वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-२८

← वैयाकरणसिद्धान्तमञ्जूषा-२७ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-२८
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-२९ →

अथ सुबन्तप्रकृतिकतद्धितार्थो निरुप्यते

तत्र "तस्यापत्यम्" [ 4।1।92 ] इत्येवञ्जातीयसूत्रैर्विहितानामपत्याद्यर्थः । षष्ठ्याद्यर्थश्च समुदायगम्यः । तेन 'औपगवः' इत्यादेः 'उपगुसम्बध्यपत्यम्' इत्यर्थः । अत्रार्येकार्थीभावाङ्गीकारान्न विशेषणाद्यन्वय इति निरूपितम् ।

"सास्य देवता" [ 4।2।24 ] इत्यस्योदाहणे आग्नेयादौ देवताविशिष्टं1[fn वैशिष्ट्यञ्च स्वस्वामिभावसम्बन्धेन, स्वाद्देश्यकत्यागाकर्मत्वसम्बन्धेन वा बोध्यम् । ] देयं पत्ययार्थः । प्रकृत्यर्थः प्रत्ययार्थैकदेशे अभेदेन विशेषणम् ।

?0यद्वा?0, 2[fn देवतात्वञ्च 'दिवेरैश्वर्यकर्मणो देवता' इति 'देवात्तल्' इति सूत्रभाष्याद् मन्त्रकरणकहविस्त्यागजन्यस्वर्गादिफलातिरिक्तफलाश्रयत्वम्, मन्त्रस्तुत्यत्वं च अनुक्रमणिकायामुक्तम् ---- यस्य वाक्यम्, स ऋषिः, याऽनेनोच्यते सा देवतेति । अत एव ऐन्द्रो मन्त्रः, ऐन्द्रं हविरिति द्विविधप्रयोगसिद्धिरिति । ] देवतायां प्रदेये च भिन्नैव शक्तिः, अतो नैकदेशान्वयः । एवञ्च 'अग्न्याभिन्नदेवतासम्बन्धी' इति बोधः । प्रदेयञ्च सम्बन्धित्वेनैव प्रत्ययार्थः, प्रदेयमिति मन्त्रस्याप्युपलक्षम् ।

न चैन्द्रादिपदैरेव देवताया उपस्थितत्वेन तत्र प्रत्ययस्य शक्तिर्व्यर्थेति वाच्यम्, देवतात्वेन रूपेण तत उपस्थित्यभावात् । आभिक्षादिपदैश्च सम्बन्धित्वेन बुद्धस्यैव प्रदेयस्य विशेषसमर्पणं क्रियत इति3[fn भूषणकारा इत्यर्थः । ] ?0प्राञ्चः ?0।

नव्यास्तु, चतुर्थ्यादौ प्रकृत्यर्थस्य प्रकृत्यैव लब्धस्य चतुर्थ्योद्देश्यत्वमात्रं यथोच्यते । एवमत्रापि देवतात्वं प्रदेयश्र्व प्रत्ययार्थः । तत्र प्रदेये देवतात्वस्य निरूपकतासम्बन्धेनान्वयः । एवञ्चाग्निवृत्तिदेवतात्वनिरूपकमिति बोधः ।

नन्वेवम्--
तद्धितेन चतुर्थ्या वा मन्त्रवर्णोन वा पुनः ।
देवतासंगतिस्तत्र दुर्बलं तु परम्परम् ।।
इति मीमासकोक्तेदौर्बल्यं कथमिति चेत्, इत्थम्--चतुर्थ्या वाक्याद्देवतात्वसम्बन्धलाभः, तद्धिते समानपदोपादानश्रुत्येति श्रुतिवाक्यबलाबलाधिनं तत्, इत्याहुः ।

अपरे तु, देवतात्वेनोपस्थितये प्रकृतेर्लक्षणैवाङ्गीकार्या, प्रत्ययश्च तत्र तात्पर्यग्राहकः । तथा चानन्यलभ्ये प्रदेय 1 [fn 'एव' कारो देवताव्यवृत्तये ।] एव प्रत्ययस्य शक्तिः । सूत्रेऽपि देवत्त्येतत् प्रकृत्यर्थविशेषणमेव । सा चेयं प्रकृतेर्लक्षणा2 [fn तथा च शक्यादन्येन रूपेख्ग ज्ञाते भवति लक्षणा' इति व-द्धोक्तेदवाया इन्द्रस्वरूपायाः शक्यत्वेऽपीन्द्राभिन्नदेवतात्वेन तद्भानार्थ सोचितैवेति भावः ।] =निरूढलक्षणा, अनादिप्रयोगावच्छिन्नलक्षणाया एव निरूढलक्षणात्वात् । सम्बन्धस्तु संसर्गः । न च द्रव्यमपि दध्यादिपदलभ्यत्वेनाशक्यं स्यात्, तदश्रवणेऽपि ऐन्द्रपदमात्राप्रतीतेः ऐन्द्रदधित्यादिसामानाधिकरण्याच्चेत्याहुः ।

सुवृत्तिदेवतात्वनिरूपकत्वसम्बत्धेन प्रकृत्यर्थस्य प्रत्ययार्थे अन्वय इति तत्रवम् ।

एवम् "तदस्यां प्रहरणमिति क्तीढायां णः" [4।2।57] इत्यत्रापि प्रहरणविशिष्टा क्रडा, प्रहरणक्रीडे,
क्रीडामात्रं वार्थः ।

एवम् 'सोऽस्य निवासः '3 [fn एतत्सूतेरविहितप्रत्ययस्य निवासः सम्बन्धो चार्थः । अत्र निवासशब्दोऽधिकरणधव्नन्तः । निशब्देन च वासे नैरन्तर्यरूपातिशयः प्रत्यायते । स च प्रकरणादिना तत्रत्कालधटितो ग्राह्यः । तथा च स्र ध्नाभिन्नवासाधिकरणसम्बन्धीति बोधः । निवासश्च प्रत्ययार्थसम्बम्बन्धिकर्त्तृ क एव । अत एव कादाचित्कन्नुध्नवासकर्त्तरि न तथा प्रयोगः । ] [4।3। 9], "सास्मिन् पौर्णमासी" [4।2।29] इत्येवञ्जातीयकेषूह्यम् ।

"तेन दीव्याति" [4।4।2] इत्यादिना अक्षैर्दीव्यत्याक्षिक इत्यादौ प्रत्ययः । तत्र दीव्यतीत्यत्र तिङन्ते क्रियायाः प्राधान्येऽपि वृत्तौ विशेषणविशेष्यभावव्यत्यासो बोध्यः, 'सत्त्वप्रधानानि नामानि' इति सिद्धान्तात्, पूर्वोत्तरसाहचर्याच्च, तेनाक्षकरणकदेवनकर्त्तेति बोधः। कालपुरुषसंख्यास्तु न लिलक्षिता एव । एवमन्यत्राप्यूह्यम् ।

एवम् 'तदधीते तद्वेद' [4।2।59] इत्यादावप्यूह्यम् ।

"तेन तुल्यं क्रिया चेद्वतिः" [5।1।115] उपमेयस्य क्रियात्वे उपमानवाचकात् तृतीयान्तात् तुल्यमित्यर्थे वतिरिति सूत्रर्थः । नन्वेवम् 'ब्राह्यणवदधीते' इत्यादौ न स्यत्, नहि वा ब्राह्यणप्रतियोगिकसादृश्यमध्ययनक्रियायाम्, अत्यन्तभेदात् ।

न च ब्राह्यणादिशब्दानां तत्कर्तृ काध्ययने लाक्षणिकत्वान्न दोषः, सौष्ठवादिश्च साधारणी धर्म इति वाच्यम्, मन्दत्वात् स्थातव्यतुल्यं गमनं स्थातव्यवद् गमनमित्यादावलाक्षणिके चारितार्थ्यादिति चेत्, न; तृतीयोपात्तविभक्त्यर्थान्वयेन, साधारणधर्माधारत्वेन च तस्यापि त्त्वरूपतया सुख्यक्रियावाचकस्यासम्भवेन सामर्थ्याद् भूतरूर्वग्रहणे ब्राह्यणवदधीत इत्यादावप्यदोषात् । एवञ्चास्य क्रियान्वय एव साधुत्वम् ।

अरविन्दवत् सुन्दरमुखमित्यादौ भवतिक्रिया अध्याहार्या । अरविन्दपदेन च सुन्दरारविन्दभवनं लक्ष्यते । तथा च सुन्दरारविन्दभवनसदृशं सुन्दरमिखभवनमिति शाब्दबोधः । ततः पश्र्वादरविन्दमुखयोः सौन्दर्यधर्मकसादृश्यं व्यञ्जनया, मनसा वा बुध्यत इति बोध्यम् । अत एव ब्राह्यणेन तुल्याऽस्य गौरित्यादौ न वतिः, "तत्र तस्येव" [5।9।996] इति वतिः तद्द्रव्यगुणादितुत्रस्य विस्तार इत्यादि । तत्र सादृष्यं वत्यर्थः । मुथुराप्रतियोगिकसादृष्यवत्पाटलिपुत्रे प्राकार इति बोधः । उपमानोपमेययोः समानविभक्तित्वस्य "उपमानानि सामान्यवचनैः" [2।1।55] इत्यनेन ज्ञापनादुपमाने सप्तमी । प्राकारश्र्व सादृश्यमूलकाभेदज्ञानविषयः साधारणो धर्मः । वस्तुतो मथुरायामिवेति वाक्यप्राकारादिपदाध्याहारेणैव बोधः ।प्राकारयोश्र्व उपमानोपमेयभावः ।

एवञ्च प्राकारनिरूपिताधिकरणत्वे एवोभयत्रापि सप्तमी । वृत्तौ तु मथुरादिपदानां तदधिकरणकप्राकारादौ लक्षणा, मथुरापाटलिपुत्रयोः सादृश्यार्थमेवेति बोध्यम् ।

अन्ये तु--विग्रहेऽपि मथुरादिपदं वृत्ताविव लाक्षणिकम् । सप्तमीषष्ठचौ तु अस्मादेव ज्ञापकात् प्रथमार्थे । ध्वनितञ्चेदं भाष्ये इत्याहुः ।

विधिवत् पूञ्यत इत्यत्र विधिकर्मकं देवदत्तकर्तृकं पूजनमिति बोधः । विधिशब्देव ज्ञापकात् प्रथमार्थे । ध्वनितञ्चेदं भाष्ये इत्याहुः ।

विधिवत् पूज्यत इत्यत्र विधिकर्मकं देवदत्तकर्तृकं देवदत्तकर्तृकं पूजनमिति बोधः । विधिशब्देन तदुक्तः प्रकार इत्याद्यूह्यम् ।

अथ भावप्रत्ययार्थो विचार्यते--
अत्र केचित्--घचत्वमित्यादौ प्रकृतिः शब्दस्वरूपपरा, तत्तद्रूपेण प्रकारस्त्वाद्यर्थः । स चाङ्काक्षावशात् प्रकृतिजन्यबोधीयमिख्यविशेष्यतानिरूपितप्रकारताश्रय एव । तेन राजपुरुष इत्यादौ राजत्वादेः प्रकारत्वेऽपि न क्षतिः । जन्यबोधप्रकारत्वं तु संसर्गः । एवञ्च गोत्वमित्यादौ गोशब्दजन्यबोधप्रकारो गोत्वमित्यर्थः । स च प्रकारः प्रवृत्तिनिमित्तभूत एव ।

अत एव शाब्दबोधे शब्दस्यापि भानमितिवादिनां मते घटत्वमित्यादौ न शब्दे भावप्रत्ययः । तथा च भाष्यम्--'सर्वे भावाः स्वेनार्थेन भवन्ति, स तेषामर्थ इति । तदभिधाने त्वतलौ भवतः' इति । भवन्ति वाचकत्वेन प्रवर्त्तन्त इति भावाः शब्दाः, ते स्वस्य वाच्यो योऽर्थः, तेन भवन्ति । वाचकत्वेन प्रवर्त्तन्ते, अर्थप्रत्यायनार्थ शब्दप्रयोगात् ।शब्दभवनेऽर्थस्य करणत्वविवक्षया तृतीया । यत्तदोर्नित्यसम्बन्धात् यस्मादित्यपेक्ष्यते । यत्प्रवृत्तिनिमित्तवशाद् वाच्यार्थेन करणेन स्वप्रत्यायनाय लोके शब्दाः प्रयुजन्ते, स प्रवृत्तिनिमित्तोऽर्थः । प्रादुक्तसम्बन्धेन शब्दसम्बन्धी भावप्रत्ययार्थ इति भावः ।

प्रवृत्तिनिमित्तं घटादिषु घटत्वादिझातिः, शुक्लादिशब्देषु गुणाः, पाचकादिषु शब्देषु क्रिया, राजपुरूषादिशब्देषु सम्बन्धः, डित्थादिषु शब्दस्वरूपमेवेति सर्वमनुभवानुरोधादवसेयम् । एवञ्च तत्तच्छब्दप्रवृत्तिनिमित्तमित्यादिप्रकारेण बोधः ।

यत्तु वदन्ति--'शब्दोऽपि शाब्दबोधे भासतेः, इति नामार्थनिर्णये निर्णीतम् । स च शक्तिसम्बन्धेनैव प्रकारः । शक्तिश्र्व शब्दैक्येऽपि नानैवेति न नानार्थोच्छेदः ।

अस्तु वा, एका शक्तिः, तथापि न नानार्थोच्छेदः, सर्वनामवत् । तथाहियथा सर्वनामस्थलेऽनुभवानुरोधात् सर्वनाम्नां विशिष्योपस्थापकत्वमिति सर्वसिद्धम् । यथा च तत्र बुद्धिविषयत्वरूपेणोपस्थापितघटत्वप्वादिशालिषु बुद्धिविषयवति शक्तं तत् पदमित्येव शक्तिग्रहः । बुद्धिविषयत्वं तूपस्थितावनुगमकमात्रम्, न तु शक्यमिति न तच्छाब्दबोधे भासते । किन्तु घटत्वादिकमेव । तथाऽत्रापि बुद्धिविषयत्वरूपेणोपस्थितपाशत्वविभीतकत्वादिशालिषु बुदधिविषयवति शक्तमक्षपदमिति शक्तिग्रहेऽपु तत्तद्रूपेग बोधमात्रेण नानार्थत्वम् ।

वस्तुतोऽत्र अनेकजात्यदीनामप्यवच्छेदकत्वाद् नानार्थत्वं सूपपादम् । तस्माच्चब्द एव त्वप्रत्ययवाच्यः सर्वत्र, न तु जात्यादिकम् । सर्वे शब्दाः स्वेनार्थेन स्वरूपं प्रकारमाश्रित्यर्थेषु प्रवर्त्तन्ते । अतस्तदेव भावप्रत्ययार्थ इति भष्यार्थ इति । तत्, न; अनुभवविरोधात् । नानात्वं यौगपद्यमित्यत्रापि नानादिशब्दजन्यबोधप्रकारोऽसहभावो युगपन्द्रावर्थः । संज्ञाशब्दे तु शब्द एव प्रवृत्तिनिमित्तत्वमिति तत्रैव भावप्रत्ययः । शक्तिग्रहे धर्मितावच्छेदकताख्यविषयत्वेन व्यक्तिरूपशक्यविशेषणतया भासमानत्वं प्रवृत्तिनिमित्तत्वम् । यथा च शब्दस्य तत्त्वं तथोक्तं नामार्थवादे । 'कुत्वं कस्मात्' इत्यादौ तु कुशब्दस्वरूपशक्तस्य कुत्वपदस्य तद्बोध्येषु लक्षणया न दोषः । औपगवो राजपुरुष इत्यादौ षष्ठचर्थसम्बन्घस्य वृत्तौ प्रवेशात्, स एव प्रवृतिनिमित्तमिति तत्रैव भावप्रत्ययः ।

इदञ्च जहत्स्वार्थावृत्तिपक्षे । तदा रदपुरुषादिपदं राजसम्बन्धवत्पुरुषे शक्तमिति शक्तिग्रहात् ।

अजहत्स्वार्थावृत्तिपक्षेऽपि राजपुरुषपदं राजसम्बन्धवत्पुरुषे शक्तमित्येव विशिष्टशक्तिग्रहः ।
प्राप्ताप्राप्तविवेकन्यायेन सम्बन्धमात्रे विशिष्टशक्तिः पर्यवस्यतीति न सम्बन्धस्य प्रवृत्तिनिमित्तत्वहानिः । उक्तञ्च हरिण--'कृत्तद्धितसमासेभ्यो भावप्रत्ययेन सम्बन्धाभिधानम्'1[fn कृत्तद्धितसमासेन्यो मतभेदनिबन्धनम् ।] इति न्यायसिद्ध एवायमर्थः ।

न च कृति न सम्बन्धस्य प्रवत्तिनिमित्तत्वम्, कर्तृत्वादेः क्रियाकारकसम्बन्धरूपत्वमित्यभिमानात् । इदमपि प्रायिकम्, दामोदरत्वम्, कृष्णसर्पत्वम्, पटे शुक्लत्वत्, सत्तेत्यादौ जातिगुणप्रकारकवोधस्यैवालुभवसिद्धत्वात् । तदुक्तम्--'अन्यत्र 2 [fn रूढिरत्र कथमप्यज्ञातयोगादर्थविशेषप्रसिद्धेत्यर्थः । अभिन्नरूपम्=प्रत्ययान्तत्वेऽपि प्रत्ययलुका प्रकृतिसमानाकरात् शिष्यमाणं लुप्यमानार्थाभिधायि इति न्यायेन प्रकृत्यर्थान्वितप्रत्ययार्थाभिधायीर्त्थः । अव्यभिचरितसम्बन्धेन्यः--अव्यभिचस्तिः=व्यक्तिनिष्ठात्यन्ताभावाप्रतियोगी, सम्बन्धः=समवायात्मको यस्य जात्ादेः, तद्धिशिष्टवाचकादित्यर्थः । अतः पाकादिना नाशेन स्वाअयनिष्ठाभावप्रतियोगिना न तत्तवम् ।] रूढ्यभिन्नरूपाव्यभिचरितसम्बन्धेभ्यः' इति । तत्र दामोदरत्वमित्यादौ रूढिः, शुक्लत्वमित्यभिन्नरूपम्; पटः शुक्ल इत्यादिव्यवहारात् सत्तेति तृतीयम् । नहि सत्सत्तयोः सम्बन्धः कदापि व्यभिचरित इति बोध्यम् ।

यत्तु मीमांसकाः--दण्डीत्यादौ मतुपः प्रकृत्यर्थविशिष्टद्रव्यामात्रवाचित्वमेव, सम्बन्धस्य वाक्यार्थविधयंव प्रतीतेः । एवं पाचक इत्यदावपि । न चानन्तद्रव्येषुशक्तिग्रहाम्भवः, एकमुपलक्षणीकृत्य संभवात् । न चोपलक्षणीभूतदण्डादयोऽपि नाना, तज्वृत्तिजात्यानुगमात् । न च तदपि दण्डत्वकुण्डालत्वरूपमनेकम्, प्रकृत्यर्थत्वेन तदनुगमादिति । तत्, न; दण्डित्वमित्यादौ सम्बन्धप्रतीत्यनापत्तेः ।

न च त्वप्रत्यवैर्थ्यवर्थ्यभिया तत् कल्प्यते, घटत्वमित्यादौ क्लृप्तप्रकृत्यर्थतावच्छेदकशक्त्यैवोपपत्तेः ।

'कृत्तद्धितसमासेभ्यः' इति न वचनम्, किन्तु न्यायसिद्धार्थनुवादिका हर्युक्तिः । न च तत्रानुभवानुरोधात् तथाशक्तिकल्पनमिति वाच्यम्, शक्त्यन्तरकल्पनामेक्ष्य इनादीनां क्लृप्तशक्तावेव धर्मिवत् सम्बन्धविषयकत्वकल्पनयैवौपपत्तौ पृथक् शक्तिकल्पनाया अनुचितत्वात् । तथा सति क्लृप्तप्रवृत्तिनिमित्तशक्यैव दण्डित्वमित्यादौ तद्भानसम्भव इति वदन्ति ।

अपरे तु -- प्रकृतिरर्थपरैव, लक्षणायां मानाभावात् । वस्तुतः प्रकृतिजन्यबोधप्रकारः, प्रवृत्तिनिमित्तभूतो घटत्वादिः तत्तद्रूपेण त्वाद्यर्थः । तत्र घटत्वमित्यत्र जातिविशिष्टा व्यक्तिः प्रकृत्यर्थः । स च आधारतानिरूपितवृत्तित्वसम्बन्धेन प्राकरः, आङ्काक्षावशात् । एवञ्च घटवृत्तिघटत्वमित्यादिरूपेण बोधः । एवं घटत्वत्वामित्यादौ घटत्वपदजन्यबोधप्राकरो घटत्वत्वमेव त्वप्रत्ययार्थः ।

न च गौरवात् तत्र लक्षणैव, न शक्तिरिति वाच्यम्, शक्तावेव तदादरः, न लक्षणायामित्यत्र विनिगमकाभावात् ।

किञ्च, आविद्यकधर्मविशेषरूपम्, घटत्वात्वादिकञ्च घटत्वपदशक्यतावच्छेदकम् । अतो न गौरवम् ।

वस्तुतः स्ववृत्तित्वादिसम्बन्धेन व्यक्तिरेव प्रकारः, शक्तिर्निरवच्छिन्नैव । गुणादेर्वाच्यत्वे तु तद्गतजातिः शक्यतावच्छेदिका । न चैवं नानार्थतापत्तिः, इष्टापत्तेः । तदुक्तं भाष्ये -- 'यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशः, तदभिधाने त्वललाविति । अत्र गुणपदं धर्ममात्रोपलक्षणम् । 'यस्य भावात्' इत्युच्यमाने पुत्रस्य भावात् पितरि पितृशब्दप्रयोगात् । पितृत्वमिति पुत्रे भावप्रत्ययः स्यात् । भावाद् विद्यमानादित्यर्थः । द्रव्यशब्देन विशेष्यभूतः सत्त्वभावापन्नोऽर्थ उच्यते । तत्र ये रूपादयो गुणमात्रवृत्तयः, तेभ्यो गुणवृत्तिजातौ भावप्रत्ययः ।' शुक्लादिभ्यो
गुणिपरेभ्यो गुणे गुणपरेभ्यो जातावेव ।

ये त्वण्वादयः शब्दाः परिमाणिनि वर्त्तन्ते, तेभ्यः परिमाणरूपे गुणे, 'पाचकः' इत्यादौ क्रियाविशेषणकबोधात् तदुत्तरभावप्रत्ययेन विशेष्यतया सैवाभिधीयते । घटत्वामित्यादौ तु जातिः ।

न च जातेर्व्रह्मसत्तारूपतयैकत्वेन घटत्वमित्यत्र स्ववृत्तित्वसम्बन्धेन पटस्यापि प्रकारतापत्तिः । उपाधिभेदेन भिन्नाया एव तस्या घटत्वादिरूपत्वात् । जातिमात्रपरगवादिभ्यः तद्वृत्त्याविद्यकधर्मविशेषरूपे गोत्वत्वादौ शक्तिः ।

कैयटस्तु --- जातिमात्रवाचिभ्यः शब्दस्वरूपे भावप्रत्ययः । अर्थे जातौ शब्दस्वरूपमध्यस्यते यो गोशब्दः, स एवार्थ इति ततः शब्दस्वरूपमेव प्रवृत्तिनिमित्तम्, नान्यदित्याह ।

यत्तु ----- धर्मत्वेन धर्ममात्रं शक्यं त्वादेः, न तु तत्तद्रूपेण, नानार्थतापत्तेः । घटत्वामित्यादौ घटत्वत्वादिना प्रतीतिस्तु अनादितथासंस्कारात् । न चैवं धर्मत्वस्य शक्यत्वे न मानम्, शक्तेरवच्छेद्यत्वनियमात् । अन्यथा मास्तु तदवच्छेदकम् । अत एव पङ्कजपदे पद्मत्वं प्रयोगोपाधिरिति तान्त्रिकाः ।

प्रयोगे नियमेन संस्कारवशाद् यो भासते, स प्रयोगोपाधिरित्युच्यते इति । तत्, न; एवं हि घटत्वं पटत्वमित्यादौ प्रतीतिवैचित्र्यानापत्तेः । संस्कारवशाद्विशेषभानमिति चेत्, तस्य वृत्त्यविषयत्वे शाब्दबोधविषयत्वानापत्तेः । न च शक्यतावच्छेदकमेव भावप्रत्ययशक्यं चेत्, पूर्वमतात् को विशेष इति वाच्यम्, पूर्वमते शब्दः प्रकारः, अत्र व्यक्तिरित्येव भेदादित्याहुः ।

केचित्तु -- जात्यादिसाधारण्येनैकशक्तौ सम्भवन्त्यामनेकतत्कलप्ने गौरवात्, अस्तु धर्मत्वेन तेषां वाच्यता । परन्तु प्रकृत्यर्थो व्यक्तिरेव, स्वेतरावृत्तित्वावच्छिन्ना निखिलस्ववृत्तित्वसम्बन्धेन प्रकार इति स्वीकारेणातिप्रसङ्गः । सत्त्वमित्यादौ तु समवेतत्वमेव सम्बन्धः । नियामकं चात्राङ्काक्षामात्रमिति वदन्ति ।

यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्वियवमुदश्विद् यवानाम् । अत्र "संख्याया गुणस्य निमाने मयट्" [ 5।2।47 ] इत्यनेन मयट् । गुणो भागः, निमानं मूल्यम्, भागस्य मूल्ये वर्त्तमानात् प्रथमान्तात् संख्यावाचिनः षष्ठ्यर्थे मयट् इति तदर्थः । निमानस्य निमेयस्य च भागरूपत्वे एवास्य प्रवृत्तिरिति आकारे स्पष्टम् । द्विशब्दस्य नित्यसापेक्षत्वाद् यवानामित्येतत्सापेक्षत्वेऽपि प्रत्ययः । यवसम्बन्धिभागद्वयरूपमूल्यप्राप्योदश्विद्भाग इति बोधः ।

यद्यपि उदश्विद्भागे प्रत्ययः, तथापि तस्यापि उदश्वित्त्वाद् द्वियवमुदश्विदिति प्रयुक्तम् । अभिधानस्वाभाव्याद् वा भागे विधीयमानो बागवन्तमाहेति बोध्यम् ।

इदञ्च सूत्रं निमेयसंख्यापेक्षया निमानसंख्याया आधिक्ये एव प्रवर्त्तत इत्यन्यत्र विस्तरः ।1 [fn सूत्रेणानेन प्रथमान्तादस्त्यर्थोपाधिकात् सम्बन्धिनि, अविकरणे च मत्वर्थीया विधीयन्ते । यद्यपि 'अस्य' इत्युक्तेः षष्ठ्यर्थसम्बन्ध एव मतबादिविधानमाभाति, तथापि 'गोमांश्चैत्रः' इति सामानाधिकरण्यानुरोधात् -- सम्बन्धिवाचकतैवति । एवञ्च 'गोमान्' इत्यादौ गोनिरूपितस्वामित्वसम्बन्धवान् इत्याद्यन्वयबोधः । ]

"तदस्यासत्यस्मिन्निति मतुप्" [ 5।2।94 ] अत्र सूत्रे उभयोपादानम्, तत्तत्प्रकारकबोधे मतुपः साधुत्वार्थम् । 'अस्ति' इति पुरुषवचने न विवक्षिते । तयोः प्रथमातिक्रमे कारणाभावेन प्रवृत्त्या निर्देशेन शास्त्रसङ्कोचे
मानाभावात् । कालस्तु वर्त्तमानत्वरूपो विवक्षित एव, अत एव गवामतीतत्वेऽनागतत्वे वा मतुपो न साधुत्वम् । स्पष्टं चेदं भाष्ये ।

अस्तीति प्रत्ययार्थोऽपि प्रकृत्यर्थविशेषणम् । एवञ्च गोमान् इत्यतो वर्त्तमानसत्ताश्रयगोसम्बन्धीति बोधः । गोमानासीत्, भवितेत्यादौ तु तथाव्यवहारविषये लक्षणेत्येके । प्रकारान्तरमपि शब्देन्दुशेखरे स्पष्टम् ।

ईषदसमाप्त्यादिविहितकल्पवादिषु तु ईषदसमाप्त्यादिप्रत्ययार्थोऽपि प्रकृत्यर्थविशेषणमेव, आकाङ्क्षावशात् प्रकृतेस्तादृशार्थे लक्षणायां प्रत्ययस्तात्पर्यग्राहक इत्यप्याहुः ।

अतिशयेन पटुः पटुतरः --- इत्यत्रातिशये तरप्, अतिशयरूपप्रत्यार्थश्च प्रकृत्यर्थविशेषणम् । यद्यपि प्रकृत्यर्थस्य न स्वरूपतोऽतिशयः, तथापि तरप्‌गतप्रवृत्तिनिमित्तगुणाद्यतिशयेनैव तदतिशयः । गोतर इत्यदौ यद्यपि प्रवृत्तिनिमित्तजातेरपि प्रकर्षाभावः, तथापि तत्सहचरितवाहदोहादिगतातिशयेनैव तदतिशयो बोध्यः ।

एवञ्च तरबादिसमभिव्याहारे प्रकृत्तेरतिशयितपटुत्वादिविशिष्टे लक्षणा बोध्या । तत्र तरप् अर्थद्वयप्रतिपादकशब्दे उपपदे । यथा अनयोरयं पटुतर इति, अस्माकं देवदत्तस्य च देवदतत्तोऽभिरूपतर इति भवति । दन्तोष्ठस्य दन्ताः स्निग्धतरा इत्यत्र वर्तिपदस्य परित्यक्तभेदाङ्गीकृताभेदलक्षणे एकत्वसंरव्याकदन्तोष्ठलक्षणार्थद्वयप्रतिपादकत्वेन न दोषः ।

बह्वर्थके तूपपदे तमबेव वह्वर्थकेऽपि विभागप्रतियोगिनि उपपदे तरबेवउदीच्याः प्राच्येभ्यः पटुतरा इति यथा । एवं बहूनां मध्ये निर्धारणे डतमच्‌कतमो भवतां कठः । द्वयोर्निर्धारणे डतरच् --- अनयोः करतो वैष्णवः । वैपरीत्यमपि, भाष्यप्रमाण्यात् ।

काकतालीयमिति । काक एव तालिमिवेति विग्रहे, "समासाच्च तद्विषयात्" [ 6।3।106 ] इति प्रत्ययविधायकशास्त्रप्रामाण्याद् इवार्थेऽपि "सह सुपा" [ 2।1।4 ] इति समासः। तद्विषयादित्युक्तेस्तालकाकमिति न ।

यत्तु हरदत्तेनोक्तम् -- अयं समास एतद्विषय एव । तेन स्वातन्त्र्यामुपाध्यन्तरयोगो विग्रहश्च नेति । तत्, न ; काकागगनमिव तालपतनमिव काकतालम् । काकतालमिव काकतालीयमिति भाष्यविरोधात् । तत्र पूर्वपदं काकागमनसदृशे लाक्षणिकम् । उत्तरपदञ्च तालपतनसदृशे स्वभावाच्च क्रियान्तरभावेन लक्षणा, तयोश्च सामानाधिकरण्येनान्वयः । काकागमनसदृशसमानाधिकरणं तालपतनसदृशमिति समासार्थः ।

एतेन पूर्वोत्तरपदार्थयोरन्वयाभावेनासामर्थ्यात् समासो दुर्लभ इत्यपास्तम् । ततः काकतालमिवेत्यर्थे छः, तत्रैतदधिकारस्थप्रत्ययार्थे प्रकृत्यर्थस्य प्रतियोगितयान्वयस्य क्लप्तत्वेन काकतालशब्दस्य तालकृतकाकमरणे वृत्तिविषया निरूढलक्षणा । तत्र लक्ष्यार्थस्य प्रतियोगित्वेन प्रत्ययार्थेऽन्वयः शक्यार्थस्य च प्रयोज्यत्वसम्बन्धेनान्वयः ।

एव़ञ्च काकागमनसदृशसमानाधिकरणतालपतनसदृशप्रयोज्यं तालकृतकाकमरणसदृशं देवदत्तमरणमिति बोधः। सादृस्यञ्च अकस्मादुपकतत्वादिना ।

यद्यपि इवार्थऽस्य विधानम् । इवार्थश्च सादृश्यम्, तथापि प्रत्ययस्य वृत्तौ सादृश्यवत् परत्वं बोध्यम्,
शब्दशक्तिस्वभावात् । एवमन्यत्रापि अश्वक इत्यादावह्यम् ।

वस्तुतः ---- काकतालशब्दस्य काकतालसमागमप्रयोज्ये लक्षणा । तस्यैव च प्रतियोगित्वेन छप्रत्ययार्थेऽन्वयः । उपमेयावचकतत्तत्पदसमभिव्याहारेण काकतालसमागमप्रयोज्यत्वेन कदाचित् काकमरणस्य, कदाचित् काककृतोपभोगस्य भानम् । इदमेवाभिसन्धाय छप्रत्ययोपमायामुपमानलोप इत्यालङ्कारिकाः ।

उपमानतावच्छेदकरूपेण बोधकाभाव इत्याशयः । पूर्वमतेऽप्युपमानमात्रवाचकाभावात् लोपव्यवहार इत्याहुः ।

प्राचि देशे इति । प्रागिनि प्राचीनं ग्रामादाम्राः । अत्रास्तात्यन्तप्राक्‌शब्दस्य प्राच्यां दिशोत्यर्थः । तच्चाधिकरणशक्तिप्रधानाव्ययत्वाद् निर्लिङ्गम्। ततः खे तु तस्य स्वभावेन आधेयप्रधानतया अव्ययत्वाभावात् लिङ्गयोगः, तच्च न स्त्रीत्वादि, प्रकृत्या सहात्यन्तविरोधापत्तेः, स्वार्थिकानां प्रकृतितुल्यत्वोक्तेः, किन्तु नपुंसकत्वमेव, एकवचनमेव च । एवञ्च ग्रामाधिकप्राग्देशवृत्तय आम्रा इति बोधः ।

यदा प्रागादिशब्दानां देशादिवाचकानां तत्सम्बन्धिलक्षणया आम्रादिवृत्तित्वम् तताश्चार्थे खः, तोपस्थितविशेष्यलिङ्गत्यागे मानाभावात् प्राचीना आम्रा इत्यपि इत्यन्यत्र विस्तरः ।

'पञ्चकृत्वो भुङ्के' अत्र "संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्" [ 5।4।17 ] इति सूत्रेण कृत्वसुच् । तत्राभ्यावृत्तिर्जन्म । अत्र प़ञ्चशब्दः प़ञ्चत्वसंख्याविशिष्टोत्पत्तौ लाक्षणिकः । तस्य च क्रियायामेवान्वयः, सूत्रस्वरसात् । आख्यातेन पञ्चसंख्याकोत्पत्तिकापि भुजिक्रियानिवृत्तभेदाऽभिधीयते । समुदायस्यापरिसमाप्तत्वाच्च वर्त्तमानत्वम् ।

एवञ्च पञ्चसंख्योत्पत्तिका ओदनादिकर्मिका भुजिक्रियेति बोधः ।

'पञ्चकृत्वः पच्यते ओदनः' इत्यत्र एकौदनाश्रयकं प़्चसंख्योत्पत्तिकक्रियाजन्या विक्लित्तिरिति बोधः। अत्र भिन्ना अपि विक्लित्तयो धातुना निवृतभेदा एवोच्यन्ते । अतस्तदाश्रयस्य समुदायस्यैव कर्मत्वामिति कर्मैक्यम् ।

उद्भातावयवभेदसमुदायविवक्षायां तु 'पञ्चकृत्वः पच्यन्ते ओदनाः' इत्यपि भवत्येव, एककर्तृकामामेकजातीयकर्मकारकाणामेकजातीयानामेव क्रियाणां जन्मसंख्यानेऽस्य साधुत्वं स्वभावात् ।

'पञ्चकृत्वो दण्डी' इत्यादि तु अध्याहृतभवतिक्रियामादाय साधु । 'पञ्चकृत्व उत्पद्यते' इत्यादावप्युत्त्यनुकूलव्यापारस्य धात्वर्थत्वात् तदुत्पत्तिगणनैव बुध्यत इत्यदोषः । एतेनोत्पत्तेरुत्पत्त्यभावादत्र दोष इत्यपास्तम् ।

'पञ्चकृत्वः पाचकः' इति तु न, पदार्थैकदेशत्वेन क्रियायास्तत्रान्वयासम्भवात् । अत एव 'पञ्चकृत्वः पक्वः' इत्यादि न, क्रियाया एवाभ्यावृत्तिसंभवेन तावतैव क्रियालाभे सूत्रे क्रियाग्रहणेन प्रदानीभूतक्रियाया एव ग्रहणाच्च । विनिगनाविरहात् क्रियाग्रहणं यत्र साध्यस्वभावैव क्रिया, तत्रैव कृत्वसुजित्यर्थमपि बोधयति । तेन "पञ्चकृत्वः पाकः" इत्यपि न । 'द्विः प्रयोगः' इत्यादि तु "द्विर्वचनेऽचि" [ 1।1।56 ] इति ज्ञापकान्निर्वाह्यम् । स्पष्टञ्चेदं सर्वं भाष्ये इत्याहुः ।

अकृष्णः कृष्णः सम्पद्यते, तथा करोति कृष्णीकरोति -- अत्र "कृभ्वस्तियोगे सम्पद्यकर्त्तरि च्विः" [ 5।4।50 ] इति सूत्रेण च्विः प्रत्ययः । तत्र 'अभूततद्भावे इति वाच्यम्' इति करणतृतीयान्ततच्छब्देन समासः । अभूतपदेन कर्तृषष्ठ्यन्तेन समासः। अभूतत्वच्च प्रत्यासत्त्या तद्भावशब्दघटकतच्छब्दार्थकरणकत्वेनैव ग्राह्यम् । एवञ्च येन रूपेण प्रागभूतम्, तेन रूपेण तस्य भावोऽभूततद्भाव इति फलितम् ।

एवञ्च यत्र प्रकृतिरेव विकारूपतामापद्यमाना विकाराभेदेन विवक्ष्यते, तत्रैवायं प्रत्ययः। विकारवाचकादेव च प्रत्ययः। एवञ्च अकृष्णः, कृष्णः सम्पद्यते, तथा भवति कृष्णीभवतीत्यत्र भवतिक्रियाकर्तृत्वं प्रकृतिभूतस्याकृष्णस्यैव । 'अभूततद्भावे' इति शब्दबलेन तथैव लाभात् ।

किञ्च, कृष्णीत्यादेर्निपातत्वेन द्योतकतया भूधातुनैव तदर्थस्य क्रोडोकारेण तस्य कर्तृत्वाद्यसम्भव एव । अत एव 'संघीभवन्ति ब्राह्मणाः' 'त्वद्भवति देवदत्तः' इत्यादौ वचनपुरुषव्यवस्था ।

एवं कृष्णीकरोतीत्यादौ कर्मत्वमपि प्रकृतेरेव । अन्यत्र तु प्रकृतिविकृत्योः कर्तृत्वादावनियमः, 'सुवर्णपिण्डः खदिराङ्गारसदृशे कुण्डले भवतः' इति पस्पशायां भाष्यप्रयोगे विकृतेः कर्तृत्वदर्शनात् ; 'ेको वृक्षः पञ्च नौका भवति' इति लोके प्रकृतेरपि कर्तृत्वदर्शनाच्च ।

एवञ्च

प्रकृतेर्विकृतेर्वापि यत्रोक्तत्वं द्वयोरपि ।
वाचकः प्रकृतेः संख्यां गृह्णाति विकृतेर्न तु ।।
इति प्राचीनप्रवादः च्विप्रत्ययविषयक एव । अन्यत्रास्य योजनं तु पूर्वोक्तभाष्यप्रयीगविरोधेन प्रामादिकम् । च्व्यन्तस्य च स्वार्थसदृशेन लक्षणा । अत एव तस्य गौणत्वाद् अमहान् महान् भवतीत्यादौ "आन्महतः" [ 6।4।10 ] इति दीर्घस्याप्यनापत्तिः, गौणलाक्षणिके उपात्तविशिष्टरूपपदान्तरसम्बन्धनिमित्तकार्यस्यैवाप्रवृत्तेरदोषात् ।

'?0महद्भूता ब्रह्मणी?0' इत्यत्र पुंवद्भावस्तु यथाकथञ्चित् सामानाधिकरण्यमाश्रित्य 'पुंवत्' इति योगविभागाद् वा इति निरूपितं शब्देन्दुशेखरे ।

'?0गोंमतीभूता?0' इत्यत्र तु भाष्यप्रयोगादेव न पुंवत् । स्पष्ठञ्चेदम् "प्रत्ययलक्षण" [ 1।1।62 ] सूत्रे, "ओत्" [ 1।1।15 ] सूत्रे, "आन्महतः" [ 6।3।46 ] इति सूत्रे च भाष्यकैयटादिषु ।

कारणोभूतो दण्डः, 'ब्रह्मीभूत' इत्यादौ च्विप्रत्ययस्तु अकारणत्वाद्यारोपपूर्वककारणत्वाद्यारोपेणैव बोध्यः ।

यदा तु पूर्वावास्था, उत्तरावस्था वा नाश्रीयते, तदा च्वेरभावः । तन्तवो भवन्ति, पटो भवतीति यथा । इत्यलं विस्तरेण ।

?0इति तद्धितार्थनिर्णय ।

?0इति निरूपीतो वर्णस्पोटः ।
?0*********