वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-१८

← वैयाकरणसिद्धान्तमञ्जूषा-१७ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-१८
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-१९ →


अथ षष्ठीविभक्यर्थनिरूपणम्

षष्ठ्यर्थः सम्बन्धत्वेन सम्बन्धः, 1[fn अयमत्र संग्रहः -- "षष्ठी शेषे" इति सूत्रेण कारकप्रातिपदिकार्थभिन्नस्वस्वामिभावादिरूपसम्बन्धे षष्ठी विधीयते । स च सम्बन्धः सम्बन्धत्वेन तत्तद्रूपेण च षष्ठ्यर्थः । तात्पर्यबलात् क्वचित् तत्तद्रूपेण, क्वचिच्च सम्बन्धत्वेने प्रतीयते ।
सम्बन्धत्वेन क्रियाकारकभावश्च षष्ठ्यर्थः । अत एव समानकालिकत्वाद्यनेकसम्बन्धवत्यपि वाससि 'नेदं चैत्रस्य' इति प्रयोग उपपद्यते । अन्यथा तत्र चैत्रसम्बन्धाभावेन तद्वद्‌भेदाभावेन च तदनुपपत्तिः स्पष्टैव ।
तत्तद्रूपेण सम्बन्धस्य षष्ठ्यर्थत्वे तु स्वत्वादिमत्त्वादिमत्त्वावच्छिन्नभेदस्य अन्यदीयवस्त्रादौ सत्त्वाद् न 'चैत्रस्य नेदम्' इति प्रयोगस्यानुपपत्तिः । तत्तद्रूपेण वाच्यत्वादेव 'एकशतं षष्ठ्यर्थः' इति "षष्ठी स्थाने योगा", इत्यत्रत्यं भाष्यं सङ्गच्छते । सम्बन्धत्वेनैव तस्य तथात्वे तु सम्बन्धत्वावच्छिन्नशक्तेरैक्याद् भाष्यानुपपत्तिः स्यात् ।
द्वितीयादितस्तु क्रियाकारकभावस्यानुभवानुरोधेन कर्मत्वक्रियात्वाद्यात्मकविशेषमरूपेण बोधः । 'मातुः स्मरति ' इत्यादौतु क्रियाकारकभावस्य विशेषरूपेण बोधः । 'मातुः स्मरति' इत्यादौ तु क्रियाकारकभावस्य विशेषरूपेण बोधाभ्युपगमे बाधकद्वितीयाद्यापत्त्या सम्बन्धत्वेनैव क्रियाकारकभावस्य बोधः स्वीक्रियत इति नव्याः शाब्दिकाः, तार्किकाश्च मिश्रादयः ।
प्राञ्चस्तु -- अत्रापि क्रियाकारकभावमूलकं विशेषणत्वरूपम्, विषयत्वं निमित्तत्वं वा सम्बन्धत्वेन विशेषणरूपेण वा प्रीतयते । तदुक्तं भर्तृहरिणा --
सम्बन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः ।
श्रुतायामश्रुतायां वा क्रियायामभिधीयते ।।
सर्वत्रैव हि सम्बन्धः क्रियाकारकभावमूलक एतन्मते । 'राज्ञः पुरुषः' इत्यत्र स्वस्वामिभावसम्बन्धोऽपि क्रियाकारकभावपूर्वक एव । 'यतो हि राजा पुरुषायवेतनदानेन तस्य स्वामी भवति' इत्यर्थकं भाष्यमेवात्र एव । 'यतो हिराजा पुरुषाय वेतनदानेन तस्य स्वामी भवति' इत्यर्थकं भाष्यमेवात्र मानं वर्तते । क्रिया हि सिद्धस्वभावानां द्रव्याणां क्रियां विना परस्परसम्बन्धमभजतां निराश्रयेव सम्बन्धं करोति । 'मातुः स्मरति' इत्यत्र क्रिया श्रुता, 'राज्ञः पुरुषः' इत्यादौ तु अश्रुता दानादिक्रियाऽनुमीयत इत्याहुः ।
इदमत्र बोध्यम् -- 'राज्ञः पुरुषः' इत्यत्र राजादिः सम्बन्धे विशेषणम्, सम्बन्धश्च पुरुषे विशेषणम् । 'राजसम्बन्धि पुरुषः' इति बोधः । एवञ्च सम्बन्घस्य स्वस्वमिभावस्य द्विष्ठत्वेऽपि विशेषणवाचकाद् राजशब्दादेव षष्ठी, न तु पुरुषादिपदात्, प्रकृत्यर्थं प्रति प्रत्ययार्थस्य प्राधान्यानुरोधात् ।
यद्यपि षष्ठ्यर्थसम्बन्धस्य संसर्गतयैव भाष्यमते भानम्, तथापि प्रकारतायाः सांसर्गिकविषयताविशेष्यतोभयनिरूप्यतया प्रकारतानिरूपकविषयताशालित्वरूपप्राधान्यमक्षतमेव । पुरुषादिशब्दात् षष्ठ्यां सत्यां तु नेदं निर्वहेत् ।
अथ च विशेष्यपुरुषादौ कारकप्रतिपादिकार्थाऽन्यतरत्वस्यावश्यकत्वेन अशेषत्वात् ततो न षष्ठी ।
वस्तुतस्तु शब्दशक्तिस्वभावाद् विशेषण एव सम्बन्ध उद्‌भूततया प्रतीयत इति विशेषणवाचकपदादेव षष्ठी । तदुक्तं हरिणा --
दिष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते ।
तत्राभिधीयमानश्च प्रधानेऽप्युपयुज्यते ।।
अयमाशयः -- प्रकारतया अभेदस्य सम्बन्धत्वानङ्गीकर्तृ नये 'नीलो घटः' इत्यादौ व्यभिचाराद् भेदसाहित्यानुसरणम् । भेदसहितायाः सम्बन्धनियततया विशेषण एव तदाकाङ्क्षोदयेन तत्रैव सम्बन्ध उद्भूततया प्रतीयत इति तत्रैव सम्बन्ध उद्भूततया प्रतीयत इति तत्रैव षष्ठी । विशेष्यस्य तु पदान्तरासन्निधाने स्वनिष्ठत्वादेव न विशेष्यतानियामकसम्बन्धाऽऽकाङ्क्षा । स्वनिष्ठत्वञ्च स्वार्थप्रवृत्तिनिमितत्तनिरूपितविशेष्यतया
भासमानत्वम्, तच्छालित्वं वा ।
अप्रधाने षष्ठ्यादिना अंशतः प्रतीतिपथावतीर्णः सम्बन्धः प्रधानोपयोग्यपि, तस्य द्विष्ठत्वात् । ]"षष्ठी शेषे" [ 2।3।50 ] इति सूत्रस्वरसादिति प्राञ्चः ।

ननु षष्ठ्या सम्बन्धविशेषाणां तत्तद्रूपेणैव भानादिदमयुक्तम् । अत एव संयोगादिसम्बन्धसत्त्वेऽपि सम्बन्धविशेषतात्पर्येण 'चेत्रस्य नेदं वासः' इति प्रयुज्यते । अत एव 'एकशतं षष्ठ्यर्थाः' इति अस्तेरनन्तरे समीपे वेति च "षष्ठी स्थानेयोगा" [ 1।1।46 ] इति सूत्रस्थभाष्यम्, 'एकाऽपि षष्ठी विषयभेदाद् भिद्यते' इति " आदेशप्रत्यययोः " [ 8।3।59 ] इति सूत्रस्थं भाष्यञ्च संगच्छत इति चेत्, सत्यम् ; "षष्ठी शेषे" इति सूत्रे शेषश्च उक्तादन्यः । स च तत्तद्रूपेण स्वत्वादिसम्बन्धत्वेन च सम्बन्धत्वेन रूपेण कर्मत्वादिश्च, कर्मादिपदेभ्य आश्रयत्वेनैवाश्रयबोधस्यानुभवसिद्धत्वेन तत्तद्रूपेण बोध एव द्वितीयादिविधानात् । तत्रासति बाधके नहि निर्विशेषं सामान्यमिति न्यायात् तत्तद्रूपेणैव बोधः, कदाचित् सम्बन्धत्वेनापि षष्ठ्या जन्यते, 'मातुः स्मरति' इत्यादौ च तत्तद्रूपेण बोधे द्वितीयादीनां बाधिकानां सत्त्वात् सम्बन्धत्वेनैव बोध इत्याहुः ।

केचित्तु, शेषपदार्थस्योक्तादन्यरूपत्वेनावध्यवधिमतोः साजात्यस्यौचित्यात् चान्यो धर्मिरूप एव सम्बन्धी सम्बन्धित्वेन षष्ठ्यर्थः । प्रत्ययार्थैकदेशे सम्बन्धे प्रकृत्यर्थस्य प्रतियोगितासम्बन्धेनान्वयः । प्रत्ययार्थश्चानुयोगिरूपेतरपदार्थेऽभेदेनान्वेति ।

?0यद्वा?0, सम्बन्धप्रतियोग्यर्थः । एवञ्च प्रकृत्यर्थस्याभेदेनैवान्वयः । तस्य चेतरपदार्थे स्वावच्छेदकप्रतियोगितानिरूपितानिरूपितानुयोगित्वसम्बन्धनैवान्वयः, व्युत्पत्तिवैचित्र्यात् । एवञ्च प्रत्ययार्थसंख्याया इतरविभक्तिवत् प्रत्ययार्थे एवान्वयो भवति । तथा च विभक्यत्यर्थसंख्याप्रकारकशाब्दबोधे विभक्तिजन्योपस्थितिर्हेतुरिति कार्यकारणभावः ।

तव तु षष्ठ्यर्थसंख्याप्रकारकशाब्दबोधे प्रकृतिजन्योपस्थितिर्हेतुरिति कार्यकारणभावान्तरमपि कल्प्यं स्यात् । न च सम्बन्ध एव तदन्वयः, एकराजकीयसम्बन्धद्वयाद्यभिप्रायेण राज्ञोरित्याद्यापत्तेः । 'सम्बन्धः शक्तिरेव वा' इति हरिकारिकायामपि सम्बन्धशब्दः 'अर्श आद्यजन्तः' इत्याहुः ।

'शक्तिरेव वा' इति मतान्तरे तु सम्बन्ध एवार्थ इति ध्येयम् । स च सम्बन्धोऽपि प्रकारएव, पदार्थत्वात् ।

एतेन कर्मत्वादौ शक्तिरिति पक्षे द्वितीयादीनां षष्ठ्याश्च विषयविभागो न स्यात् । धर्मिणि शक्तिरिति मेत तु धर्मिणि प्रतिपाद्ये द्वितीया, धर्मे षष्ठीति व्यवस्था सम्भवतीति परास्तम्, धर्मे शक्तावपि कर्मत्वत्वादिना बोधे द्वितीयादयः सम्बन्धत्वेन बोधे षष्ठति व्यवस्थासम्भवात् ।

इयांस्तु विशेषः -- धर्मिणि शक्तिरिति मते धर्मिणः सम्बन्धित्वेन विवक्षायां धर्ममात्रस्य भेदेनान्वयविवक्षायाञ्च षष्ठ्येव, उभयारपि विशेषत्वात् । धर्मे शक्तिरिति मते तु धर्मस्य सम्बन्धत्वेन विवक्षायामेवेत्यलम् । एवञ्च 'राज्ञः पुरुषः' इत्यत्र राजनिरूपितस्वत्ववान् पुरुष इति बोधः । सम्बन्धविशेषतात्पर्यविरहे तु सम्बन्धत्वेनापि सम्बन्धः षष्ठ्यर्थः । राजसम्बन्धी पुरुष इति च बोधः ।

मातुः स्मरतीत्यादौ, मातृसम्बन्धिस्मरणकर्त्तीत बाधः ।
अन्नस्य हेतोर्वसति -- षष्ठ्यर्थो जन्यत्वम् । हेत्वभिन्नान्ननिष्ठजनकानिरूपितजन्यतावान् वास इति बोधः ।

ग्रामस्य दक्षिणतः पुरः, उपरि वाऽस्तोत्यत्र दक्षिणदेशाधिकरणत्वर्माग्रमदेशादिकरणत्वमूर्ध्वदेशाधिकरणत्व़्च दक्षिणत इत्यादेरर्थः । सम्बन्धः षष्ठ्यर्थः ।

'अग्नये छागस्य वपायाः हविषो मेदसः प्रेष्ये' इति । अत्र मेदस इति कर्मणि षष्ठी छागस्येत्यवयवावयविभावसम्बन्धे वपाया इति च सम्बन्धे छागावयवीभूतवपासम्बन्धिहविर्भूतमेदः कर्मकः, प्रैष इति बोधः ।

'कृष्णस्य कृतिः' इत्यत्र कर्त्ता षष्ठ्यर्थः, कृष्णकर्त्तृका कृतिरिति बोधः ।
'जगतः कर्त्ता कृष्णः' इत्यत्र कर्म षष्ठ्यर्थः, जगत्‌कर्मकोत्पत्त्यनुकूलव्यापाराश्रयः कृष्ण इति बोधः ।1 [fn तार्किकास्तु -- कर्त्तृत्वं कर्मत्वमर्थः । प्रकृत्यर्थस्य तत्राधेयतासम्बन्धेनन्वयः । कर्तृत्वादेनिरूपकतासम्बन्धेन धात्वर्थऽन्वयः ।
कृष्णवृत्तिकर्त्तृ तानिरूपककृतिमान् जगद्‌वृत्तिविषयतारूपकर्मतानिरूपककृतिमान् कृष्ण इति बोध इत्याहुः । ]

यत्त्वत्र कर्तृ कर्मणोः षष्ठ्याः लक्षणेति । तत्, न ; "कर्त्तृकर्मणोः कृति" [ 2।3।65 ] इत्यादेः शक्तिग्राहकानुशासनस्य सत्त्वेन लक्षणाया अयुक्तत्वात् । नेदं शक्तिग्राहकमिति तु रिक्तं वचः । "शेषे षष्ठी" इत्यादेरपि शक्तिग्राहकतानापत्तेः, सुविभक्तौ न लक्षणेति वृद्धप्रवादाच्चेति दिक् ।

'राहोः शिरः' इत्यादौ त्वनेकावस्थाप्रयुक्तशिरस इदमेकावस्थायुक्तमवयव इति भेदमारोप्यैव षष्ठी निर्वाह्यति "आद्यन्तवत्" सूत्रे भाष्ये स्पष्टम् ।

इति षष्ठीविभक्त्यर्थनिरूपमम् ।