वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-२९

← वैयाकरणसिद्धान्तमञ्जूषा-२८ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-२९
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-३० →

अथ पदवाक्यस्फोटौ निरूप्येते

एवमादेशानां वाचकत्वे स्थिते घटेनेत्यादौ व्याकरणभेदनादेशभेदात् ; संहितावशात् प्रकृतिप्रत्ययभेदानवगमेन च प्रत्येकं ताभ्यामर्थानुस्थितेर्विशिष्टस्येव शक्तिरिति पदस्फोटपक्षः ।

तथाहि --- घटेनेत्यत्र घट इति प्रकृतिः, एनेति प्रत्ययो वा, घटे इति प्रकृतिर्नेति, प्रत्ययो वेत्यादिप्रकारेण विनिगमकाभावादनन्तशक्ततावच्छेदककल्पनापत्तेः, तत्तदजानतां बोधानापत्तेश्च, वस्नसादौ समुदायस्यैव विधानेन तद्विभागस्य सर्वथा ज्ञातुमश्कयत्वाच्च्, अवैयाकरणानां प्रत्येकं तदज्ञानेऽपि समुदायव्युत्पत्तिमात्रेम बोधाच्च ।

एवं हरेऽव, विष्णोऽवेत्यादौ प्रागुक्तरीत्या पदयोः स्पष्टमज्ञानेऽपि समृदाय शक्त्या बोधात् समुदायस्यैव विशिष्टवाक्यार्थे शक्तिरिति वाक्यस्फोटः ।

अर्थवन्ति वाऽनर्थकानि वाक्यानि दृश्यन्ते इत्यादिना "वृद्धिरादैच्" [ 1।1।1। ] सूत्रादिषु भाष्ये व्यवहृतोऽयम् ।

ननु अन्वयरूपवाक्यार्थस्यापूर्वत्वात् तत्र शक्तिग्रहासंभवः, तद्विषयकशक्तिग्रहे तस्यापूर्वत्वक्षतिश्च ।

यत्र तु वृद्धव्यवहारात् प्राथमिकशक्तनिर्णयो यथा मनसा, तथाऽत्रापि पदैः पदार्थोपस्थितौ आकाङ्क्षाज्ञानादिसहकृतमनसा तदुपस्तिथौ तत्र शक्तिग्रह इति । तत्, न; पदानां स्पष्टमज्ञानेन पदैः पदार्थोपस्थित्यसम्भवात्, आकाङ्क्षाया एव वाक्यशक्तित्वेन तद्ग्रहातिरिक्तशक्तिग्रहाभावाच्च ।

यदपि, तात्पर्यज्ञानविषयतयोपस्थितेऽन्वयांशे तात्कालिकशक्तिग्रहसंभवः । तात्पर्यञ्च तत्तदर्थविषयकबोधननेच्छया वक्त्रुच्चारितत्वम् । घटमानयेत्यादितो घटकर्मत्वप्रकारकनिरूपितत्वसंर्गकानयनविशेष्यकबोधजननेच्छया वक्त्रुच्चारितत्वाभावज्ञाने, अन्यबोधजननेच्चारितत्वज्ञाने वा तथा बोधानुदयेन तयोः प्रतिबन्धकत्वकल्पनापेक्षया प्रागुक्तातात्पर्यप्राकरकनिश्चत्वेनैव हेतुतायां लाघवेन तस्यावश्यकत्वात् ।

अर्थस्य प्रकारताविषयतादिविशेषणत्वेन भानाद् येन रूपेण वाक्याद् बोधः, तेन रूपेण तात्पर्यज्ञानाविषयत्वेन वाक्यार्थस्यापूर्वत्वहानिरिति । तत्, न ; तस्यापूर्वत्वे तद्विषयकशक्तिग्रहवत् तद्विषयकतात्पर्यनिश्चयस्याप्यसंभवात्, शक्तिग्रहेऽपि अर्थस्य प्रकारतादिविशैषमतयैव भानेनापूर्वत्वाक्षतेश्च, शुकादिवाक्ये तात्पर्यव्यतिरेकनिश्चयेऽपि शाब्दबोधेन तद्धेतुत्वासंभवाच्च ।

न चैश्वरं तत्र तात्पर्यम्, तस्य फलैकोन्नेयतया प्राग् दुर्ज्ञेयत्वात् । अत एवेश्वरासत्त्वनिश्चयवतां मीमांसकादीनां बोधः, वेदवाक्याद् बोधानापत्तेश्च ।

न च तत्राध्यापकतात्पर्यम्, मूर्खाध्यापकोक्ते तदभावात् । मीमांसोपयोगस्तु न्यायजन्यलाघवादिज्ञानस्य वेदजन्यशाब्दबोधे, तत्प्रामाण्यनिश्चये वा हेतुत्वात् ।

न च विज्ञवक्तृकवाक्यजन्यबोधे तात्पर्यधियो हेतत्वेन शुकादिवाक्यस्य वेदस्य चातथात्वेन न दोष इति वाच्यम्, विज्ञत्वस्यानियतत्वात् ।

अपि च, 'असमाद् वाक्यादर्थद्वयविषयकः शाब्दबोधो जायते प्रकरणादितस्तु कस्येति न जानीम इति सर्वजनीनानुभवविरोधात् न त्साय शाब्दबोधहेतुत्वम् । अत एव 'पय आनय' इत्युक्तेऽप्रकरणज्ञस्य दुग्धं वानेयम्,' जलं वेति प्रश्नादिकं सङ्गच्छते ।

न च तत्र पदार्थोपस्थितिरेव न शाब्दबोध इति वाच्यम्, पयः कर्मत्वमानयनं प्रेरमेति वाक्यजन्यपदार्थोपस्थितावपि तदापत्तेः, सर्वत्रैवमेवापत्तौ शाब्दबोधोच्छेदापत्तेश्च ।

एतेन मानस एव तत्र बोध इति उपस्थितपदार्थानामसंसर्गाग्रहमात्रेण प्रश्नादिसिद्धिरिति च परास्तम् । शाब्दयामीत्यनुव्यवसायाच्च । तात्पर्यनिर्णयादेरुपयोगस्तु प्रामाण्यनिश्चायद्वारा प्रवृत्ताविति गृहाण ।

न चैवमश्वतात्पर्यकत्वेन निर्णीताद् गेहे सैन्धवसमस्तीति वाक्याद् गेहे लवणमस्ति, न वेति संशयस्याप्युच्छेदापत्तिः, तत्राप्रामाण्यसंशयेन तदुनुच्छेदात् । तदभावे त्विष्टापत्तिरेव । तत्परत्वाभावज्ञानस्यान्यपरत्वज्ञानस्य च फलबलात् प्रतिबन्धकत्वमेव कल्प्यम् ।

यदि तत्सत्वे तत्तदर्थविषयबोधाननुभवः, प्रामाणिकगौरवस्यादोषत्वादिति चेत्, न ; वृद्धव्यवहारेण उपस्तितविशिष्टे उपदेशादिना वा तद्ग्रहसंभवात्, वस्नासादौ युष्मदाद्यर्थस्य कर्मत्त्वादेश्च । संसर्गे शक्तिग्रहस्यैवमेवोपपाद्यत्वात् । इदमेवाभिप्रेत्य अर्थे विशिष्य सम्बन्धाग्रहणं चेत्, समं पेद । लक्षणादधुना चेत्, तत्पदेऽर्थेऽप्युस्तु । तत्तथा इति वैयाकरणमतोन्मज्जने दीक्षिताः । लक्ष्यतेऽनेनेति लक्षणं मनः ; उपदेशो वा । अपिर्भिन्नक्रमः वाक्येऽपीत्यर्थ इति दिक् ।

एवं घटमानयेत्यादौ संसर्गरूपो वाक्यार्थ एव समुदायशक्यः, वृद्धव्यवहारात् । प्रथमतो विशिष्टे वाक्यार्थे शक्तिग्रहेऽपि आवापोद्वापाभ्यां पदार्थानां पदेषु शक्तिकल्पनात् वाक्यस्य परिशेषेम संसर्ग एव तत्सिद्धेः ।

नन्वाकाङ्क्षाक्ष्सिहकारेम पदैरेव संसर्गस्यापि भानोपपत्तौ तत्र वाक्यस्यापि शक्तिकल्पने मानाभावो गोरवञ्च । आङ्काक्षा च घटकर्मकानयनमित्यादिबोधे घटपदोत्तराम्पदस्य , ततो धातो; तत आख्यातस्य ; इत्यादिसमभिव्याहारविशेषाणां ज्ञानस्य कारणत्वरूपात्त्जज्ञाऩ्च कारणम् । अत एव घटः कर्मत्वमानयनं कृतिरित्यादितो विपरीतव्युत्पन्नस्य बोधः, सद्व्युत्पन्नस्य चाबोध उपपद्यते ।

एतेन यत्पदं यदर्थेन सह तात्पर्यविषयोभूतयादृशाऽर्थान्वयबोधजनकम्, तत्पदे तस्य पूर्ववर्तित्वोत्तरवर्त्तित्वादिरूपः समभिव्याहारः, तादृशबोधे आकाङ्क्षा, तज्ज्ञानं कारणमिति परास्तम् । सद्व्युत्पन्नसद्व्युत्पन्नविभागोच्छेदापत्तेः । यदि तत्परिहाराय यादृशबोधे यत्समभिव्याहारः कारणम्, तादृशबोधे तत्कारणत्वज्ञानमपि तथेत्युच्यते, तर्हि आवश्यकत्वात् सैवाकाङ्क्षास्तु ।

यत्तु, अकारणत्वनिश्चयः प्रतिबन्धकः, तत्पदव्यतिरेकप्रयुक्ततात्पर्यविषयतावच्छेदकावच्छिन्नान्वयाननुभावकत्वनिश्चयो वा कारणम् ।

अत्र विशिष्टं कारणमित्यके । तादृशनिश्चयत्वेनान्वयानुभवाभावाप्रतियोगितावच्छेदकावच्छिविषयकश्रोतृनिष्ठतात्पर्यज्ञानत्वेन वा हेतुत्वे विनिगमनाविरहात् पृथगेवान्वयाननुभावकत्वतात्पर्यनिश्चययोर्हेतुतेति तत्त्वमिति । तत्, न; घटमानयेत्यादितो
घटपदाम्पदयोः प्रत्येकं गृहीतशक्तिकस्य तादृशानुपूर्वीज्ञानादिमतोऽकारणत्वनिश्चयाभाववतश्च विपरीतव्युत्पन्नस्य बोधापत्तेः, गौरवाच्च ।

एतेनान्त्योऽपि परास्त इति चेत्, न; पदानां पदार्थोऽपि शक्तिसिद्ध्यनापत्तेः । घटत्वप्रकारकघटविशेष्यकबोधे घटपदज्ञानस्य तत्कारणत्वज्ञानस्य च कारणतयैवादोषात् । न चेश्वरेच्छादिविषयत्वरूपशक्तेः क्लृप्तत्वेन न किञ्चिदधिकं मम कल्प्यम्, 'अस्माद्वाक्यादयं संसर्गो बोद्धव्यः' इति ईश्वरेच्छाविषयत्वस्य ममापि क्लप्तत्वात् ।

न च सा न शक्तिः, विनिगमनाविरहात् । न च जनकत्वस्य बहुपदार्थघटितत्वेन तस्य कारणतावच्छेदकत्वापेक्षयातिरिक्तशक्तेरेव तत्त्वमुचितमिति वाच्यम, ममापि तुल्यत्वात्, अतिरिक्तपदार्थकल्पने गौरवाच्च ।

यदि तु, जनकत्वमेवाखण्डोपाधरूपं स्वीकृत्य तदेव शक्तिरिति ब्रूषे, तदा सिद्धो वाक्यस्फोटः । पदज्ञानकारणत्वरूपपदशक्तिज्ञानस्येव तत्समुदायज्ञानकारणत्वरूपवाक्यशक्तिज्ञानस्य हेतुतायाः त्वयाप्यभ्युपगमात् । न च जनकतायाः शक्तित्वे 'पदं शक्तम्' इति व्यवहारानापत्तिः, नहि पदं बोधकारणम्, अपि तु तज्ज्ञानमिति वाच्यम्, अनुमितौ लिङ्गस्येव स्वज्ञानद्वारा तस्यापि तत्त्वात् ।

एवञ्च वाक्यशक्तेरेवाकाङ्क्षेतिपरपरिभाषामात्रमवशिष्यते । अत एव 'संसर्गो वाक्यार्थः' इति किंवन्ती संगच्छते ।

प्राथमिकशक्तिग्रहस्य च सर्वथा न बधः । अत एव च समासग्रहणं वाक्येऽतिव्याप्तिवारणायेति भाष्यादिग्रन्थाः सङ्गच्छन्ते । तदुक्तं हरिणा ।

'अशाब्दो यदि वाक्यार्थः पदार्तोऽपि तदा भवेत्' इति ।

केचित्तु घटमानयेत्यादावप्येकैव शक्तिर्विशिष्टवाक्यार्थनिरूपिता, समुदाये व्युत्पन्नानां तत एव बोधस्यानुभविकत्वात् । व्यवहाराधीन प्रथमव्युत्पत्त्या समुदाये विशिष्टनिरूपिताया एव शक्तेग्रहाच्च ।

न च अवापोद्वापाभ्यामवयवशक्तिनिर्णयेन तस्याप्रामाणिकत्वमिति वाच्यम्, असंजातविरोधित्वेनोत्तरकालजस्यैव तत्त्वकल्पनात्, हरेऽवेत्यादौ तथावश्यकत्वाच्च ।

न च विशिष्टशक्त्याज्ञानेऽपि प्रगक्तरीत्या शक्तिग्रहाद् बोधे व्यभिचारः, त्वदुक्ततदग्रहेपि विशिष्टशक्तिग्रहमात्रेम बोधे तवापि व्यभिचारात् । विशिष्टशक्तिग्राहके नियमतस्तद्ग्राहकत्वस्यापि स्वीकारान्न दोष इति चेत्, तर्हिममापि न दोषः ।

तथाहि --- तदादिवत्कारकविभक्तिविशिष्टपदधातुपदयोर्विशिष्टयोः कारकविशिष्टं क्रियाबोधकत्वमिति सामान्यतः शक्तिग्रहे, अनन्तरं पदविशेषसमभिहारज्ञाने सति तात्पर्यवशात् पदार्थविशेषविशिष्टक्रियाबोध इत्यभ्युपगमेन त्वयापि सामान्यतः कार्यकारणभावाङ्गीकारेण च तत्तत्कार्यकारमभावग्राहकस्यैव नियमतो विशिष्टशक्तिग्राहकत्वस्वीकारादित्याहुः ।

तदपरे न क्षमन्ते, "घटम्" इत्येतावतापि घटकर्मत्वबोधदर्शनात् तस्य तत्र शक्तेरावश्यकत्वेन तथैव तद्बोधसंभवे पुनः समुदायशक्तेरपि तद्विषयकत्वकल्पने मानाभावात्, विशेषविशिष्टक्रियाबोधाय पदशक्तेस्तवाप्यावश्यकत्वाच्च, कारकत्वविभक्तित्वधातुत्वाद्यजानतां तथा शक्तिग्रहासम्भवाच्च ।

तस्माद्यस्य यथा शक्तिग्रहः, तस्य तत एव बोधः । अव्यवहितोत्तरत्वादिनिवेशेन च कार्यकारणभावे व्यभिचारपरिहारः ।

वाक्यशक्तिग्रहोऽपि कस्यचिद्विशिष्यैव, कस्यचित् कारकत्वादि जानतः प्रागुक्तरीत्यैव सामान्यतः, कस्यचित् प्रकारान्तरेणैवेत्यनियत एव । स च तत्तत्पदार्थनिष्ठप्रकारतानिरूपिता तत्तत्पदार्थनिष्ठविशेष्यतानिरूपिता च या सांसर्गिकी विषयता, तदर्थे समुदायः शक्त इत्येवं विशेषणविशेष्यभावापन्नार्थ एव ।

एतेन स्वतन्त्रवृत्तिज्ञानाद् विश्रृङ्खपदार्थोपस्थितौ सत्यां विशेष्यविशेषमभाव्यत्यासेनान्वयः स्यादित्यपास्तम् ।

जातिशक्तिवादे संसर्गवृत्तिधर्म एव वाक्यस्यापि शक्यो बोध्यः ।

यत्तु, विशिष्टशक्तिग्रहे पदशक्तिग्रहः कारणम्, प्रत्येकपदशक्तिग्रहाभावे वाक्यार्थबोधस्याजायमानत्वात् तत्सत्त्वेऽपूर्ववाक्यश्रवणेऽपि तस्य जायमानत्वाच्चेति । तदसारम् ; वाक्यशक्त्यग्रहे तदभावादेव तदभावोपपत्तेः । तत्सत्त्वे तु जायत एव । अत एव समुदायव्युत्पत्त्या समुदायार्थबोधेऽपि व्याकरणव्युत्पत्तिं विना पदविभागसामर्थ्याभावोऽनुभवसिद्धः सङ्गच्छत ?0इत्याहुः ?0।

न च वाक्यशक्त्यङ्गीकारे समभिहारानत्येन गौरवम्, प्रामाणिकत्वात्, तवापि तावत् कार्यकारणभावावश्यकत्वाच्च ।

ननु घटप्रकारकशाब्दबोधमात्रे घटार्थकपदोत्तरसार्थकप्रत्ययनिपातान्यतरजन्योपस्तितिर्हेतुः । एवं विशेष्यतासम्बन्धेन कर्मत्वविषयकशाब्दबोधमात्रे कर्मत्वार्थकप्रत्ययप्रकृतिजन्योपस्थितिर्हेतुरिति सामान्यत एव कार्यकारणभावः ।

न च 'घटः कर्मत्वम्' इत्यतो विपरीतव्युत्पन्नस्य तथा बोधाद् व्यभिचारः, घटबोधकपदोत्तरपदजन्यज्ञानत्वेन कर्मत्वबोधकपदप्राग्वर्त्तिपदजन्यज्ञानत्वेन च हेतुत्वाददोषः ।

न चैवमपि पटादिलाक्षणिकघटितघटमानयेति वाक्यात् तथा बोधवारणाय घटबोधकत्वं घटबोधफलोपहितत्वं निवेश्यम् । एवञ्चान्योन्याश्रयात् तादृशकार्यकारणभावाग्रहासम्भव इति वाच्यम्, तत्र घटस्य वृत्तिजन्योपस्थित्यभावादेव तथा बोधवारणेन स्वरूपयोग्यत्वनिवेशेऽपि क्षत्यभावादिति चेत्, न ; कर्मत्वं घटः, 'अम् घटः' इत्येतादृशसमभिव्याहारव्युत्पन्ननां ततस्तथाबोधे व्यभिचारात्, सद्व्युत्पन्नासद्व्युत्पन्नविभागोच्छेदापत्तेश्च ।

न च तादृशहेतुताज्ञानस्यापि कारत्वात् न दोष इति वाच्यम्, सामान्यविधतज्ज्ञानस्यापि सत्त्वात् ।

न च तत्तद्व्युत्पत्तिविशिष्टाशाब्दबोधे तत्तद्व्युत्पत्तिवैशिष्ट्यञ्च स्वाव्यवहितोत्तरोत्पत्तिकत्व स्वमानाधिकरण्योकरण्योभयसम्बन्धेनेति न दोषः इति वाच्यम्, अनन्तकार्यकारणभावतादवस्थ्यात् ।
प्रत्ययत्वनिपातत्वाद्यजानतस्तथा कार्यकारणभावग्रहासम्भवाच्च ।

नन्वस्तु वाक्ये तद्बोधकतयेच्छआविषयत्वादि, परन्तु तस्य वृत्तित्वे किं मानम् ? इति चेद्, विनिगमहनाविरहः कार्यकराणभावलाघवञ्चेति गृहाण ।

तथाहि --- मम गते1[fn ननु शब्दस्य ज्ञानजनकत्वे सर्वेभ्यः शब्देभ्योऽपि निखिलश्रोतृणां बोधापत्तिभिया तद्विषयकशाब्दबोधं प्रति अन्वयव्यतिरेकाभ्यां वृत्तिज्ञानजन्योपास्थितेः कारणत्वमवश्यमङ्गीकर्त्तव्यम् ।
वृत्तिश्च दाहं प्रति वहन्यादिवत् न स्वरूपेण हेतुः, तस्याः स्वरूपतः सर्वत्र सत्तवात् सर्वेषां बोधापत्तिरिति ज्ञाताया एव तस्या हेतुत्वमभ्युपेयम्, तत्तत्पदनिष्ठवृत्तिज्ञानशून्यस्य पुरुषस्य तत्तत्पदश्रवणेऽपि बोधानुदयात् ।
यद्यपि शब्दश्रवणमात्रेण सर्वेषां बोधो मा भूदिति तद्वद्विषयकशाब्दबोधं प्रति तद्वन्निरूपितवृत्तिज्ञानस्य कारणत्वं स्वीकर्त्तव्यम् । तथा च पटत्ववद्विषयकबोधे पटत्ववन्निरूपितवृत्तिज्ञानस्य हेतुत्वात् न पटपदात् घटादिबोधः, नाप्यज्ञातवृत्तिकाद् बोधः, इति सर्व सुस्थम् ।
तथापि एतादृशकार्यकारणभावस्वीकारे गुडत्वाविधर्मवद्गुडनिरूपितवृत्तिज्ञानेन मधुरज्ञानेन मधुरत्वादिप्रकारकबोधो मां भूदिति प्रकारीभूतधर्मनिरूपितत्वमपि वृत्तेरङ्गीकार्यम् ।
तथा च यद् धर्मप्रकारकवृत्तिज्ञानं तद्धर्मप्रकारक एव बोधः । गुडपदेन च गुडत्वप्रकारक बोधस्यैव च दर्शनात् मधुरत्वाद्यनेकधर्मसत्त्वेति गुडत्वप्रकारिकैव गुडपदे वृत्तिरिति न मधुरत्वादिप्रकराकबोधः इत्याशयं मनसि निधायाह तदधर्मावच्छिन्नेत्यादि । ] तद्धर्मावच्छिन्नतद्विषयकशाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मावच्छिन्नतन्निरूपित1[fn अयमाशयः --- तार्किकैः शाब्दबोधं प्रति वृत्तिज्ञानं पदज्ञानञ्च सवातन्त्र्येण कारणं प्रतिपादितम् । परन्तु पृथक् पृथक् तयोः कारणत्वस्वीकारे कार्यकारणभावद्वयकल्पने महद् गौरवं स्यादिति लाघवाद् विशिष्टस्य कारणत्वं शाब्दिकैः स्वीक्रियते । तदेव प्रतिपादयति --- वृत्तिविशिष्टैति । ] वृत्तिविशिष्टज्ञानं हेतरित्येकं एव कार्यकारणभावः ।

तव तु सांसर्गिकविषयताशालितद्विषयकशाब्दबुद्धौ आकाङाक्षाज्ञानकार्यकारणभावोऽधिकः । वृत्तिज्ञानकार्यकारणभावे च प्रकारताविशेष्यतयोर्विशिष्यनिवेश इत्यपरञ्च गौरवम् । विशेषणविशेष्यभावव्यत्यासेन गृहीतशक्तिकात् घटत्वपदात् घटत्वविशिष्टबोधवारणाय तद्धर्मावच्छिन्नेति । तद्वृत्तिर्वैशिष्ट्यञ्च स्वविषयकोद्बुद्धसंस्कारसामानाधिकरण्यस्वाश्रयविषयकत्वो भयसम्बन्धेन ज्ञाने बोध्यम् । अतो 2[fn वैशिष्ट्यघटकप्रथमसम्बन्धस्य फलमाह --- नागृहीतवृत्तिकस्येति । द्वितीयस्य फलमाह --- नापि पदाद्यज्ञानवत इति । तादृशस्थले पदे विषयतया पदज्ञानासत्त्वात् तदात्मनि च समवायेन पदज्ञानाभावात् ।
शरीरावयवसञ्चालनादिनापि अर्थज्ञानसम्भवादतिव्याप्तिवारणाय पदेत्युक्तिः । ] नागृहीतवृत्तिकस्य बोधः, नापि पदाद्यज्ञानवत इत्याहुः ।

एतेन विशेष्यप्रकारकसंसर्गसाधारणविषयतासत्त्वे मानाभावेन विशेष्यादित्रितयव्यवहारानुरोधेन विशेष्यतादित्रयस्यावश्यकत्वेन विषयतेति सामान्यशब्देन त्रय्या एवाभिधानसंभवाच्च । विषयतात्रयस्य कार्यकारणभावे निवेशापेक्षया द्वयोर्निवेश एव लाघवम् ।

ननु यद्यपि विषयता न विषयस्वरूपा, घटो विषय इत्यतो घटो घटस्वरूपवानित्यत इव बोधानापत्तेः, अतीतानागतज्ञानादेर्विषयरूपविषयताविरहेण निर्विषयत्वप्रसङ्गाच्च, घटत्वादिना निर्णयेऽपि विषयो न वेति संदेहाच्च, घटभूतलसंयोगानुयोगित्वादिनीत्यादिसमूहालम्बनघटद्भतलमिति विशिष्टबुद्ध्योर्वैलक्षण्यानुपपत्तेश्च । तथापि ज्ञानत्वरूपैव सा, नातिरिक्ता, मानाभावात्, गौरवाच्च ।

एवञ्च तत्तज्ज्ञानसम्बन्धेन शाब्दत्वमेव कार्यतावच्छेदकमिति गौरवम् । न च ज्ञानस्वरूपत्वे घटवद्भूतलमित्यादिज्ञाननिरूपितानां घटभूतलादिवृत्तिविषयतानामभेदापत्त्या तादृशज्ञानान्तरं घटप्रकारकज्ञावानहमितिवत् भूतलप्रकारज्ञानवानहमित्याद्यनुव्यवसायापत्तिः ।

?0किञ्च?0, घटपटाविति समूहालम्बनजज्ञानस्य भ्रमत्वापत्तिः, पटनिष्ठतज्ज्ञानरूपविशेष्यताया घटत्वप्रकारतानिरूपिततद्रूपविशेष्यत्वाभिन्नत्वेन तस्य घटत्वादिनिष्ठप्रकरतानिरूपिततदभाववत्पटादिनिष्ठविशेष्यतानिरूपकत्वात् ।

?0अपि च?0, यथाज्ञानं स्वरूपेण घटादिना सम्बद्धमिति घटाविषयकत्वव्यवहारमाधत्ते, तथा स्वरूपेण कालादिनापि सम्बद्धत्वात्तद्विषयत्वव्यवहारमप्यादध्यात् ।

?0किञ्च?0, ज्ञाने घटो विषय इत्यतो बोधानुपपत्तिः, एकस्य निरूप्यत्वनिरूपकत्वयोरसम्भवादिति वाच्यम्, घटवद्भतलमित्यादिज्ञानानां घटादिनिष्ठप्रकारताभूतलादिनिष्ठविशेष्यतारूपत्वाङ्गीकारेऽपि फलबलात्, अनुभवबलाच्च घटनिष्ठविशेष्यताभूतलनिष्ठप्रकारताद्यनात्मकत्वाददोषः । अन्यथातिरिक्तत्वाङ्गीकारेऽपि तज्ज्ञानानां घटादिनिष्ठप्रकारतानिरूपकवत्तन्निष्ठविशेष्यतानिरूपकत्वं कुतो नेति प्रश्ने मूकतैव तवोत्तरं स्यात् ।

एवं समूहालम्बनस्य घटत्वनिष्ठप्रकारतानिरूपितघटन्निष्ठविशेष्यतात्मकत्वेपि तन्निरूपितपटनिष्ठविशेष्यतानात्मकत्वात् न भ्रमत्वम् । ज्ञानत्वेन निरूपकस्य विशेष्यतात्वेन निरूप्यतव्सम्भवाच्च ।

न च ज्ञानस्वरूपस्य ज्ञानाद्यजन्यत्वात्, ततः पूर्वं ज्ञात इति प्रतीत्यापत्तिरिति वाच्यम्, ज्ञानसत्त्वे इष्टापत्तेः । तदभावे स्वरूपाभावादेव प्रतीत्यभावोपपत्तेरिति चेत्, न; ज्ञानव्यक्तीनामननुगतत्वेनानुगतकार्यकारणभावासम्भवस्य तदवस्थत्वादित्यपास्तम्, विषयतात्वस्यातिरिक्तस्याङ्गीकारेणानुगमसम्भवाच्च । विषयो विषय इत्याद्यनुगतव्यवहारेण प्रागुक्तकार्यतावच्छेकतया चातिरिक्तैकविषयताया अप्यङ्कोकारे क्षत्यभावाच्चे?0त्याहुः ।

नन्वाकाशोऽस्तीति वाक्यं श्रृण्वत आकाशपदवृत्यंशेऽनुद्बुद्धसंस्कारस्य तत एव पदात् समवायेन स्मृते आकाशे तद्विषयशाब्दबोधापत्तिरिति चेत्, न ; प्रकारताविशेष्यतान्यतरसम्बन्धेन शाब्दं प्रति तेनैव वृतिजन्योपस्थितेरपि हेतुत्वेनादीषात् । वृत्त्या पदजन्यपदार्थोपस्थितिरेवासत्तिपदेनोच्यते ।

अत एव प्रत्यक्षदृष्टस्य तण्डुलादेः पचतीत्येतज्जन्यशाब्दबोधविषयता न । 'पदाव्यवधानमासत्तिः' इति तु न युक्तम, गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यत्र योजनयाऽन्वयबोधानापत्तेः । योजनावाक्यदेवान्वयबोध इति चेत्, न ; प्रथमवाक्यस्याबोधकत्वापत्तेः । योजनावाक्यञ्च तात्पर्यग्राहकत्वेन प्रकरणादिवद् उपयुज्यत इति बोध्यम् ।

न च घटमानयेति वाक्यं हस्तिनञ्च समूहालम्बनविधया स्मरतो घटपटादिभ्यो घटादेर्हस्तिनश्च हस्तिपकस्य समहालम्बनस्मरणे इति घटानयनवत् हस्तिपकस्यापि शाब्दबोधविषयतापत्तिः, समूहालम्बनरूपपदार्थोपस्थितौ वृत्तिजन्यत्वसत्त्वादिति वाच्यम्, शक्तिज्ञानपदार्थोपस्थित्योः कार्यकारणभावे समानविषयत्वदानेनाक्षतेः ।

?0यत्तु ----?0 विषयतया शब्दं प्रत्येव तेन सम्बन्धेन वृत्तिजन्योपस्थितिर्हेतुरिति । तत्, न ; अनुपस्थितस्यैव संसर्गस्य भानमिति सकलतान्त्रिकसिद्धान्तविरोधापत्तेः ।

?0किञ्च?0, वाक्यज्ञानकार्यतावच्छेदं विशिष्टबुद्धित्वमेव वाच्यम्, प्रागुक्तयुक्तेः । तथा चोपस्थित्यैव कृतकृत्यतया शाब्दबोधोच्छेदापत्तिः, तादृशज्ञानद्वयस्यानुभवविरुद्धत्वाच्च ।

एवं वस्नसादौ हरेऽवेत्यादौ च विविष्टशक्त्यैव संसर्गांशे उद्बोधकसमवधानात् प्राक् पदार्थोपस्थितिमात्रम् । ततस्तदंशेऽप्युद्बोधकसमवधाने तद्विषयको वाक्यार्थबोधः । अत एवापूर्वो वाक्यार्थं इति प्रवादः सङ्गच्छते । अपूर्वत्वञ्च शाब्दबोधप्राक्क्षणवर्त्तितज्जनकशब्दजन्यस्मृत्यविषयत्वमित्याहुः ।

?0यत्तु?0, 'किञ्चेत्यादि', तत्, न ; वाक्यार्थप्रतीतेरनुभवत्वाभावात् स्वर्गनरकादिकं शृण्वतोऽपि तदनुभवामीत्यप्रतीतेः । तस्माच्छाब्दत्वं जातिविशेष एवं, अनुभवबलात् कल्प्यते, नानुभवत्वव्याप्यम् ।

किञ्च, वाक्यज्ञानस्य तादृशविजातीयज्ञानत्वमेव कार्यतावच्छेदकम् । अतो न ततः स्मृतिः । अन्यथा तवापि वाक्येनाकाङ्क्षारूपसम्बन्धस्य सत्त्वात् ततः स्मृतिजननाशङ्का दुरुद्धरेव स्यात् । एतदेव पदार्थोपस्थितिकार्यतावच्छेदकम् ।

न चैवमस्याः स्मृतित्वात् समभिव्याहारकारणत्वज्ञानांशेऽनुद्बुद्धसंस्कारस्यापि वाक्यार्थबोधः स्यादिति वाच्यम्, फलानुरोधेन तत्राप्युद्बुद्धसंस्कारस्य हेतुत्वकल्पनात् । पादार्थोपस्थितिश्च स्मृतिरेव ।

एवञ्च केवलघटपदात् घटत्वविशिष्टस्मरणमेव, न शाब्दबोध इति न तत्र वृत्तिजन्योपस्थित्यपेक्षा । एवम् 'राजपुरुषः' इत्यादितोऽपि वृत्तावेकार्थीभावकल्पनासामर्थ्येन पदार्थोपस्थितिसमय एव संसर्गांशेऽपि नियमत उद्बोधकसमवधानकल्पनाद् विशिष्टविषयैव पदार्थोपस्थितिः ।

शब्दजन्यत्वमात्रेण परं तसयापीतरस्मृतिविलक्षणः शाब्दयामीति व्यवहारो बोध्यः, न तु वाक्यज्ञानपदार्थोपस्थितिकार्यतावच्छेदकीभूतजातिविशेषाक्रान्तताऽस्या इति बोध्यम् ।

?0यत्तु ---?0 पदार्थोपस्थितेः स्मृतित्वे स्मारकतातिरिक्तमूलभूतसम्बन्धकल्पनापत्तिः । एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकम्, न तु सा एव सम्बन्धः, हस्तिपकादिषु तथाऽदर्शनात् । पदार्थयोस्तु बोधकतैव सम्बन्धः, तदतिरिक्तशक्त्यभावस्य वक्ष्यमाणत्वात् । बोधश्च त्वन्मते पदात् स्मृतिरूप एव, नान्य इति स्पष्टमेवेति ।

तत्, न ; पदज्ञानस्योभयसाधारणतदर्थविषयकबोधत्वं कार्यतावच्छेदकमिति स्मारकतातिरिक्तशाब्दबोधजनकत्वरूपस्य सम्बन्धस्य क्लृप्तत्वात् । पदैर्हि पदार्थोपस्थितौ तैरेव वाक्यशक्तिसहकारेण पदार्थविषयकः, तत्संसर्गविषयकश्च शाब्दबोधो जन्यते इति क्रम इत्यलं विस्तरेण ।

?0यत्तु मीमांसकाः?0 -- लक्षणयैवोपपत्तौ वाक्यार्थे शक्तिकल्पना न युक्ता । न चापूर्वत्वं प्रागविज्ञातहरिद्रानामकनदीविशेषणपुंसा 'हरिद्रायां न गोषः' इति वाक्ये श्रुते नदीपदसमभव्याहारेण तदानीमेव हरिद्राशब्दस्य नदीविशेषे शक्तिग्रहपूर्वकं नदीलिङ्गात् तत्संबन्धित्वेनावगततीरप्रत्ययवत् पदैः पदार्थानामिपस्थितौ आकाङ्क्षाज्ञानादिसाचिव्यात् तत एवोपस्थिते वाक्यार्थे तद्ग्रहसम्भवात् ।

तथोपस्थितस्यापि वृत्त्यानुपस्थितत्वात् न स बोधः शाब्द इति शाब्दत्वप्रकारकबोधानुभावात् मध्ये लक्षणाग्रहः । स च स्वबोध्यसम्बन्धितया तदुपस्थितिः, स्वबोध्यस्बन्धिनः स्वबोध्यस्योपस्थितेरेव प्राचीननयेन
लक्षणात्वात् ।

यद्वा ---- स्वसम्बन्धिपदार्थबोधकं वाक्यमिति तद्ग्रहः, तीरम्बन्धिप्रवाहबोधकं गङ्गापदमितिवत् । लक्षकत्वञ्च स्वसम्बन्ध्यर्थबोधकत्वमेव । बोध्यसम्बन्ध एव च लक्षणा । पदजन्यपदार्थोपस्थित्याकाङ्क्षाद्यसहकृतबोधकत्वं चाधिगतार्थगन्तृत्वमिति न वेदस्यानधिगतार्थगन्तृतारूपप्रामाण्यहानिरिति ।

तत्, न ; तादृग्बोधद्वयाननुभवात्, अनुपपत्तिप्रतिसन्धानाभावेन लक्षणाया अयोगाच्च । तात्पर्यान्यथानुपपत्त्या लक्षणेत्यपि वक्तुमशक्यम्, तस्य सर्वत्राहेतुत्वात्, नियमतः पूर्वं तात्पर्यज्ञानस्यापि कल्पनापेक्षया शक्तिकल्पनाया एवौचित्यात् ।

वस्तुतस्तु 'शक्यसम्बन्ध एव लक्षणा, न बोध्यसम्बन्ध इति एकार्थीभाववादे प्रपञ्चितम् । तथा च तन्मते लक्षणा वक्तुमशक्यैवेति दिक् ।'

?0यत्तु ---?0 वाक्यार्थे वाक्यस्य न शक्तिः, किन्तु पदानामेवान्विते शक्तिः, पदैरेव तदर्थप्रतीत्युपपत्तौ वाक्येऽपि शक्तिकल्पने मानाभावात् ।

?0किञ्च?0, वृत्तिविषयत्वं विना शाब्दबोधविषयत्वासम्भवाद् वाक्यार्थविषयावृत्तिरवश्यं स्वीकार्या । सा चातिरिक्ता, गौरवान्नेति क्लृप्तपदार्थशक्तिरेव तद्विषया कल्प्यते । पदानाञ्च सामान्यत इतरान्विते शक्तावपि विशेषाविषयसामान्यबुद्ध्यभावात् । तत्तत्पदसामान्यशक्तिभिरेव समभिहारविशेषकारणत्वादिरूपाकाङ्क्षाज्ञानबलात् तत्तत्पदार्थीयविशेषनिरूपितान्वयविशेषबोधः सिध्यति ।

एतेन पदानामेवेतरान्विताभिधायकत्वे घटादिपदस्येतरान्विते शक्तिग्रहवतो घटमानयेत्यानुपूर्वीज्ञानवतः प्रागुक्तकार्यकारणभावाग्रहवतोऽपि घटकर्मकमानयनमिति बोधापत्तिः ।

?0किञ्च?0, विशेष्यविशेषणभावो विनिगमनाविरहात् सामान्यतः शक्त्येतरान्वितो घटः, इतरान्वितं कर्मत्वं तथानयनं तथाकृतिरित्येवं बोधचतुष्टयापत्तिः, न घटीयं कर्मत्वमिति ।

अपि च ---- घटः कर्मत्वमानयनं कृतिरित्यत इतरान्वितकर्मत्वादौ शक्तिग्रहवतस्तथाबोधापत्तिश्चेति निरस्तम् ।

?0किञ्च?0, एकपदप्रयोगेऽप्यन्वयविशेष्यस्य नियमेन जिज्ञासादर्शानात्, तस्याश्च अन्वयसामान्यज्ञानपूर्वकत्वनियमात् तज्ज्ञानस्य शब्दादन्यतोऽसम्भवाच्छब्द एवान्वितमभिधत्ते । न चापूर्वत्वम्, विशेषतः पदार्थान्तरघटितस्य तदन्वयविशेषरूपवाक्यार्थस्य प्रागनुपस्थितावपि अन्वितत्वादिसामान्यधर्मप्रकारेण प्राक् तदुत्पस्थितेः सुलभत्वात् ।

'इतरान्विते शक्तिः' इति त्वयुक्तमेव, पदार्थान्तरस्य पदान्तरलभ्यताय तदंशान्तर्भावेण शक्तिग्रहस्यानुपयुक्तत्वात् । घट इत्यतो घटमात्रबोधस्तु शक्तिभ्रमादित्याहुः ।

तत्, न; घटादिपदज्ञानस्य घटान्वयोभयविषयकशाब्दत्वापेक्षया घटविषयकशाब्दत्वस्य कार्यतावच्छेदकत्वे
लाघवात् ।

?0किञ्च?0, त्वन्मतेऽन्वये शक्तेः स्वीकारेऽपि विशेषबोधाय समभिव्याहारस्य कारणत्वस्वीकारे तथा कार्यकारणभावाग्रहवतो बोधवारणाय तद्ग्रहस्यापि कारणत्वस्वीकारे विपरीतगौरवापत्तेः, वाक्यशक्तेः सिद्धत्वाच्च । जिज्ञासापि पदार्थवाक्यार्थयोर्नियमस्य पूर्वं ग्रहात् फलविशेषदर्शने रसविशेषजिज्ञासावदुपपन्न ।

ननु तद्वदेव तर्ह्यत्रापि जिज्ञासानियमो न स्यादिति चेत्, इष्टापतेः ।
?0किञ्च?0, अनयोः संसर्गविशेषज्ञानं मे भवत्वितीच्छायां तादृशज्ञानधर्मिकेष्टसाधनताज्ञानस्यहेतुत्वेन तस्य च विशिष्टवैशिष्ट्यबुद्धितया विशेषणतावच्छेदकसामान्यधर्मज्ञानस्येव तथाभूतविशेषज्ञानानुरोधाद् ज्ञानेच्छयोः समानविषयत्वेन हेतुहेतुमद्भावाच्च विशेषस्याप्युपस्थितिरावश्यकी ।

न च विशेषरूपेणापि ज्ञाने सिद्धिसत्त्वाद् जिज्ञासोच्छेदः, अज्ञातरूपेम तु कारणाभावादेव न जिज्ञासेति वाच्यम्, सिद्धिः स्वरूपतो न प्रतिबन्धिका, किन्तु सिद्धत्वप्रकारकज्ञानमेव तथा । अत एव चैत्रस्य ज्ञानं भवत्वितीच्छायामजाते च तस्य ज्ञाने तस्य ज्ञानं जातमिति सिद्धत्वज्ञानादिच्छानिवृत्तिः सङ्गच्छते ।

यदि तु अन्वयसामान्ये ज्ञाते तेन विशेषान्वयस्यानुमानमित्युच्यते, तर्हि अन्वयसामान्यस्यापि तथैवोपस्तितिसम्भवात् प्रस्थितमन्वितशक्त्या ।

न चैवमनुमानेनैव संसर्गोपस्थितिसम्भवेन शब्दप्रामाण्योच्छेदः, नानुमितम्, न साक्षात्कृतम्, किन्तु शब्दादेवावगतमित्यनुभवात्, आकाङ्क्षाज्ञाननिर्वाह्यविशेष्यविशेषणाभावानुरोधाच्च शब्दस्यातिरिक्तप्रमाणत्वात्, 'श्रृणोमि' 'शाब्दयामि' इत्याद्यनुव्यवसायप्रयोजिकाया विलक्षणानुभवसिद्धायाः शाब्दत्वजातेस्तदवच्छिन्ने आकाङ्क्षादिज्ञानहेतुत्वस्य च कल्पानावश्यक्त्वे तद्वृत्त्यनुमितित्वकल्पने व्याप्तिस्मृत्यादिक्लपने मानाभावात्, गौरवाच्च ।

?0किञ्च?0, सिद्धिसत्त्वेऽपि शाब्दबोधोदयेनानुमितेश्चानुदयेन सिद्धिप्रतिबन्ध्यतावच्छेदककोटौ शाब्दबोधातिरिक्तत्वविशेषणदाने गौरवात् ।

अपि च -- वह्न्यादेरशाब्दानिमितेरपरस्य शाब्दबोधोदयेनानुमितेश्चैकदोत्पत्तिवारणाय शाब्देतरानुमितित्वाच्छिन्ने शाब्दानुमितिसामग्रीत्वेन प्रतिबन्धकत्वे गोरवम् ।

मम तु --- अनुमितित्त्वावाच्छिन्नं प्रति शाब्दसामग्रीत्वेनैव तत्त्वमिति लाघवंस्पष्टमेव । अनुमितेरसम्भवाच्च ।

न च 'गौरस्तितावान्, स्वधर्मिकान्वयबोधानुकूलाकाङ्क्षाद्याश्रयपदोपस्थितत्वात्, घटवद्, इत्यनुमानं सुलभमिति वाच्यम्,गवादेः पदोस्थापितत्वाद्यभावग्रहदशायां गौरस्तीत्यादितोऽन्वयबोधानापत्तेः । पदजन्या हि पदार्तोपस्थितिः स्वरूपसत्येवान्वयबुद्धावुपयुज्यते, न तु ज्ञाता, प्रमामाभावात्, पदैरनुपस्थापितस्यापि तदुपस्थितत्वाग्रहादन्वयधीप्रसङ्गाच्च ।

न च गौः, पदम्, अस्तित्ववद्, गोज्ञानपूर्वकोच्चारणविषयोऽस्ति, पदसाकाङ्क्षपदत्वात्, यन्नैवम्, तन्नैवम्,यथा आकाशम् इत्यनुमानमिति वाच्यम्, गवादिपदानां ज्ञानपूर्वकोच्चारितत्वाभावानिश्चयदशायां
जायमानसर्वजनीनानुभवसिद्धवोधस्यासंगत्यापत्तेः, गवादिनिष्ठमुख्यविशेष्यताशालिबोधस्यैवमप्यनुपपादनाच्च ।

एतेन पठितविस्मृतशास्त्रस्य बोधादर्शनाच्छक्तिस्मरणं हेतुः उद्बुद्धशक्तिसंस्कारो वेति मतद्वयेऽपि जनकतायाः शक्तित्वनये शब्दप्रामाण्योच्छेदः । जनकताया व्याप्तिघटितत्वात्, यन्नियतत्वाद्वा तत्तद्ज्ञाने व्याप्तिज्ञानं जातमेवेति अनुमानविधयैव प्रामाण्यं स्यादित्यपास्तम् । जनकताघटितव्याप्तेः कार्यकारणयोः सत्त्वेन तादृशज्ञायमानपदेन स्वकार्यतादृशबोधानुमितावपि विलक्षणविषयताशाल्यर्थबोधासम्भवात् । न हि व्यवसाये यादृशी विषयता, तादृशी अनुव्यवसाये, त्रिपुटीप्रत्यक्षवादिनामपि 'अयं घटः, घटमहं जानामि' इत्येव ज्ञानाकर इत्याहुः ।

यदि तु --- अन्विते शक्तिरित्यस्य पदान्तरार्थेनान्वितः पदार्थ एव पदेरनुभाव्याते, न तु पदार्थमात्रमित्यर्थः । तथाहि --- पदानामन्वयानुभवजनकत्वमेव शक्तिः, एकाकपदार्थोपस्तितिस्तु स्मृतिरूपा । एकसम्बन्धिज्ञानस्यापसम्बन्धिस्मारकताया हस्तिपकादिसाधारमत्वात्, अन्वयानुभवजनकत्वरूपस्य मूलसम्बन्धस्य विद्यमानत्वादित्युच्यते -----

तर्हि सिद्धैव वाक्यशक्तिः । तथाहि --- सा शक्तिर्नैकपदे, केवलघटपदादपि अन्वयानुभवापत्तेः । अन्वितो घट इति बोधस्तु ततोऽनुभवविरुद्ध एव समुदाये, तत्स्वीकारे तु सिद्धमस्मन्मतमित्यन्यत्र विस्तरः ।

यत्तु --- पदार्थाः, तत्स्मृतिर्वा शाब्दबोधे हेतुः, न तु पदज्ञानम्, व्यभिचारात् । तथाहि --- 1[fn 'शाब्दबोधं प्रति उपस्थिताः पदार्थाः, तदुपस्थितिर्वा हेतुः, न तु पदज्ञानमपि' तद्विनापि शाब्दबोधोदयेन व्यभिचारात् । तुदुक्तम् ---
पश्यतः श्वेतमारूपं ह्रेषाशब्दं च श्रृण्वतः ।
खुरविशेपशब्दञ्च श्वेतोऽश्वो धावतीति धीः ।। इति ।
तत्, न ; शब्दं विना जायमानस्य घटादिचाक्षुषस्यापि शाब्दत्वापत्तेः । यदि तत्र 'पश्यामि, न शाब्दयामि' इत्यनुव्यसायाद् न शाब्दत्वम्, तर्हिप्रकृतेऽपि समम् । उक्तप्रतीतेरनुमानेनैव निर्वाहात् तत्र शाब्दप्रत्ययस्त्वसिद्ध एवेति प्रघट्टकार्थः । ] अश्वत्वाद्यानुपहितश्वेतत्वं पश्यन् तस्मिन् देशे ह्रे षाशब्देनाश्वं खुरशब्दन गमनं चानुमिमानोऽनुपलब्धिप्रमाणेन तत्प्रदेशे शवेताद्यन्वययोग्यस्य वस्त्वन्तरस्याभावं जानन् पुरुष एवं कल्पयति, अन्यान्वयसाकाङ्क्षाणां श्वेतत्वादीनां मिथोऽन्वयं विनाऽनुपपन्नत्वधीसहकृतामाकाङ्क्षाज्ञानादिसहकृतं च ज्ञानं तेषां मिथ्योऽन्वयशाब्दबोधे कारणिति अनुपपन्नत्वधीश्चैवं श्वेत्वं तद्देशे दृश्यमानमश्वान्यासंसर्गित्वेन प्रमीयमानमश्वसंसर्गित्वं विनानुपपन्नमिति । एवं धावनेऽप्यनुपपत्तिधीर्बोध्या ।

अयं भावः -- अर्थज्ञानं शाब्दसामान्ये कारणम्, विशेषकारणं तु क्वचित् पदज्ञानादिकम् । तत्त्कार्यतावच्छेदकञ्च तदुत्तरशाब्दत्वम् । क्वचिदनुपपत्तिज्ञानम् । तत्कार्यतावच्छेदके च तदुत्तरशाब्दत्वमिति न व्यभिचारः । उक्तञ्च ----

पश्यतः श्वेतमारूपं ह्रेषाशब्दं च श्रृण्वतः ।
खुरविशेपशब्दञ्च श्वेतोऽश्वो धावतीति धीः ।। इति ।

तत्, न ; अनुमानेनैव निर्वाहात्, 'शब्दयामि' इत्यनुव्यवसायाभावाच्च ।
नन्वेमि वर्णसमूहरूपपदवाक्ययोर्ज्ञानमसंभवि, उत्पत्तिपक्षे, अभिव्यक्तिपक्षे वा एकदा तदभावात्, तयोः क्रमिकत्वादिति चेत्, न ; उत्तरवर्णप्रत्यक्षकालेऽव्यवहित्तोत्तरत्वसम्बन्धेन पूर्वपूर्ववर्णवत्त्वं तदुत्तरवर्णे गृह्यते ।

एवं तदुत्तरवर्णप्रत्यक्षकाल उपस्थितविशिष्टद्वर्णवत्त्वं तदुत्तरवर्णे गृह्यते ।

एवमुत्तरोत्तरवर्णप्रत्यक्षकाले पूर्वपूर्वोपस्थितिविशिष्टतद्वर्णवत्त्वं ग्रह्यत इति तयोः सुग्रहत्वात् । अतः सरोरसः, नदी दीनजराराजेत्यादौ बोधविशेषः ।

यत्तु --- प्रत्येकवर्णानुभवजनितसंस्कारसहकृतान्त्यवर्णप्रत्यक्षसामग्र्या सदसदनेकविषया प्रदप्रतीतिः स्मृतिप्रत्यक्षात्मिकाऽनुभवक्रमोपहितानामेव तेषां स्मृत्यवगाहनान् न क्रमव्युत्क्रमयोरविशेष इति ।

तत् न; अनुभवस्मृत्योः क्रमे नियमाभावात् । दृश्यते च प्रपूर्वेद्युरनुभूतमस्मृत्वापि पूर्वेद्युरनुभूतस्य स्मरणम् ।

किञ्च,संस्कारस्मृत्योरसमानविषयत्वात् क्रमस्य च संस्काराविषयत्वेन स्मरणाविषयत्वाद्, इत्याहुः ।

अत्रेदं बोध्यम् --- निरूपितस्फोटभेदत्रयं न वादिभेदेन व्यवस्थितम्, किन्तु बोद्धृभेदेन । कस्यचित् प्रकृतिप्रत्ययोः प्रत्येकं तत्तदर्थशक्तिग्रहाद् बोधेन ; कस्यचित् पारिभाषिकसुबन्तादिपदे तद्ग्रहाद् बोधेन, कस्यचित् तत्समुदाये तद्ग्रहाद् बोधेन, त्रयाणाप्यावश्यकत्वात् । कार्यकारणभावे व्यभिचारस्तु अव्यवहितोत्तोरत्वादिनिवेशेन वार्यः ।

इत्यांस्तु विशेषः --- सर्वस्यापि तत्तत्संसर्गविषयः शक्तिग्रहः, तत्तत्समुदाये । सोऽपि विजातीयबोधजनक एव, न स्मारक इति तत्त्वम् ।

इदमेवाभिप्रेत्य "आद्यन्तौ टकितौ" [ 1।1।46 ] इति सूत्रे 'अथवा यत्तावदयं सामान्येनोपदेष्टुं शक्तोति, तत्तावादुपदिशति प्रकृतिम्, ततो वलाद्यर्थधातुकम्, ततः पश्चादिकारम्, तेनायं विशेषेण शब्दान्तरसमुदायं प्रतिपद्यते' इत्युक्तम् । 'बुद्धिकल्पितप्रकृतित्वप्रत्ययत्वागमत्वादेशादिविश्ष्टोपदेशे रूपेणोपायेन नित्यपदं तत्समुदायात्मकमन्वाख्यायते' इत्यर्थः ।

अत्र 'समुदाय' इत्यनन सखण्डतक्तम्, सखण्डत्वञ्च व्याकरणशास्त्रबोधितप्रकृतिप्रत्ययागमाद्यवयवकत्वम् ।

न चोच्यारणभेदेन वर्णानां भेदात्, तत्तदानुपूर्व्याश्च भेदात् ; आनन्त्यव्यभिचाराभ्यां तत्र शक्तताग्रहो दुरुपपाद इति वाच्यम्, अवर्णादीनामेकत्वस्य विभुत्वस्य नित्यत्वस्य च स्वीकारे । तदवयवकप्रकृत्यादेस्तत्समुदायरूपस्यार्प्यकत्वेनानन्त्यव्यभिचारयोरभावात्, देशभेदेऽपि पटादीनां देशघटितसंनिवेशाभेदवत् कालभेदेऽपि तद्घटितानुपूर्वीभेदाभावाच्च ।

पटे तन्तुसंयोगारब्धत्ववद् वर्णसंयोगारब्धत्वं पदेऽपि तुल्यम् । गुणे गुणानाङ्गीकादति तु 'एकरूपम्' इत्यादिव्यवहारादनादेयमेव । तद्वदेवात्रापि गौणो वा व्यवहारोऽस्तु ।

अत एव "हलोऽनन्तराः संयोगः" [ 1।1।7 ] इति महासंज्ञाकरणं पाणिनेः सङ्गच्छते । एकविभुनित्यमते तस्य द्रव्यत्वाङ्गीकाराच्च ।

न च जगतीतलवर्त्यवर्णानामेकत्वे च मानाभाव इति वाच्यम्, प्रहरात् पूर्वमनुद्भूतेऽधुनानुभूयमानस्य सोऽयमिति प्रत्यभिज्ञारूपाभेदप्रत्ययस्यैव मानत्वात् । न च गत्वावच्छिन्नप्रतियोगिताकभेदाभावस्तद्विषयः, व्यक्त्यरिक्तगत्वानङ्गीकारात् ।

ननु व्यक्त्यभिन्नत्वे मतुपोऽनापत्तिः, अभेदे तदनङ्गीकारात्, नहि भवति घटवान् घट इति चेत्, न ; गुणगुणिनोरभेदेऽपि रूपवान् घट इतिवदुपपत्तेः ।

अस्तु वा अतिरिक्तम्, तथापि न दोषः, भिन्नेषु घाटादिषु घचत्वावच्छिन्नप्रतियोगिताकभेदाभावसत्तवात् । सोऽयमिति प्रतीत्यापत्त्या व्यक्त्यभेदस्यैव तत्र विषयत्वावश्यकत्वात्, प्रत्यभिज्ञाया व्यक्तिविषत्वेन बाधकभावाच्च ।

न च गकार उत्पन्न इति प्रतीतिरेव बाधिका, तस्या व्यञ्जकध्वनिनिष्टात्पत्तयादे । परम्परासम्बन्धेन वर्णनिष्ठतयाऽप्युपपत्तेरतिरिक्तः वासाधाकत्वात्, परम्परया वर्णनिष्ठत्वाभ्युपगमाच्च न भ्रमत्वम् । साक्षात्सम्बन्धांशे भ्रम इत्यवशिष्यते । तदपि -- सोयमित्यत्र व्यक्त्यभेदांशे तव भ्रमत्ववत्तुल्यम् । परन्तु ममानन्तवर्णतत्प्रागभावध्वंसकल्पनेति लाघवमतिरिच्यते । तव तु तत् स्यादिति महदनिष्टम् ।

एतेनोत्पत्तिविनाशप्रत्यययोर्द्वयर्भ्रमत्वकल्पनापेक्षया प्रत्यभिज्ञामात्रस्य भ्रमत्वकल्पने लाघवमिति परास्तम् ।

किञ्च, प्रागसत्त्वे सति सत्त्वरूपाया उत्पत्तेर्न वर्णेषु ग्रहममानुभविकम् । अत एव वर्णुच्यारयतीति प्रत्ययो व्यहारश्च, न तूत्पादयतीति ।

उच्चरितत्वञ्च ताल्वोष्ठपुटसंयोगादिजन्याभिव्यक्तिविशिष्टत्वम् । तथा च प्रागनुभूतेनेदानीन्तनानुभूतस्य अभेदसिद्धौ
तावत्कालं स्थिरं चैनं कः पश्चान्नाशयिष्यति ।
इति न्यायेन नित्यतैव ।
नन्वेवं स्त्रीप्रभवोऽयम्, शुकप्रभवोऽयमिति प्रतीतिऋ, तच्छ्रवणात् शुकाद्यनुमानं च न स्यात् ।
किञ्च, 'सेयं गुर्जरी,' 'सेयं दीपकलिका' इत्यादिप्रतीतेस्तेषामपि नित्यता स्यादिति चेत्, न ; स्त्रीशुकादिजन्यताच्छेदकस्य वर्णव्यञ्जकध्वनिषु अनुभूयमानस्य वैजात्यस्य परम्परया वर्णेषु सत्त्वेनाक्षतेः ।

एतेन सानुनासिकत्वनिरनुनासिकत्वोदात्तत्वानुदात्तत्वह्रस्वत्वदीर्घत्वतारत्वमन्द्रत्वादिविरुद्धधर्माध्यासाद् भेद इति निरस्तम् ।

योयं रामेणोक्तः, स एवेदानीं कृष्णेनोच्यते, योऽयं तारो मया श्रुतः, स एवेदानां मन्द इति प्रतीतेस्तारत्वादेर्विरोधाभावाच्च । यदेव पद्मं देवदत्तापेक्षया विष्णुनोच्चैः पठितम्, तदेवानेन तदपेक्षया मन्दं पठितम्, न त्विदं पद्यान्तरमिति सकलानुभवविरोधाच्च ।

तत्र पद्यान्तरत्वापतेश्च । गुर्जरीदीपादिस्थलेऽपि मानान्तरेण नाशसिद्धेः सोऽयमित्यस्य भ्रमत्वम् ।

न च नित्यत्वे वायुताल्वोष्ठसंयोगादेः ककारादिप्रत्यक्षत्वं कार्यतावच्छेदकं वाच्यम्, मम तु कत्वमेवेति लाघवमिति वाच्यम्, अनन्तप्रागभावध्वंसादकल्पनापेक्षया लघुत्वात्, गुरुधर्मस्यापि अवच्छेदकतायाः स्थापितत्वाच्च, प्रत्यक्षत्वावच्छिन्नविषयतया गत्वस्यैव कार्यतावच्छेदकत्वाच्च ।

नन्वेवं घटाद्यपि नित्यं स्यात्, कपालसंयोगादिकञ्च व्यञ्जकं भविष्यतीति चेत्, न; उत्पत्तिप्रतीतेर्विना बाधकं साक्षात् सम्बन्धांशे भ्रमत्वायोगात् । वर्णेषु तद्ग्रहविपरीतग्रहयोः सत्त्वेन तदयोगः, सत्कार्यवादे इष्टापत्तेश्च ।

न च ककारादेर्विना व्यञ्जकमनुभवेऽन्धकारस्थघटवत् संदेहापत्तिरिति वाच्यम्, दोषाद्यभावात्, उत्पन्नत्वादिसंदेहस्य तवापि दुर्वारत्वाच्च ।

नन्ववर्णस्थले ध्वनिसत्त्वे मानाबावः, सङ्खाद्यभावेन यदुत्पत्त्यसंभवश्चेति वाच्यम्, वर्णाग्रहणे ध्वनिग्रहणस्यानिभवसिद्धत्वात् । वर्णोच्चारणस्थले तत्तत्स्थाने जिह्वाया ईषदन्तरं याते वर्णानुपलब्धेर्ध्वन्युपलब्धेश्च दर्शनेन जिह्वाभिधातवायुकण्ठसंयोगादेस्तज्जनकत्वकल्पनाच्च, वर्णोत्पत्तौ तदनङ्गीकारे प्रतिबन्ध्यप्रतिबन्धकभावकल्पनागौरवापत्तेश्च ।

न चैवं घटेन तरतीत्यर्थे द्व्यज्लक्षणष्ठन् न स्यादिति वाच्यम्, आवृत्तिकृद्व्यज्व्यपदेशेन सिद्धेः । अश्वादिप्रतिषेधेन तद्विषये गौणस्यापि ग्रहणज्ञापनात् । अत एव करिणेत्यादौ "सावेकाचः" [ 6।1।168 ] इति विभक्त्युदात्तत्वं न, आवृत्तिकृतद्व्यज्व्यपदेशेनैकाज्व्यपदेशस्य निवर्तितत्वात् । नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते ।

अनुबन्धसङ्करोऽपि न, एकस्यैव देवदत्तस्य देशभेदेन जटित्वमुण्डित्वाद्युपदेशे तेषां देशभेदेन व्यवस्थावत् टित्त्वकित्त्वादीनामप्युपपत्तेः ।

न चैकत्वे एकस्य पुरुषस्य देशभेदेन ग्रहणानापत्तिः, तदधिकरणस्याकाशसयैकत्वेन देशभेदेस्यैवाभावात् । औपाधिकतद्भेदाङ्गीकारे तु वायुसंयोगोपाधिकभेदस्य वर्णेऽपि सत्त्वेनाक्षतेः । स्पष्ट चेदम् "अइउण्" सूत्रे भाष्यकैयटयोः ।

न चाभिव्यक्तेः क्षणिकत्वेन पदप्रत्यक्षासंभवः, जन्यत्वेऽपि तुल्यत्वात्, पूर्वपूर्वसंस्कारसहकृतश्रोत्रेणाभिव्यक्तपूर्ववर्णवैशिष्ट्यस्योत्तरोत्तरवर्णे ग्रहणेन तत्संभवाच्च ।

अव्यवहितोत्तरत्वञ्चोत्पत्त्यनवच्छिन्नस्वज्ञानाधिकरणक्षणोत्पत्तिकज्ञानाविषयत्वम् । एवञ्च पदसयैकत्वेनानुगमकाकाङ्क्षाया अभावेन कारणतावच्छेदकस्यावश्यकत्वाभावः । तादात्म्येन तदेव चावच्छेदकम् । तदर्थज्ञापकत्वज्ञानमपि अव्यवहित्तोत्तरसम्बन्धेन पूर्वपूर्ववर्णविशिष्टचरमवर्णश्रवण एव वर्णवैकल्पादिना श्रवणे न बोध इति दिक् ।

?0इति सखण्डपदावाक्यस्फोटनिरूपणम् ।

?0***********