वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-३०

← वैयाकरणसिद्धान्तमञ्जूषा-२९ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-३०
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-३१ →

अथाखण्डपदवाक्यस्फोटनिरूपणम्

वर्णमालायाम् 'एकं पदम्एकं वाक्यम्' इति प्रतीतेः 'तदेवेदम्तदेवेदं घटमानय'इति वाक्यमिति प्रतीतेक्ष्व वर्णातिरिक्तम् 'एकमखण्डं प्रकृतिप्रत्ययादिविभागरहितं पदं वाक्यञ्च वर्णव्यङ्गचमवश्यं स्वीकार्यम् । नहीयमेकत्वधीर्वर्णविषयेति युक्तम्, तेषामनेकत्वात् । न चैकं वनमितिवत् सा, वनराश्यादेरप्यतिरिक्तत्वात् ।

किञ्च, तत्रैकदेशावच्छिन्नत्वस्योपाधेरेकत्वेन सोपाधिस्तथाप्रतीतिरुपपद्यते । प्रकृते चोपाधेरसम्भवः । न चैकार्थबोधहेतुत्वं तथा, व्याससमासयोरप्यैक्यापत्तेः, वाक्येऽसंभवाच्च । वर्णसमुदायः पदमित्यादि "आद्यन्तवत्" सूत्रस्थभाष्यं तु समुदायोऽतिरिक्त इति मतेन ।

किञ्चैवं सति वर्णेष्वप्यवयबानुभवसत्तवात्तदतिरिक्तो वर्णोऽपि न सिध्येत् । यथा ऋकारे रेफो लृकारः, एकारैकैरयोरकारेकारौ । औकारौकारयोरकारोकारौ । दीर्घादिष्वपि ह्त्रस्वाकारादयः ।

र्कि बहुना, वर्णमात्रे "तस्यादित उदात्तम्" [2।2।32] इत्यादिनाऽवयवसत्त्वं गम्यते । अत एव वर्णावयवानां बर्णग्रहणेन ग्रहणाग्रहणपक्षौ "एोङ्" सूत्रे भाष्ये व्युत्पादितौ ।

किञ्चैवम् 'एकः पटः' इति व्यवहारस्यापि तन्तुसमुदायेनैवोपपत्तौ तत्राप्यतिरिक्तावयव्यसिद्धचापत्तिः । यदि तत्रैक इति व्यवहारादतिरिक्तावयविसिद्धिः, र्ताह प्रकृतेऽपि समम् । नच वर्णेष्वयवा न सन्त्येव, तदवभासस्तु तत्तदुच्चारणविशेषजन्यतत्तद्वर्णसमानाकारक्रध्वनिविशेषसन्तानोपरागोपाधिरिति वाच्यम्, पदेऽपि वर्णावभासस्यैवमेवोपपत्तौ वर्णोच्छेद एव स्यात् । अखण्डत्वं तु प्रकृतिप्रत्ययाद्यवयवराहित्येनैव । सखण्डपदस्फोटाद्युक्तरीत्या समुदायशक्त्यैव बोधस्य जायमानत्वेन तत्र तत्सत्त्वे मानाभावात् । शास्त्रे तु 'रेखागवय' न्यायेनोपपन्नम् ।

पस्पशायाम् 'अथ कः शब्दः' इति प्रघट्टके 'येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां सम्प्रत्ययः इति' भाष्य एकवचनेनायं पक्षः सूचितः । स्पष्टक्ष्व कैयटेनोक्तः तत्रैव । तदुक्तं हरिणा--

पदे न वर्णा विद्यन्ते वर्णेष्ववयवा इव ।
वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन ।। इति ।

अत्र वर्णशब्देन प्रकृतिप्रत्ययादिकम्, वर्णस्फोट इत्यत्र वर्णपदेन तस्यैव प्रकृतत्वात्, "आद्यन्तौ" "आद्यन्तवत्" इत्यादिसूत्रस्थभाष्येण तथैव लाभाच्च ।

ये तु--'पदे वर्णा न सन्त्येव । यथा ऋकारादौ अवयवाः प्रतीयमाना अपि न सन्ति, तद्वदित्यर्थः' इति व्याचक्षते । तेषामनुभवविरोधः, अवयविनि पटे तन्तूनामिव पदे वर्णानामप्यनुभवसिद्धत्वात् । अखण्डत्वरूपधर्मैक्यात् पदवाक्यात् वाक्यपदयोरत्यन्तं भेदो नास्तीत्यर्थः ।

ननु वर्णसत्त्वे मानाभावः, पूर्वोक्तरीत्यानुभवेन च वर्णस्थले ध्वनीनामावश्यकत्वेन तंरेव स्फोटाभिव्यक्तिसंभवे ध्वनिस्फोटयोर्मध्ये वर्णाङ्गकारे गौरवाद् इति चेत्, भवन्तु त एव वर्णा दूरगतकोलाहक्श्रवणे घत्वादिनां श्रूयमाणध्वनिगतानामेव दूरत्वदोषेणानभिव्यक्तिसंभवात् ।अत एव 'लोके प्रतीतपदार्थको ध्वनिःशब्दः' इति । भाष्यं सङ्गच्छते । तत्र हि--कर्मधारयः । इदमेवाभिप्रेत्योक्तो काव्यप्रकाशे 'बुधैः वेयाकरणैः
प्रधानभूतस्फोटरूपव्यङ्गचव्यञ्जकस्य ध्वनिरिति व्यवहारः कृतः' इति । अत्र प्रधानीभूतः स्फोटः पदवाक्यप्रकृत्यादिरूपः स्फोटः, तस्यर्थप्रत्यायकत्वेन प्रधानीभूतत्वम् ।

एवञ्चार्थे गृहीतसम्बन्धेन प्रागुक्तरीत्या गृहीतत्रमेण वर्णसमुदायेन व्यञ्जतोक्तरूपाद्वा अर्थविशेषेण गृहीतसम्बन्धात् स्फोटादर्थप्रत्ययः । पर्यायेषु च भिन्नौव शक्तिः गौरवं तु प्रामाणिकत्वान्न दोषावहम् ।

एतेन किमयं स्फोटः स्वरूपतोऽर्थप्रत्यायकः, प्रतीतो वा ? नाद्यः, सर्वदार्थबोधापत्तेः । अन्त्ये, 'एकं पदम्' इत्यादिप्रत्यक्षं तद्ग्राहकं वाच्यम् । तत्र किमयं प्रत्ययो वर्णानवगाहते, न वा ? आद्ये, अस्तु तेषामेवानुपूर्व्यवच्छिन्नानां वाचकता, आवश्यकत्वात् । अन्त्ये प्रतीतिबाध एव ।

किञ्च, वर्णव्यङ्गचः स्फोटः । तत्र र्कि वर्णावली तत्तदर्थविशेषणे गृहीतसम्बन्धा स्फोटव्यञ्जिका, गृहीतसम्बन्धा वा ? नाद्यः, काव्यादिश्रवणे तत्तदर्थेरगृहितसम्बन्धस्यपि 'इदमेकं पदम्' 'इदमेकं वाक्यम्' इत्यादिस्फोटप्रतीत्यापत्तेः । नान्त्यः, तैरेव बोधोत्तावतिरिक्ततत्स्वीकारस्य वैयर्थ्यापत्तेः । एकत्वप्रतीतिश्चैकबुद्धिविषयत्वौपाधिकी ।

न च तदेवेदं पदमिति प्रतीत्या तत्सिद्धिरिति वाच्यम्, पूर्वनखादिनाशोत्तरं पुनरुत्पन्ने नखादौ तदेवेदं नखम्, त एव इमे केशाः, स एवाद्र इतिवत् सादृश्येनोपपत्तेः । अतिरिक्तनखादिकमनुभवरुद्धमिति चेत्, गौरित्यादौ गकारविसर्गातिरिक्तस्फोटोऽप्यनुभवबिरुद्ध इति तुल्यम् ।

किञ्च, पर्यायशब्देष्वेकः स्फोटः, नाना वा ? नाद्यः, कलशघटादिपर्यायाभिव्यक्ते स्फोटे गृहीतशक्तिकस्य पुसोऽप्रसिद्धपदश्रवणेऽप्यर्थप्रत्ययापत्तेः, प्राग्गृहीतशक्तिकस्यैव स्फोटस्य तेनाप्यभिव्यञ्जनात् ।

न च तत्तत्पर्यायाभिव्यक्तस्फोटे शक्तिग्रहस्तत्तत्पर्यायश्रवणेऽर्थधीहेतुरिति वाच्यम्, एवं हि प्रतिपर्यायं शक्तिग्रहावश्यम्भावे तत्तत्पर्यायगतशक्तिग्रहहेतुताया एव युक्तत्वात् । तव तु तत्तत्पर्यायाभिव्यक्तगतशक्तिग्रबत्वे गौरवात् ।

नान्त्यः, अनन्तपदार्थानां तेषु शक्तेश्र्व कल्पनामपेक्ष्य क्लृप्तवर्णेष्वेव शक्तिकल्पनस्य लधुत्वात् ।

अपि च , वर्णानां प्रत्येकं व्याञ्दकत्वम्, समुदितानां वा ? नाद्यः, प्रत्येकात् स्फोटप्रतीतौ तावतैवार्थाबोधापत्तेः । नान्त्यः, 'तद्धेतोः' इति न्यायेनार्थबोधस्यापि तत एवोपपत्तौ तत्कल्पनावैयर्थ्यपत्तिरिति निरस्तमित्याहुः ।

अपरे तु--एव पदार्थः श्रोत्रग्राह्यः । अनन्तवर्णध्वनिकल्पने मानाभावात्, अवर्णानामैक्यम्, अवर्णककारादीनाञ्चनेकत्वमित्यर्धजरतीयस्यान्याय्यत्वाच्च । कत्वादिकं चाभिव्यञ्जकवायुसंयोगनिष्ठमेव । विजातीयवायुसंयोगैस्तस्यैव कत्वादिनाऽभिव्यञ्जनम्, विजातीयैश्चतदनाक्रान्तध्वनिरूपेणेत्येव युक्तम् ।

किञ्च, एकैकविदातीयवायुसंयोगैः केवलकत्वादिनैव तस्य व्यञ्जनम् । क्रमोत्पन्नैर्बहुभिस्तु तत्तत्पदवाक्यरूपेणाभिव्यक्तादर्थप्रत्ययः । तस्यैव पदादिरूपेणाभिव्यक्तस्यार्थप्रत्यायकत्वेन स्फोटत्वव्यवहारः ।

न चेदमयुक्तम्, तत्तद्वर्णोत्पादकत्वादिनाभिमतविजातीयवायुसंयोगविशेषाभिव्यक्ताखण्डपदार्थरूपैकवर्णस्यैव
तत्तद्वर्णजनकतावच्छेदकतया, व्यञ्जकतावच्छेदकतया वा परमतसिद्धस्य वायुसंयोगनिष्ठस्य वैजात्यस्य परम्परया वर्णवृत्तित्वमादायान्येषां मते तारत्वादिना प्रत्ययवद् अस्मन्मते कत्वादिनापि प्रतीतिसम्भवात् ।

अत एव भामत्याम् 'तारत्वादिवायुनिष्ठ वर्णेष्वारोप्यते' इति देवताधिकरणेऽभिहितम् । 'सोऽयं गकारः' 'तदेवेदं पदम्' इत्यादिप्रत्यभिज्ञापि गत्वाद्यधिकरणवायुसंयोगाभिव्यक्तं दर्पमुखवद् व्यञ्जकधर्मरूषिततया प्रतीयमानमेकं वर्णमादायैव बोध्या ।

एवम् 'एकं पदम्' इत्याद्यपि, पदार्थस्यैकत्वात् । अस्य नित्यत्वेऽपि ककार उत्पन्न इति प्रत्ययस्तु व्यञ्जकनिष्ठोत्पत्तेः परम्परया तत्र सत्त्वादक्षत एव ।साक्षाते सम्बन्धांशे तु प्राग्वदेव भ्रमत्वम् । एतेन बाधग्रहे तन्निष्ठजात्याद्यग्रहः ।

किञ्च, येन यस्य धर्मो गृह्यते, तेन तदपीति नियमाद् वायुसंयोगानामपि श्रोत्रेण ग्रहणापत्तिरिति निरस्तम्, साक्षात् सम्बन्धेन बाधग्रहेऽपि परम्परया तदग्रहात् ।

एतेन 'किञ्चेत्याद्यपि' अपास्तम् । रसनादेः रसादिमात्रग्राहकतायाः परैरभ्युपगमाच्च ।

न च विलक्षणवायुसंयोग एव वाचकोऽप्यस्तु, श्रृणोमेत्याद्यनुभवेनातिरिक्तस्य श्रोत्रग्राह्यस्यावश्यकत्वात् । न च ककारहकारयोरैक्यापत्तिः, भिन्नत्वप्रतीत्यनापत्तिश्चेति वाच्यम्, व्यञ्जकगतवैजात्येन भेदात् । अद्वैतसिद्धान्तेविषयसम्बन्धजन्यवृत्तिवैचित्र्येण व्यङ्गचे स्वरूपसुखवैचित्र्यवत् । विशेष्यांशमादायाभेद इष्ट एव । तत्प्रतीतिस्तु नापाद्या, उपाध्यनालिङ्गितवर्णप्रतीत्यभावात् ।

एतेन 'योऽयं हकारः, स एवेदानीं गकार इति प्रतीतिः स्यात् । हकारोऽयं न गकार इति प्रतीतिश्च न स्यादित्यपास्तम् ।

न च विलक्षणवायुसंयोगा एव श्रोत्रेन्दियग्राह्याः सन्तु, किमेकस्याप्यतिरिक्तस्य कल्पनयेति वाच्यम्, 'एको गकारः' 'एकं पदम्' इत्यादिप्रतीत्यनुरोधेन तस्यवश्यकत्वात् ।

अत एव वाचस्पतिमिश्रास्तत्त्वबिन्दौ 'गकारादतिरिच्यमानतूर्तेः ककारस्याभावात्' इति स्फोटवादिमतमूपन्यास्थन् । अत एव "अइउण्" सूत्रे "अस्यचौ" [7।4।32] इत्याद्यकारस्य वर्णसमाम्नायस्थाकारभिन्नत्वेनाण्त्वाभावात् सवर्णाग्राहकत्वमाशङ्क्य 'अवर्णस्यैकत्वात् सिद्धम्' इति प्रघट्टके एकस्य पुंसो युगपदनेकदेशेषूपलम्भो न स्यात्, उपलभते तु इत्याशङ्क्य 'अकारमपि नोपलभते, यतः 'श्रोत्रपलब्धिर्बुद्धिनिर्ग्राह्यः प्रयोगेणाभिज्वलित प्रयोगेणाभिज्वलित आकाशदेशः शब्दः, एकञ्च पुनराकाशम्, श्रोत्तोपलब्धिरित्यनेन आकाशदेशत्वं शब्दस्य प्रतिपादयति । बुद्धिनिर्ग्राह्यः पूर्वपूर्वध्वन्युत्पादिताभिव्यक्तिभिव्यक्तिजनितसंस्कारपम्परासहकृतान्त्यबुद्धिनिग्रह्यिः, प्रयुज्यतेऽनेनेति प्रयोगो वायुसंयोगः, कण्ठताल्वाद्यभिघातो ध्वनिर्वा । तेनाभिज्वलितः अभिव्यङ्ग इति कंयटः ।

तत्र 'बुद्धिभिर्निग्राह्यः' इति समासः । निर्ग्राह्यः, निश्शेषतो ग्राह्यः; शब्दतोऽर्थतश्चेत्यर्थः । अयमेवार्थः प्रयोगेणाभिज्वलित इत्यनेन स्फुटीक्रियते इत्यन्ये ।

यत्र 'बेद्धिनिर्ग्राह्यः' इत्यस्य बुद्धिविषय इत्यर्थ इति । तत्, न; 'श्रोत्रोपलब्धिः' इत्यनेन पौनरुक्त्यापत्तेः ।
अनेन हि स्वरसत एकस्यैवाद्यध्वनिमारभ्य अन्तध्वन्यन्तेन व्यङ्गचता लभ्यत इति स्पष्टम्वाक्षरमार्मिकाणाम् ।

न चेदं प्रागुक्तमतसिद्धातिरिक्तपदविषयमिति भ्रमितव्यम्, 'अकारमपि नोपलभते' इति उपक्रमविरोधात् ।

अत्रापि पक्षे पदवाक्यग्रहणप्रक्रिया सखण्डवाक्यस्फोटवदेव । शक्तिग्रहशाब्दबोधप्रक्रियापि प्राङ्निरूपितरीत्यैव । साऽपि बोद्धृभेदेनानियतैवेति प्राहुः ।

नन्वेवं शास्त्राप्रामाण्यप्रसङ्गः, पदवाक्ययोरखण्डत्वात्, शस्त्रस्य च प्रकृतिप्रत्ययाभ्यां व्युत्पादनपरत्वादिति चेत्, न; उत्तरमीमांसायाम् अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयरूपपञ्चकोशावतरणस्य सर्वाधारब्रह्यबोधकत्ववत् प्रकृतिप्रत्यायादिविचारस्याखण्‍डस्फोटबोधनोपायत्वेनादोषत्वात् ।

ननु शास्त्रज्ञानं विनापि गामानयेति वाक्यमात्रव्युत्पन्नस्य पामरादेरपि शाब्दबोधेन तत्र स्फोटज्ञानस्य जायमानत्वात् नैतच्छास्त्रं पञ्चकोशवत् स्फोटज्ञानोपाय इति चेत्, न ; प्रकारान्तरेण तज्ज्ञानसम्भवेऽपि प्रकृतिप्रत्ययव्युत्पादनपूर्वकविजातीयतज्ज्ञानस्य स्वपूर्वप्रयोगद्वारा शरिरशुद्धिफलकस्य तत्फलत्वेनादोषात् । तदुक्तं हरिणा--

'तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् । इति ।

एवञ्च विजातीयज्ञान एव शास्त्रस्योपयोग इति न तृणादिवद् व्यभिचारः । लघुनोपायेन सकलशब्दप्रतिपत्तौ च शस्त्रस्योपयोगो बोध्यः ।

न च प्रकृतिप्रत्ययविभागस्य काल्पनिकत्वे शशविषाणप्रायत्वम्, पञ्चकोशादिवदस्यापिसद सद्विलक्षणत्वात् । एवम् 'रेखागववय' न्यायेनापि शास्त्रमुपायः ।

एवञ्च सखण्डपदस्फोट इत्यस्य प्रकृतिप्रत्ययविभागतत्तदर्थज्ञानपूर्वकं पदं बोधकमित्यर्थः । एवं हरेऽवेत्यादौ प्रत्येकपदज्ञानपूर्वकं बोध इति सखण्डवाक्यस्फोटः । प्रकृतिप्रत्ययादिकल्पना 'रेखागवय' न्यायेन कद्वोधितमखण्डं प्रकृतिप्रत्ययादिविभागानाश्रयं पदादिबोधकमित्यखण्डपदवाक्यस्फोटाविति तत्त्वम् ।

इत्यखपडपदवात्यस्फोटनिरूपणम् ।