वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-१५

← वैयाकरणसिद्धान्तमञ्जूषा-१४ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-१५
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-१६ →

अथोपपदविभक्त्यर्थनिरूपणम्

अथोपपदनिभक्त्यर्थ उच्यते

'विप्रायौदनः' इत्यत्र तादर्थ्यो । तादर्थ्यमुपकरकत्वरूपः सम्बन्धः । प्रकृत्यर्थस्य प्रत्ययार्थे क्वचित् परम्परयाऽन्वयः । यथा प्रकृते समवकर्तृकभोजननिष्ठजन्यतानिरबपकत्वेनैवान्वयः । ब्राह्यणकर्त्तृकभोजनजनक ओदन इति बोधः । क्वचित्तु साक्षात् । यथा मुक्तये हरिं भजति । अत्र स्वनिष्ठजन्यतानिरूपकत्वेनैवान्वयः । मुक्तिजनकं हरिभजनमिति बोधः । अध्ययननिरूपितोपकारकतावान् वास इति बोधः ।

'भक्तिर्ज्ञानाय कल्पते' अत्र सम्बन्धश्र्वतुर्थ्यर्थः । भक्तिकर्तृका ज्ञानसंबन्विनी उत्पत्तिरिति बोधः ।तादर्थ्यचतुर्थ्यास्तु भक्तिकर्तृकाज्ञानजनिकोत्पत्तिरिति बोधः । प्रकृतिविकृत्योर्भेदविवक्षायां विकृतिवाचकाच्चतुर्थि । अभेदविवक्षायां तु कर्तृत्वात् प्रथर्मव, 'भक्तिर्ज्ञानं कल्पते' इत्यादीति । यदा तु "जनिकर्त्तुः" [2।4।30] इत्यपादानत्वविवक्षा, तदा पञ्चमी । भक्तेर्ज्ञानं कल्पत इति । ज्ञानस्याभिहितकर्तृत्वाततः प्रथमैव ।

अत्रेदं तत्त्वम्--'कल्पते' इत्यदेः 'परिणमते' इत्यर्थः । परिणामश्च रूपान्तरप्राप्तिः । तदेकदेशे रूपान्तरे ज्ञानादेर्विकारवाचकस्याभेदेनान्वये द्वितीयायां प्राप्तायाम् 'क्लृपि संपद्यमाने च' इत्यनेन चतुर्थी विधीयते । क्वृप्त्यर्थधातुयोगे उत्पद्यमानार्थवाचकाच्चतुर्थोत्यर्थः । एवञ्चात्र चरितार्था चतुर्थी चतुर्थी तयोरभेदविवक्षायां परत्वात् प्रथमया बाध्यते । कल्पादेरुत्पत्तिमात्रार्थत्वे उक्तरूत्या पञ्चम्यादीत्याहुः ।

वातय कपुला विद्युदित्यत्र ज्ञापकत्वरूपः । सम्बन्धश्चतुर्थ्यर्थः । वातज्ञापिका तपिला विद्युदिति बोधः । अत्र 'उत्पातेन ज्ञापिते च' इत्यनेन चतुर्थी । प्राणिनां शुभाशुभसूचको विकार उत्पातः ।

'विप्राय हितम्' अत्र सम्बन्धश्र्वतुथ्यर्थः । इष्टसाधनं हितपदार्थः । विप्रसम्बन्धीष्टसाधनमिति बोधः । 'हरये नमः' अत्र "नमः स्वस्तिस्वाहास्वचालंवषडयोगाच्व" [2।3।16] इति सूत्रण चतुर्यी । नमःशब्दार्थो नतिः । सा चापकृष्टच्लज्ञानबोधानुकूलो व्यापारः । तत्रापकर्षको व्यापारश्च नमःषब्देन, व्युत्पत्तिवैचिञ्यात् । स्वप्रयोक्तृपुरुषविशेषाश्रयत्वनमस्कार्यावधित्वोपरक्त एव प्रतीयते । अन्योच्चारितपद्नान्यदियनत्यबोधनात् । स च व्यापारः करशिरःसंयोगादिः क्वचित्, क्वचिदीदृशशब्दप्रयोग एव । त्था च हर्यवधिकस्वनिष्ठापकृष्टत्वज्ञानबोधानुकूलः प्रयोक्तृनिष्ठो व्यापार इति बोधः ।

'एषोऽर्घ्यः शिवाय नमः' इत्यादौ त्यागो नमःशब्दार्थः । त्यागश्र्व शिवस्वत्वस्वस्वत्वनिवृत्त्युभयानुकूलो व्यापारविशेषरूपः । शिवः स्वं न प्रतिगृह्णीयादित्यादिप्रामाण्येन द्रव्ये देवताया अपि स्वकारात् ।

चतुर्थ्यर्थश्र्वोद्देश्यत्वरूपः सम्बन्धः । उद्देश्यत्वञ्च विषयताविशेषरूपम् । एवञ्च शिवोद्देश्यकत्यागविषयोऽर्घ्य इति बोधः । अचेतनदेवतापक्षे तु स्वस्वत्वाभावानुकूलव्यापारस्त्यागः । स च वेदबोधितस्वप्रयोगकर्तृ कत्वोपरक्त एव प्रतीयते, व्युत्पत्तिवैचित्र्यात् । अन्योच्चारितनमः प्रदेनान्यदीयत्यागाप्रतीतेः । ऋत्विग्भश्र्व यजमानीयतत्तदमद्द्रव्ये स्वियत्वमारोप्येव नमःशब्दः प्रयुज्यत इति न दोषः ।संप्रदानचतुर्थी त्वत्र नाशङ्कचा, नमःपदार्थस्य क्रियात्वाभावात् । वेदबोधितेत्युक्तेर्न नीचोद्देश्यके तेयागे नमःशब्दप्रयोगा इत्याहुः ।

नमस्करोति देवान् इत्यत्र 'उपपदविभक्तोः कारकविभक्तिर्बलीयसी' इति न्यायात् कर्मत्वेन द्वितीया । धात्वर्थस्य प्रधानत्वेन नामार्थस्य चाप्रधानत्वेन प्रधानाप्रधानयोश्च प्रधाननिमित्तकार्थस्यैवौचित्यमिति हि तन्न्यायबीजम्


ननु कथमत्र कर्मत्वं देवानाम्, न च स्वनिष्ठापकृष्टत्वज्ञानबोधानुकूलव्यापाररूपनमस्कारफलस्य तादृशज्ञानबोधस्याश्रयत्वात् त्त्वमिति वाच्यम्, प्रेक्षितुस्तटस्थादेरपि कर्मत्वापत्तेरिति चेत्, न: स्वविषयविषयावधित्वसमानाधिकरणसमवायस्य फलतावच्छेदकसम्बन्वत्वाददोषः । स्वम्=अपकृष्टत्वज्ञानरूपं फलम्, अवधितासम्बन्धेनापकर्षाश्रयत्वात् कर्मत्वमित्यन्ये ।

नन्वेनमपि 'हरेय नमः' इत्याद्यनुरोधान्नमस्शब्दस्य वाचकत्वावश्यकत्वाद् नमस्शब्दार्थबोधाश्रयत्वेऽपि धात्वर्थफलाश्रयत्वाभावात् कथं कर्मत्वमिति चेत्, न: साक्षात्प्रभृतिषु पठितस्य कृञ्योगे निपातादिसंज्ञकस्य द्योतकत्वाङ्गीकाराददोषः । 'हरये नमः' इत्यादो तु स्वरादिपठितः, प्रकृते तु न सः । अत एव सत्वसमासादिसिद्धिः । न चैवमपि नमस्शब्दार्थान्वयाभावेनोपपदविभक्तोः कथं प्राप्तिः, तद्द्योत्यान्वयमात्रेण तत्प्राप्तेः । यदा तु कर्मणोऽप्यस्य शेषत्वेन विवक्षा, तदा षष्ठिं बाधित्वा "नमःस्वस्ति" इति चतुर्थी एव ।

यत्तु, एकस्या एवोपपदविभक्तित्वे, कारकविभक्तित्वे चायं न्याय इति । तत्, न : "नमोवरिवः" [3।2।22] इति सूत्रस्थभाष्यविरोधात् । तत्र हि 'नमस्यति देवान्' इत्यत्र चतुर्थीवारणायायं न्याय उपन्यस्तो भगवता । एतेन स्वस्तिसाहचर्यात् सत्ववाचकनमस्शब्दस्यैव ग्रहणम् । 'नमसस्करोति' इत्यादौ न सत्त्ववाचकः, सत्वकरणेन निपातसंज्ञकत्वादिति परास्तम् । नमस्यतीत्यादावपि क्रियावाचकत्वेनासत्त्ववाचकत्वादप्राप्तौ भाष्यविरोधापतेः ।

योगग्रहणेनैतद्योगमात्रे चुर्थीविधानेन कर्मत्वाविवक्षायाम् 'नमस्यति देवेभ्यः, इत्यनात्तेश्च । अव्ययमिति महासञ्ज्ञया स्वरादिपठितस्यापि लिङ्गसंख्याकारकान्वयित्वाच्चेति दिक् ।

'प्रजाभ्यःस्वस्ति' इत्यादौ स्वस्तिशब्दो मङ्गलार्थः । सम्बन्धश्चतुर्थ्यर्थः । मङ्गलाशंमास्थले 'स्वस्त्यस्तु गोभ्यः' इत्यादौ स्वस्तिशब्दार्थान्वये चतुर्थी, क्रियान्वये तु षष्ठी । तत्र चतुर्थ्यन्ते आशंसाविषयगोसम्बन्धिमङ्गलकर्तृकं भवनमिति बोधः । षष्ठचन्ते आशंसाविषयमङ्गलकर्तृ कं गोसम्बन्धिभवनमिति बोधः ।

यत्तु, 'आशीः स्वस्तिशब्दर्थः, सा च परहितविषयिणीच्छा, हितान्वायीसम्बन्धश्चतुर्थ्यर्थ इति । तत्, न :भूयादित्याशीर्लिङादेः प्रयोगानापत्तेः, स्वस्ति वृषलायेत्यादौ चतुर्थ्यनापत्तेश्च, अङ्गीकारार्थो हि तत्र स्वस्तिशब्दः । मङ्गलाङ्गीकारार्थत्वस्यैव प्रामाणिकैरुक्तोश्चेति दिक् ।

स्वाहास्वधावषट्शब्दस्त्यागार्तकनमस्शब्देन व्याख्याताः ।
'गैत्येभ्यो हरिरलम्' इत्यत्रलम्शब्दार्थः सामर्थ्मवान् । चतुर्थ्यर्थश्च मारणादिसम्बन्धित्वरूपसम्बन्धः । एवञ्च दैत्यमारणादिसम्बन्धिसामर्थ्यसामर्थ्यवान् इति बोधः

इत्युपपदचतुर्थोविभक्त्यर्थनिरूपणम् ।