वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-१७

← वैयाकरणसिद्धान्तमञ्जूषा-१६ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-१७
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-१८ →


अथो पपदविभकतिर्निरूप्यते ।

'वनाद् ग्रामो योजने योजनं वा' इति । अव्यहितोत्तरत्वं पञ्चम्यर्थः । प्रथमासप्तम्योस्तु स्वाव्यहितोत्तरदेशवृत्तित्वादिरूपः सम्बन्धोऽर्थः । एवञ्च वनाव्यवहितोत्तरयोजनाव्यवहितोत्तरदेशवृत्तिर्ग्राम इति बोधः ।

'कार्तिक्या आग्रहायणी मासे' इत्यत्र स्वावयवकाव्यवहितोत्तरत्वं पञ्चम्यर्थः। सप्तम्यर्थः स्वाव्यहितोत्तरकालवृत्तित्वम् । कार्तिक्यवयकोत्तरत्रिंशत्तिथ्यात्मकमासाव्यवहितोत्तरकालवृत्तिराग्रहायणीति बोधः ।

'अन्यो मित्रः, इतरो वा कृष्णात्' इत्यत्र "अन्यारादितरर्ते दिक्‌शब्दाच्चत्तरपदाजाहयुक्ते" [ 2।3।29 ] इति सूत्रेण पञ्चमी । तत्रान्य इत्यर्थग्रहण् । तदर्थश्च भेदवान् । अन्यशब्दश्च भावप्रधानः, अन्यत्वार्थक इत्यर्थः ।

अत एव घटाद्भेदो घटाद्भिन्नः इत्यादिन्नः इत्यादिसिद्धिः । न चैवं घटः पटो नेत्यादावपि पञ्चम्यापत्तिः, तस्यापि भेदार्थकत्वादिति वाच्यम्, अन्यार्थकस्य तत्सदृशस्य लिङ्गसंख्यार्थप्रतिपादस्यैव ग्रहणातः । अत एव तदर्थकस्येतरशब्दस्यावयुत्यानुवादः । स हीदृशानामेव तदर्थकानां ग्रहणमिति बोधनार्थः । न च 'इतरस्त्वन्यनीचयोः' इति नीचार्थस्य ग्रहणार्थं तदिति वाच्यम्, विधिवाक्याकल्पनलाघवेन साहचर्येण चान्यार्थस्यैव ग्रहणात्, अस्मात् तारो म्दो वेत्यादिवत् "पञ्चमी विभक्ते" [ 2।3।42 ] इत्येव सिद्धेश्च । न चान्यार्थयागेऽपि तेन सिद्धिः, निर्धारणप्रयोजकीभूतजात्यादिरूपविरुद्धधर्मानभिधानात् परस्परफ्रतियोगितभेदस्य परस्परवृत्तित्वेनानिर्धारकत्वाच्च ।

किञ्च, नञो द्योतकतया घटादिपदानामेव लाक्षणिकत्वाद् भेदनिबन्धनपञ्चम्या अप्राप्तेः । न च 'एकोऽन्यार्थे प्रधाने च' इति कोशाद् अन्यार्थकैकशब्दयोगे 'घटादेकः पटः' इत्यादौ पञ्चम्यापत्तिः, इष्टापत्तेः । एवमन्योऽन्याभाववदादपदयोगेऽपि । न चैवं 'घटीयो भेदः' इत्यादेरनापत्तिः, षष्ठीसमर्थाद्विहितच्छस्याप्राप्तेरिति वाच्यम्, 'घटस्यायम्' इतीदंशब्दार्थान्वये तस्यसुलभत्वात् ; इदमः संनिखृष्टत्वन बुद्धिस्थबोधकत्वनान्यार्थकत्वाभावात् । अत एव तेषां सर्वार्थत्वेन सर्वनामत्वम् । तद्धि एकरूपेण सर्वार्थबोधकत्वम् । तत्तद्रूपेण बोधस्तु प्रकरणादिवशात् पार्ष्णिको मानस एव । एतेन 'घटात् सः' इति स्यादित्यपास्तम् ।

वस्तुतस्तु घटे पटाद् भेदः, न तु घटादेव स इति प्रयोगादिष्टापत्तिः । घटीयो भेदः इत्यत्र तु "?Bतत आगतः" [ 4।3।74 ] इत्यर्थे छ इति वदन्ति । न च भिन्नशब्दो नान्यार्थः, घटं भिनतीत्यादाववयवविभागानुकूलव्यापारार्थकत्वेन क्लृप्तत्वाद् भिदेः क्तस्य सत्त्वादिति वाच्यम्, घटाद् भिनत्ति पटमित्यादिप्रयोगानुरोधेन धातूनामनेकार्थत्वेन चान्योऽन्याभावप्रकारकज्ञानार्थकत्वस्यापि स्वीकारात् । भेदानुकूलव्यापारार्थकत्वं तु न, तस्य नित्यत्वात् । अन्योऽन्याभावार्थकत्वमात्रेण कर्मण एव कर्तृत्वविवक्षायां घटाद् भिद्यते, घटाद् भिन्न इत्यादयः प्रयोगाः । विभागार्थकत्वाभावाच्च न "ध्रुवमपाये" [ 1।4।24 ] इत्यनेन सिद्धिरत्रेति बोध्यम् ।

यस्तु, इतरग्रहणं पृथक्त्वार्थम् । अत एव 'घटः पटात् पृथक्' इत्यादौ पञ्चमी । न च सोऽन्यार्थः, पृथक्त्वस्यातिरिक्तगुणत्वाङ्गीकारादिति । तत्, न ; तस्य गुणत्वानङ्गीकारात् । अत एव रूपं रसात् पृथगित्युपपद्यते । "पृथग्विना" [ 2।3।32 ] इत्यादिना सिद्धत्वाच्च । प्रतियोगित्वं पञ्चम्यर्थः ।

'ऋते कृष्णाद नोत्पद्यते सुखम्' इत्यत्र ऋतेशब्दार्थोऽत्यन्ताभावः, पञ्चम्यर्थः प्रतियोगित्वम् ; कृष्णशब्दश्च तद्‌भक्यादिलाक्षणिकः । एवञ्च कृष्णभक्त्यादिप्रतियोगिकात्यन्ताभावप्रयोज्यः सुखकर्तृकोत्पत्त्यभाव इति बोधः । कृष्णाद् ऋते दुःखमित्यत्र ऋतेशब्दार्थस्य सामाधिकरण्येनेतरत्रान्वयः । कृष्णात्यन्ताभावसमानधिकरणं दुःखमिति बोधः । कृष्णादृते नरः शोच्य इत्यत्रात्यन्ताभाववान् तदर्थः । कृष्णात्यन्ताभावान् नरः शोच्य इति बोधः । कृष्णादृते न धुमुर्धर इत्यादौ भेदवानर्थः । कृष्णाभिन्नो न धनुर्धर इति बोधः । एतद्योगे द्वितीयापि यथा ऋते वातं वृक्षः पतितः । अत्र वाताभाववान् वृक्षः पतनाश्रय इति बोधः । वृक्षपतने वातजन्यत्वाभावलाभस्त्वार्थः ।

?0अन्ये तु?0 --- स्वप्रकृत्यर्थनिष्ठजनकतानिरुपितजन्यताप्रतियोगित्वं विभक्त्यर्थः । तस्य ऋते शब्दार्थऽभावेऽन्वयः । तस्यचट पतनेऽन्वयः । तस्य च पतनेऽन्वयः । एवञ्च वृक्षकर्तृकं वातजन्यत्वाभाववत् पतनमिति बोध ?0इत्याहुः ।

'पूर्वो ग्रामात्' अत्रोदयाचलसंनिहितदेशत्वं पूर्वत्वम् । तदेकदेशे संनिहितत्वे पञ्चम्यर्थावधित्वस्यान्वयः । एवं पश्चिमत्वमस्ताचलसनिहितदेशत्वम् । सूर्योदयदिगभिमुखस्थितस्य सव्यहस्तसंनिहितदेशत्वं दक्षिणत्वम् । तथावस्थितस्य वाम हस्तसंनिहितदेशत्वमुत्तरत्वम् । ग्रामावधिकोदयाचलसंनिहितदेश [त्वम्] इत्यादि क्रमेण बोधः ।

'चैत्रात् पूर्वः फाल्गुनः' प्रतियोगितद्ध्वंसानधिकरणकालः पूर्वशब्दार्थः । चैत्रशब्दार्थस्य प्रतियोगिन्यभेदेन ध्वंसे प्रतियोगितया काले च तात्पर्यवशादव्यवहित्वादिनान्वयः, एकसयाप्यनेकधाऽन्वयो व्युत्पत्तिवैचित्र्यात् । एवञ्च चैत्राभिन्नप्रितयोगितद्ध्वसैतदुभयानधिकरणचैत्राव्यवहितकालवृत्तिः फाल्गुन इति बोधः । 'चैत्रात् पूर्वो माघः' इत्यादौ तात्पर्यवशाद् यथायथं त्रिशद्दितव्यवहितत्वादिना काले चैत्रस्यान्वयो बोध्यः । प्रागभावाङ्गीकारे तु तदधिकरणकालः पूर्वशब्दार्थः । चैत्र तु पर इत्यादौ ध्वंसाधिकरणकालः परशब्दार्थः। चैत्रस्य च ध्वंसे प्रतियोगितया काले चाव्यवहित्वादिनान्वयः, तात्पर्यवशात् प्राग्वत् । कृष्णात् पूर्वो वलभद्र इत्यत्र कृष्णशब्दः स्वोत्पत्तिकाले लाक्षणिकः, कृष्णीत्पत्तिकालतद्ध्वंसोभयानधिकरणकालोत्पत्तिक इति बोधः । कृष्णात् पर इत्यादौ कृष्णोत्पत्तिकालध्वंसाधिकरणकालवृत्तिरितिबोधः ।

प्रयागादुत्तरं काशीत्यादौ संयुक्तसंयोगवद्देशत्वमुत्तरत्वम् । तस्य च पूर्वत्वदक्षिणत्वपश्चिमत्वादिना तत्तद्रूपेण तात्पर्यवशात् तत्तत्प्रयोगेषु भानम् ।

'गृहाद् गङ्गा मम परा काश्याः सैवापरा मम ।'

इत्यादौ विप्रकृष्टदेशस्थत्वसंनिकृष्टदेशस्थत्वे परापरशब्दस्यार्थौ, पञ्चम्यर्थोऽवधित्वाख्यः, सम्बन्धः । तेन गृहावधिकमत्सम्बन्धिविप्रकर्षवती गङ्गेत्यादिक्रमेण बोधः। ममेत्यत्र तु न पञ्चमी, प्रत्यासत्तिन्यायेन यस्य पदस्य यत्रीत्थिताऽऽकाङ्क्षा तद्वाचकादेव तत्पदनिमित्तविभक्तिस्वीकारात् । परादिपदञ्चावाधावेव नियताकाङ्क्षम्, न सम्बन्धिनीति स्पष्टमेव ।

प्राक् प्रत्यग्वा ग्रामादितिपूर्वादिशब्दैर्व्याख्यातम् । भवात् प्रभृति आरभ्य वा सेव्यो हरिरित्यत्र प्रभृतीत्यारभ्येत्यर्थकमव्ययम् । आरम्भ आद्यक्षणसम्बन्धः, उत्तरकालव्यापकत्वं चेतरक्रियान्वये संसर्गः, शब्दक्तिस्वभावात् । एवञ्च भवसम्बन्ध्याद्यक्षणसम्बन्धीत्तरकालव्यापकसेवाकर्म हरिरिति बोधः ।
आद्यक्षणमारभ्येतायदौ सम्बन्धानुकूलो व्यापारो धात्वर्थः । अत एवाद्यक्षणस्य कर्मत्वम् । कर्मत्वाविक्षायामपि षष्ठीं बाधित्वा पञ्चम्येवेति बोध्यम् ।

'ग्रामाद्‌वहिः' अत्र बहिःशब्देन समभिव्याहृतपदार्थतावच्छेदकानधिकरणतत्संहित [तः] देशः कालो वा तात्पर्यादुच्यते, तत्‌स्थं वस्तु च । एवञ्च ग्रामसम्बन्धी ग्रामत्वानधिकरणदेशः, तत्स्थं वस्तु वेति बोधः ।

'अप हरेः, परि हरेः संसारः' इत्यत्रापपरी ऋतेशब्दसमानार्थौ ।

आमुक्तेः संसारः, अत्र मर्यादा आङोऽर्थः । तत्र मर्यादा द्विविधा -- कालरुपा देशरूपा च । कालगतमर्यादात्वञ्च स्वप्रागभावाधिकरणकालवृत्तिर्यः समभिव्याहृतपदार्थःष तदनधिकरमत्वम् । मुक्तिपदञ्च मुक्त्यधिकरणकालप्रागभावपरम्। तत्राङर्थो व्यापकत्वम् । पञ्चम्य्थो निरुपितत्वम् । व्यापकत्वस्य स्वव्यप्यीयप्रतियोग्यवृत्तित्वविशिष्टाश्रयतासम्बन्धेन संसारेऽन्वयः । मुकत्यधिकरणकालप्रागभावनिरुपितस्वप्रतियोग्यवृत्तिविशिष्टव्यापकतावान् संसार इति बोधः ।

[स्वमुक्त्यधिकरणकालप्रागभावः1 [fn मध्येकोष्ठं पाठः प्रकृतानुण्योगी] ] एतदर्थकयाचवच्छब्दयोगे तु द्वितीया ।2 [fn उभसर्वतसोः कार्यीविगुपर्यादिषु त्रिषु ।
द्वितीयाऽऽभ्रे डितान्तेषु ततोऽन्यत्रापि दृश्यते ।।
इत्यनेन द्वितीयेत्यर्थः ।] कार्तिक्याः वैशाखीं यावत् शीतममित यथा । अत्र यावच्छब्दार्थो व्यापकत्वम्, निरुपितत्वं द्वितीयार्थः, वैशाखीपदेन न कार्तिकोध्वंससमानाधिकरणवैशाखीप्रागभावाधिकरणकालो लक्ष्यते, मर्यादार्थकयावच्छब्दकार्तिकीपदयोः समभिव्याहारात् ।

यद्वा, कार्तिकीपदेन तद्ध्वंसो लक्ष्यते । । तस्याश्रयतासम्बन्धेन वैशाखीप्रागभावाधिकरणकालेऽन्वयः । तेन वैशाखोप्रागभावाधिकरणकार्त्तिकीपूर्ववर्तिमासेषु शीताभावसत्त्वेऽपि न दोषः ।

व्यापकत्वञ्च स्वाधिकरणस्वप्रतियोगिसजातीयकालनिष्ठाभावप्रतियोगितानवच्छेदकधर्मवत्त्वम् । स्वं वैशाखीप्रागभावः, साजात्यञ्च स्वप्रतियोगिपदार्थ तावच्छेदकतिथित्वादिना । तेन प्रागभावाधिकरणयत्किञ्चिद्‌दण्डादिषु शीताभावेऽपि न दोषः ।

'आरभ्य तस्यां दशमीं तु यावत् प्रपूजयेत्' इत्यादौ तिथिरखण्डकालविशेषरूपैव, न तु क्रियाप्रचयः, पूजादेस्तावत्क्रिवृत्तित्वासम्भवात् । समभिव्याहृतावधिपदार्थस्य यावत्त्वप्रतियोगिनो व्यापकस्य च तत्तद्रूपेणैव भानम्, तात्पर्यवशात् । तेन भाविभूतवैशाख्यादिकमादाय न व्यापकत्वहानिः । व्यापकत्वस्य स्वनिरूपितव्याप्यतावद्‌वृत्तिप्रागभावप्रतियोग्वृत्तित्वविशिष्टाश्रयतया शीतेऽन्वयः ।

एवञ्च कार्तिकीध्वंससमानाधिकरणवैशाखीप्रागभावाधिकरणकालनिरूपितस्ववृत्तिप्रागबावप्रतियोग्यवृत्तित्वविष्टव्यापकतावच्छीतमिति बोधः । देशगतमर्यादात्वञ्च स्वसमभिव्याहृतावधिपदार्थान्तरालदेशवृत्तिपदार्थानधिकरणत्वम् । यथा प्रयागात् काशीं यावद् आयातीत्यादौ । अत्र काशोपदेन प्रयागे काश्यन्तरालदेशो लक्ष्यते । प्रयागपदं तात्पर्यग्राहकम् ।

?0यद्वा?0, प्रयागपदं तदुत्तरदेशलक्षकं काशीपद़ञ्च तत्पूर्वदेशस्य व्यापकत्वं यावदर्थः । तस्य च
स्वनिरूपितव्याप्यत्ववद्‌भिन्नावृत्तित्वविशिष्टाधारतया आगमनेऽन्वयः । एवञ्च प्रयागोत्तरकाशोपूर्वदेशव्यापकं तद्भिन्नदेशावृत्तिगमनमिति फलति ।

आसकलाद् ब्रह्मेत्यत्राभिविधिराङोऽर्थः । सकलत्वव्यापकं ब्रह्मेति बोधः । सोऽपि द्विविधः -- कालिको देवशिकश्च । तत्राद्यं यथा --- कार्तिक्याश्चैत्रं यावच्छीतमिति । अत्र कार्तिकोध्वंसाधिकरणचैत्रोत्तरकालप्रागभावाधिकरणकालव्यापकत्वं शीते प्रत्याय्यते । चैत्रपदेन च कार्त्तिकीध्वंसाधिकरणचैत्रोत्तरकालप्रागभावाधिकरणकालो लक्ष्यत इत्यादि प्राग्वत् । यावदर्थो व्यापकत्वम् ।

अन्त्यं यथा काशीतः पाटलीपुत्रं यावद् वृष्ट इति1[fn 'वृष्टो इति' एतदनुकरणमतश्च नासाधु ] । अत्र काशीपश्चिमदेशावधिपूर्वदेशपाटलिपुत्रपूर्वदेशावधिकपश्चिमदेशव्यापकत्वम् । पाटलिपुत्रपूर्वदेशावृत्तित्वविशिष्टं काशोपश्चिमदेशावृत्तित्वविशिष्टञ्च वृष्टो यावच्छब्देन प्रत्याय्येते । अन्वयः प्रागुक्तदिशोह्य इति दिक् ।

'प्रद्युम्नः कृष्णात् प्रति' अत्र सादृश्यवान्प्रत्यर्थः । कृष्णप्रतियोगिकसादृश्यवानिति बोधः । तिलेभ्यः प्रति यच्छति भाषान् अत्र ग्रहमपूर्वकपुनः प्रत्यर्पणं प्रतिसमभिव्याहृतयच्छेतेरर्थः । एवञ्च तिलसम्बन्धिग्रहणपूर्वकं माषकर्मकं प्रत्यर्पणमिति बोधः ।

शताद् बद्धः -- अत्र हेतुः पञ्चम्यर्थः । शतहेतुकबन्धनकर्मेति बोधः । एतेन 'जाङ्याद् बद्धः, धूमादग्निमान्' इत्यादिकं व्याख्यातम् । 1 [fn अत्र आननिष्ठजन्यजनकभावस्य विषये आरोपात् पञ्चमीति प्रकृतग्रन्थकृदाशयः । एवञ्च धूमादेर्वहन्याविजनकत्वाभावेऽपि पञ्चम्यनुपपत्तिर्निरस्ता । तथा चात्र पक्षे धूमहेतुको वह्निरिति बोधः । ज्ञापकस्यापि हेतुपदेन ग्रहणं भवतीति कथनं तु नितान्तमसङ्गतम्, 'हेतुर्नाकारणं बीजम्' इति कोशेन हेतुपदस्य कारणार्थकत्वनिश्चयात् । लोकैऽपि कारणार्थे ज्ञापकपदस्य प्रयोगाभावाच्च ।
लघुशब्देन्दुशेखरे तु -- 'धूमपदं स्वज्ञाने, अग्निमत्पदं च स्वज्ञानविषये लाक्षणिकम्' इति प्रतिपादितम् ।
तस्यायमाशः -- धूमज्ञानस्यैवाग्निमज्ज्ञानं प्रति हेतुत्वाद् ज्ञाननिष्ठहेतुहेतुमद्भावस्य विषये आरोपः । अत्र पक्षे धूमज्ञानहेतुकवह्निमज्ज्ञानविषयपर्वत इति बोधः ।
पूर्वोक्तयोः पक्षयोर्ज्ञानगतजन्यजनकभावस्य विषय आरोप इत्येव पक्षः साधीयान् प्रतिभाति ।
चिन्तामणिकारास्तु -- वह्निपदं वह्निज्ञानलाक्षणिकम्, धूमपदंधूमज्ञानलाक्षणिकम्, जनकत्वरूपं हेतुत्वं पञ्चम्यर्थः । प्रकृत्यर्थधूमज्ञानान्वितस्य जनकत्वस्य निरूपकतासम्बन्धेन वह्निपदार्थवह्निज्ञानेऽन्वयः । मतुबर्थो विषयतावान्, विषयता वा, वह्निपदलक्षणा वा आश्रयत्वसम्बन्धी मतुबर्थः । अथवा वह्निपदं ज्ञायमानवह्निलाक्षणिकम्, मतुबर्थः संयोगीत्याहुः ।
एवञ्चैतन्मते धूमज्ञाननिष्ठजनकतानिरूपितजन्यतावद्‌वह्निज्ञानविष्यसम्बन्धो पर्वत इति बोधः ।
दीधितिकारस्तु -- ज्ञानज्ञाप्यत्वं पञ्चम्यर्थः, धूमपदं मुख्यार्थकमेव अत एवोदाहरणादिवाक्यन धूमस्यैव गमकताप्रयोजनॉकव्याप्त्यादिकं प्रदर्श्यते । वह्निपदमपि मुख्यार्थकमेव । अत एव जिज्ञासिताभिधानं भवति, यतो वह्निरेव जिज्ञासितः, न तु वह्निज्ञानमित्याहुः ।
एतन्मते धूमज्ञानज्ञाप्यो वह्निरिति बोधः । ]धूमादिपदैस्तज्ज्ञानं लक्ष्यते ।

पृथग्, विना, नाना, रामं रामाद्रामेण वा -- अत्र पञ्चमीद्वितीयातृतीयानां प्रयोगित्वरूपसम्बन्धोऽर्थः । पृथक्त्वं गुणो भेदो वेत्यन्यदेतत् । विनानाने ऋते शब्दसमानार्थे ।
'स्तेकेन स्तोकाद् वा मुक्तः' अत्र तृतीयापञ्चम्यौ करणार्थे । यत्नेनेत्यादि विशेष्यमध्याहार्यम् । स्तोकाभिन्नयत्नकरणकमुक्तिकर्मेति बोधः ।

?0अन्ये तु?0, स्तोकशब्दो धर्मपरः, यद्धर्मावेशाद्धि द्रव्ये स्तोकव्यवहारः । करणत्वञ्च परम्परया तृतीयार्थे व्यापारे स्वाश्रयवृत्तित्वसम्बन्धेन प्रकृत्यर्थान्वयः । तृतीयार्थाश्रयस्य च स्वाश्रयवृत्तिव्यापारजन्यत्वसम्ब्नधेन क्रियायामन्वय इत्याहुः ।

ग्रामस्य दूरात् दूरेण दूरं वा गतमित्यत्र तृतीयापञ्चमीद्वितीयाः प्रातिपदिकार्थे, दूरदेशवृत्तित्वं दूरशब्दार्थः, षष्ठ्यर्थः सम्बन्धः, दूरदेशवृत्तित्त्वस्य चाश्रयतया गमनेऽन्वयः । न च नामार्थयोरभेदान्वयव्युत्पत्तिविरोधः, नामजन्यप्रतीतिविशेष्ययोरेवान्वये तथाव्युत्पत्त्यङ्गीकारात्, अधिकरणशक्तिप्रधानप्रातः शब्दादिवदुपपत्तेश्च ।

अन्ये तु दूरदेशवृततित्ववानर्थ इत्याहुः ।

एतेन ग्रामस्यान्तिकमन्तिकादन्तिकेन वेति व्याख्यातम् । समीपदेशवृत्तित्वादिकमन्तिकार्थः ।

इति पञ्चमीविभक्त्यर्थनिरूपणम् ।

?0************