वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-२०

← वैयाकरणसिद्धान्तमञ्जूषा-१९ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-२०
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-२१ →


अथ सङ्ख्याविवक्षाऽविवक्षानिर्णयः

एषाञ्च सुपामेकवचनत्वद्विवचनत्वबहुवचनत्वरूपेण, तत्तद्रूपेण वा एकत्वद्वित्वबहत्वरूपसंख्यातऽप्यर्थः, "द्रव्येकयोर्द्विवचनैकवचने" "बहुषु वहुचनम्" [ 1।4।2 ] इति सूत्रस्वरसात् । 'सुपां कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम्' इति भाष्याच्च ।

अत्रापिना संख्या समुच्चीयते, उत्तरत्र चेन कर्मादय कर्मादय इति बोध्यम् । तत्र कर्मादयोऽर्था इति मते संख्यायाः प्रत्ययार्थे एवान्वयः । कर्मत्वादि कर्मार्थ इति मते तु प्रकृत्यर्थे, तत्र क्वचित् प्रकृत्यर्थविशेष्येऽन्वयः, क्वचित् प्रकृत्यर्थतावच्छेकेऽन्वयः ।

अत एवानेकव्रीहितात्पर्यके सम्पन्नो ब्रीहिरिति वाक्ये एकवचनं सङ्गच्चते, तत्र व्रीहित्वे तदन्वयात् स्वाश्रयाश्रयत्वरूपपरम्परासम्बन्धेन वा प्रकृत्य्थं एवान्‌वयः । इदमेवाभिप्रेत्य जात्यभिप्रायेणैकवचनमिति प्राचामुद्घोषः । अत एव वेदाः प्रमाणमिति बहुवचनान्तसमभिव्याहारेऽप्येकवचनम्, प्रमाकरणत्वरूप प्रकात्यर्थतावच्छेदके तदन्वयात् । तत्फलं तु सर्वेषामेकजातीयप्रमाणोपपादनमेव ।

'शतं ब्राह्मणाः' इत्यादौ तु 'विशत्याद्याः सदैकत्वे' इत्यादिकोशप्रामाण्यात् समुदायैकत्वाभिप्रायमेकवचनमेव, न कदापि प्रत्येकाश्रयं बहुवचनम्, प्रकृत्यर्थतावच्छेदक एवात्र संख्यान्वयः, शब्दशक्तिस्वभावात् । अन्यत्र तु प्रयोगानुरोधाद् व्यवस्थितम्, तेन घटा नील इत्यादि नापाद्यम् ।

अत एव 'अग्नीषोमौ देवता, पितरो देवताः' इति व्यवस्थित एव प्रयोगः । आद्ये एकदेवत्वस्य प्रतिपिपादयिषितत्वादेकवचनमेव । द्वितीये प्रत्येकं भिन्नस्यैव तस्य प्रतिपिपादयिषितत्वेन बहुवचनमेवेत्याहुः ।

दारा इत्यादौ त्ववयवगबहुत्वस्यावविन्यारोपादेकस्यामपि व्यक्तौ बहवचनान्त एव प्रयोगः ।

किञ्च, तत्रारोपितबहुत्वाश्रयैव विभक्तिः, न तु स्वनिष्ठैकत्वाश्रयापि, कोशादिप्रामाण्यात् । यत्र तु, कोशाद्युदासीनं तत्र यथेच्छं प्रयोगानुसारात् ।

एतेनैकस्मिन्नपि 'आचार्याः कथयन्ति' 'गुरव आगताः' इत्यादिप्रयोगाः समर्थिताः ।

?0यत्तु?0, अजहत्‌स्वार्थलक्षणया दारादिपदानां नानागुणविशिष्टत्तद्व्यक्तिवाचक्तवन प्रकृत्यर्थतावच्छेदके संख्यान्वय इति। तत्, न; मुख्यार्थपरतत्पदोत्तरबहुवचनस्यासङ्गततापत्तेः ।

यदि तु निरूढलक्षणया विना केवलमुख्यार्थकप्रयोग एव नेत्युच्यते, तर्हि तेन रूपेण शक्तिरेवास्तु, किं लक्षणया ? कोशादिकञ्च तादृशार्थशक्तावेव तात्पर्यग्राहकं बोध्यम् ।

यदपि, साधुत्वमात्रार्थमेतादृशस्थले बहुवचनादिकमिति । तदपि, न; अनुशासनाभावात् । न च तवापि मते सर्वदा आरोपसत्त्वे मानाभावेन तदभावे एकवचनान्तप्रयोगापत्तिः, कोशादिप्रामाण्येन नियतारोपस्वीकारात्, नानागुणविशिष्टे शक्तिस्वीकाराच्च ।

?0अनेय तु?0, अयोग्यतानिश्चयस्य शाब्दबोधप्रतिबन्धकत्वाभावादेकव्यक्तावपि बहुत्वान्वयः । अत एव गालिदानादिजन्यदुःखानुभवः, रूपकादिकाव्यजसुखाद्यनुभवश्च सङ्गच्छते । "बहुवचनम्" [ 1।4।21 ] इत्यादेश्च बहुत्ववैशिष्ट्येन बोधे बहुवचनमित्यादिरर्थः । तदुक्तम् ---- "अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि" इति । आहार्य एव शाब्दबोधः ।

दारानानयेत्यादितो बह्वीनामानयने प्रवृत्त्यादिकं तु नापाद्यम्, अनाहार्याप्रामाण्यज्ञानानास्कन्दितज्ञानस्यैव प्रवर्त्तकत्वात् । यदा तु व्यक्तिनिष्ठबहुत्वाभिप्रायेणैव तथा प्रयोगः, तदा भवत्येव बह्वोनामानयनम् । तात्पर्यादितस्तु तन्निर्णय ?0इत्याहुः?0 ।

यत्तु ; एतादृशस्थले पदार्थोपस्थितिमात्रं न शाब्दबोध इति, तत्, न; संवत्रैवमेवापत्तौ शाब्दबोधोच्छेदापत्तेरित्यन्यत्र विस्तरः ।

?0संख्याप्रसङ्गादुद्वेश्यविधेययोः संख्याविवक्षाऽविवक्षे निरूप्येते

?0यत्तु मीमांसकाः?0, 'पशुना यजेत' इत्यादौ विधेयविशेषणत्वादेकत्वं विवक्षितम् । तथाहि -- समानप्रत्ययोपात्तेन प्रातिपदिकादपि सन्निहितेन प्रधानभूतेन च कारकेणावरुद्धमेकत्वं प्रातिपदिकार्थमनादृत्य क्रियाङ्गमवगम्यमानं वाक्यासमर्पितेन क्रियाविशेषेण सम्बन्ध पश्चाट् 'अरुणैहायनी' न्यायेन पशुनार्थात् सम्बन्धेन ।

एवञ्च एकत्वस्य विवक्षितत्वात् तद्विशिष्टपशोरेव विधानान्नानेकपशुभिर्यागः । एवं विधेयविशेषणे सर्वं विवक्षितम् । 'ग्रहं सम्मार्ष्टि' इत्यादावद्धेश्यग्रहगतमेक्तवमविवक्षितम् । अन्यथा वाक्यभेदः स्यात् । तथाहि -- "प्राजापत्या नवग्रहाः" इत्यत्र विहितग्रहोद्देशेन सम्मार्गो विधोयते । तत्रैकत्वविवक्षायां ग्रहं संमार्ष्टि, तं चैकमित्यर्थः स्यात् । एवञ्चोद्देश्यानेकत्वकृतो वाक्यभेदः स्पष्ठ एव ।

किञ्च, ग्रहमिति द्वितीया ग्रहस्य संस्कार्यत्वलक्षणं प्राधान्यं प्रीतयते । एवमेकत्वस्यापि । तथा च ग्रहस्वरूपवदेकत्वविवक्षायामपि 'प्रतिप्रधानं गुणावृत्तिः, इति न्यायात् सर्वत्र ग्रहे सम्गार्गसिद्धिर्व्यर्थैव तद्विवक्षा । '

यदि तु पशुवद्ग्रहाणां गुणत्वं भवेत्, तदा येन केनापि सिद्धेर्यावद्गुणं प्रधानावृत्तेरयोगाच्च परिच्छेदकत्वेन पशुवत् संख्याविवक्षा स्यात् ।

नन्वेवं गुणत्वं चात्र संस्कारकत्वमसंस्कार्यत्वं वा ? अथ संख्याविशिष्टपश्वादिविधिवदेकत्वविशिष्टग्रहानुवादेन सम्मार्गविधिः स्यादिति चेत्, तथापि सर्वेषां प्रत्येकमेकत्वात् स्यादेव प्रसङ्गः । न चैकत्वविशिष्टसम्मार्गविधिः, वैशिष्ट्यञ्च स्वाश्रयकर्मकत्वसम्बन्धेनेति वाच्यम्, तथापि द्वितीयोक्तप्राधान्यानुरोधेन 'प्रतिप्रधानं गुणावृत्तिः' इति न्यायात् सर्वत्र सम्मार्ग्रप्रसङ्गात् । तस्मादुद्देश्यगता संख्याऽविवक्षितैव, यथा प्रकृते ग्रहत्वमित्याहुः ।

तद्वैयाकरणेर्नाश्रयितुं शक्यम्, "आर्धाधातुकस्येङ्वलादे" [ 7।2।35 ] इत्यत्र वलादित्वविशअषटमार्धधातुकमनूद्येङ्विधानेनार्धधातुकविशेषणवलादित्वादिविवक्षायाः सर्वसम्मतत्वात् । न चव ग्रहेष्वपि न दोषः, तत्राकाङ्क्षाविरहात् फलाभावाच्चेत्युक्तम् । तत् किमनुवाद्यविशेषणं विवक्षितमेव, न ; "उपेयिवाननाश्चाननूचानश्च" [ 3।2।106] इत्यादौ नञ्‌प्रभृतेर्विवक्षाया उपेत्यस्याविवक्षायाश्च स्वीकारात् ।
सुप्सुपेत्यादावेकत्वस्य विवक्षणाच्च् ।

एवं विदेयविशेषणं विवक्षितमित्पि न नियमः, "रदाभ्यां निष्ठातो नः पूर्वस्य च दः" [ 8।2।42 ] इत्यत्रैकत्वविवक्षणात् ; तथात्वे भिन्न इत्यत्र नद्वयलाभो न स्यात् । न च वाक्यभेदेन तल्लाभः, तत्कल्पने गौरवाद् मानाभावाच्च । 'पूर्वस्य च ' इति चकारस्य "एकः पूर्वपरयोः" [ 6।1।84 ] इति सूत्रस्यैकग्रणवत् सत्त्वात् । न च तत्रैकत्वाविक्षायामनन्तकारापत्तिः, न चैकेन शास्त्रस्य चारितार्थ्यात् न बहूनामापत्तिः, भिन्न इत्यत्र नद्वयानापत्तेः । सवर्णदीर्घादिवदुभयोरेकतोपत्तेः । मम तु वाक्यभेदाद् न दोषः, तत्र चकारस्तापर्यग्राहक इति वाच्यम्, चकारस्य पूर्वोक्तरीत्यैकदेशविधानार्थत्वस्यापि वक्तुं शक्यत्वेन वाक्यभेदे तवादि मानाभावात् ।

तस्माद् यदि लक्ष्यानुरोधेन वाक्यभेद एव, चकारस्तात्पर्यग्राहक इत्युच्यते, तदा एकत्वविवक्षा व्यर्थैव, वाक्यभेदेन नकारद्वयस्य ममापि लाभात् । एकेन शास्त्रस्य चारितार्थ्याद् न बहुनामापत्तिः ।

नन्वेवमनियमे सति "आदगुणः" [ 6।1।87 ] इत्यादावेकत्वं विवक्षितं कृत्वा 'एकः पर्वपरयोः' इत्यत्रैकग्रहणं प्रत्याख्येयमिति चेत्, इष्टापत्तेः, भाष्ये प्रत्याख्यानात् । एवञ्च, "अस्य च्वौ" [ 7।4।32 ] इत्यादौ अनुवाद्यविशेषणत्वाद् ह्रस्वत्वादेरविवक्षेत्यादिकैयटादिग्रन्थाश्चिन्त्या एवेति दिक् ।

इति संख्याविवक्षाऽविवक्षाविचारः ।

इतिसुबर्थनिर्णयश्च समाप्तः ।