत्वम् । स्वं पश्यामीति तु सुरभि चन्दनं पश्यामीतिवन्न विशेषणांशे लौकिकविषयत्वावगाहीति ?0नव्यतराः?0 ।

एवञ्च विप्राभिन्नोद्देश्यकः प्रागुक्तस्त्याग इति बोधः ।
एवञ्च पितृभ्यः श्राद्धं दद्यादित्यादावपिन दोषः । तत्र पितृणामप्युद्देश्यत्वात् । खण्डिकोपाध्यायस्तस्मै चपेटां ददातत्यत्र संयोगविशेषानुकूलो व्यापारोदार्थः । चपेटा प्रसृतकरतलम् । न शूद्राय मतिं दद्यादित्यादौ ददातिर्बोधनार्थः, मतिशब्देन तज्जनकं शास्त्रमुच्यते । शेषत्वविवक्षायां रजकस्य वस्त्रमित्यपि साधु इति बोध्यम् ।

?0केचित् -- तु?0, कर्मत्वस्य क्रियानिरूपितत्वात् 'कारके' इत्यधिकाराच्च 'तत्क्रियाकर्मणा करणभूतेन तत्क्रियाकर्मसम्बन्धजन्यफलभागित्वेन यमभिर्प्रैति, स संप्रदानम्' इति सूत्रार्थः । कर्मसम्बन्धजन्यं फल़ञ्च, गोलाभजन्यं विप्रसुखादि । तच्च समभिव्याहारबलात् तात्पर्यतश्च विशेषरूपेण भासते । कर्मसम्बन्धजन्यफलभागित्वेनोद्देश्यश्चतुर्थ्यर्थ । एवञ्च विप्राभिन्नो यो गोसम्बन्धजन्यसुखाश्रयत्वेनोद्देश्यः, तन्निरूपतिगोवृत्तिस्वत्वोत्पत्तिस्वस्वत्वनिवृत्त्युभयानुकूलो व्यापार इति बोधः । एवञ्च कर्मणेत्यस्य चारितार्थ्यं स्पष्टमेव । एवं क्रियया यमित्येतत् सम्पाद्यचतुर्थ्या क्रियाजन्यफलाश्रयतयोद्देश्योऽर्थः, फलञ्च रतिलाभादीत्याहुः । तत्, न; "गत्यर्थकर्मणि" [ 2।3।12 ] इत्यादि1[fn अयमाशयः -- "कर्मणा यमभिप्रैति" इत्यत्र क्रियाग्रहणमपि कृत्वा 'ग्रामाय इत्यत्र चतुर्थी संसाध्य' "कर्मणि द्वितीया" इत्यनेन 'ग्रामम्' इत्यत्र द्वितीयां संसाध्य च सूत्रमिदं प्रत्याख्यातं भगवता भाष्यकारेण ।
यद्यपि तत्र क्रियाग्रहणं प्रत्याख्यातम्, तथापि तत्फलस्यान्ययासाधनेन तद्‌वचनप्रत्याख्यानान्नापूर्वं वचनं कर्त्तव्यं भवति ।
अभेदं तत्त्वम् -- सूत्रमते द्वितीयाचतुर्थ्योः करममात्रमर्थः । ग्रामकर्मकं गमनमिति बोधः ।
भाष्यमते च "क्रियया यमभिप्रैति" इति सम्प्रदानसंज्ञायां चतुर्थीति ग्रामसम्प्रदानकोत्तरदेशसमयोगानुकूलव्यापारविषयक आरम्भ इति बोधः । ] प्रत्याख्यानपरभाष्यादिविरोधेन ईदृशार्थस्यायुक्तत्वात्, एवं शाब्दबोधे मानाभावाच्च ।

अत्र सूत्रे कर्मणेत्यावर्त्तते, आवर्त्तमानञ्च क्रियापरम् । तेन कर्मरहितक्रियोद्देश्यस्यापि सम्प्रदानत्वात् 'पत्ये शेते' इत्यादिसिद्धिः । पत्युद्देश्यकशयनमिति बोधः ।

'पशुना रुद्रं यजते' इत्यत्र फलाश्रयस्तृतीयार्थः, उद्देश्यो द्वितीयार्थः । पशुकर्मकरुद्रसम्प्रदानकदानमिति बोधः 2[fn रुद्रोद्‌देश्यकः पशुनिष्ठस्वत्वनिवृत्त्यनुकूलो व्यापार इति त्वार्थः । ] । 'कर्मणः करणसञ्ज्ञा, सम्प्रदानस्य च कर्मसञ्ज्ञा' इति वार्त्तिकात् ।

हरये रोचते भक्तिः -- विषयतासम्बन्धावच्छिन्नप्रीत्यनुकूलस्तत्समानाधिकरणो व्यापारो रुचेरर्थः । आश्रयरूपसम्बन्धश्चतुर्थ्यर्थः, 'रुच्यर्थानां प्रीयमाणः' [ 1।4।33 ] इति सूत्रस्वरसात् । 3[fn अत्र 'रुच्यार्थः' इत्यतः पूर्वम् 'रुचिरर्थो येषां ते' पाठस्त्रुटितः कल्पनीयः, अन्यथा ग्रन्थासङ्गतिः । ] रुच्यर्थः । शेषषष्ठ्यपवादोऽयं रुच्यर्थफललसम्बन्धित्वमेवात्र सम्प्रदानत्वम् । एवञ्च हरिनिष्ठा भक्तिविषया या प्रीतिः, तदनुकूलो भक्तिनिष्ठो व्यापार इति । अभिलषतेस्तु तत्सम्बन्धावच्छिन्नप्रीतिव्यधिकरणो व्यापारोऽर्थ इति न स रुच्यर्थ इति हरिर्भक्तिमभिलष्यतीत्यादौ न हरेः सम्प्रदानता ।

'गोपी स्मरात् कृष्णा श्लाघते' इत्यत्र श्लाघतेर्बोधफलिका स्तुतिरर्थः । स्तुतिश्च गुणवत्त्वप्रतिपादकशब्दप्रयोगादिः । स्मरादिति हेतौ पञ्चमी । चतुथ्यर्थः कर्मत्वं बोधेऽन्वेति । "श्लाघ हनुङस्थाशपां ज्ञूप्स्यमानः" [ 1।4।34 ] इति सूत्रस्वरसाद् ज्ञीप्स्यमानपदेन च प्रधानभूतण्यर्थकर्मण एव ग्रहणं बोध्यम् । एवञ्च गोपीकर्तृ का स्मरहेतुका कृषअमबोधफलिका स्तुतिरिति बोधः । स्तुतिश्चात्मनः परस्य वेति तु प्रकणादिगम्यम् ।

अत एव कृष्णायात्मानं श्लाघत इत्यपि भवति । इदमेवाभिसन्धाय कृष्णायात्मानं परं वा श्लाघ्यं कथयतीत्यर्थ इति प्राञ्चः । कृष्णस्यैव स्तुतत्वे तु परत्वात् कर्मत्वमेव । हनुते इत्यत्र ह्नौतेर्बोधविषयेतरादर्शनयोग्यदेशस्थापनमर्थः । आत्मानमिति कर्मपदाध्याहारः । सपत्नीभिया च स्वस्य तथावस्थानं बोध्यम् ।

एवञ्च कृष्णनिष्ठबोधविषयात्मकर्मकतथ वस्थानानुकूलव्यापारो गोपीवृत्तिरिति बोधः । तिष्ठतेः स्वाभिप्रायबोधानुकूला स्थितिरर्थः । स्वाभिप्रायबोधानुकूलं शपथकरणं शपेरर्थः । कृष्णकर्मकबोधानुकूला स्थितिः । तत्कर्मकबोधानुकूलं शपथकरणमिति बोधः । एवञ्च शलाघादिधात्वर्थफलाश्रयत्वमत्र सम्प्रदानत्वमिति बोध्यमित्याहुः ।

?0अपरे तु?0 --- एवं हि ज्ञाप्यमान इत्येव सिद्धे सन उपादानवैयर्थ्यापत्तिः । ण्यन्ते कर्त्तुश्च कर्मण इत्युक्तया ज्ञाप्यमानपदेन तस्यैव ग्रहमसिद्धे ज्ञीप्स्यमानपदेन यद्‌विषयकज्ञानानुकूलव्यापारानुकूलव्यापारः, स[ना] गृह्यते, प्रथमोपस्थितत्वेन प्रकृत्यर्थकर्मग्रहणस्यैवौचित्याच्च । तस्यापि ज्ञापनविषयेच्छाविषयतवान्न शानजनुपपत्तिः । श्लाघादेश्च स्तुत्यादिपूर्विका बोधनार्थः । स्तुत्या कृष्णमन्यस्य बोधयति, हनुतिविशिष्टं कृष्णमन्यस्य बोधयति, स्थित्या ; शपथेन च कृष्णमन्यस्य बोधयतीत्यर्थ इत्याहुः । सनः स्वारस्येनोभयोरपि ज्ञीप्स्यमानपदेन ग्रहणमिति बहवः ।

'भक्ताय धारयति मोक्षो हरिः' अत्र "धारेरुत्तमर्णः"1[उत्तममृणं यस्येति बहुव्रीहिः । अत एव निपातनाद् निष्ठान्तस्य परनिपातः । उत्तमर्णो धनस्वामी । ] । [ 1।4।35 ] इति भक्तः संप्रदानम् । तत्र 'धृङ् अवस्थाने'
इति धातोर्णिचि अवस्थानानुकूलो धारेरर्थः । सम्बन्धश्चतुर्थ्यर्थः ।

एवञ्च भक्तसम्बन्धिमोक्षकर्मकावस्थित्यनुकूलो व्यापारो हरिनिष्ठ इति बोधः । धारयत्यर्थावस्थित्याश्रयसम्बन्धत्वमेतत् सम्प्रदानत्वं बोध्यम् ।

ननु ऋणं नाम सजानीयद्रव्यान्तरदानमङ्गीकृत्य परदत्तपरकीयद्रव्यादानं तज्जन्योऽधमर्णनिष्ठपरिशोधननाश्योऽदृष्टविशेषो वा, उभयथापि नेह प्राप्तिः, मोक्षस्योक्तरूऋणत्वाभावेन भक्तस्योत्तमर्णत्वाभावादिति चेत् ; अवश्यदेयत्वेन तत्रापि ऋणव्यवहारादित्याहुः ।1 [fn गदाधरभट्टाचार्यास्तु -- द्रव्यान्तरदानाभ्युपगमपूरवकपदत्तद्रव्यादानज्योऽदृष्टविशेषो धारयतेरर्थः । तद्घटदानान्वियि कर्तृत्वं चतुर्थ्यथं इत्याहुः । ]

'पुष्पेभ्यः स्पृहयति' इत्यत्रापि सम्बन्धश्चतुर्थ्यर्थः । पुष्पसम्बन्धीच्छेति बोधः । स्पृह्यर्थफलसम्बन्धित्वेनेप्सितत्वं तत्संप्रदानत्वं स्पृह्यर्थफलाश्रयत्वमेवैतत्सम्प्रदानत्वम् । 'पुष्पाणि स्पृहयति' इत्यादि तु अध्याहृतदृश्यादिक्रियाकर्मतया बोध्यम् । शेषत्वाविवक्षायां तु षष्ठ्येव । अत एव "स्पृहेरीप्सितः" [ 2।4।36 ] इति सूत्रं सङ्गच्छत इत्यपरे ।

'हरये ऋध्यति, द्रुह्यतीर्ष्यति, असूयति' इत्यत्र "क्रूधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः" [ 1।4।37 ] इति सूत्राद् हरिः संप्रदानम् । तत्र चित्तवृत्तिविशेषः क्रोधः क्रुधेरर्थः । यत्र ज्ञानविशेषः क्रोध इति, तत्र सकर्मतापत्तेः । अपकारविषयेच्छआ द्रुहेः2 [fn 'अर्थः' इति शेषः । ] । तत्रापकारो दुःखजनिका क्रिया । अयमप्यकर्मकः, धात्वर्थोपसंगृहीतकर्मकत्वात् । एतद्द्‌वययोगे सम्बन्धश्चतुर्थ्यर्थः । हरिसम्बन्धी क्रोधः, तत्सम्बन्ध्यपकारेच्छेति च बोधः । विषयतया स्वार्थकोमसम्बन्धित्वमेव चैतद्योगे सम्प्रदानत्वम् । उत्कर्षगोचरो द्वेष ईर्ष्या । शौचाचारादिगुणविषये दम्भादिकृतत्वदोषाध्यासोऽसूया । एतद्योगे कर्म चतुर्थ्यर्थः । हरिकर्मकोत्कर्षविषयो द्वेषः । हरिनिष्ठगुणविषयकं दोषाविष्करणमिति च बोधः । तद्धात्वर्थमलभूतकोपविषयत्वे सति तद्धात्वर्थफलाश्रयत्वं तत्संप्रदानत्वं बोध्यम् । सत्यन्तेन 'भार्यामोर्ष्यति, मैनामन्योऽद्राक्षीत्' इत्यादेर्व्युदासः । 'मित्राय द्रुह्यति प्रतापोऽपि' इत्यादौ चेतनत्वारोपो बोध्यः । 'कृष्णाय राध्यति, ईक्षते वा' इत्यत्र प्रश्नविषयपर्यालोचनं धात्वोरर्थः । तदेकदेशे प्रश्नविषये कृष्णस्यान्वयः । सम्बन्धश्चतुर्थ्यर्थः । स्वार्थप्रश्नविषयसम्बन्धित्वमेतद्योगे सम्प्रदानत्वं बोध्यम् ।

विप्राय गां प्रतिश्रृणोति, आश्रृणोति वेत्यत्र धातोः प्रवर्त्तनाजन्याभ्युपगमोऽर्थः । चतुर्थ्यर्थ आश्रयत्वं प्रवर्तनान्वयि । विप्रनिष्ठप्रवर्त्तनाजन्यो देवदत्तनिष्ठोऽभ्युपगम इति बोधः । स्वार्थप्रवर्त्तनाश्रयत्वमेतद्योगे संप्रदानत्वं बोध्यम् । हौत्रेऽनुगृणाति, प्रतिगृणाति वेत्यत्र शंसितृकर्मकशंसनिविषयहर्षनुकूलव्यापारलक्षणं प्रोत्साहनं धातोरर्थः । होतुश्च शंसितर्यभेदेनान्वयः । कर्मसामानाधिकरण्याच्च होता कर्म । होत्रभिन्नशंसितृकर्मकहर्षानुकूलो व्यापार इति च बोधः । धात्वर्थशंसनाश्रयत्वमेतत्संप्रदानत्वं बोध्यम् ।

'शतेन शताय वा परिक्रीतः' इत्यत्र चतुर्थ्यर्थः करणतृतीयया समानः, शतव्यापारश्च दानमेव । एवञ्च तृतीयान्तपदबोध्यकरमत्वमेवात्र संप्रदान्तवं बोध्यम् ।

'फलेभ्यो याति' अत्राहर्त्तमित्यध्याहारः । तदर्थफलाश्रयरूपं कर्म चतुर्थ्यर्थः । ननु पदजन्यपदार्तोपस्थितेः शाब्दबोधाङ्गत्वात् फलेभ्यो यातीत्यादौ चतुर्थ्यर्थान्वयोग्याहरणस्य तथोपस्थितेरभावात् कथं बोधः, न चाहर्त्तुम्पदाध्याहारः, अध्याहारश्चानुमानमुपनीतभानं वेत्यप्रयोगोऽस्त्येव । अत एव प्रकृते चतुर्थीविधायके "क्रियार्थोपपदस्य च कर्मणि स्थानिनः" [ 2।3।14 ] इति सूत्रेऽप्रयुज्यमानार्थकस्थानिपदेन विरोधो न,
प्रयोगशब्दस्योच्चारणार्थत्वादिति वाच्यम्, "स्पृहेरीप्सितः" इतिवत् "युष्मद्युपपदे" [ 1।4।105 ] इत्यादेरप्युच्चारितपदेऽध्याहृतपदे च प्रवृत्त्युपपत्तौ स्थानिन्यपीत्यस्यवैयर्थापत्तेः । तस्मात् स्थआनिपदमज्ञायमानार्थकम् । एवञ्च पदानध्याहारेऽप्यर्थमात्राध्याहारे मध्यमार्थं तत्सार्थक्यम् । अन्यथा पदनिमित्तकतया तत्र न स्यादति चेत्, न ; स्थानिग्रहमसामर्थादेव पदजन्योपस्तित्यभावेऽपि अर्थमात्राध्यहारेण शाब्दबोधविषयत्वाङ्गोकारात् चतुर्थ्यैव स्ववृत्त्योपस्थितत्वाद् वृत्तिप्रयोज्योपस्थितेर्न क्षतिः । स्पष्टञ्चेदम् "अइउण्" सूत्रे कौस्तुभे । "स्पुहेरीप्सितः" इत्यादौ च पदाध्याहार एव । तत्रार्थाध्याहारो गमकसत्त्व एव, पदाध्याहारस्तु सर्वत्रेति व्यास्था । एवञ्च फलकर्मकाहरमफकं यानमिति बोधः ।

यत्तु, फलकर्मकाहरणे फलपदस्य लक्षणा, चतुर्थ्याश्च फलमर्थः । यद्वा, क्रियामात्रं तदर्थः, कर्मत्वप्रयोजकत्वे पूर्वंपरयोः संसर्गाविति । तत्, न ; सूत्रे कर्मणीत्यस्योक्तत्वेनेदृशेऽर्थे साधुत्वे मानाभावादिति दिक् ।

यागाय यातीत्यत्र भविष्यत्कालावच्छिन्नो यागो यजेरर्थः । फलं जनकत्वसम्बन्धश्चतुर्थ्यर्थः । भविष्यद्यागजनकं यानमिति बोधः ।

'न त्वां तृणाय, तृणं वा मन्ये' इत्यत्र कर्म द्वितीयाचतुर्थ्योरर्थः । प्रकृतेश्च स्वार्थसदृशे लक्षणा । तथा च त्वदभिन्नतृणसदृशकर्मकमद्वृततिज्ञानाभाव इति बोधः । त्वद्विशेष्यकर्तृणसदृशत्वप्रकारकज्ञानाभाव इति फलति । स चात्यन्तापकर्षंप्रयुक्त एव, मन्यतेः चतुर्थीसमभिव्याहारे 'बुध्यते' इत्यर्थः, शब्दशक्तिस्वभावात् ।

ग्रामं ग्रामाय वा याति - अत्रापि द्वितीयाचतुर्थ्योः कर्मैवार्थः ।

?0अन्ये?0 -- त्वत्रोद्देश्यश्चतुर्थर्थः, यातेश्चोत्तरदेशसंयोगानुकूलव्यापारविषयकसंदर्शनप्रार्थनादिकमर्थः ।

एवञ्च संदर्शनादिकं प्रदि तत्संयोगानुकूलव्यापारस्य कृत्रिमकर्मतया तेनाभिप्रेयमाणत्वाद् ग्रामस्य संप्रदानत्वम् । फलाश्रयत्वेऽपि तत्त्वस्याविवक्षणादुद्देश्यत्वस्य च विवक्षणाददोषः ।

एवञ्च ग्रामोद्देश्यकोत्तरदेशसंयोगानुकूल्वयापारविषयकं संदर्शनादीति बोधः ।

अतिप्रसङ्गस्त्वनभिधानेन वारणीयः । ग्रामं यातीत्यादौ तु संयोगानुकूलव्यापारार्थकत्वमेवेत्याहुः ।

इति कारकचतुर्थीविभक्त्यर्थ विचारः ।