वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-३

← वैयाकरणसिद्धान्तमञ्जूषा-२ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-३
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-४ →

अथ व्य़ञ्जलानिरूपणम्

मुख्यार्थसम्वद्धालाधारणमुख्यार्थबाधग्रहाद्यप्रयोज्याप्रसिद्धाद्यर्थविषयकधीजनकत्वं व्य़ञ्जना । सा चेयं शब्दतदर्थपदैकदेशवर्णरचनाचेष्टादिषु सर्वत्र, तथैवानुभवात्, 'अनया कटाक्षेणाभिलाषोऽभिव्यञ्जितः' इति सर्वजप्रसिद्धेस्तस्यां चेष्टावृतित्वस्याप्यावश्यकत्वाच्च । एतेनार्थादीनां न व्यञ्जकत्वम्, किन्तु पदस्यैवेत्यपास्तम्


'रतिकाले विलोक्य श्रीर्नाभिपद्मे पितामहमे ।
रसाकुला छादयते दक्षिणं नयनं हरेः ।।'

इत्यादौ हरिपदेन दक्षिणनयनस्य सूर्यात्मकत्वे तन्निमिलनेन सूर्यास्तमयः, तेन पद्मसंकोचः, तेन पितामहस्थगनम्, तेनाप्रतिबद्धं रतिविलसितमिति क्तमेण व्यङ्ग्येषु प्रतीयमानेषु ततदर्थप्रतित्युतरमेव व्यङ्ग्यप्रतितेरर्थसेयापि व्यञ्जकत्वावश्यकत्वात् ।
'पश्यात्र नलिनीपत्रे बलाका दृश्यतेऽचला ।
रम्ये मारकते पात्रे शुक्तिकेव च निर्मला ।।'
तत्रापि निश्चलत्युपमाया चाश्वस्तत्वम् । तेन तस्य निर्जनत्वम्, तेन तदेवावयोः संतेतस्थानमित्यादिषु क्रमेण प्रतियमानेषु तत्तदर्थव्यङ्ग्येष्वपि बोध्यम् ।
अनया चार्थबोधे जननीये वक्तृबोद्धृवाच्यादिवैशिष्टचज्ञानं प्रतिभा च सहकारि तद्धीजनकत्वज्ञानजनकमेव वा । अतो नातिप्रसङ्गः । प्रतिभा च नवनवोन्मेषशालिनि बुद्धिः । तदुक्तम्-- 'प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता'इति । नवोन्मेषो जन्मान्तरीयतद्धीजनकत्वज्ञानजन्यसंस्कारोद्बोधः । वक्त्रादिवैशिष्ट्यसहकारेण तज्जनिका बुद्धिः प्रतिभेति फलितम् ।
एवञ्च शक्तिरेतज्जन्मगृहीतैवार्थवोधिका, व्यञ्जना तु जन्मान्तरगृहीतापीत्यपि शक्तेरस्या भेदकम् । इदमेवाभिप्रेत्य व्यञ्जना स्वरूपसती हेतुरिति प्रवादः ।
यद्यपि प्रागुक्तरीत्या लक्षणतोऽपि भेदः सिद्धः, तथापि प्रकारान्तरेणापि भेदं वक्तुं मुख्यार्थेत्याद्युक्तम् । 'पश्यात्र नलिनीपत्रे' इत्यादौ वक्तुतात्पर्यविषयीभुतवाच्यार्थबाधाभावेऽप प्रार्ग्दाशतव्यङ्ग्यचप्रतीतेर्मुख्यार्थबाधज्ञानसत्त्वे तदप्रतीतेश्च न वैयञेजनिकबोधे तस्य सहकारित्वम् ।
एवम् 'गतोऽस्तमर्कः' इत्यादेः शिष्येण सन्ध्यावन्दनादेः कर्तव्यत्वाभिप्रायेण गुरुं प्रति प्रयुक्ताद् वक्तृतात्पर्याभावेऽपि प्रतिवेश्यादीनामभिसरणोपक्रमादिबोधस्य वाच्यार्थप्रतीतिपूर्वकस्य वाच्यार्थबाधज्ञानेऽजायमानस्य लक्षणयोपपादयितुमशक्यत्वाच्च ।

यत्तु, 'गतोऽस्तमर्कः' इत्यादौ न व्यञ्जना, एकसम्बन्धिदर्शनादपरसम्बन्धिस्मरमवदुपपत्तेरिति । तत्, न ; 'गतोऽस्तमर्कः' इत्यादि श्रवणोत्तरम् 'सन्ध्यावन्दनकर्तव्यत्वं मया स्मृतम्' इत्यनुव्यसायाभावात्, 'एतदुक्तपदादयमर्थो बुद्धः' इत्यनुव्यवसायाच्च, तत्रानुल्लेखाच्च, इदं पदमेतदर्थस्य न वाचकम्, नापि लक्षकम्, नापि स्मारकम्, अपि तु व्यञ्जनया बोधकम्' इति प्रामाणिकव्यवहारेणाप्यतिरिक्ततत्सिद्धेश्च ।

एतेन तत्तदर्थानां वक्रादिवैशिष्ट्यप्रतिभादिसहकृतमनसैव विशिष्टधीसम्भवात्, चमत्कारं प्रति शाब्दस्येव मानसस्यापि चेष्टानुरोधेन हेतुतायाः क्लृप्तत्वाच्च व्यञ्जनासत्त्वे न मानम् । प्रतिभा च तत्तत्पदार्थविषयसंस्कारोद्बोधको बुद्धिविशेषः । तत्र च तत्तत्पदतत्तदर्थज्ञानं वक्रादिवैशिष्ट्यज्ञानं च सहकारि इति परास्तम् ।

व्यङ्ग्योऽर्थोऽनुमेय इति त्युक्तमेव । विरुद्धानैकान्तिकेभ्यो व्याप्तिपक्षधर्मतादिनिर्णयाबावेऽपि व्यङग्यार्थप्रतीतेः ।किञ्च, सिद्धिसत्त्वेऽपि व्यङ्ग्यार्थबोधदर्शनेन तत्प्रतिबन्ध्यतावच्छेदककोटौ तत्तद्भेदनिवेशेऽतिगोरवापत्त्या वैयञ्जनिकबोधस्यातिरिक्तत्व एव लाघवम् । अन्यथा शब्दप्रामाण्यस्याप्युच्छेदापत्तिरित्यन्यत्र विस्तरः ।

बोधकत्वस्य चेष्टायां सत्त्वेऽपि तन्निष्ठबोधक्तवं न शक्तिः, 'चेष्टा शक्ता' इति प्रामाणिकव्यवहाराभावात् । किन्तु तज्जन्यबोधे तज्ज्ञानस्य कारणत्वं बोध्यम् । तत्तद्वाचकशब्दस्मरणद्वारा चेष्टया बोध इत्यापि कश्चिदिति सर्वेष्टसिद्धिः ।

इति व्यञ्जनानिरूपणम् ।



वृत्तिविचारः सम्पूर्णः1 अथेदानीं तत्तदाचार्याणां मतप्रदर्शनपुरस्सरं शब्दवृत्तिः समासेन समीक्ष्यते ---
श्रुतिमन्तः सङ्ख्यातीताञ्छब्दान् प्रतिदिनं ऋण्वन्ति, परन्तु सम्यक् श्रुता अपि समे शब्दा नैव स्रवानर्थआन् बोधयन्ति, अपि तु केचेनैव कांश्चिदेव क्वचनैव । यथा - साधु श्रुतादपि कम्बुग्रीवादिमदर्थव्यक्तेरेवावगमो भवति, न तु प्रवाहस्य नापि पटस्येति घटशब्दस्य कम्बुग्रीवादिमदर्थेन कश्चन सम्बन्धो वर्तते, न प्रवाहेण, नापि पटेनः, अन्यथा तावपि प्रबोधयेत् ।
एवञ्च शब्दार्थयोः परस्परं कश्चन सम्बन्धो वाच्यः, येन शब्दः सम्बद्धमेवार्थं प्रकाशयति, नासम्बद्धम्, प्रदीपवदिति कल्प्यते; परन्त्वेवं सति शब्दानां समवायेनाकाशे सम्बद्धत्वात् 'शब्दाश्रयत्वमाकाशत्वम्' इति सिद्धान्ताद् एकसम्बन्धिज्ञानमपरसम्बन्धिनं स्मारयतीति घटादिपदेनाकाशस्यापि बोधः स्यात् । स च नेष्टः, तादृशस्य बोधस्याननुभवादिति पदपदार्थयोः समवायादिविलक्षणः कश्चन सम्बन्धः कल्पनीयः । स च ज्ञात एवापेक्ष्यते, नाज्ञातः; अन्यथाऽज्ञातेऽपि तस्मिन्नर्थबोधः स्यात् ।
अयमेव सम्बन्धो वृत्तिपदेन शब्दव्यापारादिपदेन चोच्यते । एवञ्च शाब्दबोधौपयिकः, अर्थप्रतियोगिकः पदानुयोगिकः, पदप्रतियोगिकोऽर्थानुयोगिको वा सम्बन्धो वृत्तिः । अथवा वृत्तिपदव्यवहार्थत्वं वृत्तित्वमिति । येन शब्दव्यापारेण भटित्यर्थबोधो भवति, सोऽभिधाख्यव्यापार इत्युच्यते ।
भट्टलोल्लचप्रभृतयस्त्वभिधारूपामेकामेव वृतिं मन्वते । तयैव च सर्वविधस्यार्थस्य बोधो भवति ।
तेषामयमाशयः -- यथा बलवता प्रेरित एक एव इषुरेकेनैव वेगाख्येन व्यापारेण रिपोर्वर्मच्छेदम्, मर्मबेदं प्राणहरणञ्च विवते, तथा सुकविप्रयुक्त एक एव शब्द एकेनैवाबिधाख्यव्यापारेण पदार्थोपस्थितिम्, अन्वयबोधं व्यङ्ग्यप्रतीतिञ्च विधत्ते । अतो नास्ति वाच्यादन्योऽर्थस्तोषामिति । तथा चोक्तं काव्यप्रकाशे -- 'सोऽयमिषोरिव दीर्घदीर्घतरोऽभिधाव्यापारः' (का. प्र. उ. 5, पृ. 225) इति कतिपये विद्वासः । 'गङ्गायां घोषः' इत्यादौ भगीरथरथखातावच्छिन्नपयः प्रवाहार्थ प्रत्याय्य विरतव्यापाराया अभिवाया गतेरभावात् तीरबोधो न स्यादिति शब्दे तदन्यमपि लक्षणाख्यव्यापारं मन्वते नैयायिकाः । ते चाभिधां संकेतमपि प्रतिपादयन्ति । तथा चोक्तं शक्तिवादे --- ' संकेतो लक्षणा चार्थे पदवृत्तिः ' इति ।
एवञ्च तत्तत्पदेन जायमानेऽर्थबोधे तत्तत्पदवृत्तेर्ज्ञानात् पदार्थोपस्थिति रन्वयव्यतिरेकाभ्यां कारणामति वृत्तिज्ञानाभावे श्रुतोऽपि शब्दो नार्थबोधं जयति । घटपटादेश्चाकाशादौ वृत्तेरभावाद् नैव तद्विषयको बोधः । एत एव वृत्त्या पदप्रतिपाद्य एव पदार्थ इत्यभिधीयते ।
तत्राधुनिकसंकेतः परिभाषा । तथा चार्थबोधकं पदं पारिभाषिकम्, यथा शास्त्रकारादिसंकेतितनदीवृद्ध्यादिपदम् । ईश्वरसंकेतः शक्तिः । तथा चार्थबोधकं पदं वाचकम् । यथा गोत्वादिविशिष्टबोधकं गवादिपदम्, तद्बोध्योऽर्थो गवादिर्वाच्यः । स एव मुख्यार्थ उच्यते इति गदाधरभट्टाचार्यः ।
जगदीशतकलिङ्कारस्तु -- उभयावृत्तिधर्मविशिष्टसंकेतवती सञ्ज्ञा पारिभाषिकी । यथाऽऽकाश़डित्थादि । शब्दवत्याकाशे व्यक्तौ नित्यसंकेतवती आकाशेति सञ्ज्ञा । दारुमयहस्तिव्यवतौ आधुनिकसंकेतवती इत्थेति सञ्ज्ञा । आकाशडित्थादिसञ्ज्ञा हि द्वितयावृत्तिधमणैव शब्देन दारुमयहस्तिवृत्तितद्व्यक्तित्वेन च रूपेण शबादश्रयं दारुमयहस्तिवृत्तितद्व्यक्तित्वाश्रयं च प्रतिपादयति ।
घटत्वादिजातेरनेकवृतित्तवाद् घटत्वादिजात्याश्रयवाचकं घटपदं न पारिभाषिकम् । आकाशादिपदस्य शब्दाश्रयत्वविरहिते केवले गगनादौ सङ्केतकल्पने तु पटादीनामपि पारिभाषिकत्वं स्यादित्यादि । तत्रापि पटत्वविरहिते केवले पटे सङ्केतस्य कल्पयितुं शक्यत्वात् । एवञ्चातिव्याप्तिः पादलेष्टुका स्यात् ।
यदि पटे संकेतितमपि पटपदम् 'न पटत्वजातिविशिष्टशक्तिमत्' इत्यादिनिश्चयानन्तरं पटादिपदशक्तिग्रहात् पटपदात् पटत्वजातिविशिष्टस्य प़स्याननुभवादवश्यं पटादिपदशक्तिः किञ्चिद् धर्मविशिष्टार्थनिरूपिता, न तु केवलव्यक्तिनिरुपिता; अन्यथा तद्धर्मप्रकारकतद्धमिविशेष्यकनिश्चये सति तद्धर्माभावप्रकारकतद्धर्मिविशेष्यकज्ञानं न भवतीति सिद्धान्तात् 'पटपदं न पटत्वजातिविशिष्टशक्तिमत्' इत्याकारकनिश्चयानन्तरं पटादिपदशक्तिग्रहात् पटपदात् पटस्यानुभव आपद्योत ।
तव मते शक्तौ पटत्वस्य प्रकारतयाऽनिवेशात्, प्रतिबन्ध्याप्रतिबन्धकयोः समानप्रकारकत्वाभावादित्यवश्यं पटत्वावच्छिन्ने शक्तिरभ्युपगन्तव्येतीदमुच्यके, तर्हि तुल्ययुक्त्याऽऽकाशादिपदेऽपि कथं गजनिमीलिकाऽऽद्रियते । तत्रापि शब्दवति शक्तमप्याकाशपदम् -- 'न शबादश्रयशक्तिमत्' इति बाधनिश्चयदशायामाकाशादिपदान्न शब्दाश्रयत्वेन गगनस्य प्रतीतिरिति शब्दाश्रय एवाकाशस्य शक्तिरिति विभाव्यताम् ।
एवञ्च --- 'पटत्वाद्युपलक्षिते धर्मिण्येव, न तु पटत्वादिजातिविशिष्टे शक्तितग्रहस्य ताद्रूप्येण पटत्वादिना पटविषयकानुभवं प्रति हेतुत्वाद् मास्तु पटादिपदस्यापि पटत्वाद्यवच्छिन्ने शक्तिः । परन्तु पटत्वाद्युपलक्षितव्यक्तिष्वेव इतिवदतो दीधितिकारस्यापि गेहे रजनीत्यहो विधेर्वैचित्र्यम् ।'
एकसम्बन्धेनानेकेषु वर्तमाना ये उपाधयो धर्मास्तद्विशिष्टे संकेतवती सञ्ज्ञा त्वौपाधिकी । यथा -- भूतयूतादीः । सा हि सचेतनावृत्तिविशेषगुणवत्त्ववार्ताहारकत्वाद्यनुगतोपाधिपुरस्कारेणैवशक्तो भवति । शब्दाश्रयत्वादिकन्त्वखण्डत्वेनोपाधिरपि नानुगतो द्वितयावृत्तित्वात्, अतः पारिभाषिके गगनादिपदे नातिप्रसङ्गः ।
नन्वेवं घटपदस्यापि नैमित्तिकत्वंन स्यात्, प्रत्युत घटत्वाजातेरवयवसंयोगविशेषवृत्तितयौपाधिकत्वं स्यादिति चेत्, इष्टापत्तिः । यदि च स्वाश्रयाश्रयत्वरूपपरम्परासम्बन्धेन वैजात्यवत्त्वेन शक्तं घटपदम्, तदा नैमित्तिकमेवेति न व्यवहारविरोध इत्याह ।
भर्तृ हरिपदास्तु -- यस्मिन्नर्थे यन्नामाधुनिकसंकेतवत् तदेव तत्र पारिभाषिकम् । एवञ्च यादृशानुपूर्वी यादृशार्थविशेष्यककिञ्चिज्जन्यबोधविषयत्वप्रकारकानित्यसंकेतविषयताविशेषावच्छेदिका तादृशानुपूर्वीमत्त्वं तादृशार्थे पारिभाषित्वमिति पर्यवसितम् । यथा पित्रादिभिः पुत्रादौ संकेतितं चैत्रादि, यथा वा शास्त्रकुद्भिः सिद्ध्यभावादौ संकेतितं पक्षतादि ।
यस्मिन्नर्थे जात्यवच्छिन्नश्कतिमन्नाम नैमित्तिकम्; एव़ञ्च यादृशानुपूर्वीयादृशार्थविशेष्यकजात्यवच्छिन्नस्वशक्तिनिरूपकतावच्छेदिका तादृसानुपूर्वीमत्त्वं तादृशार्थनैमित्तिकत्वं पयैवसितम् । यथा - गवि गोनाम, गवये च गवयादिनाम । यत्रार्थे यदुपाध्यवच्छिन्नशक्तितमन्नाम तदौपाधिकम् । तथा च यादृशानुपूर्वी यादृशार्थविशेष्यकसखण्डधर्मवच्चिन्नश्कतिनिरूपकतावच्छेदिका तादृशानुपूर्वीमत्त्वं फलितम् । यथाऽऽकाशपश्वादि ।
ननु आधुनिकसंकेतस्यापिशक्तिमत्त्वात् पारिबाषिकचैत्रादिशब्दानां नैमित्तिकत्वापत्तिः, नदीवृद्ध्यादिशब्दानामौपाधिक्तवापतिशअच । इष्टापत्तौ च तेन रूपेण विभागासम्भवः, मिथोविरुद्धर्मस्यैव विभाजकतावच्छेदकत्वादिति चेत् न; संकेतस्य शक्तित्वेनाधुनिकस्य संकेतस्य शक्तित्वाभावात् । तथाहि ---
आजानिकश्चाधुनिकः संकेतो द्विविधो मतः ।
नित्य आजानिकस्तत्र या शक्तिरित्यभिधीयते ।।
कादाचित्कस्त्वाधुनिकः शास्त्रकारादिभिः कृतः ।।
तत्र = तयोर्मध्ये, नित्यः संकेतः आजानिकः = न जनिरुत्पतिर्यस्यासौ अजनिः, अजनिरेवाजानिकः, स्वार्थे इकणितिआजानिकशब्दो यौगिकः । अन्ये तु, आजातिकः कालत्वव्यापक इत्यर्थः । तथा चाजानिकः शब्दः पारिभाषिक इत्याहुः । तत् न ; यौगिकसम्भवे पारिभाषिककल्पनाया अन्याय्यत्वात् । न च प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वरूपस्य नित्यत्वस्य योगालभ्यत्वेन तद्बोधने तस्य कथं यौगिकत्वमिति वाच्यम्, प्रागभावातिरिक्तस्यानुत्पन्नवस्तुनो ध्वंसाप्रतियोगित्वियमात् । नित्यपदस्यैवानुपन्नपतत्वाद् वा । न च तयोरेकार्थत्वेन पौनरुक्त्यम्, आजादिक इत्यस्याजानिकशब्दप्रतिपाद्यपरत्वात् । अत एव या श्कतिरित्यत्र यत्पद्सय नित्यसंकेतपरत्वेऽपि 'शक्तिरित्यभिधीयते' इत्यनेन शक्तिपदप्रतिपाद्यत्वकथनाद् न पौररुक्त्यम् ।
अत एव च 'प्रजावती भ्रातृजाया' 'श्यालाः स्युर्भ्रातरः पत्न्याः', 'सत्कृत्यालङकृतां कन्यां यो ददाति स कूकुदः' इत्यादावपि न पोनरुक्त्यम् । कादाचित्कत्वम् = ध्वंसप्रतियोगित्वम् । आधिनिकः = आधिनिकशब्दप्रतिपाद्यः । स च क इत्याङ्क्षायामाह - शास्त्रकारादिभिरिति । आदिना म्लच्छादिपरिग्रहः । यथा स्त्रीकृतेकारे नदीपदस्य,आरादिषु वृद्ध्यादिपदस्य संकेतः, रङ्गौ यवपदस्य संकेतः ।
न च पित्रादिसंकेतिते चैत्रादिपदे नित्यसंकेतवत्त्वे मानमस्ति, द्वादशेऽह्नि पूर्वपूर्वप्रयुक्तत्वापाताच्च, तस्त तन्नियतत्वादित्युक्तत्वात् । चैभादिपदानामिव पारसीकादिशब्दानां संकेतवत्वाविशेषेऽपि न तेषां धर्मकर्मण्युपयोगः, "साधुभिर्भाषितव्यं नासाधुभिः, नापभाषितवै न म्लेच्छितवै" इति श्रुत्या तत्र तन्निषेधात् । म्लेच्छितवै = म्लेच्छमात्रसंकेतितैः, खरादिशब्दास्तु राभसादौ म्लेच्छैरिवार्य्यैरपि सकेतिता इत्याहुः ।
शाब्दिकाः, व्यञ्जनामप्येकां तृतीयां वृत्तिमभ्युपगच्छन्ति । तथा चोक्तं नागेशेन -- मुख्यार्थबाधग्रहनिरपेक्षबोधजनको मुख्यार्थसम्बद्धासम्बद्धसाधारणप्रसिद्धाप्रसिद्धार्थविषयको वक्त्रादिवैशिष्ट्यज्ञानप्रतिभाद्युद्बुद्धः संस्कारविशेषो व्यञ्जना । अत एव निपातानां द्योतक्त्वं स्फोटस्य व्यङ्ग्यता च हर्यादिभिरुक्ता । द्योतकत्वञ्च क्वचित् समभिव्याहृतपदीशक्तिव्यञ्जकत्वम्, इति वैयाकरणानामपि तत्स्वीकार आवश्यकः । एषा च शब्दतदर्थपदपदैकदेशवर्णरचनाचेष्टादिषु सर्वत्र, तर्थवानुभवात् । वक्त्रादिवैशिष्ट्यादिज्ञानं व्यङ्ग्यविशेषबोधे सहकारीति न सर्वत्र तदपेक्षेत्यन्यत्र विस्तरः । (वैया. सि. ल. म. पृ. 133)
शाब्दिकैः सा स्मृकैव त्रिविधापि स्वरादिवत् ।
अभिधा लक्षणा व्यक्तिरित्याख्या त्रितयं मतम् ।।
(कोविदनन्दे पृ.1, श्लो. 42)
विविधा वृत्तिरेकैव वैलक्षण्येऽपि वस्तुतः ।
इत्याहुः शाब्दिकास्तेषां भिन्नत्वे गौरवाद्भयम् ।।
(कौविदानन्दे पृ. 26, श्लो. 16)
यथैक एव स्वरो ह्रस्वदीर्घप्लुतभेदेन त्रिविधो भवति, तथा शक्तिरेव शब्दवृत्तिरभिधालक्षणाव्य़्जनाबेदेन त्रिविधा भवति । वृत्तीनां भेदे गौरवमस्ति इति तट्टीका ।
अत्र वैयाकरणाः --- 'शक्तिरेव शब्दवृत्तिः, तसयाश्च प्रसिद्ध्यप्रसिद्धिभ्यां शक्तिलक्षणाव्यपदेशः, व्य़्जना तु तत्रान्तर्भवति दीर्घव्यपारात् (त्रिवेणिका, पृ. 36-37)' इति ।
एवञ्च शाब्दिका व्यञ्जनावृत्तिं नाभ्युपगच्छन्तीति वैयाकरणमतमभ्यूह्य प्रत्याख्याताऽऽशाधरभट्टेन कोविदान्दे त्रिविदान्दे त्रिवेणिकायाञ्च । तस्यायं भावः स्यात् - यद् भाष्यादिप्राचीनतमेष्वाकरग्रन्येषु क्वचिदपि व्यञ्जनाविषयको विशिष्टो विचारो नोपलभ्यते । टाकादिग्रन्थेषु च 'वृत्तिश्च शक्तिलक्षणाऽन्यतररूपा' (मनो. श. टिप्पणम्, पृ. 25, पा. सू. 1-2-45) इत्येव लिखितम्, न तु व्यञ्जनाभिप्रयेण 'अन्यतमरूपा' इति । लक्ष्यार्थस्यमाणवकादेर्नियतोपस्थितिकत्वाभावेन सिंहादिपदरूपप्रातिपदिकार्थत्वाभावशङ्कां मनसि निधाय 'अन्वयानुपपत्तिपूर्विका लक्षणा पदे एव' ( लघुशब्देन्दुशे., पृ. 516 ; पी. सू. 2-3-46) इत्येव शेखरकारेणोक्तम्, न तु व्यञ्जनास्थलेऽपि शङ्कासमाधाने समुद्भाविते । व्यञ्जनास्वीकारे तु तत्रापि नियतोस्थितिकत्वाभावे तयोरुद्भावनमवश्यं कर्तव्यमासीत् ।
यद्यपि स्फोटवादे ये श्रद्दधते, तैरवश्यं व्यञ्जनाङ्गीकर्तव्या । अन्यथा सकलशाब्दिकाभिमतातस्य
व्यङ्ग्यता नैव सिद्धा भवेत् । अत एव नागेशभट्टेन व्ञ्जनास्वरूपंप्रदर्श्योक्त्म् -- 'अत एव निपातानां द्योतकत्वं स्फोटस्य व्यङ्ग्यता च हर्यादिभिरुक्ता । द्योतकत्वञ्च क्वचित् समभिव्याहृतपदीयशक्तिव्य़्जकत्वमिति वैयाकरणानामपि तत्स्वीकार आवश्यकः' (वै. सि. ल. म. पृ. 133) इति, तथापि तार्किकेषु शश्वतिकविरोधानां शाब्दिकानां तार्किकमतप्रत्याख्यानमात्रफलको व्ञ्जनासमर्थनप्रयासो भवेत्, अन्यथा लक्षणायाः प्रत्याख्याने 'जघन्यवृत्तिकल्पनाया अन्याय्यत्वात्, दृत्तिद्वयावच्छेदकद्वयकल्पने गौरवात्, सति तात्पर्ये 'सर्वे सर्वार्थवाचकाः' इति भाष्याल्लक्षणाया अभावाच्च' (पर. ल. म., लक्षणानि.पृं 62) इत्यादयो यावन्तो हेतवो नागेशेनप्रदर्शितास्ते, सर्वेऽपि व्यञ्जनां कथं न विरुन्ध्युः । व्यञ्जनया यावानर्थो व्यङ्ग्यो भवति तावान् सर्वोऽप्यप्रसिद्धशक्त्या व्यक्तो भविष्यति । व्यञ्जनावृत्तौ श्रद्धामावहतामालह्कारिकाणांमते सहृदयैरेव व्यङ्ग्योऽर्थोऽवगम्यते, तादृशोऽर्थोऽप्रसिद्धशक्त्या वैयाकरणैर्भोत्स्यते, किं व्यञ्जनया ? तया चोक्तं नागेशेन "शक्तिर्द्विधा, प्रसिद्धा अप्रसिद्धआ च । आमन्दबुद्धिवेद्यात्वं प्रसिद्धात्वम्, सहृदयहृदयमात्रवेद्यात्वमप्रसिद्धात्वम् । तत्र गङ्गादिपदानां प्रवाहादौ प्रसिद्धा शक्तिः, तीरादौ चाप्रसिद्धेति किंमनुपपन्नम् ।" ननु 'सर्वे सर्वार्थवाचकाः, इति ब्रूषे चेत्, तर्हि घटपदात् पटप्रत्यः किन्न स्यादिति चेत्, न;: सति तात्पर्ये, इत्युक्तत्वात् तात्पर्याभावादिति गृहाण । तात्पर्यञ्चात्रेश्वरं देवतामहर्षिलोकवृद्धपरम्परातोऽस्मदादिभिर्लब्धमिति सर्वं सुरूढम्' इति (परम - ल. म., लं. नि. पृ. 63) । एवञ्च यथा लक्षणास्थले तात्पर्यवशादप्रसिद्धया शक्त्यैवष्टार्थस्य लाभः, तथा व्य़्जनास्थलेऽपि वक्त्रादिवैशिष्ट्यसहकारेणाप्रसिद्धशक्त्यैवेष्टार्थलाभो भविष्यति, किं व्यञ्जनया ? यदि हर्यादिभिर्निपातानां द्योतकत्वस्वीकारात्, स्फोटस्य व्यह्ग्यत्वस्वीकाराच्च शाब्दिकैर्द्योतकतारूपा व्य़ञ्जना स्वीक्रियते, तर्हि प्रादीनां द्योतकत्वाह्गीकारान्नैयायिकैरपि सा स्वीक्रियते, तर्हि प्रादीनां द्योतकत्वाङ्गीकारान्नैयायिकैरपि सा स्वीकर्तव्या भवेत्, न च तैः स्वीक्रीयते । यद्यन्यदेष व्य़ञ्जत्वं तेषां तर्हि शाब्दिकानामपि तद् अन्यदेव भवतु । किं लक्षणभेदेनाधिकतास्वीकारगौरवेण । एव़्च शाब्दिकानां व्यञ्जनायामनास्था प्रतीयते ।
परमलघुममञ्जूषा नागेशस्य कृतिर्नास्ति ।वैयाकरणसिद्धान्तमञ्जीषायां यस्य सिद्धान्तस्य यया परिपाट्या प्रतिपादनमस्ति तस्य प्रतिपादनाय समादृता सा परिपाटी परमलघुमञ्जीषायांन दृश्यते । पदार्थानां तत्र तत्र विपर्यासोऽपि विलोक्यते । लक्षणाप्रत्याख्याने यावान् सन्नाहः परमलघुमञ्जूषायां निभाल्यते, न तावांस्तत्र । एवमनेके विचारभेदा अपि दृश्यन्ते द्वयोर्ग्र न्ययोरिति कथं तदाधारेण व्यञ्जना न स्वीक्रियते वैयाकरणैरिति निश्येतुं सक्यत इत्यपि विदुषां प्रवादः । एवं सत्यपि आशाधरभट्टस्य युक्तयोऽप्युपेक्षितुं प्रेक्षावद्भिर्न पार्यन्ते । अत्रत्यं रहस्यं मत्सरशून्यैः शाब्दिकशार्दूलैः प्रणिहितचेतोभिश्चिचन्तनीयम् । ]