वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-२

← वैयाकरणसिद्धान्तमञ्जूषा-१ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-२
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-३ →

अथ लक्षणानिरूपणम्

ननु वैयाकरणानां बोधकत्वस्यैव शक्तित्वे गङ्गादिपदे तीरादिबोधकताया अपि सत्त्वेन शक्त्यैवोपपत्तौ लक्षणाद्युच्चेद इति चेत्, अत्राहुः --- यस्य स्थितित्वेनैव हेतुत्वान्न कार्यकारम1 कोष्ठान्तर्गतः पाठः प्रकृताननुकूलः । पदार्थस्य स्वविषयकबोधजनकत्वज्ञानाद् बोधस्तदर्थनिरुपितबोधकत्वं शक्तिः । यस्य पदार्थस्य स्वसम्बन्धिबोधजनकत्वज्ञानाद् बोधः, तत्पदार्थनिरूपिततादृशबोधकत्वं लक्षणेति व्यवस्थाङ्गीकारात्2 अत्र नैयायिकाः शक्यसम्बन्धो लक्षणा । लक्षणायां च तात्पर्यानुपपत्तिरेव बूजम् । स्वनये वाक्ये शकतेरभावात् शक्य सम्बन्धरूपा लक्षणापि नास्ति । यत्र 'गभीरायां नद्यां घोषः' इत्युक्तम्, तत्र नदीपदस्य नदीतीरेमक्षणा, गभीरपदार्थस्य नद्या सहाभेदेनान्वयः, क्वचिदेकदेशान्वयस्यापि स्वीकृतत्वात् । यदि तत्रैकदेशान्वयो न स्वीक्रियते, तदा नदीपदस्य गभीरनदीतीरे लक्षणा, गभीरपदं तात्पर्यग्राहकम् । सा च लक्षणा तात्स्थ्यादिनिमित्तिका मीमांसकास्तु -- वाक्यशक्त्यस्वीकारेण 'गंभीरायां नद्यां घोषः' इत्याद्यनुरोधेन 'स्वबोध्यसम्बन्धो लक्षणा' । गभीरायां नद्यामिति वाक्यस्य बोध्या गभीराभिन्न नदी, तत्सम्बन्धस्तीरे इति वाक्येषऽपि लक्षणा । अत्रमते वेदस्यापौरुषेयत्वेन कस्यापि तात्पर्यस्याभावात् 'यजमानः प्रस्तरः, आयुर्वै घृतम्' इत्यादौ अत्न्वयानुपपत्तिरेव लक्षणाबीजम् । वैयाकरणेषु -- कौण्डभट्टस्य लक्षणाऽसम्मतैव । लक्षणास्वीकारे वृत्तिद्वयमवच्छेदकद्वयञ्च कल्पनीयं भवति । शाब्दबोधे लक्षणाजन्योपस्थितेः पृथक् कारणत्वं वक्तव्यम् । एवं पदार्थोपस्थितावपि तज्ज्ञानस्य हेतुत्वं स्वीकार्यम्, तथा च गौरवम्; अतो गङ्गापदात्तीरप्रत्ययार्थ गङ्गापद एव शक्तिद्वयं स्वीकार्यम् एका प्रसिद्धाः; अपरा अप्रसद्धा । एवञ्च लक्षणया प्रतिपिपादियिषितस्वार्थस्याऽप्रसिद्धशक्त्यैव बोधनिर्वाहे लक्षणा पृथङ्नाङ्गीकार्या इतिपरमलघुमञ्जूषकाराः । नहि गङ्गादौ तीरादिबोधकत्वसत्त्वेऽपि तड्ज्ञानाद् बोधः, किन्तु स्वसम्बन्धिप्रवाहबोधक्तव ज्ञानादेवेति ।

अपरे तु, गङ्गादिपदजन्यतीराद्यर्थशाब्दबोधे स्वसम्बन्धिप्रवाहादिबोधक्तवज्ञानस्य कारमत्वापेक्षया लाघवेन स्वबोधकत्वज्ञानस्यैव कारणत्वं युक्तम् । गङ्गापदं तीरबोधकमिति ज्ञाने सति विनापि तज्ज्ञानं तीरोपस्थितितच्छाब्दबोधयोः सर्वानुभवसिद्धत्वेन तज्ज्ञानकारणताया आवश्यकत्वाच्च, शक्तिभ्रमेण लाक्षणिकानां बोधकत्वस्य त्वयाप्यङ्गीकाराच्च ।

न च यत्र स्वसम्बन्धिप्रवाहादिबोधकत्वज्ञानादेव तीराद्युपस्थितिशाब्दबोधौ, तदनुरोधेन तज्ज्ञानकार्यकारणभावोऽप्यावश्यक इतिवाच्यम्, गङ्गापदात् तीरंबोद्धव्यमिति वक्तृतात्पर्यज्ञानस्य लाक्षणिकबोधे कारणात्वावश्यकत्वेन तज्ज्ञाने गङ्गापदीयतीरबोधकत्वस्यापि विषयत्वेन मदुक्तकारणस्यापि सत्त्वददोषः ।

किञ्च, लाघवेन स्वबोधकत्वज्ञानस्य कारणत्वे कार्यकारणभावद्वयापत्तौ गौरवापत्तेः । मम तु बोधजनकत्वज्ञानजन्योपस्थितित्वेनैव कारणतेत्येक एव स1 कार्यकारणभाव इत्यर्थः इति लाघवम् । एवं पदार्थोपस्थितिं प्रत्यपि शक्तिज्ञानत्वेन लक्षणाज्ञानत्वेन च हेतुता वाच्येति गौरवान्तरम्2 अन्यमते इति शेषः ।

किञ्च, कार्यकारणभावे व्यभिचारवारणाय कार्यतावच्छेदककोटावव्यवहितोत्तरत्वसम्बन्धेन तत्तदुपस्थितिवैशिष्ट्यस्य निवेशे सुतरां गौरवम् । न चोपस्थितिं प्रति वृत्तिज्ञानत्वेन शाब्दबोधं प्रति तज्ज्ञानजन्योपस्थितित्वेनैव हेतुत्वान्न कार्यकारणभावद्वयकल्पनमिति वाच्यम्, शक्तिलक्षणान्यतरत्वरूपस्य शाब्दहेतुपदार्थोपस्थित्यनुकूलपदपदार्थसम्बन्धत्वरूपस्य वा वृत्तित्वस्यकारणताच्छेदकत्वापेक्षयाऽखण्डोपाधिरूपस्य बोधजनकत्वस्य तत्त्वे लाघवात् । एतेन तीराद्यशक्तत्वे सति तीरादिसम्बन्धिशक्तत्वं तीरलक्षणेत्यादिकम्पास्तमिति प्राहुः ।

यत्तु, शक्यादशक्योपस्थितिर्लक्षणा । सा च स्वरूपसती हेतुः । एक सम्बन्धिज्ञानविधया पदजशक्तिप्रयोज्यशक्यज्ञानजन्याशक्यतानवच्छेदकावच्छिन्नोपस्थितिरिति हि तदर्थः । गङ्गापदेन प्रवाहोपस्थितौ मुख्यार्थबाधसहकृतैकसम्बन्धिज्ञानात् प्राग् गृहीतसम्बन्धकस्योपस्थितस्य तीरादेः शाब्दबोधे भानम् । शाब्दबोधे च पदप्रयोज्यैवोपस्थितिस्वम्, न तु पदजन्यैवेति नियम इति न दोषः ।

आकाशपदशक्यस्याप्याकाशस्य यदाकाशपदादेव समवायसम्बन्धेनोपस्थितिस्तत्सम्बन्धाच्चान्योपस्तितिः, तस्य शाब्देऽन्वयवारणाय शक्तिप्रयोज्येति । घटरूपार्थदर्शनेन शक्तिसम्बन्धादुपस्थितघटपदात् समवायेनोपस्थिताकाशस्य शाब्देऽन्वयवारणाय शक्यज्ञानजन्येति । नानार्थस्थल एकार्थसम्बन्धेन स्मृतापरपदार्थस्य शाब्देऽन्वयवारणायाशक्येति । नानार्थस्थल एकार्थसम्बन्धेन स्मृतापरपदार्थस्य शाब्देऽन्वयवारणायाशक्येति । सामान्यशब्दस्य विशेषे लक्षणास्थले उपस्थितिविषयस्य विशेषप्रकारावच्छिन्नस्यार्थस्य शक्यार्थभितन्नत्वाभावात् तत्सङ्ग्रहाय शक्यतानवच्छेदकावच्छिन्नेति तदर्थकरणम् । एवञ्च शक्यतानवच्छेदकविशेषरूपावच्छिन्नत्वात् तत्सङ्ग्रहः । न चैवं तादृशोपस्तितेः स्वरूपतो न मुख्यार्थबाधाधीनत्वम्, म्बन्धिज्ञानादिरूपोद्बोधकसत्त्वे तमनपेक्ष्यैव संस्कारेण मुख्यार्थस्येव तस्याप्युपस्थितेः सम्भवात् ।

तथा च लक्षणायां मुख्यार्थबाधाधीनत्वव्यवहारानुपपत्तिरिति वाच्यम्, तज्जन्यशाब्दानुभवस्य तदधीनत्वेन तस्या अपि तत्त्वव्यवहारात् । अत एव 'वर्णसमुदायशक्तं पदपदम्' इति जानतः पदपदाच्छक्त्योपस्थितवर्णसमुदायेन स्वाश्रयतयोपस्तिताकाशादेरन्वयबोधापत्तिरिति निरस्तम्, मुख्यार्थबाधज्ञानाभावात् । तत्सत्त्वे सति च तात्पर्ये इष्टापत्तेः । शाब्दकारणतावच्छेदकं च प्रागुक्ततादृशोपस्थित्वमेवेत्याहुः । तत्, न; एतपेक्षया बोधकत्वज्ञानस्य हेतुत्वे लाघवात् ।

किञ्च, शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलपदपदार्थसम्बन्धरूपवृत्तिभूतलक्षणाया नेदं लक्षणं योग्यम् । उपस्थितिरेतोर्हि वृत्तित्वम्, न तूपस्थितेरेव । किञ्चैवम् 'लाक्षणिकं पदम्' इति व्यवहारस्य गौणत्वापत्तिरिति दिक् । तस्माद् अप्रसिद्धशक्यसम्बन्धित्वेन गृहीतार्थविषयबोधजनकत्वं लक्षणात्वेन व्यवह्रियते । प्रसिद्धार्थविषयञ्च तच्छक्तित्वेनेत्येव साम्प्रतम् । प्रसिद्धत्वञ्च प्रचिरप्रयोगविषयत्वम् । तज्ज्ञानञ्च1 प्रसिद्धत्वज्ञानञ्च । शक्तिग्राहव्यवहारात् क्वचित्, क्वचिद् व्याकरणकोशादितः, क्वचिच्छिष्टप्रयोगादि2 अन्यथा वचन्तीत्यस्य निवृत्तिः, पिक-नेम-तामरसावीनाञ्च सङ्ग्रहो न स्यात् । त्याद्यूह्यम् ।

शक्त्यादिनियामकतया प्रसिद्ध्यादेस्तवाप्यावश्यकत्वात्। तत्र लक्षणाज्ञानजन्यशाब्दबोधेऽन्वयव्यतिरेकाभ्यां मुख्यार्थबाधज्ञानं कारणम् । मुख्यार्थबाधश्च समभिव्याहृतपदात्पर्यविषये तात्पर्यविषयान्वये वा मुख्यार्थतावच्छेदकरूपेण मुख्यार्थासंसर्गरूपः । तेन 'छत्रिणो यान्ति', 'काकेभ्योदधि रक्ष्यताम्' इत्यादौ छत्रिकुन्तकाकानां मुख्यार्थानां समभिव्याहृतक्रियासु कर्तृत्वकर्मत्वाबाधत्वैरन्वयाबाधेऽपि तत्तात्पर्यविषयीभूतेच्छत्र्यच्छत्रिगमनभोजनार्थप्रवेशदध्युपगातकावधिकरक्षणेषु मुख्यार्थतावच्चेदकरूपेण तदन्वयबाधोऽस्त्येवेति न दोषः ।

केचितु, लक्ष्यार्थतात्पर्यग्राहकतया तस्योपयोगः । तथा हि --- समभिव्याहृतपदार्थसंसृष्टमुख्यार्थकत्वेन भ्रमादिरूपदोषरहिताप्तपुरुषोच्चरितत्वविशिष्टेन मुख्यार्थपरत्वाभावानुमानपूर्वकं सामान्यतात्पर्यग्राहकसहकारेण तदन्यपरत्वग्रहजननादित्याहुः ।

एवं मुख्यार्थसम्बन्धज्ञानमपि तथा अन्वयव्यतिरेकाभ्यामेव रूढिप्रयोजनान्यतरदपि तत्कारणं बोध्यम्, अनुभावबलात् ।

नन्वेवं सर्वेषां पदानां नानार्थत्वादक्षादिपदवदर्थसन्देहः स्यात् । कॢञ्च, नानार्थजबोधे तात्पर्यज्ञानस्य कारमत्वावश्यकत्वेन 'गङ्गायां काष्ठमस्ति' इत्यादिवाक्यजप्रवाहबोधेऽपि तात्पर्यज्ञानस्य त्वन्मते कारणत्वकल्पने गौरवम् । संकेशक्तिवादिनस्तु तन्नेति लाघवम् । अपि च, तात्पर्यस्य संकेतात्मकत्वेन संकेतज्ञानकार्यकारणभावोऽपि तबावश्यक इति चेत्, न; प्रसिद्धनानार्थविषयकबोधजनकत्वस्यैव नानार्थ्वेनाक्षतेः । एतेन 'अन्ययाश्चानेकार्थत्वम्' इति न्यायविरोध इत्यपास्तम् । न चैवम् 'सर्वे सर्वार्थवाचकाः' इति वैयाकरणसिद्धान्तविरोधः हेतुत्वाभिप्रायेणौपचारिकतया व्यावहारादिति दिक्1दिगर्थस्तु -- योगिनामेव सर्वपदात् सर्वेषामर्थानां बोध, न त्वस्मदादीनाम् ;, अतो नायं, पक्षो युक्त इति । स्पष्टञ्चैतल्लघुमज्जूषायां लक्षणाप्रारम्भे । ।

सा द्विविधा --- शुद्धा, गौणी च । सादृश्यातिरिक्तसम्बन्धेन शक्यसम्बन्ध्यर्थप्रतिपादिका शुद्धा । स्वनिरूपितसादृश्याधिकरमत्वसम्बन्धेन शक्यसम्बन्ध्यर्थप्रतिपादिका गौणी ।

यत्तु, गौणी न लक्षणान्तर्गता, विशिष्टबुद्धियोग्यसम्बन्धे सत्येव लक्षणाप्रवृत्तेः । न हि संयोगसम्बन्धेन 'दण्डी देवदत्तः' इतिवत् सादृश्यसम्बन्धेन 'सिंहवान् देवदत्तः' इति भवतीति । तत्, नः विशिष्टबुद्ध्योयोग्यत्वेऽपि विपरीतलक्षणास्थले स्वनिरूपितविरोधाधिकरणत्वसम्बन्धेऽपि तस्याः क्लृप्तत्वात् ।

ते च प्रत्येकं द्विविधे -- अजहत्स्वार्था, जहत्स्वार्था च । शक्यार्थापरित्यागेनेतरार्थलक्षणमाद्या । शक्यार्थापरित्यागश्च शक्यार्थस्य येन केनापि रूपेण लक्ष्यार्थान्वयिनान्वयित्वम् । अतः 'छत्रिणो यान्ति', 'कुन्तान् प्रवेशय', 'काकेभ्यो दधि रक्ष्यताम्' इत्यादौ न दोषः, अच्छत्र्यादिसाधारणरूपेण च्छत्र्यादेः कुन्तवद्विसेषणतया कुन्तादेर्दध्युपघातकत्वादिना काकादेश्य लक्ष्यार्थान्वयिक्रियान्वयित्वात् । स्वार्थपरित्यगेनेतरार्थलक्षणं द्वितीया । अतः 'गां वाहीकं पश्य,' इत्यादौ न दोषः । अत्र गोसदृशे लक्षणायामपि न गोस्तदन्वयिदर्शनक्रियान्वयित्वम् । तत्र शुद्धा आद्या यथा 'शुक्लमानय' इत्यादौ गुणशक्तानां शुक्लादिपदानां तद्वति द्रव्ये ।

सा द्वितीया यथा 'त्वचा ज्ञातम्' इत्यादौ त्वगादिशब्दानां त्वगिन्द्रिये । गौणी द्वितीया यथा --- लवणत्ववाचिनो लावण्यशब्दस्य हृदयङ्गमत्वसादृश्याच्छोभाविशेषे । गौणी आद्या तु नास्त्येव, सादृश्यसम्बन्धेन लक्षणायां मुख्यार्थस्य लक्ष्यार्यान्वयिनान्वयात् । गोवाहीकोभयपरे 'गाव एते समानीयन्ताम्' इत्यादौ गोवाहीकसमुदायश्छत्रिन्यायेन लक्ष्यते, न तु गोसदृशत्वेन, स्वस्मिन् भेदघटितस्वसादृस्याभावादिति प्राञ्चः1 वैयाकरणन्ये सादृश्यं भेदघटितमेवेति नियमः, 'नञिवयुक्तमन्यसदृशाषिकरणे तथाह्यर्थगतिः' परि. 3।75 । इति परिभाषायाम् 'अन्यसदृश' इति पदेन भेदाधटितस्यापि सादृश्यस्य सूचनात् । सादृश्यस्य भेदघटितत्वनियमाङ्गीकारे सदृशपदादेव भेदार्थलाभेऽन्यपदवैयर्थ्यापत्तिः ।

यत्तु, मुख्यार्थविशेषणिका लक्षणा अजहत्स्वार्था । सा च गौण्यपीति । तत्, न; 'चित्रगुः' इत्यादावपि परमते जहत्स्वार्थापत्तेः ।

नव्यास्तु, यदा यत्किञ्चिद् गोसदृशत्वेन गोवाहीकसमुदायप्रतिपिपादयिषया 'गाव एते यान्ति' इति प्रयुक्तम्, तदा गौण्यप्याद्या दुर्वारैव । वस्तुतो रूपके भेदाघटितसादृश्यस्यैव सम्बन्धत्वादेर्वक्ष्यमाणतया सा दर्वारैवेति प्राहुः ।

प्रागुक्तोदाहरणादिगताश्च लक्षणा रूढिलक्षणात्वेन व्यवह्रियन्ते । रूढिः प्रसिद्धिः । न चैषामर्थानां प्रसिद्धत्वे शक्तिरेवास्तु, अश्वगन्धादिपदानामिवौषधिविशेषादाविति वाच्यम, सप्रयोजनलक्षणास्थलीयलक्ष्यार्थापेक्षयाऽस्य प्रसिद्धत्वेऽपि तत्पदशक्यार्थान्तरापेक्षयाऽप्रसिद्धत्वस्यैव सत्त्वेनाक्षतेरित्याहुः । वस्तुतो येषामेकार्थसम्बन्ध्यपरार्थबोधकत्वम्1 ख. 'अपरार्थ' इति नास्ति ।, तदर्थबाधप्रतिसन्धानपूर्वकमेव तेषु प्रयोजनाभावे निरूढलक्षणेति व्यवहारः । अन्यत्र रूढिशक्तिरेव । एवञ्च यदि कुसादिपदे मुख्यार्थबाधप्रतिसन्धानपूर्वकं दक्षबोधः प्रामाणिकानुभवसिद्धः, तदा लक्षणा, अन्यथा रूढिशक्तिरेवेति दिक् ।

एवञ्च लक्षणा प्रकारान्तरेणापि द्विधा सम्पन्ना, रूढा प्रयोजनवती च । तत्र रूढोदाहृता । प्रयोजनवती शुद्धा अजहत्स्वार्था । यथा ---'कुन्ताः प्रविशन्ति' । अत्र भीतिपलायमानवाक्ये कुनतानां तात्पर्यविषयकुन्तिप्रवेशान्वयबाधात् कुन्तपदस्य तत्संयुक्तपुरुषे लक्षणा । लक्ष्येषु कुन्तगततैक्ष्ण्यप्रतीतिः प्रयोजनम् । पुरुषविशेषणतया कुन्तानां प्रवेशनिक्रियान्वयः स्पष्ट एव । सा जहत्स्वार्था . यथा --- 'गङ्गायां घोषः' इत्यादौ । अत्र हि प्रवाहे घोषाधिकरणत्वबाधाद् गङ्गापदेन तीरं लक्ष्यते । न च प्रवाहस्य तदन्वयिनान्वयित्वम् । गङ्गागतशैत्यपावनत्वादिप्रतीतिश्च प्रयोजनम् ।

एषा गौणी जहत्स्वार्था । यथा --- 'गौर्वाहीकः' इत्यादौ । अत्र वाहीके गौत्वबाधाद् गोपदेन गोसदृशो लक्ष्यते । सादृश्यतिशयमहिम्ना भिन्नधर्मप्रकारकोपस्थितावप्यभेदप्रतीतिः प्रयोजनम् । अत्र प्रयोजनभूताभेदप्रतीतिर्मानसी,1 बाधज्ञानसमकालिकेच्छाजन्यं ज्ञानमाहार्यज्ञानम् । आहार्याभेदस्योपस्थितेरिति केचित् ।

विषयविषयिपदाभ्यां तत्तद्धर्मप्रकारेण तयोरुषस्थितौ प्रसिद्धत्वादिना ढटिति तत्सादृश्योपस्थितौ लक्षणया सदृशप्रकारकबोधे सादृश्यातिशयमहिम्ना गोत्ववाहीकत्वयोः सामानाधिकरण्यसम्भावनया जातस्यापि भेदज्ञानस्य तिरोधानेन बाधबुद्धेरभावेनानाहार्यमेवाभेदज्ञानम् । कॢञ्च, बोधस्यैवानापत्तिः ।

इयांस्तु विशेषः -- यत्र प्रसिद्धः साधारणधर्मः, तत्र तदुपादानं न कर्त्तव्यम् । यत्र त्वप्रसिद्धः, यथा -- 'सकलकलं पुरमेतज्जातं सुधांशुबिम्बमिव' इत्यादौ । तत्र तदुपादानं विना साधारणधर्मानुपस्थितेस्तदुपादानमाश्यकमित्यपरे ।

अभेदप्रतीतेर्वैयञ्जनिकत्ववादिनां त्वनाहार्यत्वं स्पष्टमेव, वैयञ्जनिके बोधे बाधबुद्धेरप्रतिबन्धकत्वात् । वस्तुतस्तु शब्दप्रयोज्ये बोधे बाधज्ञानं न प्रतिबन्धकम्, बाधनिश्चयादेः सत्त्वेऽपि 'अस्य क्षीणिपतेः परार्धपरया लक्षीकृताः सङ्ख्यया,' 'एष बन्ध्यासुतो याति' इत्यादितो वाच्यार्थबोधदर्शनात् । किञ्च, एवम् 'वह्निना सिञ्चति' इत्यतोऽपि बोधानापत्तौ तद्वाक्यप्रयोक्तुः 'अद्रवेण वह्निना सेकं कथं ब्रवीषि' इत्युपहासः श्रोतृभिः क्रियामाणोऽसङ्गतः स्यात् । एतदर्थकद्रविडभाषाश्रवणोत्तरं पाश्चात्त्यस्येव मूकतैव च परन्तस्य स्यात् ।

तेनेकपदार्थेऽपरपदार्थस्य प्रकृतसंसर्गवत्तवं योग्यता । 'देवदत्तो गौः' इत्यत्र देवदत्ते स्वामित्वसम्बन्धसत्त्वाद् योग्यतावारणाय प्रकृते तञ्ज्ञानं च शाब्दबोधे कारणम् । यद्वा, एकपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वरूपायोग्यतानिश्चयः शाब्दे प्रतिबन्धकः । स च न स्वातन्त्र्येण, अनुमित्यादिसाधारणक्लृप्तबाधबुद्धिप्रतिबन्ध्यप्रतिबन्धकभावेन निर्वाहादित्यपास्तम् । न चात्र शाब्दबोधः, किन्तु पदार्थोपस्थितिमात्रमिति वाच्यम्, अन्यत्रापि ततात्वापत्तौ1 पदार्थोपस्थितिमात्रत्वापत्तौ । शब्दप्रामाण्योच्छेदप्रसङ्गात् । न च प्रवृत्तिं प्रति विशिष्टज्ञानस्य हेतुत्वानुरोधेन शाब्दविशिष्टज्ञानसिद्धिः, दुःखद्वेषेच्छासुखादावपि तद्रीत्या तद्धेतुत्वेन सत्यपि बाधनिश्चये मिथ्याभिशापगालिदानरूपादिकाव्य --- 'वह्निना सिञ्चति' इत्यादिवाक्य श्रवणजसुखदुःखो खेऽपि तद्रीत्या तद्धेतुत्त्वेन सत्यपि वा पहासाद्यनुरोधेन तदावश्यकत्वात् । अनयथाः व्यत्पन्नानां 'वह्निः करणत्वं सेकः' इत्याकारकवाक्यश्रवणोत्तरमपि तदापत्तिः, मुखत्वमाश्रयोऽभेदश्चन्द्रत्वमाश्रय इति वाक्यश्रवणोत्तरमपि 'मुखं चन्दः' इत्यादिवाक्यश्रवणोत्तरमिव चमत्कारापत्तिश्च । एतेनासंसर्गाग्रहमात्रेण तत्सिद्धिरित्यापास्तम् । किञ्च, असंसर्गाग्रहो नाम संसर्गाभावग्रहाभावः । तथा सति बाधज्ञानाभावेन विशिष्टबुद्ध्युदय एव स्यात् । न चैवम् 'वह्निना सॢञ्च' इत्यादितो बोधे प्रवृत्तिरपि स्यात् । प्राकृतबाधज्ञानेन जायमानज्ञानेऽप्रामाण्यशङ्काया जननात् तच्छून्यज्ञानस्यैव च प्रवृत्तावुपयोगित्वादक्षतेः । तदुक्तम् ---' अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' इति । एवञ्च बाधबुद्धिप्रतिबन्ध्यतावच्छेदककोटौ शब्दप्रयोज्यान्यत्वं विशेषणं देयम्, अनुभवबलात् । एव़्चानाहार्यत्वं स्पष्टमेवेत्यपि वदन्ति । यदि तु शब्दजन्यभेदकधर्मोपस्थितिकालिकत्वमात्रेणाहार्यत्वव्यवहारः, तर्ह्यस्तु, बाहीकाभिप्रायेण प्रयुक्ते 'गां पश्य' इत्यादौ तात्पर्यविषये वाहीकदर्शने मुख्यार्थसंसर्गबाधाद् गोसदृसो लक्ष्यते । सादृस्यातिशयमहिम्ना लक्ष्ये शक्याभेदप्रतीतिः फलम् । एषा अनाहार्यैव । शब्दजभेदकधर्मोपस्थितिकालिकत्वाभावेनाधिकचमत्कारकारित्वम् 'शब्दज' इत्युक्तेर्मुख्यार्थबाधज्ञानविधयाभेदस्योपस्थितत्वेऽपि न क्षतिः । इदमेवाभिप्रेत्य 'सर्वेथैवाभेदावगमोऽत्र प्रयोजनम्,' का. प्र. उ. 2, प. 52 इति प्रकाशकृतः । एवञ्च वाहीकत्वेनानुपस्थितिरेव, शुक्तौ रजतत्वारोपे शक्तित्वेनैव ।

केचित्तु, गोत्वेनैव वाहीकस्य बोधः, शक्यतावच्छेदकातिरिक्तरूपेण शक्यबोधे1 ख. 'लक्षणायाः .... बोधेऽपि ' इति नास्ति । लक्षणाया इव शक्यतावच्छेदरूपेण शक्यान्यबोधेऽपि तस्याः प्रसरात्, न तु सदृशत्वेनेत्याहुः ।

अन्ये2ख. 'अन्ये तु ..... इत्याहुः' इति नास्ति ।तु, गोत्ववाहीकत्वोभयधर्मप्रकारकवाहीकबोध एव, शक्यतावच्छेदकलक्ष्यतावच्छेदकोभयप्रकारकबुद्धेरेवैतल्लक्षणाकार्यत्वात् । पृथक्पदजन्यवाहीकत्वानुपस्थितिरेव सारोपातोऽस्या भेदिकेत्याहुः । स्पष्ट़्चेदं मतम् "पुंयोगादाख्यायाम्" 4।1।48 इति सूत्रभाष्ये ।1 तत्र भाष्यं तु --- कथं पुनरयं प्रष्ठशब्दोऽकारान्तः स्त्रियां वर्तते ? तस्येदमित्यनेनात्रभिसम्बन्धेन । यथैव ह्यसौ तत्कृतान् स्नानोद्ववर्तनपरिषेकान् लभते, एवं प्रष्ठशब्दमपि लभते । यद्येवम्, पुंयोगादाख्यायां तद्धितस्य लुग्वक्तव्यः । तस्येवम् इति प्राप्नोति । न तर्हीदानीमिदं भवति प्राष्ठ्य इमाः प्राचर्य इमा इति । भवति च । विभाषा लुग्वक्तव्यः । यदा लुक् तदा प्रष्ठी, यदा न लुक् तदा प्राष्ठी । यद्येवं नार्थो लुका विभाषा तद्धितोत्पत्तिः । यदा तद्धितोत्पत्तिस्तदा प्रष्ठी । एवमपि लुग् वक्तव्यः, नह्यन्तरेण लुकं पदार्थे सब्दो वर्तते .... नैष दोषः, नावश्यमयमेकाभिसम्बन्धो भवति तस्येदमिति अयमप्यभिसम्बन्धो भवति सोऽयमिति । कथं पुनरतस्मिन् स इत्येतद्भवति ? चतुर्भिः प्रकारैरतस्मिन् 'सः' इत्येतद् भवति --- तात्स्थ्यात् ताद्धर्म्यात् तत्सामीप्यात् तत्साहचर्यादिति ।

इदमेव भेदद्वयं सारोपासाध्यवसानात्वेनालङ्कारिकैर्व्यबहृतम् । शब्दजविषयनिष्ठासाधारणधर्मग्रहे सति यत्रान्यस्यान्यतादात्म्यप्रतीतिः सा सारोपा । तद्ग्रहेऽसत्यपि यत्रान्यस्यान्यतादात्म्यप्रतीतिः सा साध्यवसाना ।

इदं भेदद्वयं शुद्धाया अपि । यथा ---'जीवनं घृतम्' इत्यादौ । अत्र हि जीवनपदेन जीवनजनकं लक्ष्यते । इतरवैलक्ष्यण्येन तज्जनकत्वप्रतीतिः फलम् । नन्वत्र किं बीजम्, एवम् 'गङ्गायां घोषः', इत्यादौ गङ्गागतशैत्यपावनत्वादिप्रतीतिरपि कथम्, बीजाभावात् । न च गङ्गादिशब्देन तटादिप्रतीतिरेव बीजम्, अन्यार्थशक्तपदेनान्यार्थबोधनस्यान्यार्थे स्वशक्यगतधर्मप्रतीतिफलकत्वादिति वाच्यम्, एवमपि प्रकृतिऽनुपपत्तेः । नहि प्रकृते जीवनगतधर्मप्रतीतिर्लक्ष्ये इति चेत्, न; तद्वाचकशब्दबोध्यत्वनिमित्तवसाद् लक्षमाज्ञानप्रयोज्याया वैयञ्जनिक्या वा शक्याभेदबुद्धेरपि जननेन तत्प्रतीत्युपपत्तेः । तस्याञ्च यत्याम् 'जीवनं घृतम्' इत्यादौ इदमेव जीवनरूपेण परिणमतीति बुद्ध्या इतरवैलक्षण्यप्रतीतिः फलति । एवम् 'जीवनमेवासौ भुङ्क्ते' इत्यादावव्यभिचारेण तज्जनकत्वप्रतीतिः । कारणकार्ययोर्भिन्नशब्दाभ्यां भेदेनोपस्थितौ हि व्यबिचारशङ्काऽपि स्यात् । इह तु तदभावात् साऽपि नेति । न चैवम् 'उपकृतं नाम' इत्यादौ विरोधिलक्षणालक्षितापकृतादौ तेनैव निमित्तेन उपकृताभेदबुद्धिरपि स्यादिति वाच्यम्, अस्त्येवोपकाराभेदबुद्धिरपकारेऽपि, उपकाराभेदबुद्ध्यैव साधत्वं व्यङ्ग्यामित्याहुः । एवम् 'राजकीयः पुरुषो राजा' इत्यादौ राजस्वामिकादौ लक्षणा बोध्या । न च जनकत्वसादृश्यादिः शक्यस्य लक्ष्ये न सम्बन्धः, तस्य च लक्ष्यकतावच्छेदकत्वं कथम् 'गङ्गायां घोषः' इत्यादावदर्शनात् तीरत्वेनैव तत्र तीरबोधादिति वाच्यम्, बाधकाभावेन तदवच्छिन्नेऽपि लक्षणाग्रहस्य सम्भवात् ।

अपरे तु, सर्वत्रैव लक्षणाज्ञानस्य लक्ष्यतावच्छेदकशक्यतावच्छेदकोभयप्रकारकशाब्दत्वं कार्यतावच्छेदकम्, तर्थवानुभवात् । एवञ्च गङ्गात्वादिनैव तीरस्य बोधः । एवञ्च शैत्यपावनत्वादिप्रतीतये मध्ये शक्यभेदविषयकं ज्ञानान्तरं नाङ्गीकार्यमिति लाघवम् । एतेन 'कचतस्त्रस्यति वदनंवदनात् कुचमण्डलं त्रसति' इत्यादौ कचत्वादिना बोधे त्रासकरत्वानुपपत्तिरिति परास्तम्, 'कचत्वविशिष्टो राहुः' इति बोधेन तदुपपत्तेः, केवलराहुत्वेन बोधे चमत्कारानापत्तेः ।

न चैवं प्रवाहत्वविशिष्टे घोषाभावज्ञानेन तीरादौ प्रवाहत्वाभावज्ञानेन च प्रतिबन्धात् कथं लक्ष्यार्थशाब्दबोधः, कथं वा प्राङ्मते शक्याबेदबुद्धिः, कथं वा 'गङ्गावृत्तिघर्माभाववत् तीरम्' इति ज्ञाने तद्गतशैत्यपावनत्वादिप्रतीतिरिति वाच्यम्, बाधबुद्धेः शाब्दबोधाप्रतिबन्धकत्वात् । न चैवमपि जायमानबोधप्रामाण्यशङ्काजनने ततश्चमत्कारानापत्तिरिति वाच्यम्, विषयतासम्बन्धेन शक्यतावच्छेदकतत्समानाधिकरणधर्मेतदन्यतरविषयकत्वाधग्रहजन्याप्रामाण्यज्ञानं प्रति जनकतारूपविषयनिष्ठप्रत्यासत्त्या लक्षणाज्ञानस्य प्रतिबन्धकत्वान्न दोष- । 'गौर्वाहीकः' इत्यादौ तु सादृश्यमहिम्नापि बाधबुद्धिस्थगनमित्युक्तमित्याहुः ।

यत्तु 'गौर्वाहीकः' इत्यादौ गौण्यां साधारणधर्माश्रयो जडादिर्जडत्वेन लक्ष्यः । गोवृत्त्यसाधारणजडत्वप्रतीतिः फलमिति तत्, न; 'गौर्वाहीको जडः' इत्यादौ पौनरुक्त्यापत्तेः । न चोपात्तधर्मातिरिक्तधर्ममुखेन लक्षणेति वाच्यम्, तदतिरिक्तधर्मास्फुरणेऽपि वाक्यार्थप्रतीतिदर्शनात्, 'अक्षसङ्घाताङ्कितानि; शरीराणि, कमलानि' 'सकलकलं पुरं सुधांशुबिम्बम्' इत्यादौ श्लेषलब्धधर्म विना धर्मान्तरस्य सर्वथैवास्फुरणाच्च ।

ननु 'गौर्वाहीकः' इत्यादिसारोपास्थले सदृशत्वेन लक्षणेति त्वदुक्तमप्ययुक्तम् । तथा सति सादृश्यस्य शब्दोपात्तत्वेनोपमालङ्कारस्य शब्दोपात्तत्वेनोपमालङ्कारस्य प्रसङ्गेन 'गौरिव गवयः' इत्यत्रोपमा, 'गौर्वाहीकः' इत्यत्र रूपकमित्यालङ्कारिकसिद्धान्तभङ्गापत्तिः । नहि सादृश्यस्य वाच्यत्व एवोपमा, 'पद्मप्रतिपक्षमाननम्' इत्यादौ लक्ष्यत्वेऽपि तद्दर्शनात् ।

कॢञ्च, 'वाहीकोऽयं न गोसदृशः, अपि तु गौरेव' इत्यादौ सादृशय्व्यतिरेकमिश्रिते सादृश्यबुद्ध्ययोग इति चेत्, न; भेदगर्भसादृशलक्षणायामभेदप्रतीतौ रूपकापत्तिरिति वाच्यम्, भेदघटितसादृश्यवति तस्य निरूढलक्षणाभ्युपगमेन प्रयोजनानपेक्षात्वादित्याहुः ।

नव्यास्तु --- "गौर्वाहीकः" इत्यादौ न लक्षणा, किन्तु नामार्थयोरभेदान्वयरीत्या विषयविषयिणीरभेदेनैवान्वयः, प्रसिद्धत्वादिनोपस्थितसादृश्यमहिम्ना प्राग्वदेवाप्रामाण्यज्ञानानास्कन्दितानाहार्याभेदबुद्ध्युपपत्तै लक्षणाया व्यर्थत्वात् ।

किञ्च, लक्षणायाम् 'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्' इत्यादौ विशेषणसमासायत्तं रूपकम्, उपमितसमासायत्तोपमा वेति सन्देहे 'यद्यत्रोपमा स्यात्, तर्हि नारायणसदृसो राजेत्यर्थे नारायणसदृसे लक्ष्मीकर्तृकालिङ्गनसंसर्गबाध इति रूपकमेव' इत्यालङ्कारिकोक्तं विरुध्येत, रुपकेऽपि सदृशलक्षणायां राजाभिन्ननारायणसदृशमित्यर्थे तत्तादवस्थ्यात् ।

यदि तु नारायण सदृशस्य लक्ष्यस्य शक्यतावच्छेदकनारायणत्वेन भानमित्यादिमतेनायं दोषः, मतान्तरेऽपि भेदागर्भसादृश्यस्यैव लक्ष्यतावच्छेदकत्वान्न दोष इति विभाव्यते, तर्हि व्यर्थत्वमेव दोषः ।

स्वीकृता, च 'शोणाभ्रसन्ध्याकालसदृशः काषायवसनो यतिः' इत्यादौ बिम्बुप्रतिविम्बभावेनोपमास्थले साधारणधर्मांशे विनापि लक्षणां सादृश्यतिशयमहिम्ना शब्दात् स्वासाधारणरूपेणोपस्थितयोरपि विषयविषयिविशेषणयोरभेदबुद्धिरालङ्कारिकैः "गाम्भीर्येण समुद्रोऽयं राजा" इत्यादौ ज्ञानजन्यज्ञानप्रकारत्वं तृतीयार्थः, तस्य च स्वविषयज्ञानजन्यविषयत्वसम्बन्धेन समुध्रेऽन्वयः, 'वह्निमान् धूमात्' इत्यादौ तथा क्लृप्तत्वात् ।

लक्षणापक्षेऽप्येवमेवोचितम् । लक्ष्यमाणैकदेशसादृश्ये प्रयोजनत्वरूपस्याभेदस् वा तृतीयार्थस्यान्वये 'पदार्थः पदार्थेनान्वेति, न तु तदेवकदेशेन' इति व्युत्पत्तिभङ्गापत्तिः1 घटत्वगोत्वादावन्वयेननित्याभिन्न यद् घटत्वम्, नित्याभिन्नं यद् गोत्वम्, तद्वान् घटः, तद्वान् गौरिति तात्पर्येण नित्यो घटः, नित्यो गौरित्यस्य प्रामाण्यवारणाय व्युत्पत्तिरियं स्वीक्रीयते । स्वीकृताया़ञ्चास्यां घटत्वगोत्वयोः पदार्थेकदेशत्वात् तत्र नित्यपदार्थस्यानवयाभावेन नैतादृशः प्रयोगः प्रामाण्यमर्हति । किञ्च, सादृश्ये प्रयोज्यत्वमपि स्वज्ञानजन्यज्ञानविषयत्वमेव वाच्यमित्याहुः ।

अत्रेदं बोध्यम् -- 'बाहीकोऽयमपरो गौः' इत्यादावपरादिपदैः प्रसिद्धगोर्भेदप्रतिपादनेन विरोधान्नाभेदबोधो वाच्ययोः, किन्तु तत्सदृसे लक्षणैव । लक्षणायाश्च न शक्याभेदबुद्धिः फलम्, किन्तु सादृस्यातिशयबुद्धिः ।

एवञ्च सकलतत्कार्यकारित्वं फलति । एम् 'उपूर्वो गौः' इति वाहीकाभिप्रायेण प्रुयक्तेऽपि बोध्यम् । तत्रापि न प्रसिद्धगवाभेदो लक्षमाफलम्, अपूर्वपदेनतिरस्कारात् । वाहीकत्वाद्यप्रतीतिकृतश्चाधिकचमत्कारः ।

इदमेवाभिप्रेत्य 'गौर्वाहीकः' इत्यादाबभेदरूपकातिशयोक्ती । ईदृशस्थले च ताद्रूप्यरूपकातिशयोक्ती इति कुवलयान्दकृतः ।

न चैवमुपमाया अपि रूपकत्वापत्तिः, यत्र सादृश्यप्रतीतिकृतश्चमत्कारः, तत्रोपमा; यत्र त्वभेदप्रतीतिकृतः सादृश्यातिशयप्रतीतिकृतश्च1चमत्कार इति शेषः ।, तत्र रूपकम् ।

चमत्कारनिदानभेदकृतो ह्यलङ्काराणां परस्परं भेद इति स्पष्टमस्मत्कृतषट्पदाख्यकुवलयानन्दटिप्पणे ।

यत्तु मीमांसकाः --- 'गौर्वाहीकः' इत्यादौ गोशब्देन स्वशक्यगतजाड्यादिगुणसदृशजाड्यादय एव लक्ष्यन्ते, तैश्च 2अयं भावः -- मीमांसका जातिं पदार्थं मन्यन्ते । गौरित्यत्र गोशब्दस्य गोत्वमर्थः, आश्रयमन्तरा जातिः क्व तिष्ठेदिति 'येन विना यदनुपपन्नम्, तत्तेनाक्षिप्यते' इतिन्यायाद् व्यक्तेराक्षेपाद् बोधः । जातिशक्तिनये आक्षेपेण व्यक्तिलाभवत् स्वाश्रयव्यक्तिलाभ इति । तत्, न ; 'जडो गौर्वाहीकः' इत्यादौ पुनरुक्त्यापत्तेः ।

कॢञ्च, स्वरूपतो जातिविषयशक्तिज्ञानं स्वरूपतो जातिं स्मारयद् व्यक्तिं स्मारयतीति युक्तम्, व्यक्तिमविषयीकृत्य स्वरूपतो जातेर्भानस्यानुभवसिद्धान्तविरुद्धत्वात् । जाड्यादेश्च रूपान्तरेणैव भानात् तस्य विशेष्यतयापि भानसभ्भवेन धर्मिस्मारणे मानाभावात् । न चैवं गुणिबोधकशुक्लादिपदानां गुणे एव शक्तिः, गुणिनो बोधश्चाक्षेपादिति 'जात्यादिः' का. प्र. उ. 2, सू. 10 इत्यादिना प्रकाशाद्युक्तमसङ्गतं स्यादिति वाच्यम्, इत एवास्वरसात् तत्र 'जादिरेव वा' का. प्र. उ.2, सू. 10 इति पक्षान्तरस्योक्तेरदोषात् । न च3 एवञ्च गौरित्यस्य गोत्वाश्रयोऽर्थः फलति । धर्मशक्तिज्ञानं तत्तदाश्रयोभयबोधकमिति कार्यकारणभावे को दोष इति वाच्यम्, 'शुक्लम्' इत्यादिगुणपरादपि धर्मिबोधापत्तेः । वस्तुतो धर्मिणि लक्षणेत्येव तदाशयः ।

इयांस्तु विशेषः --- जातिशक्तघटादीनां केवलजातिबोधकतयानक्वापि प्रयोगः, शुकलादीनां तु केवलगुणबोधकतयापीति । एवञ्च न कश्चिद् दोष इति दिक् ।

केचित्तु, 'ग्रमो दग्धः, पुष्पितं वनम्' इत्यादिप्रयोगे ग्रामादिपदस्य स्वार्थेकदेशपरित्यागेन तदेकदेशे वत्तिः । तत्र जहदजहल्लक्षणाख्योऽन्योऽपि भेदः, दग्वभूयस्त्वादिद्योतनं फलमित्याहुः ।

इति लक्षणानिरूपणम् ।