वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-३१
← वैयाकरणसिद्धान्तमञ्जूषा-३० | वैयाकरणसिद्धान्तमञ्जूषा वैयाकरणसिद्धान्तमञ्जूषा-३१ [[लेखकः :|]] |
अथ जातिस्फोटनिरूपणम्
इत्थं पञ्च व्यक्तिस्फोटा निरूपिताः । जातिस्फोटवादिनस्तु--वर्णा अनन्ता एव, घटाकाशमठाकाशादिवदुपाध्यालिङ्गिताया एव तत्प्रतीतेरभावेनंवोपाधितो भेद इत्यस्य वक्तुं शक्त्वात् । सोऽयमित्यादिप्रत्यभिज्ञा तु साजात्यनिबन्धना ।
न चैवं पदादीनां शक्तिग्रहे आनन्त्यव्यभिचारौ, आनुपूर्व्या तु न निवहिः, तस्या अपि पुरुषभेदेन कालभेदेनानन्तत्वादिति वाच्यम्, जातेः शक्यतावच्छेदकत्ववत् शक्ततावच्छेदिकाया आपि तस्या अङ्गीकारेण दोषाभावात् । 'इदं घटपदम्' 'इदं घटपदम्', 'इयं प्रकृतिः' 'इयं प्रकृतिः' इत्यद्येकाकारप्रतीत्या घटपदज्ञानत्वादिना कारणत्वे कारणतावच्छेदककोटिप्रविष्टतया च घटत्वाद्यर्थगतजातिवत् शब्दगतजातिविशेषस्याप्यावश्कत्वात् । आनुपूर्व्या शक्ततावच्छेदकत्वे गौरवाच्च । तदुक्तम्--
'शक्यत्वे इव शक्तत्वे जातेर्लाघवमीक्ष्यताम्' । इति ।
शक्यत्वे इत्यादेस्तदवच्छेदकत्वे इत्यर्थः ।
किञ्चानुपूर्व्यैव प्रतीतिकारणत्वयोर्निर्वाहे घटत्वादेरपि संयोगविशेषविशिष्टमृदादिभिरन्यथासिद्धचापत्तिः । न च क्रमिकवर्णसमुदायस्य यौगपद्यासम्भवेनानारब्धे तु गौशब्दे गशब्दत्वं कथं भवेदिति न्यायेन तत्र जातिर्दु रुपपादेति वाच्यम्, प्रागुक्तरीत्यैकबुद्धिविषयीकृते तत्सम्भवात् । जातिविशेषस्य चानुपूर्वीविसेषविशिष्टा वर्णा व्यञ्जका आकारविशेष घटत्वादेः । अतः सरो रस इत्यादौ न बोधाविशेषः ।
ननु जातेः प्रत्येकं वर्णेषु सत्त्वे प्रत्येकादर्थबोधापक्किरिति चेत्, न; अनेकव्यक्त्यभिव्यङ्गवर्णसमुदाये तस्य व्यासज्यवृत्तित्वादक्षतेः । तदुक्तम्--
'अनेकव्यक्त्यभिव्यङ्गचा जातिः स्फोट इति स्मृता' इति ।
न च जातेः शक्ततावच्छेदकत्वेऽपि तस्याः शक्तत्वे मानाभावेन जातौ स्फोटव्यवहारानापत्तिः, शक्यतावच्छेदके विषयतया शक्तेरिव शक्ततावचछेदके आश्रयतया तस्याः 'सत्त्वेनाक्षतेः । स्पष्टं चेदम् "अइउण्" सुत्रे । तस्मात् 'आन्यभाव्यमकारस्य' इति ग्रन्थे भाष्यकैयटयोः ।
अन्ये तु--आकृत्यधिकरणन्यायेनावश्यकत्वाच्च शक्ताऽपि जातिरेव । तादत्म्येन तदवच्छेदिका च निखच्छिन्नैव वा शक्तता, जातेरेकत्वेनानुगमकाकाङ्क्षाया अभावात् । सा च ज्ञातैव वाचिका, व्यक्तिवत् ।
एतेन स्फोटस्य सदातनत्वादर्थबोधारत्तिरित्यपास्तम् ।
जातिश्चाविद्यको धर्मविशेषः । तत्र दुपाध्यवच्छिन्न ब्रह्यसत्तैव वा, तदुक्तम्--
सम्बन्धिदात् सत्तैव भिज्यमाना गवादिषु ।
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ।।
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ।
तां प्रातिपदिकार्थञ्च धात्वर्थञ्च प्रचक्षते ।। इति ।
एवञ्च वाचकं ब्रह्यैव, शास्त्रीयप्रक्रिया तु जातिव्यञ्जकबोधनार्था प्राग्वदेवेति सर्वेष्टसिद्धिः ।
इति जातिस्फोटनिरूपणम् ।
अधीत्य फणिभाष्याब्धि सुघीन्द्रहरिदीक्षितात् ।
न्यायतन्त्रं रामरामाद् वादिरक्षोध्नरामतः ।।1।।
वैयाकरणनागेशः स्फोटायनऋषेर्मतम् ।
परिष्कृक्योक्तवांस्तेन प्रीयतामुमया शिवः ।।2।।
दृढस्तर्केऽस्य नाभ्यास इति चिन्त्यं न पण्डितैः ।
दृषदोऽपि हि सन्तीर्णाः पयोधौ रामयोगतः ।।3।।
शब्देन्दुशेखरं पुत्रं मज्जषाञ्चैव कन्यकाम् ।
स्वमतौ सम्यगुत्पाद्य शिवयोरर्पितौ मया ।।4।।
इति श्रिमदुपाध्यायोपनामकशिवभट्टसुतनागेशभट्टकृतो
वैयाकरणसिद्धान्तमञ्जूषाख्यः
स्फोटवादः समाप्तः ।
वैयाकरणसिद्धान्तमञ्जूषा या कृता मया ।
तया श्रीभगवान साम्बः शिवो मे प्रीयतामिति ।।
?0।। शुभमस्तु ।।
?0*******