← तृतीयः भागः व्योमवती
चतुर्थः भागः
[[लेखकः :|]]
पञ्चमः भागः →

अथ गुणप्रकरणम्
गुणसामान्यसाधर्म्यम्
रूपादीनां सर्वेषां गुणानां गुणत्वाभिसम्बन्धो द्रव्याश्रितत्वं निष्क्रियत्वमगुणवत्त्वञ्च।
इदानीमुद्देशक्रमेणावसरप्राप्तानां गुणानामितरपदार्थवैधर्म्येण व्यापकं साधर्म्यं पुनः प्रतिनियतानाञ्च स्वभेदान्तराद् व्यावृत्तिमपि दर्शयन्नाह ।। *रूपादीनां सर्वेषां गुणानां गुणत्वाभिसम्बन्धः* इत्यादिप्रकरणम्। गुणत्वेनाभिसम्बनधस्तदुपलक्षितः समवायः। स च केषाम्? रूपादीनाम्। तथाप्यादिशब्दस्य अनियतार्थग्राहकत्वान्न ज्ञायते कियतामतः *सर्वेषाम्।* उत्क्षेपणाद्यवरोधपरिहारार्थञ्च *गुणानाम्* इति।
नन्वेवं सर्वेषां गुणानामित्युक्ते व्यभिचाराभावाद् व्यर्थं रूपादीनामितिपदम्। न [गुणत्वाभिसम्बन्धा]श्रितत्वविशेषणाभ्यां `सर्वो गुणः' इति दर्शनस्य व्यवच्छेदार्थत्वात्। तथाहि रूपादीनामेव गुणत्वाभिसम्बन्धः साधर्म्यं नान्येषामिति।
न च सांख्याभ्युपगतस्य गुणत्रयस्य व्यवच्छेदार्थं रूपादिग्रहणमिति न्याय्यम्, तस्य प्रमाणानुपलब्धेः। प्रसिद्धञ्च विशेषणेन व्यवच्छिद्यमानं दृष्टं यथा नीलेनानीलमिति। तदेवं रूपादयः, इतरस्माद् भिद्यन्ते, गुणा इति व्यवहर्त्तव्या वा, गुणत्वाभिसम्बन्धात्, ये तु न भिद्यन्ते; न च गुणा इति व्यवस्रियन्ते, न ते गुणत्वाभिसम्बन्धात् ये तु न भिद्यन्ते; न च गुणा इति व्यवह्रियन्ते, न ते गुणत्वाभिसम्बद्धाः, यथा क्षित्यादय इति। शेषं पूर्ववत्।
तथा द्रव्याश्रितत्वञ्च साधर्म्यं रूपादीनाम्। तच्च सावधारणं विवक्षितम्। अन्यथा हि द्रव्यादीनामपि द्रव्याशिर्तत्वाद् अतिव्यापि साधर्म्यं स्यात्, न व्यावृत्तमिति। अवधारणन्तु द्रव्येष्वेवाश्रितत्वमेवेति। द्रव्यकर्मविशेषा द्रव्येष्वेवाश्रिता, न चाश्रिता एवेति। सामान्यसमवायौ तु द्रव्येष्वाश्रितौ, न तु द्रव्येष्वेव, गुणादावपि सद्‌भावात्, गुणास्तु द्रव्येष्वेवाश्रिताः न गुणादौ; तथा आश्रिता एव द्रव्येषु, न अनाश्रिता; निर्गुणस्य द्रव्यस्यानुपलब्धेः। तदेवम् अयोगान्ययोगव्यवच्छेदेन द्रव्याश्रितत्वाद् इतरेभ्यो भिद्यन्त इति साध्यम्।
तथा निर्गता चलनलक्षणक्रिया येभ्यस्ते निष्क्रियाः, तेषां भावो निष्क्रियत्वम्।
गुणा विद्यन्ते येषां ते गुणवन्तः, तेषां भावो गुणवत्त्वं तत्प्रतिषेधेन चागुणवत्त्वमिति।
ननु निष्क्रियत्वमगुणवत्त्वञ्च गुणादीनां पञ्चानामपीत्युक्तमतो नेदं पदार्थान्तराद् व्यावृत्तं साधर्म्यम्। न च साधर्म्यमात्रेणेह प्रयोजनमस्ति पूर्वमेवाभिधानात्। अथ गुणत्वसहचरितं व्यावृत्तं साधर्म्यमात्रमेतदिति।
यद् वा द्रव्यपदार्थादेव भेदप्रतिपादनार्थमेतत्। तथाहि, परे मन्यन्ते न गुणाः कर्म वा द्रव्यादर्थान्तरमिति, निष्क्रियत्वागुणत्वाभ्यां तदुपपत्तेः। तथाहि, क्रियावद् गुणवच्च द्रव्यम्, तद्रहिताश्च गुणा इति धर्मभेदाद् भिद्यन्त एव।
अथ निष्क्रियत्वमगुणवत्त्वञ्च कथं रूपादीनाम्, द्रव्यस्यैव समवायिकारणत्वेन तदाधाराणाम् उत्पत्त्यभावात्। अथ रूपादिसमवेतानां रूपादीनामुत्पत्तेर्युक्तं समवायिकारणत्वम्। तन्न। अनुपलब्धे। यथा हि रूपवद् द्रव्यमिति ज्ञानं नैवं रूपवद् रूपमिति प्रतिभासोऽस्ति।
अभ्युपगम्याप्युच्यते, यदि च रूपं रूपोत्पत्तौ समवायिकारणम् अन्येनास्वगतरूपोत्पत्तौसमवायिकारणत्वात्। न च तदेव समवायिकारणमसमवायिकारणञ्चेति दृष्टम्। नापि संयोगः, तस्य द्रव्योत्पत्तावसमवायित्वात्। यदि च तन्तुसंयोगस्तद्रूपोत्पत्तावसमवायिकारणम्, तदुत्पत्तेः पूर्वं तदभावः स्यादेवेति। रूपरूपेष्वपि संयोगस्य कारणत्वे तदुत्पत्तेः पूर्वं तदभावः स्यादेवेति। रूपरूपेष्वपि संयोगस्य कारणत्वे तदुत्पत्तेः पूर्वमभावो वाच्यः। न चैकस्मादेव रूपाद् रूपान्तरमिति वाच्यम्। एकस्य क्रमयौगपद्याभ्यामारम्भप्रतिषेधात्।
अत एव निष्क्रियत्वं मूर्त्त्यनुविधानात्। क्रियायाः। सा च गुणेषु न सम्भवति निर्गुणत्वात्। असर्वगतद्रव्यपरिमाणञ्च मूर्त्तिरिति।
अथाश्रयगमनेन गुणेषु गमनप्रतिभासस्तर्हि कथम् ? मुख्ये बाधकोपपत्तेरुपचारेण। द्रव्ये हि वर्तमानं गमनमेकार्थसमवायितया गुणेष्वारोप्य प्रतिपद्यन्ते गुणा गच्छन्तीति।
तदेवं निष्क्रियत्वादगुणवत्त्वाच्च द्रव्याद् अर्थान्तरं रूपमिति। अथार्थान्तरत्वे कथं नियतेन धर्मिंणा व्यपदेशः? सम्बन्धनियमात्। न च सम्बन्धस्य सम्बन्धान्तरपरिकल्पना सम्बन्धरूपत्वादेवेति वक्ष्यामः समवायपदार्थ।
कषाञ्चिदेव मूर्त्तगुणत्वम्
रूपरसगन्धस्पर्शपरत्वापरत्वगुरुत्वद्रवत्वस्नेहवेगा मूर्तगुणाः।
अथेदानीं प्रतिनियतानां स्वभेदान्तराद् व्यावृत्तं साधर्म्यं दर्शयति रूपादयो वेगान्ता मूर्तगुणा इति। मूर्तानामेव, नत्वेत एव मूर्तानाम्, अन्येषामपि तद्गुणत्वात्। तथाहि, पृथिव्यादिषु त्रिषु रूपद्रवत्वादयः, गुरुत्वरसौ तु द्वयोः, स्पर्शश्चतुर्णाम्, गन्धः क्षितावेव, [स्नेहो]ऽम्भस्येव, परत्वापरत्ववेगास्तु पञ्चस्वपि मूर्तेष्विति।

केषाञ्चिच्चामूर्तगुणत्वम्
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा अमूर्तगुणाः।
बुद्ध्यादयः शब्दान्तास्त्वमूर्तगुणा इति। अमूर्तानामेव गुणाः, नत्वेत एव, संख्यादीनामपि तद्गुणत्वात्। बुद्ध्यादयो भावनान्ताः पुरुषे, शब्दश्चाकाश इति।

केचिन्मूर्तामूर्तोभयगुणाः।
संख्यापरिमाणपृथक्‌त्वसंयोगविभागा उभयगुणाः।
संख्यादयो विभागान्ता उभयगुणाः। उभयेषां मूर्तामूर्तानामेव गुणाः। तथैत एवोभयगुणाः।

गुणेष्वनेकश्रिताः
संयोगविभागद्वित्वद्विपृथकत्वादयोऽनेकाश्रिताः।
अथेदानीम् एकानेकाश्रितत्वं दर्शयन्नाह *संयोगविभागद्वित्वद्विपृथक्‌त्वादयोऽनेकाश्रिताः* इत्यादिपदेन त्रित्वादिका परार्धान्ता संख्या तद्‌विशिष्टञ्च पृथक्‌त्वं गृह्यते। अनेकाश्रितत्वञ्चात्र व्यक्त्यपेक्षया विवक्षितम्, न जात्यपेक्षया, रूपादेरपि तद्भावप्रसङ्गात्।
यद्यपि रूपत्वादिजातीयमनेकस्मिन् न वर्तते तथापि एका तद्‌व्यक्तिरेकस्मिन्नेव। न चैवं संयोगादिः, तद्‌व्यक्तेरनेकाश्रितत्वोपलब्धेः।

तद्‌भिन्नानामेकाश्रितत्वम्
शेषास्त्वेकैकद्रव्यवृत्तयः।
*शेषास्त्वेकैकद्रव्यवृत्तयः* इति। उक्तेभ्योऽन्ये शेषः। ते हि एकैकस्मिन्नेव द्रव्येवर्तन्ते। एका हि व्यक्तिरेकस्मिन्नेव समवेता तथा रसादिव्यक्तयोऽपि अवधारणन्त्वेषाम् एकैकद्रव्यवृत्तित्वमेव, नत्वेषामेव, उभयवृत्तीनामपि तद्भावात्।

विशेषगुणोद्देशः
रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा वैशेषिकगुणाः।
सामान्यगुणोद्‌देशः
संख्यापरिमाणपृथक्‌त्वसंयोगविभागपरत्वापरत्वगुरुत्वनैमित्तिकद्रवत्ववेगाः सामान्यगुणाः।
इदानीं के विशेषगुणाः, के च सामान्यगुणा इत्युपदर्शनार्थमाह रूपादयः शब्दान्ता वैशेषिकगुणाः।
कीदृशमेषां विशेषगुणत्वम्? यद्येकाश्रितत्वं गुरुत्वादावपि स्यात्। अथैकैकेन्द्रियग्राह्यत्वम्? स्नेहद्रवत्वधर्माधर्मादौ न स्यात्। अथासाधारणत्वम्? तन्नास्ति, रूपत्वादिजातीयस्यानेकत्रोपलब्धेः। व्यक्तिविवक्षया? गुरुत्वादावप्यस्त्येव। न, अन्यथा तदुपपत्तेः। तथाहि, स्वसमवेतविशेषविशिष्टत्वे सति स्वाश्रयैकजातीयव्यवच्छेदकत्वाद् विशेषगुणाः। आश्रयमात्रव्यवच्छेदकत्वं न सम्भवतीति स्वाश्रयपदम्। तथापि निर्विशेषणस्य रूपादेर्नाश्रयव्यवच्छेदकत्वमिति विशेषविशिष्टपदम्। संख्यादयोऽपि गन्धैकार्थसमवेताः क्षितेर्व्यवच्छेदकाः, स्नेहैकार्थसमवेताश्चोदकस्य, तन्निरासाय स्वसमवेतपदम्। यथा हि, रूपे शुक्लत्वादिविशेषणं समवेतं रसे च मधुरत्वादिति नैवं स्नेहो गन्धो वा संख्यादौ समवेत इति व्यवच्छेदः। तथाप्यणुपरिमाणं परमाणूनां व्यवच्छेदकमिति स्वाश्रयैकजातीयपदम्। तथाहि परमाणुपरिमाणं स्वसमवेतविशेषणोपेतं स्वाश्रयस्य परमाणुव्रातस्य चतुर्विधस्य व्यवच्छेदकं नैकजातीयस्येति। एवं परममहत्वमपीति।
रूपञ्च स्वसमवेतशुक्लत्वाद्यनेकविशेषणोपेतमेकजातीयायाः क्षितेर्व्यवच्छेदकम्, नियमेन शुक्लत्वविशिष्टमुदकस्य, शुक्लभास्वरञ्च तेजस इत्यादि विशेषः पूर्वोक्त एव द्रष्टव्यः।
तदेवं स्वसमवेतविशेषविशिष्टत्वे सति स्वाश्रयैकजातीयव्यवच्छेदकत्वाद् विशेषगुणा एव। एत एव विशेषगुणा इत्यवधारणम्।
संख्यादयो वेगान्ताः सामान्यगुणा एव। विशेषगुणलक्षणरहितत्वाद् एत एव सामान्यगुणाः।

एकैकेन्द्रियग्राह्यगुणाः
शब्दस्पर्शरूपरसगन्धा बाह्यैकैकेन्द्रियग्राह्याः।
इदानीमेकानेकेन्द्रियग्राह्यत्वं दर्शयन्नाह*शब्दस्पर्शरूपरसगन्धा*बाह्येनैकैकेनेन्द्रियेण गृह्यन्त इति तद्ग्राह्याः। बाह्यग्रहणमन्तःकरणव्यवच्छेदार्थम्। तद्‌विवक्षा हि द्वीन्द्रियग्राह्यत्वात्। अवधारणञ्च एत एव नियमेन बाह्यैकैकेन्द्रियग्राह्याः, तथानेकेन्द्रियग्राह्या न भवन्तीति।

द्वीन्द्रियग्राह्यगुणोद्देशः
संख्यापरिमाणपृथक्‌त्वसंयोगविभागपरत्वापरत्वद्रवत्वस्नेहवेगा द्वीन्द्रियग्राह्याः।
संख्यादयो वेगान्ता द्वीन्द्रियग्राह्या एव। नियमेनैत एव द्वीन्द्रियग्राह्याः। बाह्यग्रहणमन्तःकरणव्यवच्छेदार्थमनुवर्तनीयम्।
अथ स्नेहस्यकथं द्वीन्द्रियग्राह्यत्वम्? त्वग्‌व्यापारे सति स्निग्धप्रत्ययदर्शनात्। यथा हि चक्षुर्व्यापारेण स्निग्धाः केशा इति प्रतिभासस्तथा स्नानोत्तरकालमपि त्वग्‌व्यापारेण स्निग्धप्रत्ययो दृष्ट इत्यन्वयव्यतिरेकाभ्यां द्वीन्द्रियग्राह्यत्वं निश्चीयते।
अथ किमयमाप्यः पार्थिवो वेति विचारयिष्यामः स्नेहपरीक्षायाम्।

अन्तःकरणग्राह्यगुणोद्देशः
गुरुत्वधर्माधर्मभावना अतीन्द्रियाः।
बुद्ध्यादयः प्रयत्नान्तास्त्वन्तः करणेनैव गृह्यन्त इति तद्ग्राह्याः।
गुरुत्वधर्माधर्मभावना हि अतीन्द्रिया एव। इन्द्रियाण्यतोत्य वर्तन्ते, तद्ग्राह्या न भवन्तीति। यथा च गुरुत्वमप्रत्यक्षं तथा वक्ष्यामस्तत्परीक्षायाम्।

गुणेषु कारणगुणपूर्वकाणामुद्देशः
अपाकजरूपरसगन्धस्पर्शपरिमाणकत्वैकपृथक्‌त्वगुरुत्वद्रवत्वस्नेहवेगाः कारणगुणपूर्वकाः।
अपाकजरूपादिवेगान्ताः कारणगुणपूर्वका इति। अपाजकग्रहणं पार्थिवपरमाणुरूपव्यवच्छेदार्थम्।
ननु तेऽपि कारणगुणपूर्वा भवन्त्येव। तथाहि, कारणं परमाणुस्तद्‌गुणः पार्थिवपरमाण्वग्निसंयोगस्तत्पूर्वा रूपादय इति कथं न कारणगुणपूर्वकाः? तन्न। अभिप्रायापरिज्ञानात्। तथा चायमभिप्रायः, समवायिकारणेष्वेव गुणाः कारणगुणास्ते पूर्वं कारणं येषां कार्यगुणानां तेऽत्र कारणगुणपूर्वका विवक्षिताः। न चैवं पाकजा इति व्यवच्छिद्यन्ते।
अथ सलिलादिपरमाणुरूपादयः पाकजत्वाभावेऽपि न कारणगुणपूर्वका इति। तन्न, पर्युदासप्रतिषेधस्य विवक्षितत्वात्। तथाहि, पाकाज्जाताः पाकजास्तत्प्रतिषेधेन अन्यगुणपूर्वकत्वं लभ्यत इति नित्यानां व्यवच्छेदः।
नन्वेवमपि व्यर्थमपाकजग्रहणम्, एते कारणगुणपूर्वका एवेत्यवधारणासम्भवात्। तथाहि, द्रवत्ववेगावकारणगुणपूर्वकावपीति। न। स्पष्टार्थंत्वादेत एव कारणगुणपूर्वका, न त्वेते कारणगुणपूर्वका एवेत्यवधारणम्। अबुध्यमानस्य पाकजैर्दोषाशङ्का स्यादिति स्पष्टार्थमपाकजग्रहणम्।
अत्र चैकत्वैकपृथक्‌त्वग्रहणं द्वित्वद्विपृथक्‌त्वादिव्यवच्छेदार्थम्। ते ह्यकारणगुणपूर्वका इति।

अकारणगुणपूर्वकगुणकथनम्
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा अकारणगणपूर्वकाः।
बुद्‌ध्यादयः शब्दान्तास्त्वकारणगुणपूर्वका एव। समवायिगुणपूर्वकाः कार्यगुणा न भवन्तीति। न त्वेत एव संयोगविभागपरत्वापरत्वद्वित्वद्विवृथक्‌त्वादीनामप्यकारणगुणपूर्वकत्वात्।
अथाकारणगुणपूर्वकत्वाविशेषेऽप्यस्मिन् वाक्ये संयोगादीनामवचने किं प्रयोजनमिति चिन्त्यम्। अथापाकजरूपादिवेगान्तानामेव कारणगुणपूर्वकत्वामिधानात् शेषाणामकारणगुणपूर्वकत्वमिति वाभिधेयं सकलभेदसङ्ग्राहकं वाक्यम्। अलं बुद्‌ध्यादिविशेषाभिधानेनेति।
नैतदेवम्। विशेषवचनं स्पष्टार्थम्। अनेकधा शास्त्राभिहितमिति अन्तेवासिनामृज्वर्थपरिज्ञानमेव स्यादित्यूहशक्तेः संवर्धनार्थं संयोगादीनां स्वशब्देनावचनम्।
अन्ये त्वेकवृत्तीनामेव विशेषगुणानामत्राभिधानं विवक्षितमिति मन्यन्ते। तत्तु न बुद्ध्यामहे, दूषणस्याप्रतिसमाधानात्।

संयोगजगुणोद्देशः
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दतूलपरिमाणोत्तरसंयोग नैमि्तिकद्रवत्वपरत्वापरत्वपाकजाः संयोगजाः।
तथा बुद्ध्यादयः पाकजान्ताः संयोगजा इत्यत्र बुद्ध्यादयो भावनान्ताः पुरुषान्तःकरणसंयोगादुत्पद्यन्ते। शब्दस्य मेर्याकाशसंयोगात्। तूलपरिमाणञ्च प्रचयात्। उत्तरसंयोगः सूत्रपाठापेक्षया, संयोगजसंयोगः नैमित्तिकद्रवत्वमग्निसंयोगात्। परत्वापरत्वे तु दिक्कालपिण्डसंयोगात्। पाकजा इति पाथिवपरमाणुरूपादयस्तेऽप्यग्निसंयोगजाः। इत्येत एव संयोगजाः, न त्वेते संयोगजा एव। तथा हि शब्दो विभागजः शब्दजोऽप्यस्तीति।

कर्मजगुणोद्देशः
संयोगविभागवेगाः कर्मजाः।
*शब्दोत्तरविभागौ* विभागाज्जातौ विभागजाविति। एतावेव विभागजौ, न त्वेतौ विभागजावेव। तथाहि, शब्दः संयोगजः शब्दजोऽप्यस्तीति। उत्तरविभागश्च, सूत्रपाठापेक्षया विभागजविभाग एव परिगृह्यते।

बुद्ध्यपेक्षाणां, समानासमानजात्यारम्भकानाञ्चोद्दैशः
परत्वापरत्वद्वित्वद्विपृथक्त्वादयो बुद्ध्यपेक्षाः।
रूपरसगन्धानुष्णस्पर्शशब्दपरिमाणैकत्वैकपृथक्त्वस्नेहाः
समानजात्यारम्भकाः।
सुखदुःखेच्छाद्वेषप्रयत्नाश्च असमानजात्यारम्भकाः।
संयोगविभागसंख्यागुरुत्वद्रवत्वोष्णस्पर्शज्ञानधर्माधर्मसंस्काराः
समानासमानजात्यारम्भकाः।
इदानीं के बुद्ध्यपेक्षाः, के च समानजात्यारम्भका इत्युपदर्शयति *परत्वापरत्वद्वित्वद्विपृथक्त्वादयः* बुद्धिमपेक्षन्ते स्वोत्पत्ताविति बुद्ध्यपेक्षा इति। आदिपदेन त्रित्वादिका परार्धान्ता संख्या तदवच्छिन्नञ्च पृथक्त्वं गृह्यते। अवधारणन्तु एत एव बुद्ध्यपेक्षास्तथैते बुद्ध्यपेक्षा एब। बुद्धिं कबिना न भवन्तीति।
रूपादयः स्नेहान्ताः समानजात्यारम्भका इति। समाना तुल्या जातिर्येषां ते समानजातयस्तानारभन्त इति तदारम्भका एव, न त्वेत एव समानजात्यारम्भका उभयारम्भकाणामपि सद्भावात्। अत्र चानुष्णग्रहणमुष्णस्पर्शव्यवच्छेदार्थम्, तस्याप्युभयारम्भकत्वात्। एकत्वैकपृथक्त्वग्रहणं द्वित्वद्विपृथक्त्वादिव्यवच्छेदार्थम्, द्वित्वादेरसमानजात्यारम्भकत्वाद्, द्विपृथक्त्वादेश्चाकारणत्वादिति।
तथा ह्युदकावयवेषु वर्तमाना रूपादयः स्नेहपर्यन्ताः कार्ये तानारभन्ते। गन्धस्तु क्षित्यवयवेषु वर्तमानस्तदवयविनि गन्धमारभते। शब्दश्चाकाशे वर्तमानस्तत्रैव शब्दमिति।
सुखादयः प्रयत्नान्तास्त्वसमानजात्यारम्भका इति। असमानजातीयमेवारभन्त इति तदारम्भकाः, न त्वेत एव, अन्येषामपि सद्‌भावात्। तथा च सुखादिच्छा, द्वेषाद् द्वेषः, ताभ्यां प्रयत्नः, तस्मात् क्रियेति।
संयोगादयः संस्कारान्ताः समानासमानजात्यारम्भका इति। समाना जातिर्येषां ते समानजातयस्तत्प्रतिषेधेन चासमानजातयः। तानारभन्त इति तदारम्भकाः। एत एव समानासमानजात्यारमभकाः, नान्ये। तथैते समानासमानजात्यारम्भका एव नियमेन। तथाहि, संयोगात् संयोगः, विजातीयञ्चबुद्ध्यादि। विभागाद् विभागः, विजातीयश्च शब्दः। संख्यातः संख्या विजातीयञ्च परिमाणम्। गुरुत्वाद् गुरुत्वं विजातीयञ्च पतनम्। द्रवत्वाद् द्रवत्वं विजातीयञ्च स्यन्दनम्। उष्णस्पर्शाद् उष्णस्पर्शो विजातीयाश्च पाकजाः। ज्ञानाच्च ज्ञानं विजातीयाश्च संस्काराः। धर्माधर्माभ्यां धर्माधर्मौ विजातीये च सुखदुःखे। संस्कारात् संस्कारो विजातीयञ्च स्मरणम्।

स्वपराश्रयसमवेतारम्भकगुणोद्देशः
बुद्धिसुखदुःखेच्छाद्वेषभावनाशब्दाः स्वाश्रयसमवेतारम्भकाः।
रूपरसगन्धस्पर्शपरिमाणस्नेहप्रयत्नाः परत्रारम्भकाः।
संयोगविभागसंख्यैकत्वैकपृथक्त्वगुरुत्वद्रवत्ववेगधर्माधर्मास्तूभयत्रारम्भकाः।
इदानीं स्वपराश्रयसमवेतारम्भकान् दर्शयति बुद्‌ध्यादयः शब्दान्ताः। स्वाश्रयसमवेतमेवारभन्त इति *स्वाश्रयसमवेतारम्भका*। न त्वेत एव उभयत्रारम्भकाणामपि सद्भावात्। तथाहि, बुद्धिरात्मनि वर्तते, तत्रैव ज्ञानं संस्कारहेतुर्भवति। सुखादिच्छा आत्मन्येव, दुःखाद् द्वेषस्तत्रैव। इच्छातः स्मरणाप्रयत्नावात्मन्येव। तथा द्वेषादपि। बावनातो भावना स्मरणञ्चात्मन्येव। शब्दश्चाकाशे वर्तमानस्तत्रैव शब्दमारभत इति।
रूपादयः प्रयत्नान्ताः परत्रेति। परस्मिन्नेवारभन्त इति परत्रारम्भका नत्वेत एव। तथा हि रूपरसगन्धस्पर्शपरिमाणस्नेहाः कारणेषु वर्तमानाः परत्र कार्ये तानारभन्ते। तथा प्रयत्नः पुरुषे वर्तमानः परत्र हस्तादौ क्रियामारभते।
संयोगादयोऽधर्मान्तास्तूभयत्रारम्भकाः। एत एवोभयत्रारम्भकाः। तथैव उभयत्रारम्भका एव नियमेन। भेर्याकाशसंयोगो ह्याकाशे वर्तमानस्तत्रैव शब्दमारभते। भेरीदण्डसंयोगस्तु परत्र। तथा वंशदलाकाशविभागः स्वाश्रये, वंशदलविभागस्तु परत्राकाशे शब्दारम्भकः। संख्या कारणे वर्तमाना द्वित्वत्रित्वादिका कार्ये परिमाणम् एकत्वसंख्या च। एकत्वं स्वाश्रये तु द्वित्वादिकमारभत इति। एकपृथक्त्वग्रहणं द्विपृथक्त्वादिव्यवच्छेदार्थम्, तेषामकारणत्वात्। कारणेषु वर्तमानमेकपृथक्त्वं कार्येऽप्येकपृथक्त्वमारभते स्वाश्रयेषु द्विपृथक्त्वादिकमिति। गुरुत्वद्रवत्ववेगास्तु कारणगताः कार्येऽपि गुरुत्वादीनारभन्ते, स्वाश्रयेषु पतनस्यन्दनगमनक्रिया इति। धर्माधर्मौ च स्वाश्रयसमवेते सुखदुःखे पराश्रये तु क्रियामारभेते।

क्रियाहेतुगुणानामुद्देशः
गुरुत्वद्रवत्ववेगप्रयत्नधर्माधर्मसंयोगविशेषाः क्रियाहेतवः।
इदानीं क्रियाहेतूनाह गुरुत्वादिसंयोगविशेषान्ताः *क्रियाहेतवः* इति। तथाहि, गुरुत्वात्, पतनम्, द्रवत्वात् स्यन्दनम्, वेगाद् गमनम्, प्रयत्नाद् हस्तादौ क्रिया, धर्माधर्माभ्यामग्न्यादौ क्रिया। संयोगविशेषास्तु नेदनाभिघातसंयुक्तसंयोगास्तेऽपि क्रियाहेतव एव। गुरुत्वादीनां गुरुत्वजनकत्वस्याप्युपलब्धेः।

असमवाय्यादिकारणगुणोद्देशः, अकारणगुणकथनञ्च
रूपरसगन्धानुष्णस्पर्शसंख्यापरिमाणैकपृथक्त्व
स्नेहशब्दानामसमवायित्वम्।
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनानां निमित्तकारणत्वम्।
संयोगविभागोष्णस्पर्शगुरुत्वद्रवत्ववेगानामुभयथा कारणत्वम्।
परत्वापरत्वद्विपृक्त्वादीनामकारणत्वम्।
इदानीमसमवायिनिमित्तोभयथाकारणान्याह रूपादिशब्दान्तानामसमवायिकारणत्वम् इति।
अथ किमिदमसमवायिकारणत्वं नाम? प्रत्यासन्नस्य कार्यजनकत्वम्। यद् यस्य प्रत्यासन्नं सज्जनकत्वेनोपलब्धसामर्थ्यं व्याप्त्या तत् तस्योत्पत्तावसमवायिकारणम्।
का पुनरियं प्रत्यासत्तिः? एकार्थसमवायः। सा तु भिद्यते कार्यैकार्थसमवायलक्षणा कार्यकारणैकार्थसमवायलक्षणा चेति। कार्येण सहैकस्मिन्नर्थे समवायो लक्षणं चिह्नमस्या इति तल्लक्षणा। यथा शब्दस्य शब्दोत्पत्ताविति। कार्यशब्दो ह्याकाशे वर्तते तत्रैव कारणशब्दोऽपीति कार्यैकार्थसमवायोऽस्य प्रत्यासत्तिरिति। तथा बुद्ध्याद्‌युत्पत्तावात्मान्तःकरणसंयोगस्य। स ह्यात्मनि वर्तते बुद्ध्यादयोऽपि तत्रैवेति।
नन्वेवं बुद्ध्यादीनामपि स्वकार्योत्पत्तावेकार्थसमवायित्वादसमवायिकारणत्वमेव न निमित्तत्वम्? नैष धोषः। संयोगस्याशेषकार्योत्पत्तौ व्याप्त्या सामर्थ्योपलब्धेः, न चैवं बुद्ध्यादेरन्यतरस्येति। तस्य प्रतिनियतकार्योत्पत्तावेव सामर्थ्यावधारणात्। आत्मान्तःकरणसंयोगस्त्वशेषबुद्ध्याद्युत्पत्तावुपलब्धसामर्थ्यमिति स एवासमवायिकारणम्। न जातुचिन्मनःसंयोगादृते बुद्ध्यादयो भवन्तीति। तथा च सुषुप्त्यवस्थावसाने विज्ञानादिकमुत्पद्यत इति मनःसंयोगस्तत्र कारणम्।
नन्वेवमपि धर्माधर्मयोरशेषबुद्ध्याद्युत्पत्तौ व्याप्त्या कारणत्वादसमवायित्वं स्यात्? न। विबुविशेषगुणानां विशिष्टप्रत्यासत्त्वेरुपलम्भात्। यथा हि, शब्दः शब्दान्तरमारभमाणः स्वावरुद्धनभोदेशसमनन्तरमेवारभते नैकार्थसमवायित्वाद् देशान्तरे [तथा सति] ब्रह्मबाषितस्याप्युपलम्भप्रसङ्गात्। तद्वद् धर्माधर्मावपि स्वावरुद्धात्मप्रदेशानन्तरं सुखदुःखादिकमारभेयाताम् इति स्वर्गादिस्थानेषु तदभावः स्यात्, आरभेते तु स्थानान्तरेष्वपि सुखदुःखादिकमिति निमित्तकारणत्वमेव। तस्मादात्मान्तःकरणसंयोग एव बुद्ध्याद्युत्पत्तावेकार्थसमवायितया असवायिकारणमिति स्थितम्।
तथा कार्यं रूपादि पटे वर्तते, पटश्च तन्तुषु, तद्गताश्च रूपादयस्तत्रैवेति कार्यकारणैकार्थसमवायस्तेषां प्रत्यासत्तिरिति।
नन्वेवमपि तन्तुरूपं रसाद्युत्पत्तौ प्रत्यासन्नम्, रसश्च रूपोत्पत्तावित्यसमवायित्वं स्यात्? न। जनकत्वमिति विशेषणात्। यद् यस्योत्पत्तौ प्रत्यासन्नं सज्जनकं तदसमवायिकारणम्। न चैवं रूपं रसाद्युत्पत्तौ कारणं तदनुविधानस्यादर्शनात्। यथा हि शुक्लाद् रूपाच्छुक्लं पीताच्च पीतमिति कारणरूपानुविधानमस्ति नैवं रसादिनेति। नहि मधुरादम्लाद् वा तच्छुक्लं पीतं वा रूपमित्यन्वयो गृह्यते। तस्मात् प्रत्यासत्तावपि नासमवायित्वम् कारणस्य सतस्तद्‌विशेषनिरूपणात्।
न चैवं समवायिकारणए प्रसङ्गस्तस्योक्तप्रत्यासत्त्यभावात्। न हि कार्येण तत्कारणेन च सहैकार्थसमवायस्तस्यास्ति, तत्रैव तत्कार्यस्य समवायात्।
तथाहि, रूपरसगन्धानुष्णस्पर्शपरिमाणस्नेहाः कार्यकारणैकार्थसमवायादेवासमवायिकारणम्। संख्या तु द्वित्वादिका परिमाणोत्पत्तौ कार्यकारणैकार्थसमवायेनासमवायिकारणम्। तथा कारणैकत्वम् एकपृथक्त्वञ्च कार्यैकत्वैकपृथक्त्वोत्पत्ताविति। द्वित्वद्विपृथक्त्वाद्युत्पत्तावेकत्वैकपृथक्त्वादीनां कार्यैकाथंसमवायेनैवासमवायिकारणत्वमेव। एवं शब्दस्यापीत्युक्तम्।
एतेषामसमवायिकारणत्वमेव, नत्वेतेषामेव, अन्येषामपि सद्भावात्।
अत्र चानुष्णग्रहणमुष्णस्पर्शव्यवच्छेदार्थम्, तस्योभयथा कारणत्वात्।
बुद्ध्यादिभावनान्तानां निमित्तकारणत्वम् इति। समवाय्यसमवायिलक्षणरहितस्य जनकत्वम्। न चासिद्धं विशेषणं प्रत्यासन्नस्य बुद्ध्यादेर्जनकत्वादिति वाच्यम्, पूर्वोक्तन्यायात्। अवधारणन्त्वेतेषां निमित्तकारणत्वमेव, नत्वेतेषामेव।
तथाहि बुद्धिर्ज्ञानं संस्कारोत्पत्तौ कारणम्, सुखमिच्छायाः, दुःखं द्वेषस्य, इच्छाद्वेषौ प्रयत्नस्य, स च क्रियायाः, धर्माधर्मौ सुखदुःखयोः, भावना स्मरणस्येति।
संयोगादिवेगान्तानामु *उभयथा कारणत्वम्*इति। असमवायिनिमित्तकारणत्वमिति। एतेषामेवोभयथा कारणत्वम्, तथैतेषामुभयथा कारणत्वमेवेति नियमेन।
तथाहि, भेर्याकाशसंयोगस्यासमवायिकारणत्वम्, भेरीदण्डसंयोगस्य निमित्तत्वमअ। उष्णस्पर्शस्योत्पत्तावसमवायिकारणत्वम्, पाकजेषु निमित्तत्वम्। एवं गुरुत्वद्रवत्ववेगानां स्वाश्रयक्रियोत्पत्तावसमवायिकारणत्वम्, आश्रयान्तरे निमित्तत्वमिति।
परत्वापरत्वद्विपृथक्त्वादीनामकारणत्वमित्यादिपदेन त्रिपृथक्त्वादीनां ग्रहणम्।
नन्वेतेषां ज्ञानाद्युत्पत्तावस्त्येव कारणत्वम्? सत्यम्। तद्‌व्यतिरेकेणान्यत्राकारणत्वं विवक्षितमिति। समानजातीयारम्भकादिवाक्येऽपीदं विशेषणमूह्यम्। एतेषामकारणत्वमेव, नत्वेतेषामेव, पारिमाण्डल्यादेरप्यकारणत्वात्।
अव्याप्यवृत्तिगुणानां यावद्‌द्रव्यभाविगुणानाञ्चोद्देशः
संयोगविभागशब्दात्मविशेषगुणानां प्रदेशबृत्तित्वम्।
शेषाणामाश्रयव्यापित्वम्।
अपाकजरूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्त्वसांसिद्धिकद्रवत्व-
गुरुत्वस्नेहानां यावद्‌द्रव्यभावित्वम्।
शेषाणामयावद्‌द्रव्यभावित्वञ्चेति।
इदानीं केषां प्रदेशवृत्तित्वमाश्रयव्यापित्वञ्चेत्याह *संयोगविभागशब्दात्मविशेषगुणानां प्रदेशवृत्तित्वम्* आश्रयाव्यापकत्वं विवक्षितम्। न तु प्रदेशेऽवयवे वृत्तिः, निष्प्रदेशानां तदभावप्रसङ्गात्। एतेषामेवाश्रयाव्यापित्वम्, एतेषां प्रदेशवृत्तित्वमेव।
*शेषाणामाश्रयव्यापित्वम्* इति। उक्तेभ्योऽन्ये शेषास्तेषामाश्रयव्यापित्वम्। कथमेतत्? आश्रयोपलम्भे सति तज्जिघृक्षायामवश्यं ग्रहणम्। यथा पटोपलम्भे रूपजिघृक्षायामवश्यं तद्ग्रहणमिति। येषान्त्वाश्रयाव्यापित्वं न तेषामाश्रयोपलम्भे, सत्यामपि जिघृक्षायामिन्द्रियार्थसन्निकर्षे चावश्यं ग्रहणमस्ति। यथा पर्वतस्यापरभागवर्त्तिनां संयोगो नावश्यं तदुपलम्भेऽप्युपलभ्यत इति।
अपाकजादिस्नेहान्तानां *यावद्‌द्रव्यभावित्वम्* इति। यावद्‌द्रव्यं भवन्ति तच्छीलाश्चेति यावद्‌द्रव्यभाविनस्तेषां भावो यावद्‌द्रव्यभावित्वम्, आश्रये सत्यविनाशित्वमिति यावत्।
*शेषाणामयावद्‌द्रव्यभावित्वम्* इति। उक्तेभ्योऽन्ये शेषास्तेषां सत्यप्याश्रये विनाश इति।
इति गुणसाधर्म्यप्रकरणम्।