वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-१९

← वैयाकरणसिद्धान्तमञ्जूषा-१८ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-१९
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-२० →

अथ सप्तमीविभक्त्यर्थनिर्णयः

कारकस्पतम्याश्चाधिकरणमर्थः, "अधिकरणे सप्तमी" इति सूत्रात् । अधिकरणत्वमलक्षणबोधकञ्च "आधारोऽधिकरणम्" [ 1।4।45 ] इति सूत्रम् । तत्र कारकाधिकारात् प्रत्यासत्त्या क्रियाया एवाधारो गृह्यते । तत्र साक्षात् क्रियाधारयोः कर्तृकर्मसंज्ञाभ्यां बाधात् परम्परया तदाश्रयस्य ग्रहणम् । न च ते एव परम्परयाऽऽधारस्य स्यातामिति वाच्यम्, कर्त्तृक्रियाजन्यधातूपात्तफलशालित्वेन मुख्योद्देश्यत्वरूपस्य कर्त्तुरीप्सिततमत्वस्याभावात् । स्वतन्त्रपदसामर्थ्याच्च कर्त्तृ संज्ञासूत्रे न परम्परयाऽऽधारस्य ग्रहणम् । परम्परा च कर्त्तृकर्मद्वारिकैव ।

यद्यपि प्रकरणात् क्रियया सर्वकारकाणामुपस्थितिः, तथापि योग्यताबलेन व्याख्यानेनानुभवबलेन च तयोरेव ग्रहणम् । एवञ्च कर्त्तृकर्मद्वारा क्रियाश्रयत्वमधिकरणत्वं फलितम् ।

न चैवं फलस्य कर्मतायाः पूर्वं व्युत्पादनात् कर्मभूतफलद्वारा क्रियाश्रयतण्डुलादेरधिकरणत्वं दुर्वारमिति वाच्यम्, व्यापारजन्यफलाश्रयत्वस्यापि कर्मसंज्ञाप्रयोजनकत्वेन तया बाधात् । कर्त्तृद्वारा क्रियाश्रयत्वं तु तण्डुलादेरसम्भावितमेव, आधारपदसार्थ्येन साक्षाद् वृत्तिनियामकसम्बन्धेनैव कर्त्तृद्वारकत्वस्य विवक्षणात्, कालिकादिसम्बन्धस्यातिप्रसक्तत्वेन कालव्यहारातिरिक्तस्थले तस्याधिकणतानियामकत्वास्वीकाराच्च । अत्र कर्त्रादिद्वारा क्रियाश्रयत्वविवक्षायां सप्तमी, साक्षात् फलाश्रयत्वविवक्षायां द्वितीया ।

अत एव 'ग्रामे गच्छति, ग्रामं गच्छति' इत्युभयं साधु । अत एव हृदयं स्पृशति, हृदिस्पृगित्यादि सङ्गच्छते । न च देवदत्तः पचति भवतीत्यादौ पाकद्वारा भवनाश्रयत्वविवक्षायां देवदत्तसयाधिकरणत्वापत्तिः । यतः कर्त्तृकर्मणोः क्रियाभिन्नयोरेव ग्रहणं तक्रकौण्डिन्यन्यायात्, तेन न दोषः ।

?0अन्ये तु?0, सत्यभिधाने इष्टापत्तिः । अन्यथाऽनभिधानादेव नेत्याहुः । न च मोक्षे इच्छास्तीत्यत्राधिकरणत्वानापत्तिः । प्रत्ययोपात्तेच्छायाः सिद्धत्वेन तामादायोपपत्तेरित्याहुः ।

यत्तु, पचति भवतीत्यादौ पाकादिद्वारा भवनाश्रयत्वविक्षायां पाकादावन्वयस्यावश्यकत्वेनान्तरङ्गत्वात् कर्त्तृत्वस्यैव प्रवृत्तिः । मोक्षे इच्छास्तीत्यादौ प्रत्ययोपात्तसिद्धेच्छाद्वारास्तिक्रीयायामन्वयस्य विवक्षितत्वेनाधिकरणत्वं सूपपादम् । नहि तामादाय कर्मत्वप्रवृत्तिः, तस्य अक्रियात्वात् । प्रकृत्यर्थद्वारा तत्रान्वयविवक्षायां तु तस्य क्रियात्वात् कर्मत्वेन षष्ठ्यीवेति । तत्, न ; ।

वस्तुतः कर्त्तृद्वारकसम्बन्धेन क्रियायामन्वयेऽपि कर्त्तृवाचकपदोपात्तार्थान्वये मानाभावेनान्तरङ्गत्वादेर्दुर्वारत्वात् । तस्मादिच्छापदार्थान्वये षष्ठी, तद्वारकसम्बन्धेन क्रियान्वये सप्तमीत्येव तत्त्वम् ।

ननु कर्त्तृ कर्मकरणाधिकरणार्थकविभक्तीनामाश्रयमात्रमर्थ इति कुत आसां वैलक्षण्यमिति चेत्, निरूपकभेदात् सम्बन्धभेदात् तत्तत्संज्ञाविशिष्टस्यैव तत्तद्विभक्तिभिर्बौधाच्चेति गृहाण । तत्र कर्तरि धात्वर्थव्यापारः, कर्मणि तदर्थफलं निरूपकं सम्बन्धश्चाधेयतैव । करणे स्वव्यापारजन्यत्वं सम्बन्धः, अधिकरणे च स्ववृत्तिकर्तृकत्वादिरिति फलीभूते शाब्दबोधे वैलक्षण्यं बोध्यम् ।

तत्राधारस्त्रिधा -- औपश्लेषिकः, वैषयिकः, अभिव्यापकश्चेति । तत्र संयोगसमवायादिसम्बन्धेन कर्तृकर्मसम्बद्ध आद्यः । विषयतासम्बन्धेन तत्सम्बद्धो द्वितीयः । व्यापकत्वसम्बन्धेन तृतीयः । तत्र "कटे शेते" इत्यत्र स्ववृत्तिकर्तृ कत्वसम्बन्धेन कटवृत्तिशयनमिति बोधः । मोक्षे इच्छास्तीत्यत्र स्वविषयकर्त्तृ कत्वसम्बन्धेन मोक्षवृत्तिरिच्छाकर्तृका सत्तेति बोधः ।

सर्वस्मिन्नात्मास्ति इ्तयत्र स्वव्यापककर्तृ क्वसम्बन्धेन सर्ववृत्तिरात्मकर्तृका सत्तेति बोधः । मूले वृक्षः कपिसंयोग्यस्तीत्यादावव्याप्यधर्मवत्‌कर्त्तृकक्रियासमभिव्याहारे स्ववृत्तिस्वावच्छेद्यधर्माश्रयकर्तृ कत्वसम्बन्धेन क्रियायामन्वयो व्युत्पत्तिवैचित्र्यात् । यत्रापि क्रियापदं न श्रुयते तत्राप्यव्याहार्यमिति दिक् ।

अधीती व्याकरणे -- अत्र न कर्मणि क्तः । तथा सति कर्मणोऽभिहितत्वेन 'क्तस्येन्विषयस्य कर्मण्युपसंख्यानम्' इति सप्तमी न स्यात् । अतः "नपुंसके भावे" [ 3।3।144 ] इति सूत्रेँण क्तः, तस्य सकर्मस्वपि प्रवृत्तेः । तस्याप्यकर्मकेष्वेव प्रवृत्तिरिति मते तु अविवक्षितकर्मकत्वात् पूर्वं भावेक्ते, पश्चात् कर्मसम्बन्धेऽपि अन्तरङ्गजातसंस्कारस्य निवृत्तौ मानाभावः । न चैवं पच्यते, देवदत्तेन तण्डुलमिति प्रयोगापत्तिः, प्रगोगानुरोधेनैव विवक्षायाः सत्त्वेनादोषात् । अन्यथा 'पूर्वं धातुः साधनेन युज्यते' इति पक्षे विजयतीति परस्मैपदापत्तिः । अधीतमनेनेति विग्रहे "इष्टादिभ्यश्च" [ 4।2।88 ] इति कर्त्तरीनिः । अधीतवान् व्याकरणामित्यादाविव च गुणीभूतक्रियायामपि कारकान्वय इति बोध्यम् । कर्म सप्तम्यर्थः । व्याकरणकर्मकाध्ययनकर्त्तेति बोधः ।

नन्वस्तीत्यध्याहारस्यावश्यकतया कर्तृद्वारा व्यापारश्रयत्वेनात्र सप्तमी सिद्धेति चेत्, न; अध्ययनान्वये कर्मत्वेन द्वितीयाबाधनार्थमस्यावश्यकत्वात् ।

चर्मणि द्वीपिनमित्यादौ फलं सप्तम्यर्थः । चर्मफलकं द्वीपिकर्मकं हननमित्यादिरीत्या बोधः । चर्मणः फलत्वम्, हननक्रियायास्तल्लाभादिविषयकेच्छाधीनत्वादिति बोध्यम् ।

'गोषु दुह्यमानासु' इत्यत्र 'यस्य च भावेन भावलक्षण्' [ 2।3।37 ] इति सूत्रेण सप्तमी । यस्य भावेन क्रियया क्रियया क्रियान्तरं ज्ञाप्यते ततो ज्ञापकक्रियावाचकात् सप्तमीति तदर्थः ।

ननु ज्ञाप्यज्ञापभावो भूयो दर्शनाश्रयो दृष्टः, यथाग्निधूमयोः । ततश्चोदिते आदित्ये तमो नष्टमित्याद्येव तदुदाहरणं स्यात्, न त्विदम्, कदाचिद्धिगोषु दुह्यमानास्वसावागत इति चेत्, न ; निर्ज्ञातदेशकालक्रियाया अनिर्ज्ञातदेशकालक्रियापरिच्छेदकत्वेन लक्षणत्वाक्षतेः ।

?0अन्ये तु?0, कालविशेष एतदीयैतद्गमनव्यक्त्याश्रयः, एतद्‌गोदोहनाश्रयत्वात्, यत्र यत्रै तद्गमनाश्रयत्वाभावः, तत्रैतद्गोदोहनाश्रयत्वाभाव इति व्यतिरेक्युमानविधया ज्ञापकत्व?0माहुः ?0।

ज्ञापकत्वञ्च ततच्छब्दप्रयोगबोधितमेवैतच्छास्त्रप्रवृत्तौ निमित्तम्, न तु तस्य मानान्तरेण नियमतो ग्रहणापेक्षेति बोध्यम् । तत्र देशोदाहरणं सति गुणे द्रव्यत्वमस्तीत्यादौ । ज्ञापकत्वञ्च सप्तम्यर्थः, तत्र प्रकृत्यर्थस्य स्वप्रवृत्तिनिमित्तीभूतक्रियाद्वारकत्वसम्बन्धेनान्वयः । अत एवास्य क्रियायामेवान्वयः, क्रियाद्वारकसम्बन्धेन यन्निष्ठज्ञापतानिरूपितज्ञाप्यत्वं क्रियान्तरनिष्ठम्, ततः सप्तमीति सूत्रार्थानुरोधात् ।

एवञ्च स्वाश्रयक्रियाश्रयत्वसम्बन्धेन वर्त्तमानदोहनकर्मीभूतगोनिष्ठज्ञापकतानिरूपितज्ञाप्यतावद्गमनाश्रय
इति बोधः । गोषु धोक्ष्यमाणास्वागत इत्यादौ भविष्याद्दोहनस्यापि बुद्ध्युपारूढस्य ज्ञापकत्वं बोध्यम् । तत्रागमनादौ भविष्यद्दोहनपूर्वकालत्वादिबोधस्त्वार्थः ।

यद्वा ज्ञापकत्वरूपसर्तम्यर्थस्य तात्पर्यवशात् पूर्वकालवृत्तित्वादिसमानाधिकरमस्वनिरूपितज्ञाप्यतासम्बन्धेनान्वयः । अत एव 'जले पीते तृषा शाम्यति' इत्यादावतीतार्थककृत्‌सभिव्याहारे कार्यकारणभावोऽपि सम्बन्धतया भासत इत्याहुः ।

?0यत्तु?0, एतत्सप्तम्याः स्वप्रकृतिभूतकृदन्तनामप्रवृत्तिनिमित्तीभूतक्रियासम्बन्धिवर्त्तमानकालवृत्तित्वादिकमर्थः । तथा च गवाभिन्नवर्त्तमानदोहनकर्मतदीयदोहनसम्बन्धवर्त्तमानकाले आगत इत्याद्याकारस्तत्र बोध इति । तत्, न ; सूत्रस्वरसविरोधात्, गोषु दुग्धास्वित्यादावुत्तरकालवृत्तित्वादेर्भानेनानन्तशक्तिकल्पनापत्तेश्चेति दिक् ।

  न चैवं गवां दोहे आगत इत्यादौ दोहशब्दात् सप्तम्यनापत्तिः, गोशब्दाच्च तदापत्तिरिति वाच्यम्, सतीत्यध्याहारेण दोहकर्तृकसत्ताया लक्षणत्वेनाक्षतेः । एतेन विवाहे नान्दीमुखं कुर्यादित्यादि व्याख्यातम्, करिष्यमाणे इत्यध्याहारात् । एतेन 'राहुपरागे स्नायात्,' क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' इत्याद्यपि व्याख्यातम्, सतीत्यध्यहारात् । राहूपरागादीनां निमित्तत्वं सिद्धसाध्यसमभिव्याहारन्यायेन फलतीति दिक् । क्षीयन्त इत्यत्र कर्मकर्त्तरि यगाद कर्मस्थक्रियारूपार्थस्यैव कर्मस्वारोपाद् बोध्यम् । एवम् 'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वर्सशयाः' इत्यत्रापि बोध्यम् ।

?0अपरे तु?0, इदं सुत्रं यत्र मानान्तरसिद्धस्यार्थस्य कालविशेषसम्बन्धादिप्रतिपादनाय शब्दप्रयोगः, तत्रैव प्रवर्त्तते, तथैव सूत्रभाष्यस्वरसात् । एवञ्च 'विवाहे नान्दीमुखम्, राहूपरागे' इत्यादि नैतदुदाहरणम् । तस्मात्तत्र विवाहपदेन तत्प्राक्कालो लक्ष्यते । राहूपरागपदेन चतदाश्रयः काल इति तत्राधिकरणसम्पतम्येव । निमित्तत्वं तूक्तन्यायेनैव फलतीत्याहुः ।

'रुदति रुदतो वा प्राव्राजीत्' इत्यत्र ज्ञापकत्वं षष्ठीसप्तम्योर्थः । धातोश्चानादरविशिष्टं प्रव्रजनं लक्ष्यम् । अत्रापि षष्ठीसप्तम्यौ तात्पर्यग्राहिके । अनादरश्च प्रत्यासत्त्या पुत्रादिविषयक एव । वैशिष्ट्यञ्च सामानाधिकरण्यस्योत्तरकालिकत्वाभ्याम् । एवञ्च रोदनकर्तृपुत्रादिज्ञाप्यमनादरविशिष्टं प्रव्रजनमिति बोधः ।

'नृणां नृषु वा द्विजः श्रेष्ठः' इत्यत्र "यतश्च निर्धारणाम्" [ 2।3।41 ] इति सूत्रेण षष्ठीसप्तम्यौ । जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं यतः, ततः षष्ठीसप्तम्याविति तदर्थ इति वृत्तिकृतः । तत्र जातिगुणक्रियासंज्ञाभिरित्यत्र विशिष्टस्येत्यध्याहारः । करणे वा तृतीया । पृथक्‌ककरणञ्चस्वेतरव्यावृत्तधर्मवत्त्वप्रकारकारकज्ञानविषयीकरणम् । यत इति पञ्चमी निर्धारणाघटकव्यावृत्तत्वेऽन्वेति । एवञ्च स्वेतरयद्धर्मावच्छिन्नव्यावृत्तधर्मत्त्वं जात्यादिविशिष्टस्य प्रतिपाद्यते, ततः षष्ठीसप्तम्याविति फलितम् ।

यत इति किम्, यस्य जात्यादिविशिष्टस्य स्वेतरव्यावृत्तधर्मवत्त्वप्रतिपादनम्, तत ए विभक्तिर्मा भूदिति । न च षष्ठीवद्विशेषणादेवोचिता, "दूरान्तिकार्थभ्यः" [ 2।3।35 ] इतिवत् प्रथमापवादस्यापि सम्भवात् ।

'नराणां क्षत्रियस्य शौयम्' इत्यादौ क्षत्रियादेर्विशेषणत्वस्य सत्त्वाच्च । 'अस्ति च नराणां विप्रः श्रेष्ठः' इत्यादौ विप्रत्वादिविशिष्टस्य तदितरनरादिव्यावृत्तश्रेष्ठत्वधर्मवत्तया प्रतिपत्तिः । 'नरेभ्यो राक्षसः क्रूरः' इत्यादौ राक्षसत्वविशिष्टे तदितरनरादिव्यावृत्तक्रूरतमत्वविवक्षायामपि न षष्ठीसप्तम्यौ । "पञ्चमो विभक्तेः"
इत्युत्तरसूत्रेणापवादभूतायाः पञ्चम्या विधानात् ।

एञ्च व्यावृत्तत्वाख्यः सम्बन्धो निर्धारणविभक्तेरर्थः । व्यावृत्तत्वञ्च विधेयतावच्छेदकावच्छिन्नाभावाप्रतियोगित्वम् । तेन द्वित्वाद्यवच्छिन्नाद्यभावमादाय नातिप्रङ्गः । तच्चाभेदान्वयि विधेयसमभिव्याहारस्थले विधेयतावच्छेदकेऽन्वेति, भेदान्वयितत्सथले च विधेय एव, व्युत्पत्तिवैचित्र्यात् ।

अभावे च प्रकृत्यर्थस्य सामानाधिकरण्यसम्बन्धेन विप्रत्वाद्यवच्छिन्नभेदविशिष्टस्वावच्छेदकावच्छिन्नाधारतानिरूपिताधेयतासम्बन्धेनान्वयः, आकाङ्क्षावशात्; केवलाधेयतासम्बन्धेन श्रेष्ठत्वाभावस्य नरत्वावच्छिन्ने बाधाच्च । स्वावच्छेदकावच्छिन्नाधारत्वादेः सम्बन्धत्वात् 'गवामियं सम्पन्नक्षीरा' इति न प्रयोगः, किन्तु 'एतासांगवामियं सम्पन्नक्षीरा' इत्येव प्रयोगः, तत्र सामानाधिकरण्यसम्बन्धेन विप्रत्वाद्यवच्छिन्नभेदविशिष्टेति विशेषणाद् 'गवां सास्नावती सम्पन्नक्षीरा' इति न प्रयोगः । विधेयस्योद्देश्यतावच्छेदकावच्छेदेनान्वयात् 'पशूनां कृष्णा सम्पन्नक्षीरा' इति न प्रयोगः ।

तथा च तादृशसम्बन्धेन नरवृत्त्यन्ताभावप्रतियोगिश्रेष्ठत्ववदिभिन्नो विप्र इत्यादिक्रमेण बोधः । नराणां क्षत्रिये शौर्यमित्यत्र तादृशसम्बन्धेन नरवृत्त्यभावप्रतियोगिशौर्यकर्तृका क्षत्रियवृत्तिसत्तेति बोधः । उद्भूतावयवभेदविवक्षया नृणामिति बहुवचनम्। तिरोहितावयवभेदविवक्षायामेकवचनमपि बोध्यम् ।

अत एव 'द्वन्द्वः सामासिकस्य च ' इति गीता संगच्छते ।

यद्यपि गोसमूहस्याधारत्वविवक्षायां सप्तम्याः सिद्धेः, अवयवावयविभावविवक्षायां षष्ठीसिद्धेश्चान्यतरविभक्तेर्विधेयत्वाभावलाघवानुरोधेन स एव विभक्त्यर्थो वक्तुमुचितः ।

बहुक्षीरात्वादौ कृष्णेतरगवाद्यवृत्तितवाबोधस्तु मानः, देवदेत्तो वामेनाक्ष्णा पश्यतीत्युक्ते दक्षिणेन न पश्यतीतिवत् । अत एव गोमण्डले वर्त्तमाना या कृष्णा गौः., सा बहुक्षीरेत्याधारसप्तमीघटितवाक्ये तद्बोधः सङ्गच्छते, तथापि एतदपवाद "पञ्चमी विभक्ते" [ 2।3।42] इति सूत्रोदाहरणे एतत्प्रकारस्य वक्तुमशक्यत्वादुक्तप्रकारस्यैवावश्यकत्वात्, तदैकरूप्यायेयमेव सरणिराश्रिताऽस्माभिः, अनुभवसिद्धत्वाच्च 'पुरुषोत्तमः' इत्यादौ सामर्थ्याभावात् समासानापत्तेश्च, पञ्चमीविधायकस्यैतदपवादत्वोक्तयसंगततापत्तेश्च, ममापि षष्ठ्यंशेऽनुवादत्वस्य सत्त्वाच्च । गोमण्डले वर्तमाना येत्यत्र तु गवामिति निर्धारणविभक्त्यन्ताध्याहारेणैव बोधः । अस्तु वा क्वचित् तथेति न सर्वत्र तथैवेति नियम ?0इत्याहुः?0 ।

ननु जवपृथिव्योर्जलं स्नेहवादित्यादौ जलभिन्नयोर्जलपृथिव्योरप्रसिद्धेर्जलपृथिव्युभवत्त्यभावप्रतियोगित्वस्य स्नेहे बाधेन च निर्धारणासम्भव इति चेत्, न ; तत्राप्युभयपर्याप्तसाहित्यावच्छिन्ने जलभेदस्य तदवच्छिन्नवृत्त्यभावप्रतियोगित्वस्य स्नेहे चाबाधात् ।

न चैवमप्युभयपर्याप्तसाहित्यावच्छिन्नत्वस्य जले सत्त्वेन "पञ्चमीविभक्ते" इत्यस्यैव प्रवृत्तिः स्यादिति वाच्यम, उभयपर्याप्तसाहित्याश्रयाभेदस्यापि सत्त्वेन तदप्राप्तेः ।

एतेन सांकाश्यकानां पाटलिपुत्रकाणां च पाटलिपुत्रका अभिरूपतमा इत्यादिभाष्यप्रयोगा व्याख्याताः । नृणां मध्ये द्विजः श्रेष्ठ इत्यादौ तु मध्ये इत्यव्ययेन विभक्त्या च हे चैत्र इत्यादौ संबोधनवत् समुच्चित्य सम्बन्धो द्योत्यत इति वदन्ति ।

माथुराः पाटलिपुत्रकेभ्य आढ्यतरा इत्यत्र "पञ्चमी विभक्ते" इति सूत्रेण पञ्चमी । तत्र हि विभागो विभक्तं भेद इत्यर्थः । "यश्च च निर्द्धारणम्" इत्युनुवर्त्तते । निर्द्धारणावधेर्निद्धार्यमाणस्य केनचिद्रूपेणाभिन्नस्य यत्र रूपान्तरेण भेदः, तत्र निर्धारणं भवति । यथा नृणां विप्रः श्रेष्ठ इत्यादौ नरत्वेनाभिन्नस्य श्रेष्ठत्वेन भेदः । एवञ्च निर्द्धारणे भेदस्य सत्त्वेन विभक्तग्रहणसामर्थ्याद् यत्र भेद एव, न तु केनाप्युपात्तरूपेणाभेदः, तत्रैवास्य प्रवृत्तिः ।

एवञ्च स्वेतरयद्धर्मावच्छिन्नव्यावृत्तधर्मवत्तया निर्धारणावधितावच्छेदकाश्रयनिरूपितभेदवत एव जात्यादिविशिष्टस्य प्रतिपादनम्, ततः पञ्चमीति सूत्रार्थः । सांकाश्यकानां पाटलिपुत्रकाणां च पाटलिपुत्रका अभिरूपतमा इत्यादौ निर्धार्यमाणेषु पाटलिपुत्रकेषु निर्धारणावधिसांकाश्यकभेदसत्त्वेऽपि निर्द्धारणावधितावच्छेदकसाहित्याश्रयपाटलिपुत्रकनिरूपिताभेदस्यापि सत्त्वेन भेदस्यैवाभावान्न दोषः ।

सांकाश्यकत्वं तु न निर्द्धारणावधितावच्छेदकम्, पाटलिपुत्रकपदस्य च शब्दस्य वैयर्थ्यापत्तेः । अत्र पञ्चम्यर्थो व्यावृत्तित्वमेव । पाटलिपुत्रकव्यावृत्ताढ्यतरत्ववन्तो माथुरा इति बोधः ।

?0भाष्यकृतस्तु?0, सांकाश्यकपाटलिपुत्रकयोरभिरूपत्वेन साम्यं ज्ञातवान् हि एतत्प्रयुङ्क्ते सांकाश्पकेभ्यः पाटलिपुत्रका अभिरूपतरा इति । तत्र बुद्धिकृतसम्बन्धाभावरूपविश्लेषस्य प्रतीतेरपादानत्वेनैव पञ्चमी सिद्धा, तत्र विभक्ता इत्यध्याहारः, सांकाश्यकाबधिकविभागवन्तः पाटलिपुत्रका अभिरूपतरा इति बोधः ।

विश्लेषप्रतियोगी सम्बन्धश्चात्रैकधर्माश्रयत्वमेव । विश्लेषप्रयोजकं चाभिरूपतरत्वमेव । प्रत्यासत्तेः तस्मिन् हि प्रतीते एकजातीयाभिरूपत्वप्रतीतिर्नोत्पद्यते इति सर्वसंमतम् ।

गवां कृष्णेत्यादौ तु न विश्लेषप्रतीतिः, न हि सम्पन्नक्षीरात्वे ज्ञातेऽपि गोत्ववात्ताबुद्धिर्निवर्त्तते । एतत्सूत्रोदहरणविषये क्रियान्वयं विना नामार्थन्वयविवक्षा तु न, अनभिधानात् । तेन न षष्ठ्यन्तप्रयोगापत्तिः ।

अत्र पक्षेऽभिरूपतरत्वे सांकाश्यकव्यावृत्तत्वमार्थमित्येतत् सूत्रं प्रत्याचख्युः ।

माथुरपाटलिपुत्रकयोः पाटलिपुत्रकमाधुरावाद्यपण्‍डिताविति प्रयोगे पञ्चमी न भवत्येवेति दिक् ।

'मूलेनावाहयेद् देवीं श्रवणेन विसर्जयेत्' । 'मूले श्रवणे वा' इत्यादौ मूलश्रवणशब्दौ तत्तन्नक्षत्रयुक्तकाललक्षकौ तृतीयासप्तम्योरधिकरणमर्थः । मूलनक्षत्रयुक्तकालद्यभिकरणकं देवीकर्मकमावाहनमित्यादिक्रमेण बोधः ।

अद्य भुक्त्वाऽयं द्‌व्यहे, द्व्यहाद्वा भोक्ता । अत्र विभक्त्यर्थः स्वानन्तरकालवृत्तित्वम् । समभिव्याहृतकालानन्तरत्वञ्च द्वितीयं प्रकृत्यर्थविशेषणम् । आद्यं तु तद्विशेष्यम्, क्रियायां विशेषणम्, व्युत्पत्तिवैचित्र्यात् । तेनैवद्दिवसाधिकरणभोजनोत्तरकालिकमेतद्दिवसानन्तरद्‌व्यहानन्तरकालवर्ति यद् भोजनम्, तदाश्रय इत्यर्थः ।

इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्येदित्यत्र स्वानन्तरं देशवृत्तित्वं समभिव्याहृतदेशान्तरवृत्तित्वञ्च विभक्त्यर्थः । अन्वयः प्राग्वत् । एतद्देशाधिकरणकस्थित्याश्रयकर्तृ कमेतद्देशानन्तरक्रोशान्तरस्थितलक्ष्यकर्मकं व्यधनमिति बोधः । अत्र "सप्तमीपञ्चम्यौ कारकमध्ये" [ 2।3।7 ] इति सूत्रेण विभक्तिः । तत्र कारकशब्देन
तच्छक्तिराश्रयत्वादिरूपोच्यते । शक्तिद्वयमध्ये यौ कालाध्वानौ, तयोः सप्तमीपञ्चम्याविति सूत्रार्थः ।

?0केचित्तु?0, स्वानन्तरकालवृत्तित्वमेवार्थः, उत्तरत्र स्वानन्तरदेशवृत्तित्वमेव । शक्तिद्वयमध्यवर्तित्वं तु कालाध्वनोर्वस्तुसन्निमित्तमि?0त्याहुः?0 ।

अधिभुवि रामः, अधिरामे भूरित्यत्र भूनिरूपितस्वामित्ववान् रामनिरूपितस्वत्ववती चेति बोधः ।

इति सप्तमीविभक्यर्थनिर्णयः ।