← चतुर्थः भागः व्योमवती
पञ्चमः भागः
[[लेखकः :|]]
षष्ठः भागः →

गुणवैधर्म्यप्रकरणम्
रूपादीनां सर्वगुणानां प्रत्येकमपरसामान्यसम्बन्धाद् रूपादिसंज्ञा भवन्ति।
अथेदानीं वैधर्म्यं प्रतिनियतमाह *रूपादीनां सर्वगुणानां प्रत्येकमपरसामान्यसम्बन्धाद् रूपादिसंज्ञा भवन्ति* इत्यादि। रूपमादिर्येषां ते रूपादयस्तेषाम्। न ज्ञायते कियतामतः सर्वगुणानामिति। सर्वे च ते गुणाश्चेति सर्वगुणास्ते च रूपादय एवभिप्रेता नान्य इति, तेषाम् एकमेकं प्रति प्रत्येकम्। अपरसामान्यसम्बन्धादिति। गुणत्वापेक्षया अपरसामान्यं रूपत्वादि, तत्सम्बन्धाद् रूपादिसंज्ञा भवन्ति। रूपत्वसम्बन्धाद् रूपमिति संज्ञा, रसत्वसम्बन्धाच्च रस इति। एवमन्येष्वपीति।
रूपवैधर्म्यम्
तत्र रूपं चक्षुर्ग्राह्यम्। कपृथिव्युदकज्वलनवृत्ति, द्रव्याद्युपलम्भकम्, नयनसहकारि, शुक्लाद्यनेकप्रकारम्, सलिलादिपरमाणुषु नित्यम्, पार्थिवपरमाणुष्वग्निसंयोगविरोधि, सर्वकार्यद्रव्येषु कारणगुणपूर्वकम्,
आश्रयविनाशादेव विनश्यतीति।
तत्रादाबुद्दिष्टत्वाद् रूपस्य सद्‌भावे प्रमाणं कलक्षणम् आश्रयम् अर्थक्रियाभेदं नित्यत्वम् उत्पत्तिविनाशकारणञ्च दर्शयन्नाह *रूपं चक्षुर्ग्राह्यम्* इत्यादिना।
तत्र रूपमेव चक्षुर्ग्राह्यं न रसादि। रूपं चक्षुषैव गृह्यतेऽन्येन्द्रियपरिच्छेद्यं न भवतीत्यवधारणस्य प्रक्रमापेक्षितया न द्रव्यादौ चक्षुर्ग्राह्यत्वप्रतिषेधः। तथाहि, द्रव्यादेश्चक्षुर्ग्राह्यत्वसिद्धौ "अनेकद्रव्येण समवायात् स्वगतविशेषाच्च रूपं प्रत्यक्षम्" (वै. सू. 4।1।8), "एतेन रसादिषु ज्ञानं व्याख्यातम्" (वै. सू. ?) इत्यतिदेशे चक्षुर्ग्राह्यत्वाशङ्कायां तद्‌व्यवच्छेदार्थमेवावधारणं न द्रव्यादौ तद्‌वृत्तित्वप्रतिषेधपरम्। अभिप्रेतञ्च समुद्‌गीयमानावधारणं शाक्यैरिति वक्ष्यामो लैङ्गिकज्ञाने।
सूत्रार्थस्तु, अनेकं द्रव्यं जनकमस्येतीत्यनेकद्रव्यं तेन सह समवायात् स्वगतविशेषनियतसद्भावे क्वचिद् रूपोपलब्धिर्यदभावाच्चानुपलब्धिः स एव सहकारिविशेषोऽपदिश्यते। तस्माच्च रूपं प्रत्यक्षम्। एतच्च रसनादिप्रत्यक्षे समानमिति।
*पृथिव्युतदकज्वलनवृत्ति* इत्याश्रयनिरूपणम्, पूर्वपदापेक्षं वा लक्षणमिति। तथाहि, रचक्षुर्ग्राह्यत्वं द्रव्यत्वस्याप्यस्तीति चक्षुषैव गृह्यत इति [सावधारणं] विशेषणम्। तथापि चक्षुषैव गृह्यते रूपत्वसामान्यमिति पृथिव्युदकज्वलनवृत्तिपदम्। पृथिव्यादिवृत्तित्वञ्चान्येषामप्यस्तीति नियमग्रहणम्। अतो रूपम्, इतरस्माद् भिद्यते, नियमेन पृथिव्युदकज्वलनवृत्तित्वे सति चक्षुषैव गृह्यामाणत्वात्, यस्तु न भिद्यते न चासावेवम् यथा रसादिरिति।
*द्रव्याद्युपलम्भकम्* इत्यर्थक्रियाकथनम्। द्रव्यादीनुपलम्भयतीति द्रव्याद्युपलम्भकम्, द्रव्योपलब्धे कारणमिति। तथा "महत्त्वादनेकद्रव्यवत्त्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम्" (वै. सू. 4।1।6) "तत्समवायाच्च गुणादयोऽपि प्रत्यक्षाः" (वै. सू. ?) इत्युपलब्धौ रूपविशेषस्य कारणत्वमुक्तम्। पूर्वपदापेक्षमेतल्लक्षणमभ्यूह्यम्।
*नयनसहकारी* इति स्वगतरूपोत्कर्षाद् बाह्यरूपप्रकाशकमित्युपदर्शयति। न च पूर्वेणाविशेषः, करणस्थस्य रूपोत्कर्षस्याभिधानात्, प्राक्तनेन तु कर्मगतस्येति।
*शुक्लाद्यनेकप्रकारम्* इति भेदनिरूपणम्। तदप्यसाधारणमेव। *सलिलादिपरमाणुषु नित्यम्*, विनाशकारणाभावात्। *पार्थिवपरमाणुष्वग्निसंयोगविरोधि* इति, अग्निसंयोगेन विरोधो विनाशोऽस्येति। न चानुत्पत्तिमतो विनाशः सम्भवतीत्यन्यस्योत्पत्तिविनाशकारणस्याभावाद् अग्निसंयोगादेवोत्पद्यते। सर्वकार्येषु कारणगुणपूर्वप्रकमेणोत्पत्तिराश्रयविनाशादेव विनाश इति वक्ष्यामः पाजजरूपपरीक्षायाम्।
रसवैधर्म्यम्
रसो रसनग्राह्यः, पृथिव्युदकवृत्तिः, जीवनपुष्टिबलारोग्यनिमित्तम्।
रसनसहकारी, मधुराम्ललवणतिक्तकदूकषायभेदभिन्नः। अस्यापि नित्यानित्यत्वनिष्पत्तयः पूर्ववत्।
*रसो रसनग्राह्यः* इति सद्‌भावे प्रमाणम्। *पृथिव्युदकवृत्तिः* इत्याश्रयनिरूपणम्, पूर्वपदापेक्षं वा लक्षणमिति। तथाहि, पृथिव्युदकवृत्तित्वन्येषामप्यस्तीति रसनग्राह्यपदम्। रसनग्राह्यञ्च रसत्वादिसामान्यं भविष्यतीति पृथिव्युदकवृत्तिपदम्। अतो रसः, इतरस्माद् भिद्यते, पृथिव्युदकवृत्तित्वे सति रसनग्राह्यत्वात्, यस्त्वितरस्मादरसादेर्न भिद्यते न चासावेवम्, यथा गन्धादिरिति।
*जीवनपुष्टिबलारोग्यनिमित्तम्* इत्यर्थक्रियानिरूपणम्। जीवनन्तु उपभोगदायककर्मसचिवस्यात्मनः स्वशरीरावरुद्धेन मनसा संयोगः, तस्य तु निमित्तम् शरीराप्यायननिमित्तत्वात्। पुष्टिरवयवोपचयः। सा च विशिष्टरसोपयोगाद् भवतीति। तथाहि, रसोपयोगादान्तरेण तेजसा पूर्वद्रव्यनिवृत्तौ स्वतन्त्रेषु परमाणुषु श्यामादिनिवृत्तिद्वारेणोत्पन्नपाकजैर्द्व्यणुकादिप्रकमेण शरीरारम्भः प्रतिक्षणमाहारोपयोगे सति द्रष्टव्यः। न चारभ्यारम्भकवादः सम्भवतीत्युक्तंपृथिव्यधिकारे। बलमुत्साहस्तस्य प्राणसंवर्धनद्वारेण निमित्तम्। आरोग्यं रोगाभावस्तस्यापि निमित्तं विशिष्टरसोपयोगे सति तच्छ्रवणात्।
*रसनसहकारी* इति। स्वगतरसोत्कर्षाद् बाह्यरसस्याभिव्यञ्जक इत्युक्तं पूर्वम्।
*मधुराम्ललवणतिक्तकटुकषायभेदभिन्नः* इति विभागः। सोऽप्यसाधारणत्वाल्लक्षणम्। *अस्यापि नित्यानित्यत्वनिष्पत्तयः पूर्ववदिति*। सलिलपरमाणुषु नित्यं पार्थिवेष्वग्निसंयोगादुत्पद्यते विनश्यति च। कार्येषु कारणगुणपूर्वः, आधारविनाशादेव विनश्यतीत्यतिदेशार्थः।
गन्धवैधर्य्यम्
गन्धो घ्राणग्राह्यः, पृथिवीवृत्तिः, घ्राणसहकारी, कसुरभिरसुरभिश्च, अस्याप्युत्पत्त्यादयः पूर्ववत्।
*गन्धो घ्राणग्राह्यः* इति सद्‌भावे प्रमाणम्। *पृथिवीवृत्तिः* इत्या श्रयनिरूपणम, पूर्वपदापेक्षं वा लक्षणम्। तथा हि घ्राणग्राह्यत्वं गन्धत्वादेरप्यस्तीति पृथिवीवृत्तिरिति विशेषणम्। पृथिवीवृत्तित्वमन्यस्याप्यस्तीति घ्राणग्राह्यपदम्। ध्राणग्राह्यत्वे सति पृथिवीवृत्तित्वं लक्षणमिति।
*घ्राणसहकारी* इति स्वगतगन्धोत्कर्षाद् बाह्यगन्धप्रकाशकमित्यर्थक्रियानिरूपणम्। पुनरपि *सुरभिरसुरभिश्च* इति विभागः।
*अस्याप्युत्पत्त्यादयः पूर्ववत्* इति। परमाणुष्वग्निसंयोगादुत्पद्यते विनश्यति च। कार्ये तु कारणगुणपूर्वकः, आधारविनाशादेव विनश्यतीत्यतिदेशार्थः।
स्पर्शवैधर्म्यम्
स्पर्शस्त्वगिन्द्रियग्राह्यः, पृथिव्युदकज्वलनपवनवृत्तिः, त्वक्‌सहकारी, रूपानुविधायी, शीतोष्णानुष्पाशीतभेदात् त्रिविधः। अस्यापि नित्यानित्यत्वनिष्पत्तयः पूर्ववत्।
*स्पर्शस्त्वगिन्द्रियग्राह्यः* इति प्रत्यक्षपरिच्छेद्यत्वं दर्शयति। *पृथिव्युदकज्वलनपवनवृत्तिः* इत्याश्रयनिरूपणञ्च चतुर्णां स्पर्शवत्त्वमित्यनेन न पुनरुक्तम्। तत्र द्रव्यधर्मस्याभिधानात्, इह तु स्पर्शधर्मस्येति। पूर्वपदापेक्षं वा लक्षणम्। तत्र द्रव्यधर्मस्याभिधानात्, इह तु स्पर्शधर्मस्येति। पूर्वपदापेक्षं वा लक्षणम्। तथा च पृथिव्यादिवृत्तित्वमन्येषामप्यस्तीति त्वगिन्द्रियग्राह्यपदम्। तद्‌ग्राह्यञ्च स्पर्शत्वादिसामान्यमिति पृथिव्यादिवृत्तिपदम्।
यदि संख्यादीनामपि त्वगिन्द्रियग्राह्यत्वे सति पृथिव्यादिवृत्तित्वं सम्भाव्येत, अवधारणं कार्यम्। अतः स्पर्शः, इतरस्माद् भिद्यते, त्वगिन्द्रियग्राह्यत्वे सति नियमेन पृथिव्यादिचतुर्द्रव्यवृत्तित्वात्, यस्त्वितरस्माद् न भिद्यते न चासावेवम्, यथा रूपादिरिति।
*त्वक्‌सहकारी* इति। स्वगतस्पर्शोत्कर्षात् त्वगिन्द्रियं बाह्यस्पर्शप्रकाशकमित्यर्थक्रियानिरूपणम्।
अथ त्वगिन्द्रियं स्पर्शस्य प्रकाशकम्। कस्मात्? संयुक्तसमवायात्। त्वगिन्द्रियेण संयुक्तं द्रव्यं तत्समवायात् स्पर्शो गृह्यत इति। नन्वेवं संयुक्तसमवायस्याविशेषाद् रूपादिप्रकाशकमपि स्याद् विशेषो वा वाच्यः, तन्न, स्पर्शोत्कर्षवद् रूपाद्युत्कर्षस्याभावात्। तथाहि, रूपादिषु मध्ये स्पर्शस्यैवोपलम्भान्यथानुपपत्त्या ज्ञायते नियामकं कारणम्, नियमहेतुं बिना नियतस्य कार्यस्यानुपपत्तेः। तत्र स्पर्शोत्कर्षो नियामकः स्पर्शत्वं वा विषयगतम्। नचैतद् रूपादिषु सम्भवतीति स्पर्शत्वस्य तत्रासम्भवात्। रूपाद्युत्कर्षस्यापि त्वगिन्द्रियेण कार्याभावेनैवाभावप्रसिद्धेः। तथा च सूत्रकारेणाप्युक्तम् "रूपादिषु स्पार्शनं ज्ञानमिति कस्मान्न भवतीति तदभावात्" (वै. सू.?) स्पर्शत्वसामान्यस्याभावात्, यत्रैव स्पर्शत्वसामान्यं तत्रैव स्पार्शनं ज्ञानमिति। व्यतिरेको लभ्यत एव। स्पर्शत्वाभावस्तु त्वग्‌ग्राह्यत्वाभावस्य ज्ञापको न कारक इति। न च विशिष्टसन्निकर्षव्यतिरेकेणान्या योग्यता सम्भाव्यते, अन्वयव्यतिरेकाभ्यां तस्यैव व्यापारोपलब्धेरित्यलम्।
*रूपानुविधायी* इति साहचर्यं दर्शयति। रूपमनुविदधाति तच्छीलश्चेति तदनुविधायी। यत्र रूपं तत्रावश्यं स्पर्शइति। एवं रसगन्धानुविधायित्वमपीति। *शीतोष्णानुष्णाशीतभेदात् त्रिविधः* इति विभागकथनम्। *अस्यापि नित्यानित्यत्वनिष्पत्तयः पूर्ववत्* इति। सलिलादिपरमाणुषु नित्यः पार्थिवेष्वग्निसंयोगविरोधी। कार्येषु कारणगुणपूर्वकस्तद्‌विनाशाद् विनश्यतीत्यतिदेशार्थः।
रूपादीनां पाकजोत्पत्तिप्रकारः
पार्थिवपरमाणुरूपादोनां पाकजोत्पत्तिविधानम्।
अथेदानीं *पार्थिवपरमाणुरूपादीनाम्* इति परीक्षाशेषनिवर्तनाप्रकरणम्। तथा हि रूपादीनां पूर्वमुद्देशलक्षणाभिधानेऽपि (स्पर्शो?) न परीक्षितः, प्रतिज्ञातञ्च तदतः परीक्षार्थमिदमारभ्यते। पृथिव्या इमे पार्थिवाः।
ननु चात्र भेदानुपपत्तेः कथं षष्ठी, तद्धितप्रत्ययश्चेति। तयोर्भेदे सत्युपलम्भात्? न। कार्यरूपायाः पृथिव्याः पृथिव्या विवक्षितत्वात्, तज्जनकाश्च परमाणवस्ततो भिन्ना एवेति पार्थिवा इत्युच्यन्ते। जातिर्वा पृथिवीशब्देन विवक्षिता, तस्या इमे तत्सम्बन्धिनः पाथिंवाः। ते च ते परमाणवश्च तेषां रूपादय इति। आदिपदेन रसगन्धस्पर्शा एव गृह्यन्ते, न संख्यादयः, तत्परीक्षाशेषपरत्वेनैव सम्बन्धात्।
अतस्तेषां *पाकजोत्पत्तिविधानम्* प्रकार इति। अथ पाकाज्जाताः पाकजा इत्युत्पत्त्यर्थस्य जनिना प्रतिपादितत्वाद् व्यर्थमुत्पत्तिग्रहणम्? न। उत्तरपदेन सम्बन्धात्। तथाहि, पाकजानामुत्पत्तिरेव विधीयतेऽनेनेति विधानं प्रमाणमुपेयम्। पूर्वगुणविलक्षणानां रूपादीनामुत्पत्तिः कार्ये सैव प्रमाणमिति वक्ष्यामः।
यद्वा पच्यतेऽनेनेति पाकस्तेजोद्रव्यम्, पञ्चत इति वा पाकः पार्थिवपरमाणवश्चेति पाकौ ताभ्यां जातः पाकजः, पार्थिवपरमाण्वग्निसयोगस्तस्मादुत्पत्तिः पार्थिवपरमाणुरूपादीनां श्यामादिविनाश्चेत्युत्तरवाक्यसामर्थ्यात्।
अन्ये तु श्यामादिविनाशोऽध्याहारेण लभ्यत इति मन्यमानाः पच्यतेऽनेनेति पाकोऽग्निसंयोगः, तस्माज्जातः पाकजः, श्यामादिविनाशः। तत एव पाकादुत्पत्तिर्विशिष्टरूपादीनामिति कष्टव्याख्यानं कुर्वते। तच्चासत्। अध्याहारादेर्दूषणस्यापरिहारात्।
न चाभिव्यक्तिनिवृत्त्यर्थमुत्पत्तिग्रहणमिति वाच्यम्, परमतस्याप्रसिद्धत्वात्।
तत्र प्रथमं कार्यद्रव्यविनाशप्रकारः
घटादेरामद्रव्यस्याग्निना सम्बद्धस्याग्न्यभिघातान्नोदनाद्वा तदारम्भकेष्वणुषु कर्माण्युत्पद्यन्ते। तेभ्यो विभागाः; विभागेभ्यः संयोगविनाशाः, संयोगविनाशेभ्यश्च कार्यद्रव्यं विनश्यति।
अथ केन प्रकारेण पाकजा जायन्त इत्युपदर्शयति *घटादेरामद्रव्यस्य* इत्यादिना। घटादेरित्यादिपदेन शरीरादेरप्यवरोधः। तत्र हि पाकजोत्पत्तिपरिज्ञानात् तदासक्तिनिवृत्तौ विरक्तस्य श्रेयः सम्पद्यत इति। आमद्रव्यस्येति पक्वव्यवच्छेदार्थम्।
यद्यपि पार्थिवपरमाणुष्वहेतुकस्य रूपादेरसम्भवात् तेऽपि पाकादुत्पन्नास्तथापि विशिष्टरूपापेक्षया श्यामादय इत्युच्यन्ते। तदाश्रयस्यामद्रव्यस्य ये आरम्भकाः पारम्पर्येण परमाणवस्तेषु कर्माण्युत्पद्यन्ते। कुतः? *अग्न्यभिघातान्नोदनाद् वा*।
अभिघातस्तु वेगापेक्षः परस्परविभागहेतोरेकस्य कर्मणः कारणम्। नोदनन्तु अविभागहेतोरनेकस्येति वक्ष्यामः कर्माधिकारे।
अन्ये तु घटस्यादिर्द्व्यणुकं तदारम्भकाः परमाणवः साक्षादिति मन्यन्ते।
तत्र कर्मोत्पत्त्वाणवः समवायिकारणं तत्संयोगोऽसमवायिकारणं वेगादि निमित्तकारणमिति। तेभ्यो विभागास्ते तु द्रव्यारम्भकसंयोगप्रतिद्वन्द्विनः। तत्राप्यसमवायिकारणं कर्म, परमाण्वोः समवायित्वं शेषं निमित्तकारणमिति। *विभागेभ्यः संयोगविनाशाः*। तेषां समवाय्यादिकारणानुपलब्धेर्निमित्तादेवोत्पत्तिः। न ह्यभावः समवेतः क्वचिदुत्पद्यमानो दृष्टः।
अत एवासमवायिकारणं नास्ति, एकार्थसमवायाभावात्। निमित्तकारणन्तु अन्वयव्यतिरेकाभ्यां व्याप्रियमाणं तदुत्पत्तावुपलब्धम्।संयोगविनाशेभ्यः कार्यद्रव्यं द्व्यणुकलक्षणं विनश्यतीति। जात्यपेक्षयैकवचनम्।
परमाणुषु पूर्वरूपनाशानन्तरं पाकजरूपाद्युत्पत्तिः
तस्मिन् विनष्टे स्वतन्त्रेषु परमाणुष्वग्निसंयोगाद् औष्ण्यापेक्षात् श्यामादीनां विनाशः, पुनरन्यस्मादग्निसंयोगाद् औष्ण्यापेक्षात् पाकजा जायन्ते।
घटतद्रूपादीनामुत्पत्तिः
तदनन्तरं भोगिनामदृष्टापेक्षादात्माणुसंयोगादुत्पन्नपाकजेषु कर्मोत्पत्तौ तेषां परस्परसंयोगाद् द्व्यणुकादिक्रमेण कार्यद्रव्यमुत्पद्यते। तत्र च कारणगुणप्रक्रमेण रूपाद्युत्पत्तिः।
तस्मिन् विनष्टे परमाणुष्वन्यस्मादग्निसंयोगात् श्यामादीनां निवृत्तिः। *पुनरन्यस्मादग्निसंयोगाद् औष्ण्यापेक्ष्यात् पाकजा जायन्ते* तत्र परमाणुः समवायिकारणम्, अग्निसंयोगोऽसमवायिकारणम्, उष्णस्पर्शो निमित्तकारणमिति।
*तदनन्तरम्* रक्ताद्युत्पत्तिक्षणानन्तरम्। उत्पन्नपाकजेष्वणुषु समवेतानि कार्याणि उत्पद्यन्ते। असमवायिकारणमाह *आत्माणुसंयोगात्* अदृष्टापेक्षात्। अदृष्टञ्च केषामित्याह *भोगिनाम्* इति।
कर्मोत्पत्तौ सत्यामनन्तरं विभागाः, तेभ्यः संयोगविनाशाः, ततः परमाणूनां परस्परेण संयोगाद् द्व्यणुकान्युत्पद्यन्ते। तत्र परमाण्वोः समवायित्वम्, तत्संयोगस्यासमवायिकारणत्वम्, शेषं निमित्तमिति, तदादिक्रमेण कार्यमुत्पद्यत इति। त्रिभिर्द्व्याणुकैस्त्र्यणुकमारभ्यते। त्र्यणुकैश्चानियमेन स्वकार्यमिति तावद् यावद् घटः। सर्वत्र कारणगुणपूर्वप्रक्रमेण रूपाद्युत्पत्तिरिति।
ननु सर्वमेतदसम्बद्धम्, एतस्मिन् क्रमे प्रमाणाभावात्। तथाहि,
(1) परमाणौ क्रियायाः सद्‌भावे प्रमाणाभावात् तत्कार्यस्यासिद्धौ तद्द्व्यणुकस्य विनाशे[न] प्रमाणमस्ति।
(2) अग्निसंयोगस्य नानात्वे, द्रव्यविनाशे, श्यामादिनिवृत्तौ, रक्ताद्युत्पत्तो, उत्पन्नपाकजेषु क्रियाक्रमेण तद्द्व्यणुकस्यैवोत्पत्तिरिति सर्वं प्रमाणशून्यमेव।
(3) बाधकोपपत्तेश्च। तथा ह्यापाकनिक्षिप्तेषु घटादिषु कुलालस्य छिद्रप्रदेशेन निरीक्षमाणस्याक्षजं विज्ञानम् `घटः पच्यते' इति। न चेदं संशयविपर्ययस्वरूपम्, तल्लक्षणालक्षितत्वात्, बाधकानुपपत्तेश्च।
(4) तथा पाकोत्तरकालं `स एवायं घटः' इत्यबाध्यमानस्य प्रत्यभिज्ञानस्योपलब्धेः।
(5) अवस्थानम्। उपरिस्थापितानाञ्च तृणकर्परादीनामपाताच्चावस्थायित्वम्। यदि हि परमाणवः पच्येरन् ऊर्ध्वस्थापितानां कर्परादीनाम् पातः स्यात्, परमाणूनाञ्च धारणसामर्थ्याभावात्।
(6) तद्देशत्वतत्परिमाणत्वतत्संख्यात्वोपलब्धेश्च। यदि चोत्पन्नपाकजाः परमाणवो द्व्यणुकादिप्रक्रमेण घटादिकमारभेरन् तद्देशं, तावत् परिमाणम्, तत्संख्या च न स्यात्, नियमहेतोरभावात्। दृष्टश्चायं नियमस्तस्मिन्नेव देशे, तावत्परिमाणम्, तत्संख्या च। एवं घटादीनामवस्थायित्वम्।
(7) न च घटादेर्विनाशे कर्त्रादिभिर्विना पुनरूत्पत्तिर्युक्ता। अथेश्वरादेः सद्भावाद् युक्तमिति चेत्। तथा हीश्वरः कर्ता कारणम्, अदृष्टादिपरमाणवः कर्मेति। नैतद् युक्तम्। क्षित्यादिकार्येष्विवास्मदादिसम्बन्धादितः कार्यानपेक्षस्य टादिसम्पादनेऽपि सामर्थ्यानिवृत्तेः कुलालव्यापारवैयर्थ्यमेव स्यात्।
(8) आवरणाभावश्च। तथाहि, वेगादग्निसम्बन्धादवयवक्रियाक्रमेण घटादेर्विनाशस्तथावेगाच्च चक्षुःसम्बन्धात् काचाभ्रस्फटिकादेः क्रियाक्रमेण विनाशे तद्व्यवहितेन सम्बद्धस्य चक्षुषः प्रकाशकत्वमित्यावरणाभावः स्यात्। अथ स्वच्छतया स्फटिकादिद्रव्यमिन्द्रियव्यवधायकं न भवतीत्युपपन्नमेवावृतस्यापि ग्रहणम्। तर्हि घटादिद्रव्यमपि तथास्वभावतया तेजोद्रव्यव्यवधायकं न भवतीत्यणुप्रवेशादन्तर्देशेऽप्युपपद्यत एव पाकः। अन्यथा ह्यावृतानावृतयोस्तुल्योपलब्धिः स्यात्, आवरणाभावस्योभयत्राविशेषात्।
(9) यदि चाणुप्रवेशाद् द्रव्यस्य विनाशस्तर्हि बहिर्देशे शीतस्पर्शोपलम्भान्यथानुपपत्त्या उदकस्य निःसरणाद् आधारस्य विनाशे तत्पातः स्यात्। अथ सच्छिद्रद्रव्यमित्युदकस्य निःसरणम्, तर्हि तन्मार्गेणैव तेजोऽणुप्रवेशाद् अन्तर्देशे पाकः सम्पद्यत इति किं तद्‌विनाशेनेत्यलम्।
सर्वमेतदबाधकमनैकान्तिकत्वात्। तथा ह्युदकपरिपूर्णे घटे वेगवत् सूचीद्रव्यसम्बन्धादवश्यं कण्ठप्रदेशे क्रिया। सा चोत्पन्ना द्रव्यारम्भकसंयोगप्रतिद्वन्द्विनं विभागमारभत इति प्रत्यक्षसिद्धम्। तस्मात् संयोगविनाशे तदारब्धस्यद्रव्यस्य निवृत्तिः, तस्यापि द्रव्यान्तरारम्भकत्वात् तन्निवृत्तौ तदारब्धनिवृत्तिरिति विनाशकारणसान्निध्याद् घटस्य विनाशः। अन्यथा हि विनाशकारणसान्निध्येऽप्यविनाशे कार्यस्य नित्यत्वमेव स्यात्। उपलभ्यते तु घट इति अवस्थितसंयोगैर्द्रव्यान्तरारम्भो निश्चीयते।
तत्र च प्रत्यक्षं `स एवायम्' इति प्रत्यभिज्ञानम् न व्यावृत्तम्। उपरिस्थापितद्रव्यस्य पातः, तद्देशत्वम्, तत्संख्यात्वम्, तत्परिमाणत्वम्, प्रत्यक्षेण च कर्त्रादेरनुपलब्धिस्तत्रास्तीत्यनेकान्तादसाधनम्। न च धटस्य विनाशेऽप्युदकस्यानाशितत्वं पातो वा दृश्यत इति(?)।
परमाणुष्वेव रूपादीनामुत्पत्तिः
न च कार्यद्रव्ये रूपादिविनाश उत्पत्तिर्वा सम्भवति, सर्वावयवेष्वन्तर्बहिश्च वर्तमानस्याग्निना व्याप्त्यभावात्। अणुप्रवेशादपि व्याप्तिर्न सम्भवति कार्यद्रव्यविनाशादिति।
अथ परमाणुषु पाकजा जायन्त इति किमत्रास्मदादीनां प्रमाणम्? घटादिषु पूर्वगुणविलक्षणस्य गुणान्तरस्योत्पाद इति। स च घटादिषु वर्तमानः कथं परमाणुषु पाकजा जायन्त इति गमयेत्, तत्राग्निसंयोगेन तथानुपपत्तेः? तदेवाह *अन च कार्यद्रव्ये रूपादिविनाश उत्पत्तिर्वा सम्भवति*। कस्मात्? *सर्वावयवेष्वन्तर्बहिश्च वर्तमानस्याग्निना व्याप्त्यभावात्*। तथाहि, अवयवी सर्वावयवेषु अन्तर्बहिश्च वर्तते। न चान्तर्देशेऽग्नेरनुप्रवेशोऽस्तीति व्याप्त्या सम्बन्धाभावाद् अपाकप्रसङ्गः।
अथ सूक्ष्मस्य तेजसोऽनुप्रवेशाद् अन्तर्देशे पाकः सम्पद्यत इत्याह *अणुप्रवेशादपि व्याप्तिर्न सम्भवति*। कस्मात्? *कार्यद्रव्यविनाशादिति*। तथाहि, वेगवद्द्रव्यसम्बन्धस्य अन्यत्र क्रियाहेतुत्वेनोपलम्भाद् इहाप्यवयवे क्रियाजनकत्वम्। सा चावयवान्तरेण विभागं द्रव्यारम्भकसंयोगप्रतिद्वन्द्विनमारभते। तस्मात् संयोगनिवृत्तौ तदारब्धस्य कार्यद्रव्यस्य विनाशे तदारब्धस्यापि निवृत्तिरितिक्रमेण घटस्याप्यवश्यं विनाशः।
अथ घटावयवाः पत्र्यन्ते? तत्राप्यन्तर्देशे पाको न स्यादिति तेजोऽणुप्रवेशेन विनाशः। तदेवमुत्तरोत्तरावयवेषु अग्न्यणुप्रवेशात् तद्‌विनाशे स्वतन्त्राः परमाणवः पच्यन्ते।
न च कार्यद्रव्ये पूर्वरूपादीनामवस्थाने रक्ताद्युत्पत्तिः स्यात्, गुणवति गुणान्तरप्रतिषेधात्। अतो रक्ताद्‌युत्पत्त्यन्यथानुपपत्त्या ज्ञायते पूर्वरूपादिनिवृत्तिः। सा चाश्रयविनाशादेव कार्यद्रव्ये। तथा च सूत्रम् "रूपरसगन्घस्पर्शा द्रव्यानित्यत्वादनित्याः" (वै. सू. ?) इत्याश्रयविनाशेन विनाशोऽभिहितः। "कार्यद्रव्येऽग्निसंयोगाच्च" (वै. सू. ?) "एतेन नित्येष्वनित्यत्वं व्याख्यातम्" (वै. सू.?) इत्यग्निसंयोगस्य नित्येष्वेव रूपादिनिवर्तकत्वमुक्तम्। अतः कार्यद्रव्ये गुणान्तरप्रादुर्भावात् पूर्वरूपादिनिवृत्तिर्ज्ञायते। सा चाश्रयविनाशादेव, अग्निसंयोगस्य नित्यविषयत्वेन नियमात्।
एवं कपालानामप्यवस्थाने पूर्वरूपाद्यनिवृत्तौ रक्ताद्युत्पत्तिर्न स्यात्। अतः कार्येऽपि कारणरूपानुविधायितया श्यामादिकमुत्पद्यते। तदेवं तत्कारणकारणेष्वपि पूर्वगुणविलक्षणस्प्र गुणान्तरस्योत्पत्तिर्वाच्या। अन्यथा हि तत्कार्येष्वपि न स्यात्।
सा चोत्पत्तिः पूर्वरूपादीनामवस्थाने न घटते, रूपवति रूपान्तरारम्भप्रतिषेधादिति पूर्वरूपादिनिवृत्तिर्वाच्या। सा चाश्रयविनाशादेवेति सकलस्यापि कार्यद्रव्यस्यापि विनाशः।
न च परमाणुष्वपि पूर्वरूपादीनामवस्थाने रक्ताद्युत्पत्तिः स्यात्। तदभावात् द्व्यणुकस्यापि कारणगुणपूर्वक्रमेण श्यामादिकमेवोत्पद्यत इति विलक्षणरूपाद्यसम्भव एव। दृष्टश्च कार्ये गुणान्तरप्रादुर्भावस्तेन परमाणुषु रूपादिनिवृत्तौ रक्ताद्युत्पत्तिरिति। न च तत्राश्रयस्य विनाशः सम्भवतीत्यग्निसंयोगस्यैव निवर्तकत्वम्, कारणान्तरस्यासम्भवात् तस्यैवोत्पादकत्वमिति।
यदपीदं `सच्छिद्रद्रव्यम्' इत्युक्तं तत्र यदि कपालरन्ध्रापेक्षया? तस्यान्तर्देशे पाको न स्यात्। अथ तदवयवरन्ध्रापेक्षया? तस्यान्तर्देशे पाकाभावः। तदेवमुत्तरोत्तरावयवेष्वपि वाच्यं तावद् यावद् द्व्यणुकम्।
अथ तस्यान्तर्देशाभावात् पाको भविष्यतीति? न तस्यापि वेगवदग्निसम्बन्धेन अवश्यं विनाशोपपत्तेः। श्यामादिविनाशश्च विना रक्ताद्युत्पत्तिर्न स्यात्। तद्‌विनाशश्चाश्रयविनाशादेवेत्युक्तपूर्वम्। स च संयोगविनाशात्, सोऽपि विभागात्, विभागश्च क्रियात इति गुणान्तरप्रादुर्भाव एव क्रियादिक्रमास्तित्वे प्रभाणमिति।
अत्र तु प्रयोगः पार्थिवपरमाणुरूपादयः, संयोगजाः, विभागजविभागशब्दजशब्दान्यत्वानित्यत्वे सति नित्यस्य विशेषगुणत्वात्, सुखादिवत्। विभागजविभागशब्दजशब्देन व्यभिचारपरिहारार्थं तदन्यत्वे सतीति। सलिलादिपरमाणुरूपादिव्यवच्छेदार्थञ्च अनित्यपदम्। सामान्यगुणव्यवच्छेदार्थं विशेपगुणग्रहणम्। अनित्यव्यवच्छेदश्च नित्यपदेनेति।
अन्ये तु घटादिगता रूपादयः, पारम्पर्येणाग्निसंयोगजाः, साक्षाद् घटमानत्वे सति अग्निसंयोगतद्भावभावित्वेनोत्पद्यमानत्वात्, श्रूयमाणाग्निशब्दवत्(?) इत्यनुमानं ब्रुवते। न चासिद्धं विशेषणमुक्तन्यायात्।
यच्चेदं अग्निसंयोगस्य नानात्वे प्रमाणाभाव इति। एतदसत्। तस्यैव कार्यभेदेन नानात्वोपचारात्। यदा श्यामादिनिवर्तिका वह्नौ क्रियोत्पन्ना तदा प्राक्तनाकाशादिदेशेन विभागमारभते, तदैव तदवयवे रक्ताद्युत्पादके च वह्नौ कर्मेत्येकः कालः (1), ततो विभागात् संयोगविनाशोऽवयवकर्मणा च अवयवान्तराद् विभागः क्रियते, रक्ताद्युत्पादकाग्निकर्मणा च आकाशादिदेशेनेत्येकः कालः (2), ततः श्यामादिनिवर्तकस्याग्नेः परमाणुना संयोगः, श्यामादीनां विनश्यत्ता, अवयवविभागाच्च द्रव्यारम्भकसंयोगविनाशः, श्यामाद्युच्छेदकस्याग्नेर्विनश्यत्ता, रक्ताद्युत्पादकस्याग्नेः प्राक्तनसंयोगविनाशः परमाणुना च र्सयोगस्योत्पद्यमानतेत्येकः कालः (3), ततः श्यामादीनां विनाशस्तदुच्छेदकस्याग्नेर्विनाशः (कर्म?) संयोगस्य विनश्यत्ता, रक्तादिजनकस्याग्निसंयोगस्योत्पादो, रक्तादीनामुत्पद्यमानतेत्येकः कालः (4), ततो रक्तादीनामुत्पादः श्यामादिनिवर्तकाग्निसंयोगस्य विनाश (5) इति अग्निसंयोगस्य नानात्वम्। न च श्यामाद्युच्छेदकाग्निसंयोगस्य विनश्यदवस्थत्वाद् रूपाद्युत्पत्तावसमवायिकारणत्वमिति।
अन्ये तु श्यामादिनिवर्तकस्याग्नेः कर्मसमकालं तदवयवेऽपि कर्मसञ्चिन्तनात् श्यामादिनिवृत्तिसमकालमेव तत्संयोगस्य विनाश इति ब्रुवते।
अथोत्पन्नपाकजेषु क्रियाक्रमस्य सद्भावे किं प्रमाणम्? कार्यद्रव्यस्योत्पत्तिरेव। अन्यथा हि क्रियामन्तरेण परस्परमप्राप्तानां द्रव्यारम्भकत्वं न स्यात्।
अथ परमाणूनां द्‌व्यणुकारम्भकत्वेमेवेति प्रमाणाभावः? तन्न, एकत्व[मितर? वत्] बहुत्वपक्षे बाधकसद्भावात् द्वित्वसंख्योपेतानामेवारम्भकत्वप्रसिद्धेः। तथाहि, बहूनामारम्भकत्वे शतादिसंख्योपेतानामप्यारम्भकत्वमेव स्यात्। एवञ्च सति घटादिकार्यं परमाणुभिरारब्धमिति चेत्। भङ्गेऽवान्तरकार्यस्यानुत्पन्नत्वादुपलम्भो न स्यात्। उपलभ्यते तु घटस्य विनाशे तदवयवा इति, तदवयवेऽपि तदवयवा इति द्व्यणुकादिक्रमेणारम्भो निश्चीयते।
अथ "द्रव्याणि द्रव्यान्तरमारभन्ते" (वै. सू. 1।1।10) "संयोगानां द्रव्यम्" (वै. सू. 1।1।27) इति च सूत्रव्याघातः? न। द्विवचनबहुवचनाभ्यां विग्रहाश्रयत्वात्। तथाहि, द्रव्ये च द्रव्याणीत्येकशेषः। कार्यद्रव्यापेक्षया तु बहुवचनम्। बहूनि कार्यद्रव्याण्येव द्रव्यमारभन्ते। द्वित्वसंख्योपेतान्येव च नित्यानि, न तु नित्यान्येव, कार्यद्रव्येऽपि सद्भावात्।
न चैकस्य क्रमयौगपद्याभ्यामारम्भकत्वम्, एकस्वभावत्वात्। तथा ह्येकः परमाणुर्न क्रमेण कार्यं करोति, समर्थस्य क्षेपायोगात्, युगपत् कृत्वा पुनरकरणे हेत्वभावः।
न च समानपरिमाणतायां कार्यकारणभावो दृष्टः, क्षणभङ्गप्रतिषेधात्, कारणविभागाभावादविनाशित्वं कार्यद्रव्यस्य च प्रसज्यते।
तथा संयोगश्च संयोगौ च संयोगाश्चेति संयोगाः। तेषां द्रव्यं कार्यमिति नित्यापेक्षया संयोगस्यैव कार्यद्रव्ये चानियम इत्यविरोधः।
तदेवं द्वित्वसंख्योपेताः परमाणवः कार्यद्रव्यमारभन्ते, एकत्वबहुत्वपक्षे बाधकप्रमाणसद्भावे सत्यारम्भकत्वात्। द्वित्वन्तु द्व्यणुकारम्भकः, तन्तु द्वितयवत्। न हि बहुभिस्तन्तुभिर्द्वितन्तुकमारभ्यते, नाप्येकेनेति सविशेषणस्य हेतोरसद्‌भावः।
अथ द्व्यणुकानि द्वित्वादिसंख्योपेतानि अनियमेन किमिति कार्य नारभन्ते? बाधकोपपत्तेः। तथा हि द्वयोर्द्व्यणुकयोरारम्भकत्वेऽणुपरिमाणोत्पत्तावेव कारणत्वमस्तीति व्यर्थारम्भप्रसङ्गः।
न च द्व्यणुकद्वयस्य कारणपरमाण्वपेक्षया बहुत्वं सम्भवतीति वाच्यम्। (कारणं?) न, कारणावृत्तिबहुत्वस्य परिमाणोत्पत्तावकारणत्वात्। कारणवृत्ति च बहुत्वं महत्त्वोत्पत्तौ कारणमिति दृष्टम्। अन्यथा हि द्व्यणुकेऽपि महत्त्वं स्यात् अकारणापेक्षितया बहुत्वस्य तत्रापि सम्भवात्। तथा (द्व्यणुक ?) द्व्यणुकस्यापि बहुत्वसंख्योपेतस्यैव महदारम्भकत्वमिति। परं द्व्यणुकस्यैतत् कल्पनीयमिति। एकस्य चारम्भकत्वं प्रतिषिद्धम्।
अथ चतुष्ट्वादिसंख्योपेतानामनियमेनारम्भकत्वमिति नेष्यते, साक्षाद्‌घटाद्यारम्भकत्वप्रसङ्गात्। तद्भङ्गे च अवान्तरकार्यस्यानुपलब्धिरेवानुत्पन्नत्वात्। न च बहुत्वं बिना महत्त्वं सम्भाव्यत इति त्रित्वसंख्योपेतानामेवारम्भकत्वम्। तथाहि, द्‌व्यणुकानि, त्रित्वसंख्योपेतान्येव द्रव्यमारभन्ते, द्वित्वचतुष्ट्वादिपक्षे बाधकप्रमाणसद्भावे सति आरम्भकत्वात्, त्रितन्तुकारम्भे तन्तुत्रितयवत्।
अत्र तु कियता कालेन द्व्यणुके रूपाद्युत्पत्तिरिति क्रिया निरूप्यते।
(1) तत्र स्वकारणाद् द्व्यणुकस्य विनाशः, तत्कार्यस्य विनश्यत्ता, श्यामाद्युच्छेदकाग्निसंयोगस्योत्पादः, श्यामादीनां विनश्यत्ता, रक्ताद्युत्पादकाग्निसंयोगस्योत्पद्यमानता, विभागजविभागस्योत्पादः, परमाण्वोराकाशादिदेशेन संयोगस्य विनश्यत्तेत्येषामेकः कालः।
(2) ततस्त्र्यणुकस्य विनाशः, तत्कार्यस्य विनश्यत्ता, श्यामादीनां विनाशः, श्यामाद्युच्छेदकाग्निसंयोगस्य विनश्यत्ता, रक्ताद्युत्पादकाग्निसंयोगस्योत्पादः, रक्तादीनामुत्पद्यमानता, आकासद्व्यणुकसंयोगस्य विनाशः, उत्तरसंयोगस्योत्पद्यमानतेत्येषामेकः कालः।
(3) ततस्तत्कार्यस्य विनाशात् तत्कार्यस्य विनश्यत्ता, श्यामादीनां विनाशः, श्यामाद्युच्छेदकाग्निसंयोगस्य विनश्यत्ता, रक्ताद्युत्पादकाग्निसंयोगस्योत्पादः, रक्तादीनामुत्पद्यमानता, आकाशद्व्यणुकसंयोगस्य विनाशः, उत्तरसंयोगस्योत्पद्यमानतेत्येषामेकः कालः।
(4) ततस्तत्कार्यविनाशः, तत्कार्यस्य विनाश्यत्ता, विभागविभागजविभागकर्मणां विनाशः, रक्ताद्युत्पादकाग्निसंयोगस्य विनाशः, क्रियाया उत्पादः, विभागस्योत्पद्यमानतेत्येषामेकः कालः।
(5) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, विभागस्योत्पादः, संयोगस्य विनश्यत्तेत्येषामेकः कालः।
(6) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, संयोगस्य विनाशः, उत्तरसंयोगस्योत्पद्यमानतेत्येकः कालः।
(7) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, उत्तरसंयोगस्योत्पादः, द्व्यणुकस्योत्पद्यमानता, विभागकर्मणोर्विनश्यत्त्येत्येषामेकः कालः।
(8) ततस्तत्कार्यस्य विनाशात् तत्कार्यस्य विनश्यत्ता, द्व्यणुकस्योत्पादः, रूपादीनामुत्पद्यमानता, विभागकर्मणोर्विनाश इत्येषामेकः कालः।
(9) तत उत्पन्ने द्व्यणुके कारणगुणपूर्वप्रक्रमेण नवमे क्षणे रूपाद्युत्पत्तिरिति।
यदा तु कार्यविनाशविशिष्टं [कालम्] अपेक्ष्येत्यस्य द्रव्यनाशविशिष्टं [कालम्] अपेक्ष्य कारणयोर्वर्तमानो विभागः कार्यसंयुक्ताकाशदेशेन विभागमारभत इति व्याख्यातम्, तदा श्यामादिनिवृत्तिसमकालं विभागजविभागसञ्चिन्तनात् दशमे क्षणे द्व्यणुके रूपाद्युत्पत्तिरिति चिन्तनीयम्।
तथा च द्व्यणुकविनाशे श्यामादिनिवृत्तिः, ततो रक्ताद्युत्पत्तिः, उत्तरसंयोगः, क्रियाविभागसंयोगविनाशः, परमाणूनाञ्च संयोगाद् द्व्यणुकोत्पत्तौ कारणगुणपूर्वप्रक्रमेण रूपाद्युत्पत्तिरिति। शेषं पूर्ववदिति। इदमेकस्मिन् परमाणौ द्रव्योत्पादिका[तद्‌विनाशिकेति च] क्रियाद्वयमधिकृत्योक्तम्।
यदा त्वेकस्मिन् परमाणौ द्रव्यविनाशिकान्यस्मिंश्च द्रव्योत्पादिकेष्यते तदा कथम्?
(1) तत्र द्रव्यारम्भकसंयोगविनाशसमकालं द्वितीयपरमाणौ द्रव्यारम्भकं कर्म, ततो द्रव्यारम्भकसंयोगविनाशाद् द्व्यणुकस्य विनाशः, तत्कार्यस्य विनश्यत्ता, श्यामाद्युच्छेदकाग्निसंयोगस्योत्पादः, श्यामादीनामुच्छिद्यमानता, रक्ताद्युत्पादकाग्निसंयोगस्योत्पद्यमानता, विभागजविभागस्योत्पादः, परमाणोराकाशादिदेशेन संयोगस्य विनश्यत्ता, द्वितीयपरमाणौ विभागस्योत्पादः [प्राक्तनसंयोगस्य] विनश्यत्तेत्येषामेकः कालः।
(2) ततस्त्र्यणुकस्य विनाशः, तत्कार्यस्य विनश्यत्ता, श्यामादीनां विनाशः, तदुच्छेदकाग्निसंयोगस्य विनश्यत्ता, रक्ताद्युत्पादकाग्निसंयोगस्योत्पादः, रक्तादीनामुत्पद्यमानता, आकाशद्व्यणुकसंयोगस्य विनाशः, तस्य परमाणोराकाशादिदेशेन संयोगस्योत्पद्यमानता, द्वितीयपरमाणौ प्राक्तनसंयोगविनाशः, परमाणुना च संयोगस्योत्पद्यमानतेत्येषामेकः कालः।
(3) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, श्यामाद्युच्छेदकाग्निसंयोगस्य विनाशः, रक्तादीनामुत्पादः, परमाणोराकाशादिदेशेन संयोगस्योत्पादः, विभागजविभागकर्मणोर्विनश्यत्ता, द्वितीयस्य परमाणोः परमाण्वन्तरेण संयोगस्योत्पादः, तद्‌विभागकर्मणोर्विनश्यत्ता, द्व्यणुकस्योत्पद्यमानतेत्येषामेकः कालः।
(4) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, विभागजविभागकर्णां विनाशः, द्वितीयपरमाणावपि विभागकर्मणोर्विनाशः, द्व्यणुकस्योत्पादः, रक्तादीनामुत्पद्यमानतेत्येषामेकः कालः।
(5) ततो द्व्यणुकोत्पत्त्यनन्तरं पञ्चमे क्षणे कारणगुणपूर्वप्रक्रमेण रूपाद्युत्पत्तिरिति।
तथा द्व्यणुकविनाशसमकालं द्वितीयपरमाणौ कर्मसञ्चिन्तनात् षट्‌क्षणा पाकजोत्पत्तिः। तथा श्यामादिनिवृत्तिसमकालं कर्मचिन्तायां सप्तक्षणा। रक्ताद्युत्पत्तिसमकालं [कर्मचिन्तनात्] अष्टक्षणा। तदनन्तरञ्च[कर्मचिन्तायां] नवक्षणा इत्यादि चिन्त्यम्।
तत्रादौ द्व्यणुकानि पक्वापक्वैरपि परमाणुभिरारभ्यन्त इति पक्वापक्वान्युत्पद्यन्ते। ततस्तैस्त्र्यणुकमित्यादिप्रक्रमेण घटस्य पक्वापक्वस्योत्पादः।
ततः पुनरनुत्पन्नपाकजेषु क्रियादिक्रमेण द्रव्यविनाशे स्वतन्त्रेषु परमाणुषु रक्ताद्युत्पत्तिः। ततः पुनः क्रियाक्रमेण उत्तरसंयोगोत्पत्तौ द्व्यणुकान्युत्पद्यन्ते। तत्र च कारणगुणपूर्वप्रक्रमेण पक्वेष्वेव रूपाद्युत्पद्यते। तैस्त्र्यणुकं पक्वमेवारभ्यते। पुनर्द्व्यणुकान्तरेष्वप्येवमेव क्रमेण रूपाद्युत्पत्तिः, ततस्त्र्यणुकादेरिति वाच्यम्, यावद् घटे विशिष्टरूपाद्युत्पत्तिरिति।
न्वग्निसम्बन्धस्यापि शेषाद् अनुत्पन्नपाकजेष्विव परमाणुषूत्पन्नपाकजेष्वपि क्रिया किमिति नेष्यते? घटादेरनुत्पत्तिप्रसङ्गात्। यदि च परमाणुषूत्पन्नपाकजेषु आरब्धकार्येषु क्रिया स्यात्, प्रतिक्षणमुत्पत्त्यनन्तरं द्‌व्यणुकादिविनाशे घटादेरुत्पत्तिर्न स्यात्।
अथ सर्वेषां परमाणूनां पाके सति द्व्यणुकादिकप्रक्रमेण घटाद्युत्पद्यत इति मनुषे, तदसत्। उपरि स्थापितानां कर्परादीनां पातप्रसङ्गात्, परमाणूनां धारणसामर्थ्याभावात्। न चैतदस्ति। तस्मात् कार्योत्पत्त्यन्यथानुपपत्त्या ज्ञायते, अनुत्पन्नपाकजेष्वेव क्रियोत्पद्यते नोत्पन्नपाकजेषु, उपभोगप्रापकादृष्टस्य नियामकत्वादित्यलमतिविस्तरेण।
अथ द्व्यणुकत्र्यणुकादीनां पक्वापक्वानामुत्पादपूर्वं पुनः पक्वानामेवेति कल्पनायां किं प्रमाणम्? कार्यस्य तथादर्शनमेव। तथाहि, घटादिकार्यमादौ पक्वापक्वमुपलभ्यते, पुनः पक्वमेवेति कारणकारणेष्वप्यनुमेयः। अत्र च प्रयोगः, द्व्यणुकमादौ पक्वापक्वमुत्पद्यते, महतः पार्थिवद्रव्यस्यारम्भकत्वात्, कपालवत्। तथा च त्र्यणुकमादौ पक्वापक्वमुत्पद्यते, महतः(?) पार्थिवद्रव्यस्य कार्यत्वात्, घटवदिति।
न च युगपदशेषपरमाणुषु कर्मोत्पत्तिद्वारेण पाकजोत्पत्तिर्व्याख्येया, शीघ्रपाकानुपलब्धेः, उपरि स्थापितानाञ्च पातप्रसङ्गाच्चेति।
संख्यावैधर्म्यम्
सा पुनरेकद्रव्या चानेकद्रव्या च। तत्रैकद्रव्यायाः सलिलादिपरमाणुरूपादीनामिव नित्यानित्यत्वनिष्पत्तयः। अनेकद्रव्या तु द्वित्वादिका परार्धान्ता।
अथेदानीमुद्देशक्रमेणावसरप्राप्तायाः संख्याया लक्षणपरीक्षार्थम् *एकत्वादिव्यवहारहेतुः संख्या* इत्यादिप्रकरणम्। व्यवहृतिर्व्यवहारो ज्ञानम्, व्यवह्रियतेऽनेनेति व्यवहारोऽभिधानम् तयोर्हेतुः संख्येत्युच्यमाने सर्वेऽपि पदार्थास्तथाभवन्तीत्येकादिग्रहणम्। तथाप्येकादिरूपस्य व्यवहारहेतुत्वमाकाशात्मनोर्विद्यत इति विशेषणत्वे सतीति विशेषणमूह्यम्। तथाप्येकत्वादिसामान्यम् एवं भवतीति द्रव्यविशेषणत्वे सति इति पदम् [ऊह्यम्]। तथाहि, संख्या, इतरेभ्यो भिद्यते, द्रव्यविशेषणत्वे सत्येकादिव्यवहारहेतुत्वात्, यस्तु न भिद्यते न चासावेवम्, यथा रूपादिरिति। व्यवहारो वा साध्यः। तथाहि, संख्या, इतरेभ्यो भिद्यते, द्रव्यविशेषणत्वे सत्येकादिव्यवहारहेतुत्वात्, यस्तु न भिद्यते न चासावेवम्, यथा रूपादिरिति। व्यवहारो वा साध्यः।
तत्र संख्यायास्त्वाश्रयद्वारेण भेदनिरूपणार्थं लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धौ संशये सति तन्निरासार्थञ्च *सा पुनरेकद्रव्या चानेकद्रव्या च* इति वाक्यम्। एकमेव द्रव्यमाश्रयोऽस्या इत्येकद्रव्या। इत्येकद्रव्या। अनेकमेव [द्रव्यम्] (अत्रापि नश्यद्रूपायाः?) आश्रयोऽस्या इत्यनेकद्रव्या *तत्रैकद्रव्यायाः सलिलादिपरमाणुरूपादीनामिव नित्यानित्यत्वनिष्पत्तयः* इत्यतिदेशं करोति।
ननु चात्र नित्यत्वे साध्ये हेतुर्नास्ति, अनित्यत्वे तु दृष्टान्ताभाव इति न्यूनं वाक्यम्? न। व्यतिरेकमुखेन हेतोर्लाभात्, विग्रहभेदेन दृष्टान्तस्येति। तथाहि, निष्पद्यमानत्वाद् अनित्यत्वमित्युक्ते सामर्थ्याद् गम्यत एवानिष्पद्यमानत्वेन नित्यत्वमिति। दृष्टान्तोऽपि सलिलमादौ यस्यासौ सलिलादिस्तस्य परमाणवः, तद्रूपादीनामिव नित्यत्वम्। यथा हि, सलिलादिपरमाणुषु अनिष्पद्यमानत्वाद् रूपादयो नित्यास्तद्वद् एकत्वं नित्येष्वनिष्पद्यमानत्वेनैव नित्यमिति।
अनित्यायान्तु सलिलस्यादिपाठापेक्षया पृथिवी, तस्याः परमाणवस्तद्रू पाणामिवेति। दृष्टान्तस्तु यथा हि पार्थिवपरमाणुरूपादयो निष्पद्यमानत्वाद् अनित्यास्तद्वदेकत्वं कार्येषु निष्पद्यमानत्वादनित्यमिति।
न च पार्थिवपरमाणुरूपादीनामिव एकत्वादीनामग्निसंयोगादुत्पत्तिः, वैलक्षण्याप्रतिपत्तेः। स्पर्शे तु वैलक्षण्याप्रतिपत्तावप्यग्निसंयोगजत्वेऽनुमानमुक्तं पृथिव्यधिकारे। न च तत्सामान्यगुणेषु सम्भवतीति।
अन्ये तु सलिलञ्च तदादिपरमाणवश्चेति तच्छब्दलोपेन समासं कुर्वते। अनित्यत्वे सलिलरूपादि दृष्टान्तः, नित्यतायाञ्च तदादिपरमाणुरूपमित्यलम्।
अनेकद्रव्या तु, द्वित्वमेव आदिर्यस्याः सा, द्वित्वादिका। परार्धमेवान्तेऽवसाने यस्याः सा परार्धान्ता। न हि परार्धादूर्ध्वमियत्ताव्यवहारः सम्भवतीत्यागमे पठ्यते।
द्वित्वोत्पत्तिविनाशप्रकारौ
तस्याः खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाद् विनाश इति। कथम्? यदा बोद्धुश्चक्षुषा समानासमानजातीययोर्द्रव्ययोः सन्निकर्षे सति तत्संयुक्तसमवेतसमवेतैकत्वसामान्ये ज्ञानोत्पत्तावेकत्वसामान्यतत्‌सम्बन्धतज्ज्ञानेभ्य एकत्वगुणयोरनेकविषयिणी एका बुद्धिरुत्पद्यते एकत्वसामान्यबुद्धेश्च विनश्यत्ता, ततस्तामपक्ष्यैकत्वाभ्यां स्वाश्रययोर्द्वित्वमारभ्यते।
*तस्याः खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिः, अपेक्षाबुद्धिविनाशाद् विनाशः* इति संक्षेपेणोत्पत्तिविनाशकारणं दर्शयति। ननु चात्र बहुत्वनिर्देशाद् द्वित्वोत्पत्तिर्न लभ्यते। न हि द्वित्वमेकत्वेभ्यो भवतीति। न। द्विवचनबहुवचनाभ्यां विग्रहाश्रयणात्। तथा ह्येकत्वेऽनेकत्वानि चेत्येकशेषः, प्रकृतिसारूप्यस्य विवक्षितत्वात्। वचनसारूप्येण त्वेकशेषाभ्युपगमे धवखदिरादिष्वेकशेषप्रसङ्गः स्यात्। अत एकत्वेभ्योऽनेकत्वसंख्योत्पत्तिरित्यनेन द्वित्वोत्पत्तिर्व्याख्यातैव।
किंविशिष्टेभ्य इत्याह अनेको विषयो यस्याः सा अनेकविषया, सा चासौ बुद्धिश्च तया सहितान्येकत्वानि तेभ्यः। निष्पत्तिरित्यपेक्षाकारणनिर्देशः।
अन्ये तु त्रित्वाद्युत्पत्तिरेवात्र सङ्ग्रहवाक्ये विवक्षिता। द्वित्वोत्पत्तिश्चोपरिष्टाद् भविष्यतीति मन्यन्ते। तच्चासत्। त्रित्वाद्युत्पत्तेरप्युपरि सद्भावेनानर्थक्यप्रसङ्गात्।
एकञ्च संक्षेपेणोत्पत्तिविनाशकारणे प्रज्ञापिते विशेषाकाङ्‌क्षितया अज्ञस्य प्रश्नः कथमिति। केन रूपेण उत्पत्तिश्च विनाशश्च भवतीत्याह *यदा बोद्धु* इत्यादि। तथाहि, बुध्यत इति बोध्धा, तस्य बोद्धुरात्नश्चक्षुषा सह समानासमानजातीययोर्द्रव्ययोः सन्निकर्षे सतीत्यनियमं दर्शयति *समानासमान* इति समानजातीययोरसमानजातीययोश्च द्रव्ययोः सन्निकर्षे सतीति। *तत्संयुक्तसमवेतसमवेतैकत्वसामान्ये* ज्ञानमुत्पद्यत इति। तेन चक्षुषा संयुक्तं द्रव्यं, तत्समवेतमेकत्वगुणम्, तत्समवेतञ्च तदेकत्वसामान्यम्, तस्मिन् ज्ञानमुत्पद्यते पूर्वं, विशेषणत्वात्। तथाहि, विशेषणज्ञानमादौ, कारणत्वात्, विशेष्यज्ञानन्तु पश्चात्, कार्यत्वात्।
अतएव एकत्वसामान्यज्ञानोत्पत्तौ सत्याम्, एकत्वसामान्यञ्च तत्सम्बन्धश्च, तज्‌ज्ञानञ्चेति एकत्वसामान्यतत्सम्बन्धतज्‌ज्ञानानि, तेभ्योऽनेकविषयिष्येका बुद्धिरुत्पद्यते। अनेकश्चासौ विषयश्चेत्यनेकविषयः, सोऽस्या विद्यते इत्यनेकविषयिणी। एका च न विषयभेदेऽपि भिद्यते।
कश्चासावनेको विषय इत्याह *एक [त्व] गुणयोः* इति। एक [त्व] गुणश्चैक [त्व] गुणश्चेत्येक [त्व] गुणयोर्विषयभतयोर्यथोक्ता बुद्धिरुत्पद्यते। *एकत्वसामान्यबुद्धेश्च विनश्यत्ता*। *ततस्तामपेक्ष्यैकत्वाभ्यां स्वाश्रययोर्द्वित्वमारभ्यते* अत्र च स्वाश्रययोरिति समवायिकारणनिर्देशस्तथा एकत्वाभ्यामित्यसमवायिकारणस्य, तामपेक्ष्येति अपेक्षाबुद्धेर्निमित्तकारणत्वम्। एकत्वसामान्यज्ञानस्य च विनाशः।
ततः पुनस्तस्मिन् द्वित्वसामान्यज्ञानमुत्पद्यते। ततः पुनर्द्वित्वसामान्यज्ञानाद् अपेक्षाबुद्धेर्विनश्यत्ता, द्वित्वसामान्यतत्‌सम्बन्धतज्‌ज्ञानेभ्यो द्वित्वगुणबुद्धेरुत्पत्तिरित्येकः कालः।
ततः समुत्पन्ने द्वित्वे तत्संयुक्तसमवेतसमवायाद् द्वित्वसामान्ये ज्ञानमुत्पद्यते पूर्वम्, विशेषणत्वात्। तस्मात् सामान्यज्ञानाद् अपेक्षाबुद्धेर्विनश्यत्ता विनाशकारणसान्निध्यम्। ज्ञानस्य ज्ञानान्तरविरोधित्वात्। द्वित्वसामान्यतज्ज्ञानतत्सम्बन्धेभ्यो द्वित्वगुणबुद्धेरुत्पद्यमानतेति। द्वित्वसामान्याद्, द्वित्वसामान्यज्ञानाद् द्वित्वसामान्यगुणसम्बन्धाद् द्वित्वगुणबुद्धेरुत्पद्यमानता उत्पत्तिकारणसान्निध्यम् इत्येषामेकः कालः।
द्वित्वविनाशप्रकारः
तत इदानीमपेक्षाबुद्धिविनाशाद् द्वित्वगुणस्य विनश्यत्ता, द्वित्वगुणबुद्धितः सामान्यबुद्धेर्विनश्यत्ता, द्वित्वगुणतज्ज्ञानतत्सम्बन्धेभ्यो द्वेद्रव्ये इति द्रव्यबुद्धेरुत्पद्यमानतेत्येकः कालः।
तत इदानीमपेक्षाबुद्धेर्विनाशः। तद्‌विनाशाद् द्वित्वगुणस्य विनश्यत्ता द्वित्वगुणबुद्धेरुत्पादस्तत्सामान्यबुद्धेरपि विनश्यत्ता। *द्वित्वगुणतज्ज्ञानतत्सम्बन्धेभ्यः* इति। द्वित्वगुणश्च तज्ज्ञानञ्च तत्सम्बन्धश्चेति तथोक्तास्तेभ्यो निमित्तेभ्यः `द्वे द्रव्ये' इति द्रव्यबुद्धेरुत्पद्यमानतेत्येकः कालः।
तदनन्तरं `द्वे द्रव्ये' इति ज्ञानोत्पादः, द्वित्वस्य विनाशः, द्वित्वगुणबुद्धेर्विनश्यत्ता, द्रव्यज्ञानात् संस्कारस्योत्पद्यमानतेत्येकः कालः।
तदनन्तरं द्रव्यज्ञानस्योत्पादः, तस्माद् द्वित्वगुणबुद्धेर्विनश्यत्ता, सामान्यबुद्धेर्विनाशोऽपेक्षाबुद्धिविनाशाद् गुणस्य विनाशः, संस्कारस्योत्पद्यमानतेत्येषामेकः कालः।
तदनन्तरं द्रव्य [सामान्यात्? ज्ञानाद्] द्वित्वगुणबुद्धेर्विनाशः, द्रव्यबुद्धेरपि संस्कारादिति।
ततः संस्कारोत्पादे सति द्रव्यबुद्धेः (विनश्यत्ता?) गुणबुद्धेर्विनाशः, ततो द्रव्यबुद्धेरपि संस्काराद् विनाश इति।
ननु सर्वमेतदसम्बद्धम्, संख्यासद्भावे प्रमाणाभावात्। अथैकं द्वे त्रीणि इत्यादिव्यवहारः प्रमाणम्। तन्न। अस्य कल्पनाज्ञानत्वात्। न च कल्पनाज्ञनमर्थव्यवस्थापनायालम्, तदभावेऽपि भावात्। तथाहि, निमित्तनिर्विकल्पकज्ञानक्रमेण स्मरणानन्तरं सविकल्पकं ज्ञानमुत्पद्यते, न चार्थस्यावस्थानम्, क्षणिकत्वाद् इति निर्विषयत्वम्।
बाधकोपपत्तेश्च। तथा ह्युत्पद्यमानं द्वित्वादि न द्रव्योत्पत्तेः पूर्वमुत्पद्यते, तदभावात्। न समकालम् कार्यकारणभावानुपपत्तिप्रसङ्गात्। अथोत्तरकालम्? तत्रापि किं तत् स्वभावाद् विपरीताद् वेति। तत्स्वाभाव्ये किं द्वित्वादिना, द्रव्यस्यैव तत्स्वरूपत्वात्। विपर्यये तु, कथं तत्स्वभावात् तस्योत्पत्तिः, एकस्माद् बहुभ्यश्च द्वित्वोत्पत्तिप्रसङ्गात्, तत्स्वभावतायाः सर्वत्राविशेषात्।
तथा वृत्त्यनुपपत्तेश्च। द्वित्वमनेकस्मिन् वर्तमानमेकदेशेन सर्वात्मना वा वर्तते? नैकदेशेन, तदभावात्। न सर्वात्मना, उभयवृत्तित्वाभावप्रसङ्गात्। न च येनैव स्वरूपेणैकवृत्तिस्तेनैव द्रव्यान्तरेऽपि, तयोरेकताप्रसङ्गाद् इति वृत्त्यनुपपत्तेरसत्त्वम्।
तथोपलब्धिलक्षणप्राप्तस्य सर्वैरग्रहणात्। यदि हि द्वित्वादेः सत्त्वम्, उपलब्धिलक्षणप्राप्तत्वाद् रूपादिवत् सर्वपुरुषैर्गृह्यते, न तूपलभ्यते, तस्मान्नास्तीति।
समानेन्द्रियग्राह्यत्वाच्च। येनेन्द्रियेण द्रव्यमुपलभ्यते तेनैव संख्यापीति न ततोऽर्थान्तरम्। भेदे तु रूपादीनामिव असमानेन्द्रियग्राह्यत्वमपि स्यात्।
इतोऽप्यसत्त्वं देशभेदेनानुपलब्धेः, तदग्रहे तद्बुद्ध्यभावाच्च, तथा ग्रहणानुपपत्तेश्च। तथाहि, द्वित्वमनेकत्र वर्तमानं कथमिन्द्रियेण परिच्छिद्येत, युगपत् सन्निकर्षद्वयस्य मनसानधिष्ठितत्वात्। अथ चक्षुरधिष्ठीयते, तथाप्यनेकपदार्थग्रहणप्रसङ्गः, तस्य मनोऽधिष्ठितस्यानेकपदार्थैः सम्बन्धात्।
यथा च संख्यासम्बन्धाद् द्रव्येष्वेकादिव्यवहारस्तथैकत्वादिगुणेष्वप्येकादिव्यवहारे निमित्तान्तरकल्पनायां तत्राप्येकादिव्यवहारस्य सम्भवादनवस्थाप्रसङ्गः। अथैकत्वादावेकादिव्यवहारस्तत्स्वरूपतया? द्रव्येऽपि तथाभावप्रसङ्गः। अथैकत्वादिसामान्ये तत्सामान्यानुपपत्तेरेकादिव्यवहारः? [तच्च] कल्पनाज्ञानामिति।
तदेतत् सर्वमसाम्प्रतम्। एकादिव्यवहारस्यबाधकासम्भवेन प्रामाण्यात्। तथा ह्येकादिज्ञानमर्थान्वयव्यतिरेकानुविधानान्नीलादिज्ञानवदर्थजम्। न चार्थाधीनतया निर्विकल्पकज्ञानोत्पत्तिसमकालमेव तस्योत्पत्तिः, सङ्केतस्मरणस्य सहकारिणोऽभावात्। नापि स्मृतिजमेव, अर्थस्यापि तत्र व्यापारोपलब्धेः। न च स्मृतेरतिशयाधायकत्वमनतिशयनिवर्तकत्वं वा, किन्तु अर्थं सद्भावे सति ज्ञानजनकत्वमेव।
न चार्थस्येन्द्रियाणां वा अविचारकत्वात् प्रागिव पश्चादप्यजनकत्वमिति दूषणम्। तथा वृत्त्यनुपपत्तेः, देशभेदेनाग्रहणात्, तदग्रहे तद्‌बुद्ध्यभावाच्चेति, पूर्वमेवावयविसमर्थनावसरे प्रतिषेधात्।
न चाबाध्यमानमपि एकादिज्ञानम् अप्रमाणमिति न्याय्यम्, नीलादिज्ञानस्याप्यप्रमाणताप्रसङ्गात्। अथ नीलं विना तज्ज्ञाने न स्यान्नीलाकारता? तदेकत्वादिज्ञानेऽपि समानम्।
अथैकत्वादिज्ञानं शब्दाकारम्, न चार्थे तद्रूपतास्तीति निर्विषयत्वम्, न। नीलज्ञानस्यापि शब्दाकारतया निर्विषयताप्रसङ्गात्।
अथाद्यं नीलज्ञानं निर्विकल्पकमर्थजम्, उत्तरन्तु सविकल्पकमनेकक्षणव्यवधानाद् अर्थापायेऽप्युत्पद्यते, अर्थस्य क्षणिकत्वाच्छब्दाकारातायाश्च तत्रासम्भवादिति निर्विषयत्वमिष्यत एव।
तदसत्। क्षणिकत्वस्य पूर्वमेव प्रतिषेधात्। निर्विकल्पकज्ञानोत्पत्ताविवार्थस्य सविकल्पकज्ञनोत्पत्तावन्वयव्यतिरेकाभ्यामिन्द्रियेण सङ्केतस्मरणएन च सहकृतस्य व्यापारोपलब्धेः। तथाहि, इदन्तया ज्ञानोत्पत्तेस्तत्रेन्द्रियस्य व्यापारो निश्चीयते, अङ्गुल्या व्यपदिश्यमानत्वाद् अर्थस्य चेति। अन्यथा हीनद्रियार्थयोरेकादिज्ञानोत्पत्तौ व्यापारमन्तरेण इदन्तयोपलब्धिरङ्गुल्यादिना च व्यपदेशो न स्यात्। अथेन्द्रियज्ञानं मनोविज्ञानक्रमेण सविकल्पकज्ञानोत्पत्तौ कारणमिति, इदन्तयोपलब्धिरङ्गुल्यादिना व्यपदेशो नार्थजाविति चेत्, न। एतस्मिन् क्रमे प्रमाणाभावात्।
अथ सङ्कल्पात् सद्भावसिद्धेरन्यथा एकादिव्यवहारो न स्यादित्येषा कल्पना क्रियते, तदसत् वृत्तिविकल्पादेर्बाधकस्य पूर्वमेव प्रतिषेधात्। संख्यासद्भावसिद्धावेकादिव्यवहारस्य साक्षादर्थजत्वोपपत्तेः।
शब्दाकारता तु सविकल्पकज्ञाने न सम्भवत्येव, साकारवाद प्रतिषेधस्य वक्ष्यमाणत्वात्। केवलन्तु स्मृतिजनितत्वात् सविकल्पकं ज्ञानं शब्दोल्लेखेनोत्पद्यते, निर्विकल्पकन्तु उल्लेखशून्यम्, सङ्केतस्मृतेरव्यापारात्।
न च वासनाप्रभवत्वम्, वासनायाः पूर्वमेव प्रतिषेधात्। तथाहि, बोधव्यतिरेकेणान्या वासना न सम्भवतीत्युक्तमेव अवयविसमर्थनावसरे। या तु वैशेषिकोपगता स्मृत्यनुमेया स्मृतिविलक्षणत्वात्। तथाहि, एकादिज्ञानम् अपरोक्षम् इन्द्रियव्यापारेण इदन्तयोत्पद्यते, न च स्मृतेरेतद्रूप[त्व]मस्तीति, न वासनाप्रभवम्। तथा इत्थम्भूतवासनाप्रभवत्वेऽपि परम्परयार्थव्यवस्थापकत्वम्, अर्थानुभवपूर्वकत्वाद् वासनायाः। या तु एकत्वादिशब्देभ्यो विकल्पाद् वासना सापि अर्थं व्यवस्थापयत्येव, शब्दस्यानुभवपूर्वकत्वेनाभ्युपगमात्, `दृष्टे दृष्टवादित्वम्' इत्यनेन।
यत्तु उत्पत्तिविकल्पनाद् एकत्वादेरसत्वमित्युक्तम्, तदसत्, उत्तरकालं तदुत्पत्त्यभ्युपगमात्। अथ किं तत् स्वभावाद् विपरीताद् वेत्युक्तम्, तत्र यदि तत्‌स्वाभाव्यं तदुत्पादनसामर्थ्यं विवक्षितम्, तदिष्यत एव। अथैकत्वाद्याश्रयत्वं तन्नास्ति, उत्पत्तेः पूर्वं तदभावात्। सिद्धे च संख्यासद्भावे प्रमाणतस्तस्याः कार्यद्रव्ये कृतकत्वाद् अवश्यमुत्पत्तिकारणं वाच्यम्। तत्र च एकत्वद्वित्वाद्याश्रयस्य तज्जनकत्वे तदभावः स्यात्, दृष्टा चोत्पत्तिः, तस्मात् द्रव्यमितरकारकोपचितम् तेषां कारणमिति उत्पत्तिविकल्पानुपपत्तिः।
यच्चेदम्, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेर्द्वित्वादेरसत्वमिति, तन्न, असिद्धत्वात्। तथा च यदीयया अपेक्षाबुद्ध्या सम्पादितं द्वित्वादि तस्यैवोपलब्धिलक्षणप्राप्तम्, न पुरुषान्तरस्य, तस्यैव तदुपलम्भात्। यत्रोपलम्भस्तत्रैव रूपिद्रव्ये समवायिकारणत्वमिष्टं न तदभावेऽपीति। तस्मान्न सकलपुरुषापेक्षया तदुपलब्धिलक्षणप्राप्तमित्यसिद्धो हेतुः।
यच्चेदम्, एकत्वादेर्न द्रव्यव्यतिरेकेणास्तित्वं समानेन्द्रियग्राह्यत्वादिति। तत्र प्रतिज्ञावाक्ये पदयोर्व्याघातः, यथा इदञ्च नास्ति चेति। न चैकत्वादेः पक्षीकरणं युक्तम्, अप्रसिद्धत्वात्। प्रसिद्धञ्च पक्षीक्रियमाणं दृष्टं शब्दादि, न चपरस्येकत्वादि प्रसिद्धमिति।
अथ परव्याप्त्या परस्यानिष्टापादनं प्रसङ्गासाधनमिति चेत्, तत्र यदि प्रमाणपूर्वका परप्रसिद्धिस्तयैव बाध्यमानत्वादनुत्थानं विपरीतानुमानस्य। अथाप्रमाणपूर्विका, तर्हि प्रमाणं विना प्रमेयस्याप्रप्तिद्धेरेक[त्वा]दीनां पक्षीकरणमयुक्तम्।
तथा समानेन्द्रियग्राह्यत्वादिति। येनेन्द्रियेण द्रव्यमुपलभ्यते तेनैव संख्यापीति साधनस्य रूपादिभेदैरनैकान्तिकत्वम्। तथाहि, येनैवेन्द्रियेण शुक्लरूपस्य ग्रहणंतेनैवपीतादेः, न च तस्य तस्माद् भेदोऽसत्त्वं वेति। न च परस्यद्रव्यं प्रसिद्धमिति कथं तस्मादभेदः साध्यते? अथ रूपमेव द्रव्यम्? न तर्हि समानेन्द्रियग्राह्यत्वम् रूपस्यैकेन्द्रियग्राह्यत्वात्, द्वीन्द्रियपरिच्छेद्यत्वादिति।
अथ रूपादिसमुदायो द्रव्यम्, तथापि समानेन्द्रियग्राह्यत्वमसिद्धम्, रूपादेः प्रतिनियतेन्द्रियग्राह्यत्वात्। न च रूपादीनां प्रतिनियतेन्द्रियग्राह्यत्वाद् भेदः, शुक्लादिभेदानामेकताप्रसङ्गात्। किं तर्हि? प्रतिभासभेदात्, स चेहाप्यस्त्येव। तथा ह्येकत्र द्रव्यप्रतिभासोऽन्यत्र चैकत्वादिप्रतिभास इति। अथ संख्याद्रव्ययोः प्रत्यक्षेण भेदप्रसिद्धेरेकतासाधनं प्रत्यक्षेण बाध्यमानत्वात् कालात्ययापदिष्टं भवतीति।
यच्चेदम्, उत्पन्नस्य द्वित्वादेर्ग्रहणानुपपत्तेरसत्त्वम्, तदसत्, इन्द्रियव्यापारेणास्य द्वित्वादेरपरोक्षस्य दृष्टत्वात्। न च मनसानधिष्ठितस्येन्द्रियस्य परिच्छेदकत्वं युगपज्‌ज्ञानोत्पत्तिप्रसङ्गात्। अतश्चक्षुर्मनसाधिष्ठीयते। न सम्बन्धस्तेषाम्, अणुपरिमाणसम्बन्धितया न युगपदधिष्ठायकं मन इति द्वित्वादेरग्रहणमेव स्यात्। अस्ति च ग्रहणमतश्चक्षुरेव मनसाधिष्ठीयते। नन्वेवमप्यनेकपदार्थसम्बन्धाद् युगपदनेकज्ञानोत्पादकं स्यात्? न। करणस्यैकप्रत्ययनिर्वृत्तौ सामर्थ्यात्। तथा ह्येकं करणमेकस्मिन् कालेऽनेकां क्रियां न करोतीति, तस्माद् युगपत् प्रकाशनमेव घटादीनां न ग्रहणानीत्युक्तपूर्वम्।
यच्चेदम्, एकादिव्यवहारो गुणान्तरात् स्वभावाद् वेत्युक्तम्, तत्रैकत्वसामान्यवशादिति ब्रूमः। तथाहि, द्रव्ये गुणसम्बन्धाद् एकादिव्यवहारो गुणे च सामान्यसम्बन्धाद् सामान्येऽपि गुणसम्बन्धात्। न च ग्रहणपरम्परा, विशेषणज्ञानस्य नियमेन ज्ञानपूर्वकत्वानभ्युपगमात्। अथ संयुक्तसमवेतसमवायाद् एकत्वसामान्ये ज्ञानमुत्पद्यते, विशेषणत्वादित्युक्तम्। अनेकगुणविषयस्य विशेष्यज्ञानस्यैवासंवेदनात्। न। द्वित्वस्योत्पत्त्यन्यथानुपपत्त्या तत्‌सद्‌भावसिद्धेः। तथाहि, यदि कारणगुणपूर्वप्रक्रमेण रूपादिवदुत्पद्यते द्वित्वं प्रथमाक्षसन्निपातवेलायामेव ग्रहणं स्यात्, चिरोत्पन्नत्वात्, गणनावैयर्थ्यञ्च। न चैतत्। तस्मादनेकगुणविषयस्य ज्ञानस्यात्मवर्तिनोऽपि द्वित्वोत्पत्तौ कारणत्वं निश्चीयते, तद्‌विनाशाच्च विनाशः। अन्यथा हि समवाय्यसमवयिकारणयोर्विनाशाद् विनाशाभ्युपगमेतयोरनेककालमवस्थानात् स्थायित्वमेव स्यात्, क्वचिन्नित्यत्वञ्च। तयोरविनाशादन्यस्य च विरोधिगुणस्यासम्भवात्। तस्मान्निमित्तकारणादेव विनाशः कल्प्यते।
न चैवं घटादेर्निमित्तकारणविनाशाद् विनाशप्रसङ्गः, अदर्शनात्। अत्र तु समवाय्यसमवायिकारणयोरवस्थानेऽपि द्वित्वादेर्विनाशस्य दृष्टत्वाद् अपेक्षाबुद्धिविनाशाद् विनाशः कल्प्यते। अन्यथा हि रूपादिवदवस्थाने प्रथमाक्षसन्निपातकाल एव ग्रहणं स्यादित्युक्तम्। अथावस्थितस्यापि द्वित्वादेर्व्यञ्जकाभावात् [अनुपलम्भः], उपलम्भस्तु इदानीमुत्पन्नस्यापि घटत इत्यपेक्षाबुद्ध्यादेर्जनकत्वमेव न्याय्यम्। तस्माद् द्वित्वादिव्यवहारोत्तरकालं तदभावस्य संवेदनात् तदुत्पत्तौ कारणान्तरस्यासम्भवे सति अपेक्षाहुद्धिविनाशस्य कारणत्वमुक्तम्।
अथ पूर्व द्वित्वसामान्यज्ञानमनन्तरं गुणज्ञानं द्रव्यज्ञानञ्चेति कल्पनायां किं प्रमाणम्? विशेषणत्वमिति चेत्, न। विशेषणेऽपि विशेषणान्तरकल्पनायामनवस्थाप्रसङ्गात्। तथाहि `द्वे द्रव्ये' इति द्रव्यज्ञानोत्पत्तौ गुणस्य विशेषणत्वाद् युक्तमादौ तज्‌ज्ञानं गुणस्य च विशेषणत्वान्न तत्सामान्यज्ञानं युक्तम्। अभ्युपगमे वा, तस्याप्यन्यद् विशेषणमित्यनवस्था स्यात्? न। नियमानभ्युपगमात्। तथाहि, विशेषणेऽवश्यं विशेषणान्तरकल्पनेति नियमः प्रतिषिध्यतेऽनिवस्थाभयात्। न पुनर्विशेषणे विशेषणमेव नास्तीति। विवक्षितञ्चैतद् भाष्यकर्त्तुः, द्रव्यविशेषणस्यापि गुणस्य सामान्विशेषणाभिधानादिति।
अथ संस्काराद् द्रव्यबुद्धेर्विनाश इत्यत्र किं प्रमाणम्? कारय्स्याकस्मिकस्यानुपलब्धेः, द्रव्यज्ञानविनाशस्य प्रत्यक्षेण संवेदनात् संस्कारस्य कारणत्वं निश्चीयते। तस्य च स्मृत्या सद्भावसिद्धिरिति वक्ष्यामः।
त्रित्वाद्युत्पत्तिविनाशप्रकारः
एतेन त्रित्वाद्युत्पत्तिरपि व्याख्याता। एकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो त्रित्वादिनिष्पत्तिरपेक्षाबुद्धिविनाशाद् विनाश इति।
तदेवं द्वित्वस्योत्पत्तिविनाशकारणे प्रज्ञापिते सति *एतेन त्रित्वाद्युत्पत्तिर्व्याख्याता* इत्यतिदेशं करोति। यथा हि, द्वित्वमेकत्वाभ्यामनेकबुद्धिविषयसहिताभ्यामारभ्यते तथा त्रित्वादेरप्येकत्वेभ्योऽनेकबुद्धिविषयसहितेभ्योनिष्पत्तिरिति।
(1) उत्पन्ने च त्रित्वादौ तत्सामान्यज्ञानम्, ततोऽपेक्षाबुद्धेर्विनश्यत्ता, सामान्यतज्ज्ञानतत्सम्बन्धेभ्यो गुणबुद्धेरुत्पद्यमानतेत्येकः कालः।
(2) ततस्त्रित्वादिगुणबुद्धेरुत्पादः, गुणतज्ज्ञानतत्सम्बन्धेभ्यो द्रव्यबुद्धेरुत्पद्यमानता, अपेक्षाबुद्धेर्विनाशः, सामान्यज्ञानस्य विनश्यत्ता, गुणस्य विनश्यत्तेत्येषामेकः कालः।
(3) ततो द्रव्यज्ञानस्योत्पादः, संस्कारस्योत्पद्यमानता, गुणज्ञानस्य विनश्यत्ता, सामान्यज्ञानस्य विनाशः, अपेक्षाबुद्धिविनाशाच्च गुणस्यापि नाश इत्येकः कालः।
(4) ततः संस्काराद् द्रव्यज्ञानस्यापीत्यतिदेशार्थः।
आदिपदेन तु शतसंख्यादेरवरोधस्तत्र च द्वित्वोत्पत्त्यतिदेशो न सम्भवत्येव। तथाहि, द्रव्यशतस्य युगपदिन्द्रियेण सम्बन्धाभावात् तद्गतैकगुणानामग्रहणेऽपेक्षाकारणाभावात् कथं शतसंख्योत्पत्तिरिति। न चेन्द्रियेणैकत्वसामान्यस्य एकस्मिन् द्रव्ये संयुक्तसमवेतसमवायलक्षणस्य सम्बन्धस्योत्पत्तेस्तस्यैकताया द्रव्यान्तरगुणेष्वपि सद्‌भावात् तदाकृष्टानामेकैकगुणानां युगपद्ग्रहणाच्छतसंख्योत्पत्तिरिति वाच्यम्। सर्वत्र तथाभावेन शतसंख्याद्युत्पत्तिप्रसङ्गात्। तथाहि, इन्द्रियस्यैकत्वसामान्येन संयुक्तसमवेतसमवायलक्षणस्य सम्बन्धस्याविशेषात् तदुपग्रहादेकैकगुणानां ग्रहणाभ्युपगमे सर्वस्मिन् द्रव्ये शतसंख्याद्युत्पत्तिः स्यात्। न चैतत्। तस्मादपेक्षाकारणाभावादनुत्पत्तिरिति। न चापेक्षाबुद्धिं विनैवोत्पत्तिः, गणनावैयर्थ्यप्रसङ्गादित्युक्तन्यायात्।
तदेतत् सर्वमसत्, संख्याव्यवहारस्य वास्तवत्वात्। शतसंख्यादिसद्भावसिद्धौ तस्याः कृतकत्वाद् अवश्यमुत्पत्तिकारणं वाच्यमिति अन्यस्यासम्भवाद् विलक्षणैवापेक्षाबुद्धिः कल्प्यत इति।
(1) तथा चैकस्मिन् एकगुणे ज्ञानोत्पत्तौ सत्यां संस्कारस्योत्पादे द्वितीयैकगुणज्ञानस्योत्पद्यमानता, पूर्वज्ञानस्य विनश्यत्तेत्येकः कालः।
(2) ततो द्वितीयैकगुणज्ञानस्योत्पादः, पूर्वगुणस्मरणस्योत्पद्यमानता, प्राक्तनसंस्कारसहकारिणा च ज्ञानेन संस्कारस्योत्पद्यमानता, प्राक्तनज्ञानस्य विनाश इत्येकः कालः।
(3) ततः स्मरणस्योत्पादः, संस्कारस्योत्पादः, द्वितीयगुणज्ञानस्य विनश्यत्ता, स्मरणानुभवौ चापेक्षैबुद्धिः, ततो द्वित्वस्योत्पद्यमानतेत्येकः कालः।
(4) ततो द्वित्वस्योत्पादात् तज्ज्ञानस्योत्पद्यमानता, द्वितीयैकगुणज्ञानस्यापि विनाश इत्येकः कालः।
(5) ततो द्वित्वगुणज्ञानस्योत्पादः, द्रव्यज्ञानस्योत्पद्यमानता, स्मरणस्य विनश्यत्तेत्येकः कालः।
(6) ततो द्रव्यज्ञानस्योत्पादः, गुणज्ञानस्य बिनश्यत्ता, स्मरणस्य विनाशः, तद्‌विनाशाद् द्वित्वस्य विनश्यत्ता, तृतीयैकगुणज्ञानस्योत्पद्यमानतेत्येकः कालः।
(7) ततस्तृतीयैकगुणज्ञानस्योत्पादः, द्रव्यज्ञानस्य विनश्यत्ता, द्वित्वगुणज्ञानस्य विनाशः, पूर्वैकगुणद्वितये स्मरणस्योत्पद्यमानता, पूर्वसंस्कारसचिवेन एकगुणज्ञानेन संस्कारान्तरस्योत्पद्यमानता, द्वित्वगुणस्य विनाश इत्येकः कालः।
(8) ततः स्मरणस्योत्पादः, संस्कारस्योत्पादः, एकगुणज्ञानस्य विनश्यत्ता, स्मरणानुभवौ चापेक्षाबुद्धिः, ततस्त्रित्वगुणस्योत्पद्यमानता, द्रव्यज्ञानस्य विनाश इत्येकः कालः।
(9) ततस्त्रित्वगुणस्योत्पादः, तज्ज्ञानस्योत्पद्यमानता, एकगुणज्ञानस्य विनाश इत्येकः कालः।
(10) ततस्त्रित्वगुणज्ञानस्योत्पादः, गुणज्ञानस्य विनश्यत्ता, स्मरणस्य विनाशः, तद्‌विनाशात् त्रित्वगुणस्य विनश्यत्ता, चतुर्थैकगुणज्ञानस्योत्पद्यमानतेत्येकः कालः।
(11) ततो द्रव्यज्ञानस्योत्पादः, गुणज्ञानस्य विनश्यत्ता, स्मरणस्य विनाशः, तद्‌विनाशात् त्रित्वगुणस्य विनश्यत्ता, चतुर्थैकगुणज्ञानस्योत्पद्यमानतेत्येकः कालः।
(12) ततश्चतुर्थैकगुणज्ञानस्योत्पादः, द्रव्यज्ञानस्य विनश्यत्ता, गुणज्ञानस्य विनाशः, त्रित्वगुणविनाशः, संस्कारस्योत्पद्यमानतेत्ययं क्रमश्चतुष्ट्वादिष्वप्यूह्यस्तावद् यावदन्त्यद्रव्यैकगुणे ज्ञानं कल्पनया तत्संस्कारेण च स्मरणस्योत्पद्यमानतेति।
(13) ततः प्राक्तनाशेषैकगुणविषयस्मरणस्योत्पादः, अन्त्यद्रव्यैकगुणज्ञानस्य विनश्यत्ता, स्मरणानुभवौ चापेक्षाबुद्धिः, ततः शतसंख्याया उत्पद्यमानतेत्येकः कालः।
(14) ततः शतसंख्याया उत्पत्तिः, तज्ज्ञानस्योत्पद्यमानता, अन्त्यद्रव्यस्यैकगुणज्ञानस्य विनाश इत्येकः कालः।
(15) ततो गुणज्ञानस्योत्पादः, द्रव्यज्ञानस्योत्पद्यमानता स्मरणस्य विनश्यत्तेत्येकः कालः।
(16) तदनन्तरम् `एतानि शतम्' इति द्रव्यज्ञानस्योत्पादः, गुणज्ञानस्य विनश्यत्ता, संस्कारस्योत्पद्यमानता, स्मरणस्य विनाशः, तदनन्तरं संस्काराद् द्रव्यज्ञानस्यापीति।
अन्ये तु, एकस्मिन् एकगुणे ज्ञानं, तेन क्रियते संस्कारः, पुनर्द्वितीयैकगुणे ज्ञानम्, तेन प्राक्तनेन चान्यः संस्कार इत्येषा कल्पना तावद् यावदन्त्यगुणे ज्ञानम्, ततः कल्पनया तत्संस्कारस्याभिव्यक्तत्वाद् अशेषैकगुणविषयस्य स्मरणस्योत्पत्तिः, अनुभवस्य विनश्यत्ता इत्यपेक्षाबुद्धिः शतसंख्याजनिकेति मन्यन्ते। न चान्तराले द्वित्वाद्यनुभवस्यापि संवेदनादनुभवेन बाधेति वाच्यम्, कारणांशस्यैव कीर्तनात्। तथाहि, एक गुणानुभवजनितः संस्कारः स्मृतिद्वारेण शतसंख्योत्पत्तौ कारणम्। न चैवं द्वित्वाद्यनुभव इति तस्यानुपन्यासो नासत्त्वादिति।
अथास्त्वेवमुत्पत्तिः शतसंख्यायाः, ग्रहणन्तु कथमिति चिन्त्यते। तथाहि, द्रव्यशतस्य युगपदिन्द्रियेण सम्बन्धाभावात् तद्‌वर्तित्तनी कशतसंख्याप्यप्रत्यक्षेति, कथमेतानि शतमिति प्रत्ययः स्यात्? अथान्त्यद्रव्येणएन्द्रियस्य संयोगात् तत्‌समवेता च शतसंख्योत्पन्नेति संयुक्तसमवायादुपलभ्यत एव। तदाकृष्टानि च पूर्वोपलब्धद्रव्याणीन्द्रियसंयोगाभावेऽपि विशेषणविशेष्यलक्षणेनैव सम्बन्धेन `एतानि शतम्' इत्यपरोक्षज्ञानविषयाणि भवन्तीति।
तर्हि सत्ताविशेषेणाकृष्टानामाकाशादीनामपि प्रत्यक्षता स्यात्? न, अभिप्रायापरिज्ञानात्। तथाहि `एतानि शतम्' इत्यपरोक्षज्ञानस्य दृष्टत्वादत्र कारणचिन्ता क्रियते। तत्र चान्यसम्बन्धस्यानुपलब्धेः शतसंख्याकृष्टानि विशेषणविशेष्यभावेणैव प्रत्यक्षाणि। न चैवमाकाशादीन्युपलब्धपूर्वाणि, न च तेष्पपरोक्षं विज्ञानमस्तीति नैवं कल्प्यते।
न चाद्यद्रव्यस्येन्द्रियेण संयोगाच्छतसंख्योपलभ्यते, अन्त्यद्रव्ये समुत्पादात्। तथाहि, गणनाद्वारेण अन्त्यद्रव्यस्यैकगुणोपलभ्भाद् उपलब्धैकगुणेषु द्रव्येषु समवेता शतसंख्योत्पद्यते तेन पूर्वेष्वेवेति तत्संयोगेऽप्यसभ्भवाद् अग्रहणम्।
न चात्रानुभवसहकारिणः संस्कारस्य संस्कारान्तरारम्भकत्वे घटाद्यनुभवजनितसंस्कारस्यापि अनुभवान्तरसहकारिणः संस्कारारम्भकत्वप्रसङ्गः, अदृष्टकारितत्वाद् वस्तुव्यवस्थायाः। तथाहि, शतसंख्याद्‌युपभोगप्रापकादृष्टनियमाद् अत्रैव विशिष्टसंस्कारोत्पत्तिर्न घटादौ, तत्र हि कार्याभावादिति। कार्यसद्भावेन च कारणपरिकल्पना क्रियत इति। यत्रान्यथा असम्भवस्तत्रैव नियामकत्वमदृष्टस्य न पुनर्दृष्टकारणप्रत्याख्यानमिति। तस्माददृष्टसद्भावेऽपि गणनोपलम्भाद् अपेक्षाबुद्धेः कारणत्वं कल्प्यते। अन्यथा हि ईश्वरबुद्धेरदृष्टस्य एकगुणसहकारित्वेन शतसंख्याद्‌यारम्भकत्वे सर्वद्रव्येषु शतसंख्याद्‌युत्पत्तौ रूपादिवच्चिरोत्पन्नत्वाद् गणनामन्तरेणैवोपलम्भः स्यात्। न चास्ति।
अथाभिव्यञ्जकाभावादनुपलम्भ इति चेन्न, [तत्] सद्‌बावे प्रमाणाभावादित्युक्तोत्तरत्वात्।
न चान्यदीयबुद्धिसम्पादितानि अन्यस्य प्रत्यक्षोपलब्धानीति ईश्वरसम्पादितासु अस्मदादीनां प्रत्यक्षता न स्यात्। तस्मादुक्तन्यायेनोत्पत्तिर्ग्रहणञ्चेत्यलमति विस्तरेण।
क्वचिदाश्रयविनाशादिति। कथम्? यदैकत्वाधारावयवे कर्मोत्पद्यते तदैवैकत्वसामान्यज्ञानमुत्पद्यते, कर्मणा चावयवान्तराद् विभागः क्रियते, अपेक्षाबुद्धेश्चोत्पत्तिः। अतो यस्मिन्नेव काले विभागात् संयोगविनाशस्तस्मिन्नेव काले द्वित्वमुत्पद्यते, संयोगविनाशाद् द्रव्यविनाशः सामान्यबुद्धेश्चोत्पत्तिः। ततो यस्मिन्नेव काले सामान्यज्ञानापेक्षाबुद्धेर्विनाशस्तस्मिन्नेव काले आश्रयविनाशाद् द्वित्वविनाश इति।
विनाशमाह न परमपेक्षाबुद्धिविनाशात् *क्वचिदाश्रयविनाशादिति*। *कथम्?* इत्यव्युत्पन्नप्रश्नः। तत्र द्वित्वस्याश्रयविनाशेन विनाशाभिधानात् तत्समानतया अन्यत्रापि परिज्ञानं भविष्यतीति मन्यमानो द्वित्वस्यैव विनाशमाह *[यदैकत्वाधारावयवे] कर्मोत्पद्‌यते*। विभागस्योत्पद्‌यमानता, तदैवैकत्वसामान्ये ज्ञानमुत्पद्यते, अपेक्षाबुद्धेरुत्पद्यमानता, ततो विभागस्योत्पादः, द्रव्यारम्भकसंयोगस्य विनश्यत्ता, अपेक्षाबुद्धेरुत्पादः, द्वित्वस्योत्पद्यमानता, एकत्वसामान्यज्ञानस्य विनश्यत्ता, तदनन्तरं संयोगस्य विनाशः, एकत्वसामान्यज्ञानस्य विनश्यत्ता, तदनन्तरं संयोगस्य विनाशः, एकत्वसामान्यज्ञानस्य विनश्यत्ता, द्रव्यस्य विनश्यत्ता [द्रव्य? द्वित्व] स्योत्पादः, तत्सामान्यज्ञानस्योत्पद्‌यमानतेत्येषामेकः कालः।
ततः सामान्यज्ञानस्योत्पादः, अपेक्षाबुद्धेर्विनश्यत्ता, द्रव्यस्य विनाशः, गुणस्य विनश्यत्ता, ततो द्रव्यविनाशाद् गुणस्य विनाशः, सामान्यज्ञानाच्चापेक्षाबुद्धेरिति। न च अपेक्षाबुद्धिविनाशकार्यो गुणविनाशः समकालत्वादिति द्रव्यविनाशस्यैव कारणत्वं पूर्वकालत्वात्।
यदा तु अपक्षाबुद्धिसमकालमेकत्वाधारावयवे कर्म चिन्त्यते तदा उभयविनाशादपि गुणस्य विनाशः सम्भवतीति ज्ञेयम्।
शोभनमेतद्‌विधानम् वध्यघातकपक्षे। सहानवस्थानलक्षणे तु विरोधे द्रव्यज्ञानानुत्पत्तिप्रसङ्गः। कथम्? गुणबुद्धिसमकालमपेक्षाबुद्धिविनाशाद् द्वित्वविनाशे तदपेक्षस्य द्वे द्रव्ये इति द्रव्यज्ञानस्यानुत्पत्तिप्रसङ्ग इति।
*शोभनमेतद्‌विधानम्* इत्यादिना परपक्षप्रतिषेधद्वारेण स्वपक्षमुपसंहरति। शोभनं युक्तमेतद् द्वित्वाद्युत्पत्तिविधानम्। कस्मिन् पक्षे? इत्याह *वध्यघातकपक्षे* यदा हि एकस्य ज्ञानस्यत्पादोऽन्यस्य विनश्यत्ता।
*सहानवस्थानलक्षणे तु विरोधे द्रव्यज्ञानानुत्पत्तिप्रसङ्गः* इत्यशोभनम्। तथाहि, सहानवस्थानलणे विरोधे द्वित्वसामान्यज्ञानसमकालम् अपेक्षाबुद्धिविनाशात् गुणबुद्धिसमकालं द्वित्वविनाशे तदपेक्षस्य `द्वे द्रव्ये' इतिज्ञानस्यानुत्पत्तिप्रसङ्गः, तथा निर्हेतुकता च विनाशस्य। यदैव द्वित्वसामान्यज्ञानस्योत्पादस्तदैव अपेक्षाबुद्धेर्विनाश इत्येककालत्वान्न सामान्यज्ञानकार्योऽपेक्षाबुद्धिविनाशः। न चानय्त् कारणमस्तीति निर्हेतुकत्वं प्रसज्येत। न चैतत् सम्भवतीतित्युक्तमेव।
लैङ्गिकवज्ज्ञानमात्रादिति चेत्, स्यान्मतम्। यथा `अभूतं भूतस्य' इत्यत्र लिङ्गाभावेऽपि ज्ञानमात्रादनुमानम् तथा गुणविनाशेऽपि गुणबुद्धिमात्राद् `द्वे द्रव्ये' इति प्रत्ययः स्यादिति।
अथ यद्यपि गुणबुद्धिसमकालमपेक्षाबुद्धिविनाशात् गुणस्य विनाशः, तथापि लैङ्गिकज्ञानमात्राद् `द्वे द्रव्ये' इतिज्ञानं भविष्यतीति परमतमाशङ्कते *लैङ्गिकवज्ज्ञानमात्रादिति चेत्* मतमभिप्रेतं स्यात्। यथा अभूतमविद्यमानं लिङ्गं भूतस्य विद्यमानस्य लिङ्गिनो गमकमित्यत्र सूत्रे लिङ्गाभावेऽपि ज्ञानमात्रादनुमानमिष्टम्।
तथा हि, ज्ञानेन ज्ञानमनुमीयत इति ज्ञानस्य लिङ्गत्वादवश्यं ग्रहणम्, ततस्तस्य विनश्यत्ता, अविनाभावसम्बन्धस्मरणस्योत्पद्यमानता, तदनन्तरमविनाबावसम्बन्धस्मरणस्योत्पादः, लिङ्गभूतस्य ज्ञानस्य विनाशः, तज्ज्ञानस्य विनश्यत्ता, परामर्शज्ञानस्योत्पद्यमानता, ततः परामर्शज्ञानस्योत्पादः, अविनाभावसम्बन्धस्मरणस्य विनश्यत्ता, लिङ्गज्ञानस्यापि विनाश इति निर्विषयात् परामर्शज्ञानमात्रादेव ज्ञातरि प्रतिपत्तिर्भवतीति दृष्टम्। तथा गुणविनाशे गुणज्ञानमात्राद् द्रव्यप्रत्ययः स्यादिति।
अन्ये तु, यथा अभूतमविद्यमानं वर्षकर्म भूतस्य विद्यमानस्य वाय्वभ्रसंयोगस्य लिङ्गम्, तथा गुणविनाशेऽपि तज्ज्ञानमात्राद् द्रव्यज्ञानमिति मन्यन्ते। न चैतद् युक्तम्। तथाहि न अविद्यमानं वर्षकर्म विद्यमानस्य वाय्वभ्रसंयोगस्य सद्भावे लिङ्गम्। किं तर्हि? वर्षकर्मानुत्पादो व्यभिचारो। स च स्वरूपेणास्त्येवेति कथमविद्यमानम्? अथ भावरूपतया तस्यासत्त्वम्, तर्हि भावस्याप्यभावरूपेणासत्त्वमिति सर्वस्यासत्त्वमेव स्यात्। तस्माद् वर्षकर्मानुत्पादो विद्यमान एव लिङ्गमित्युदाहरणान्तरमेव न्याय्यम्।
न विशेष्यज्ञानत्वात्। न हि विशेष्यज्ञानं सारूप्याद् विशेषणसम्बन्धमन्तरेण भवितुमर्हति। तथाह सूत्रकारः `समवायिनः श्वैत्याच्छ्वैत्यबुद्धेः श्वेते वुद्धिस्ते कार्यकारणभूते' इति।
प्रतिसमाधानमाह यदुक्तं लैङ्गिकज्ञानवत् द्वे द्रव्ये इतिज्ञानं भविष्कयतीत्येतत् *न विशेष्यज्ञानत्वात्* तथाहि, द्वित्वानुरागेणोत्पद्यमानत्वात् `द्वे द्रव्ये' इतिविशेष्यज्ञानमतो विद्यमानस्यैव गुणस्यात्र व्यापारः कल्पनीयः। तथाहि, यस्मान्न विशेष्यज्ञानं *विशेषणसम्बन्धमन्तरेण* विशेषणसम्बन्धं विना *भवितुमर्हति* इति तदुत्पत्तौ विशेषणतज्ज्ञानतत्सम्बन्धानां कारणत्वम्। अन्यथा हि सकलकारणानां विशेष्यज्ञानोत्पत्तौ (विशेष?) व्यापाराविशेषेण नियतस्यैव विशेषणत्वं न स्यात्। अतो विशेषणतज्ज्ञानतत्सम्बन्धानां कारणत्वम्।
तथा चाह सूत्रकारः `समवायिनः श्वैत्याच्छवैत्यबुद्धेः श्वेते बुद्धिस्ते कार्यकारणभूते' (वै. सू. 8।1।8) इत्यनेन सूत्रकारस्याप्ययमर्थोऽभिप्रेत इति दर्शयति। तथाहि श्वेतं द्रव्यम् तस्य भावः श्वैत्यम्, श्वेतगुणस्तस्मात्। किं विशिष्टात्? समवायिनः समवायेन सम्बन्धात्। श्वैत्यबुद्धेरिति श्वेतगुणबुद्धेः। एतस्मात् कारणत्रयात् श्वेतबुद्धिर्विशेष्यज्ञानं `श्वेतं द्रव्यम्' उत्पद्यते। ते पुनर्विशेषणविशेष्यबुद्धी कार्यकारणभूते कार्यकारणस्वभावे इति।
न तु लैङ्गिकं ज्ञानमभेदेनोत्पद्यत इति। तस्माद् विषमोऽयमुपन्यासः।
न च लैङ्गिकं ज्ञानं लिङ्गानुरक्तमिति लिङ्गाभावेऽप्युत्पद्यत इत्याह *न तु लैङ्गिकं ज्ञानमभेदेन* लिङ्गानुरागेणोत्पद्यते। *तस्माद् विषमोऽयमुपन्यासः* इति। योऽयं लैङ्गिकज्ञानवद् `द्वे द्रव्ये' इति भविष्यतीत्युपन्यासः स विषमः समो न भवतीति। तथा हि, विशेष्यज्ञाने विशेषणानुराग इति, लैङ्गिके तु अनुरागाभाव इति वैषम्यम्।
यद् वा विषमोऽयमुपन्यासः, उपन्यस्यते साध्यसाधनयोरस्मिन् व्याप्तिरित्युपन्यासः। लैङ्गिकवदिति दृष्टान्तः। स च विषमः, लिङ्गानुरागशून्यतया तस्य अविशेष्यज्ञानत्वादिति।
अन्ये तु ते विशेषणतज्ज्ञाने कार्यस्य विशेष्यज्ञानस्य कारणभूते। तस्माद् गुणं विना न द्रव्यज्ञानमिति मन्यन्ते।
ते च विशेषणविशेष्यबुद्धी कार्यकारणभूते। न पुनः सर्व विज्ञानं तथाभूतम्, प्रमाणाभावात्।
एतेन सङ्कलनाज्ञानं निरस्तम्, विशेषणविशेष्यज्ञानव्यतिरेकेण ज्ञानान्तरे प्रमाणाभावादित्यलम्।
न। आशूत्पत्तेः, यथा शब्दवदाकाशमिति। अत्र त्रीणि ज्ञानान्याशूत्पद्यन्ते तथा द्वित्वादिज्ञानोत्पत्तावित्यदोषः।
ननु द्वित्वोत्पत्तेः प्राक् ज्ञानद्वयम्, एकत्वसामान्यज्ञानमपेक्षाज्ञानञ्च; उत्पन्ने तु द्वित्वे तत्सामान्यज्ञानम्, गुणज्ञानम्, द्रव्यज्ञानञ्चेति ज्ञानपञ्चकं यदि क्रमेणोत्पद्यते स कस्मान्नोपलभ्यते? अनुपलम्भान्नास्तीति परः, तन्निषेधार्थमाह *न आशूत्पत्तेः* इति। यदुक्तं क्रमस्यासत्त्वमित्येतन्न, आशुभावित्वेन विद्यमानस्यापि क्रमस्यासंवेदनात्।
अथ आशूत्पत्तेः क्रमस्याग्रहणं कस्मिन्नुपलब्धमित्याह *यथा शब्दवदाकाशमिति* इत्यत्र शब्दज्ञानमाकाशज्ञानं शब्दाकाशसम्बन्धज्ञानञ्चेति त्रीणि ज्ञानान्याशूत्पद्यन्ते इति क्रमस्याग्रहणम्, तथा द्वित्वादिज्ञानोत्पत्तौ आशुभावित्वेनैव क्रमाग्रहणमित्यदोषः।
न च ज्ञानानां सहानवस्थानलक्षण एव विरोधे ज्ञानानामाशुभावित्वेनोत्पत्तेः, अविनष्टे हि गुणे द्रव्यज्ञानं भविष्यतीति प्रतिसमाधानमेतदिति वाच्यम्, शीघ्रं कारणसद्भावेन कार्यस्यापि तथाभावात्। अवश्यं गुणबुद्धिसमकालं गुणविनाशे तदायत्तस्य द्रव्यज्ञानस्यानुत्पत्तिरिति दूषणस्याप्यावृत्तेः। यदि ज्ञानयोः सहाविरोधेनावस्थानं नास्तीति सहानवस्थानं विवक्षितमविवाद एव।
वध्यघातकपक्षेऽपि समानो दोष इति चेत्, स्यान्मतम्। ननु वध्यघातकपक्षेऽपि तर्हि द्रव्यज्ञानानुत्पत्तिप्रसङ्गः। कथम्? द्वित्वसामान्यबुद्धिसमकालं संस्कारादपेक्षाबुद्धिविनाशादिति। न। समूहज्ञानस्य संस्कारहेतुत्वात्। समूहज्ञानमेव संस्कारकारणं नालोचनज्ञानमित्यदोषः।
अथेदानीं सहानवस्थानलक्षणविरोधाद् वध्यघातकपक्षेऽपि समानं दूषणमिति परमतमाशङ्कमान इदमाह *वध्यघातकपक्षेऽपि समानो दोष इति चेत्, स्यान्मतम्* अभिप्रेतमिति सङ्ग्रहवाक्यम्। अस्य तु विवरणं *वध्यघातकपक्षेऽपि तर्हि द्रव्यज्ञानानुत्पत्तिप्रसङ्गः* इति। तथाहि, यदि गुणबुद्धिसमकालं गुणविनाशे द्रव्यज्ञानानुत्पत्तिस्तर्हि वध्यघातकपक्षेऽपि तस्यानुत्पत्तिरेव कथम्? सामान्यबुद्धिसमकालं संस्कारादपेक्षाबुद्धिविनाशादिति।
यथा हि, अपेक्षाबुद्धिर्द्वित्वं जनयति एवं संस्कारमपीति। ततस्तस्या विनश्यत्ता, द्वित्वसामान्यज्ञानस्योत्पद्यमानता, ततो द्वित्वसामान्यज्ञानस्योत्पादः, गुणज्ञानस्योत्पद्यमानता, अपेक्षाबुद्धेर्विनाशः, गुणस्य विनश्यत्ता, ततो गुणज्ञानस्योत्पादः, अपेक्षाबुद्धिविनाशाद् गुणस्य विनाश इति तदपेक्षत्वाद् द्रव्यज्ञानस्यानुत्पत्तिरेव। न। समूहज्ञानस्य संस्कारहेतुत्वाद् इति प्रतिसमाधानम्। तथाहि, यदुक्तम्, अपेक्षाबुद्धेः संस्काराद् विनाश इति, तन्न। समूहज्ञानस्य पट्‌वभ्यासादरप्रत्ययस्य संस्कारहेतुत्वादिति।
सङ्ग्रहोक्तेर्विवरणमाह *समूहज्ञानमेव संस्कारकारणम्, न आलोचनज्ञानम्* अपेक्षाज्ञानमिति। तस्माददोषः। किमत्र प्रमाणमिति चेत्, स्मरणानुत्पत्तिर्द्रव्यज्ञानोत्पत्तिश्च। तथाहि, यत्र स्मरणं तत्रैव संस्कारकल्पना क्रियते, न चात्र तदस्तीति। अभ्युपगमे द्रव्यज्ञानमेव न स्यात्। तद् दृष्टम्। अतस्तदन्यथानुपपत्त्या अपेक्षाबुद्धेः संस्काराजनकत्वं निश्चीयते, प्रकारान्तराभावात्।
ज्ञानयौगपद्यप्रसङ्ग इति चेत्, स्यान्मतम्। ननु ज्ञानानां वध्यघातकविरोधे ज्ञानयौगपद्यप्रसङ्ग इति, न। अविनश्यतोरवस्थानप्रतिषेधात्। ज्ञानायौगपद्यवचनेन ज्ञानयोर्युगपदुत्पत्तिरविनश्यतोश्च युगपदवस्थानं प्रतिषिध्यते। न हि वध्यघातकविरोधे ज्ञानयोर्युगपदुत्पत्तिरविनश्यतोश्च युगुवदवस्थानमस्तीति।
अथेदानीं वध्यघातकपक्षेऽपि पराशयमाशङ्कते *ज्ञानयौगपद्यप्रसङ्ग इति चेत् स्यान्मतम्* इति। सङ्ग्रहोक्तेर्विवरणम् *ननु ज्ञानानां वध्यघातकविरोधे ज्ञानयौगपद्यप्रसङ्ग* इति। तथा च यदि ज्ञानानां वध्यघातकलक्षणो विरोधस्तदा एकस्यावस्थाने द्वितीयस्योत्पादाज्ज्ञानयौगपद्यं प्रसज्यत इत्यनिष्टापादनम्।
तन्नानिष्टम्। *अविनश्यतोरवस्थानप्रतिषेधात्*। तथाहि, "ज्ञानायौगपद्यवचनेन प्रयत्नायौगपद्याच्च प्रतिशरीरमेकं मनः" (वै. सू. 3।2।3) इति सूत्रेण युगपदुत्पत्तिः, अविनश्यतोश्च ज्ञानयोः परस्पराविरोधेनावस्थानं प्रतिषिध्यते। वध्यघातकविरोधे तु उभयमपि नास्तीत्याह *न हि वध्यघातकविरोधे ज्ञानयोर्युगपदुत्पत्तिरविनश्यतोश्च युगपदवस्थानमस्तीति* अदूषणमेतत्।
परिमाणवैधर्मय्म्
परिमाणं मानव्यवहारकारणम्। तच्चतुर्विधम्, अणुमहद्दीर्घ ह्रस्वञ्चेति। तत्र महद् द्विविधं नित्यमनित्यञ्च। नित्यमाकाशकालदिगात्मसु परममहत्त्वम्। अनित्यं त्र्यणुकादावेव। तथा च अण्वपि द्विविधं नित्यमनित्यञ्च। नित्यं परमाणुमनःसु। तत्तु पारिमाण्डल्यम्। अनित्यं द्व्यणुक एव।
इदानीमुद्देशक्रमेणावसरप्राप्तस्य परिमाणस्य लक्षणपरीक्षार्थं *परिमाणं मानव्यवहारकारणम्* इत्यादि प्रकरणम्। व्यवहृतिर्व्यवहारो ज्ञानम्, व्यवह्रियतेऽनेनेति व्यवहारोऽभिधानम् तयोर्हेतुः परिमाणमित्युक्तेऽतिप्रसङ्गस्तदर्थ मानपदम्। तथापि मानव्यवहारहेतुत्वमाकाशात्मनोर्विद्यत इति विशेषणत्वे सतीति विशेषणम्। तथापि मानव्यवहारहेतुत्वमाकाशात्मनोर्विद्यत इति विशेषणत्वे सतीति विशेषणम्। तथापि परिमाणत्वसामान्येन व्यभिचारपरिहारार्थद्रव्यविशेषणत्वे सतीति विशेषणमभ्यूह्यमअ। तथा हि, परिमाणम्, इतरस्माद् भिद्यते, द्रव्यविशेषणत्वे सति मानव्यवहारकारणत्वात्, यस्तु इतरस्मादपरिमाणान्न भिद्यते न चासावेवम्, यथा रूपादिरिति। व्यवहारो वा साध्यः।
तथा आवर्त्यमानमिदमेव वाक्यमनेकार्थमिति परीक्षापरत्वेन सम्बद्ध्यते। तथाहि, मानव्यवहारो विशेष्यज्ञानत्वाद् विशेषणमपेक्षते दण्ड्यादिज्ञानवत्। न च रूपादीनामनय्तमस्तद्‌विशेषणं तद्व्यवहारविलक्षणत्वादिति विलक्षणेनैव निमित्तेन भवितव्यम्। न चेदं कल्पनाज्ञानं वासनाप्रभवम्, तस्याः पूर्वमेव प्रतिषेधात्।
*तच्चतुर्विधम्* इति विभागः। केन रूपेणेत्याह *अणुमहद्‌दीर्घ ह्रस्वञ्चेति*।
ननु चायुक्तं चातुर्विध्यं चतुरस्रादिभेदस्यापि सम्भवात्, तन्न, महत्वस्यैव अवयवरचनाविशेषोपलम्भसहकारिणः चतुरस्रादिव्यवहारसम्पादकत्वात्। तथाहि, अवयवरचनाविशेषोपलम्भे सति चतुरस्रं त्र्यस्रं परिमण्डलमिति व्यवहारः, तदभावे च नेति न परिमाणान्तरसिद्धिः।
नन्वेवं दीर्घत्वह्रस्वत्वव्यवहारोऽप्यवयवसंयोगविशेषोपलम्भादेव भविष्यतीत्यलं दीर्घत्वह्रस्वत्वपरिकल्पनया? न, तदनुपलब्धावपि दीर्घत्वोपलब्धेः। तथाहि, मन्दमन्दप्रकाशे सत्यन्तरेणाप्यवयवरचनोपलम्भं स्थाण्वादौ दीर्घप्रतिभासो दृष्टः। न चैवं कचतुरस्रप्रतिभास इत्यन्वयव्यतिरेकाभ्यामित्यूह्यम्।
तत्र मत्त्वाणुत्वयोरप्यवान्तरभेदात् षड्‌विधमपि परिमाणमित्याह *महद् द्विविधं नित्यमनित्यञ्च* इति। *नित्यमाकाशकालदिगात्मसु* वर्तते। तच्च *परममहत्त्वम्* न तस्मादूर्ध्वं महत्त्वमस्तीति। *अनित्यं त्र्यणुकादावेव* इति। त्र्यणुकमादौ यस्य तत्तथोक्तम्, तत् तस्मिन्नेव, तत्र हि उत्पत्तिकारणसद्भावात्।
तथा न परं महद् *अण्वपि द्विविधं नित्यमनित्यञ्च*। केष्वित्याह [*परमाणुमनःसु*] परमाणवश्च मनश्चेतिपरमाणुमनांसि तेषु वर्तते। *पारिमाण्डल्यम्* इति तस्य नाम। तथा हि परिमण्डलानि परमाणुमनांसि तेषां भावः पारिमाण्डल्यम्, तत् परिमाणमेव। तत्तु नित्यम्, उत्पत्तिविनाशकारणानुपलब्धेः। तथाहि, परमाणूनां कारकणासम्भवान्न तत्परिमाणकारणम् अनेकत्वसंख्या प्रचयो वास्तीति। एतावत्तु कारणं परिमाणस्य। न च नित्यत्वादणूनां विनाशः सम्भवतीति तत्परिमाणस्य नित्यत्वमेव। *अनित्यं द्व्यणुक एव* इत्याश्रयान्तरव्युदासः।
कुवलयामलकबिल्वादिषु महत्स्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तोऽणुत्वव्यवहारः। दीर्घत्वह्रस्वत्वे च उत्पाद्यमहदणुत्वैकार्थसमवेते। समिदिक्षुवंशादिष्वञ्जसा दीर्घेष्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तो ह्रस्वत्वव्यवहारः।
ननु चायुक्तमेतद्, अन्यत्राप्यणुव्यवहारोपलब्धेः, न, तत्र मुख्यासम्भवेन उपचाराभ्युपगभात् इत्याह *कुवलयामलकबिल्वादिषु महत्स्वपि तत्प्रकर्षभावाभावमपेक्ष्य* परिमाणातिशयः। कुवलयाद्यपेक्षया तस्माद् वा प्रकर्षः, तस्य भावो विद्यमाता बिल्वादौ, तदभावमपेक्ष्यामलकेऽणुव्यवहारः। तथा तत्प्रकर्षः कुवलयापेक्षया परिमाणातिशयः, तस्य भावो विद्यमानता आमलके, तदभावमपेक्ष्य कुवलयेऽणुव्यवहारः। यत्र हि वास्तवमणुत्वं तत्र परिमाणातिशयस्याभावो द्रष्टव्यः। तस्यान्यत्राप्युपलम्भाद् उपचारः प्रवर्तत एव।
यद् वा मुख्यासद्भावे किं प्रमाणमित्याह *भाक्तोऽणुव्यवहारः*। यथा हि माणवके सिंहव्यवहारो मुख्यापेक्षः, तद्वदयमणुव्यवहारोऽप्युपचरितत्वान्मुख्यपूर्व इत्यणुत्वसिद्धिः। तथा च कुवलयादिषु अणुव्यवहारो मुख्यपूर्वको भाक्तव्यवहारत्वात्, माणवके सिंहव्यवहारवत्।
यथा च महत्त्वाणुत्वयोर्नित्यानित्यभेदो नैवं दीर्घत्वह्रस्वत्वयोः, आश्रयान्तरानुपपत्तेः। क्व वा तयोर्वृत्तिरित्याशङ्कायामाह [*दीर्घत्वह्रस्वत्वे च*] दीर्घत्वञ्च ह्रस्वत्वञ्चेति दीर्घत्वह्रस्वत्वे। ते तु *उत्पाद्यमहदणुत्वैकार्थसमवेते* उत्पाद्ये च ते महदणुत्वे च उत्पाद्यमहदणुत्वे; ताभ्यां सहैकस्मिन्नर्थे समवेते। तथाहि, त्र्यणुकादावुत्पाद्यं महत्त्वं तत्रैव दीर्घत्वम्। द्व्यणुके चाणुत्वं तत्रैव ह्रस्वत्वमिति। परमाणूनां परिमण्डलत्वान्न ह्रस्वत्वम्, आकाशादेर्व्यापकत्वाच्च न दीर्घत्वम्, तद्‌विपरीतेषु तद्व्यवहारदर्शनात्।
अथ द्व्यणुकेष्वेव [कथं] ह्रस्वत्वमित्युक्तमन्यत्रापि तद्व्यवहारोपलब्धेः? तन्न, बाधकसद्भावेन अन्यत्रोपचाराभ्युपगमादित्याह *समिदिक्षुवंशादिष्वञ्जसा दीर्घेष्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तो ह्रस्वत्वव्यवहारः* इति। तथाहि, समिदादिषु दीर्घत्वोत्पत्तौ कारणसद्भावादञ्जसा मुख्यया वृत्त्या दीर्घत्वम्। दीर्घेष्वपि ह्रस्वत्वव्यवहारो दृष्ट इति मुख्यासम्भवात् उपचारः कल्प्यते। तत्र च तत्प्रकर्षभावाभावो निमित्तम्। तस्य वंशादेः प्रकर्षः समिदाद्यपेक्षया दीर्घत्वातिशयः, तस्य भावो विद्यमानता वंशादौ, तदभावमपेक्ष्य इक्षौ ह्रस्वत्वव्यवहारः। समिधमपेक्ष्य इक्षौ दीर्घत्वातिशयः, तत्र तदभावमपेक्ष्य समिधि ह्रस्वव्यवहारः।
यद्वा मुख्यह्रस्वत्वस्य सद्भावे किं प्रमाणम्? उपचरितो ह्रस्वव्यवहारः। तथाहि, समिदादिषु ह्रस्वव्यवहारः, मुख्यपूर्वकः, भाक्तव्यवहारत्वात्, माणवके सिंहव्यवहारवदिति।
परिमाणोत्पत्तिप्रकारः
अनित्यं चतुर्विद्यमपि संख्यापरिमाणप्रचययोनि।
एवं चातुर्विध्यमुक्त्वोत्पत्तिकारणमाह *अनित्यं चतुर्विधमपि संख्यापरिमाणप्रचययोनि* इति। संख्या च परिमाणञ्च प्रचयश्चेति संख्यापरिमाणप्रचयाः, ते योनिः कारणमस्येति। संख्यापरिमाणप्रचयैः समस्तव्यस्तैर्जन्यत इति वाक्यार्थः। तथा च सूत्रम् "कारणबहुत्वात् कारणमहत्त्वात् प्रचयविशेषाच्च महदिति" (वै. सू. 7।1।1)। अनित्यग्रहणम् नित्यव्युदासार्थम्। चतुर्विधमिति न्यूनताव्यवच्छेदः।
तत्रेश्वरबुद्धिमपेक्ष्योत्पन्ना परमाणुद्व्यणुकेषु बहुत्वसंख्या तैरारब्धे त्र्यणुकादिलक्षणे कार्यद्रव्ये करूपाद्युत्पत्तिसमकालं महत्त्वं दीर्घत्वञ्च करोति।
सूत्रार्थप्रक्रमस्य विवक्षित्वाद् उद्देश [क्रमा] तिक्रमेण महत्त्वोत्पत्तौ कारणमाह *तत्रेश्वरबुद्धिमपेक्ष्योत्पन्ना परमाणुद्व्यणुकेषु बहुत्वसंख्या तैरारब्धे त्र्यणुकादिलक्षणे कार्यद्रव्ये रूपाद्युत्पत्तिसमकालं महत्त्वं दीर्घत्वञ्च करोति*। तथा चेश्वरबुद्धिर्नित्या सकलार्थविषया चेति एकैकगुणालम्बनास्त्येव। तामपेक्ष्यैकैकगुणैः परमाणुद्व्यणुकेषु त्रित्वमारभ्यते। परमाणुद्व्यणुकेष्विति द्व्यणुकव्यवच्छेदार्थम्। परमाणुभ्यामेव द्व्यणुकमारभ्यते, न द्व्यणुकाभ्याम्, व्यर्थारम्भप्रसङ्गादित्युक्तम्। अतः परमाणुद्व्यणुकारब्धे कार्यद्रव्य इति। तैरारब्धं रूपाद्यपि भवतीति तन्निषेधार्थं द्रव्यग्रहणम्। द्रव्यपदञ्च द्रव्यत्वेऽपि वर्त्तत इत्यभिव्यक्तिविवक्षया तदप्यारब्धमिति कार्यग्रहणम्। त्र्यणुकादिलक्षण इति। त्र्यणुकञ्च तदादिलक्षणं कारणकार्यस्वरूपञ्चेति। यद् वा सर्वमहद्‌द्रव्याणामादौ लक्ष्यत इत्यादिलक्षणम्, तस्मिन्नुत्पन्ने रूपाद्युत्पत्तिसमकालं द्व्यणुकेषु वर्तमानं त्रित्वं महत्त्वं दीर्घत्वञ्च करोतीति।
तथाहि, कार्यवस्तुनोऽसमवायिकारणपूर्वकत्वं दृष्टमिति त्र्यणुकस्य समवायिकारणत्वाद् अन्येनासमवायिकारणेन भवितव्यम्। द्व्यणुकेषु च महत्त्वस्याभावान्न कारणगुणपूर्वकत्वम्। अथाणुपरिमाणादेव त्र्यणुके महत्त्वम्, कारणपरिमाणात् कार्यपरिणामस्यातिशयोपलब्धेः। तथा च पटापेक्षया सूक्ष्मास्तन्तवस्तदपेक्षया तदंशव इति दृष्टम्। एवं द्व्यणुकापेक्षया अतिशयपरिमाणसम्बन्धि त्र्यणुकं भविष्यतीति।
तदसत्। यच्छब्दवाच्यं कारणपरिमाणं तच्छब्दवाच्यं कार्येऽपीति त्र्यणुके द्व्यणुकपरिमाणमेव स्यात्। यथा महच्छब्दवाच्यात् तन्तुगणाद् उत्पद्यमानः पटस्तच्छब्दवाच्य इति। एवमणुपरिमाणादणुपरिमाणमेव स्यात्। परमाणुपरिमाणाच्च द्व्यणुकेऽपि परिमाणमिति कल्पनायामणुत्वस्यासम्भवे कथं तस्मान्महत्त्वमिति। न चाणुत्वस्यासम्भवे परमाणुरिति युक्तम्। तथा चाणोरतिशयेनाणुः परमाणुरिति व्यपदिश्यते। अन्यथा हि विशेषणमनर्थकमेव स्याद् व्यवच्छेद्याभावात्। महत्त्वञ्चापेक्ष्याणुव्यवहारः, न च परमाणुरिति। न च महत्त्वम् अणुपरिमाणस्य कारणत्वाभ्युपगमे। तस्मादण्वभावे परमाणुव्यवहारोच्छेदप्रसङ्गात् न परमाणुपरिमाणं कारणम्।
इतश्च परमाणुपरिमाणस्याणुत्वोत्पत्तावणुत्वस्य महत्त्वोत्पत्तावसमवायिकारणत्वमयुक्तम्। अत्यन्तसमानजातीयस्यासमवायिकारणत्वोपलब्धेः। तथा चात्यन्तं समानजातीयमसमवायिकारणं यथा शुक्लतमाद् रूपाच्छुक्लतममेव रूपम्। अत्यन्तविजातीयञ्च यथा संयोगाच्छब्द इति। न चैवमणुपरिमाणं महत्त्वोत्पत्तौ, परमाणुपरिमाणश्चाणुत्वोत्पत्ताविति। तस्यापि परिमाणत्वान्नात्यन्तं विजातीयत्वम्। परमाणुत्वञ्चाणुत्वस्यैव विशेषेऽणुत्वञ्च महत्त्वाज्जात्यन्तरमेवेति नात्यन्तसमानजातीयत्वम्।
न चात्र प्रचयः सम्भवति, रूपादीनां स्वकार्ये सामर्थ्यावधारणात्। अतः संख्यैवासमवायिकारणमिति कल्प्यते। प्रत्यासत्तिर्महती। तथा च महत्त्वं दीर्घत्वञ्च त्र्यणुके वर्तते त्र्यणुकश्च द्व्यणुकेषु, त्रित्वमपि तेष्वेवेति कार्यकारणैकार्थसमवायलक्षणा प्रत्यासत्तिरिति।
नन्वेवमीश्वरबुद्धेर्नित्यत्वाद् द्व्यणुकानाञ्च कालान्तरमवस्थानाद् अवस्थायित्वमेव, संख्याया नित्यद्रव्यसमवेतायाश्च नित्यत्वमिति। नैष दोषः। संख्यायाः कार्यत्वादवश्यं विनाशित्वमिति। निर्हेतुकविनाशप्रतिषेधेनास्या विनाशहेतोरभावात् स्थितिहेत्वदृष्टाभावाद् विनाशः कल्प्यते।
यद्वा ईश्वरशब्दो योगीश्वरे वर्तत इति तद्बुद्धेरनित्यत्वात् तद्‌विनाशो घटत एव संख्यायाः।
तथाहि, द्व्यणुके क्रियोत्पन्ना, यदैव विभागमारभते, संयोगस्य विनश्यत्ता, तदैवैकत्वसामान्ये ज्ञानमुत्पद्यते, अपेक्षाबुद्धेरुत्पद्यमानता, ततः संयोगस्य विनाशः, उत्तरसंयोगस्योत्पद्यमानता, अपेक्षाबुद्धेरुत्पादः, त्रित्वस्योत्पद्यमानता, ततो द्व्यणुकस्य द्व्यणुकाभ्यां संयोगस्योत्पादः, त्र्यणुकस्योत्पद्यमानता, विभागकर्मणोर्विनश्यत्ता, त्रित्वस्योत्पादः, तत्सामान्यज्ञानस्योत्पद्यमानता, ततस्त्र्यणुकस्योत्पादः, विभागकर्मणोर्विनाशः, त्रित्वसामान्यज्ञानस्योत्पादः, महत्त्वदीर्घत्वयोरुत्पद्यमानता, अपेक्षाबुद्धेर्विनश्यत्ता, त्रित्वगुणबुद्धेरुत्पद्यमानता, ततो महत्त्वदीर्घत्वयोरुत्पादः, अपेक्षाबुद्धेर्विनाशः, त्रित्वगुणस्य विनश्यत्ता, त्रित्वगुणबुद्धेरुत्पादः, द्रव्यज्ञानस्योत्पद्यमानता, ततो द्रव्यज्ञानसमकालं त्रित्वस्यापि विनाश इति।
द्विबहुभिर्महद्भिश्चारब्धे कार्यद्रव्ये कारणमहत्त्वान्येव महत्त्वमारभन्ते न बहुत्वम्, समानसंख्यैश्चारब्धेऽतिशयदर्शनात्।
महत्त्वान्महत्वमुत्पद्यत इत्याह *द्विबहुभिर्महद्‌भिश्चारब्धे कार्यद्रव्ये कारणमहत्त्वान्येव महत्त्वमारभन्ते* इति। द्वे च बहवश्च तैर्द्विबहुभिः। किं विशिष्टैः? महद्‌भिः। आरब्धे कार्यद्रव्ये कारणगतानि महत्त्वान्येव महत्त्वमारभन्ते न बहुत्वम्। कथम्? समानसंख्यैः कारणैरारब्धे कार्येऽतिशयदर्शनात्।
तथाहि, स्थूलैश्चतुर्भिरारब्धं कार्यमेकम्, अन्यैश्च सूक्ष्मैश्चतुर्भिरेव। यत्तु स्थूलैरारब्धं तदतिशयेन महत् सम्पद्यत इति महत्त्वस्यैव कारणत्वम्, संख्यायाश्चोभयत्र साधारणत्वात् कारणत्वे परिमाणस्याविशेषः स्यात्। यत्र च द्वयोरारम्भकत्वं, तत्र बहुत्वासम्भवेन महत्त्वस्यैव कारणत्वमिति।
अन्ये तु संख्यायाः परिमाणवदन्वयव्यतिरेकाभ्यामन्यत्र सामर्थ्यावधारणाद् इहापि कारणत्वमिति मन्यन्ते। यच्चेदं समानसंख्यैरारब्धेऽपि एकत्रातिशयदर्शनं [न] तत् संख्यायाः कारणत्वप्रतिषेधपरम्, परिमाणस्यापि अकारणत्वप्रसङ्गात्। तथा हि, यथा समानसंख्यैरारब्धमपेक्ष्य तत्र परिमाणातिशयस्तथा स्थूलतमैः समानसंख्यैरारब्धमपेक्ष्य [तत्‌परिमाणैरसमानसंख्यैरारब्धे] तत्परिमाणस्यानतिशयोपलब्धेः परिमाणस्याप्यकारणत्वं स्यात्। तथा अधिकपरिमाणापेक्षयानतिशयसद्भावेऽपि एतत् [चेत्] कारणम् अन्वयव्यतिरेकाभ्यां सामर्थ्यावगतेरिष्यते, तत्सद्भावे तस्य भावस्तदभावे चाभाव इत्येतत् संख्यायामपि समानम्। यदि चात्र महत्त्वोत्पत्तावकारणं संख्या, तर्हि स्थूलैस्त्रिभिरारब्धमेकम् अनय्त् चतुर्भिरित्युभयत्रापि कारणपरिमाणस्याविशेषात् कार्यपरिमाणस्याविशेषः स्यात्। न चैतत्। चतुर्भिराब्धे परिमाणातिशयदर्शनात्। अतः संख्यापि कारणमिति। तथा समानसंख्यैः समानपरिमाणैश्चारब्धे महत्त्वमुभाभ्यां सम्पद्यत इति युक्तम्, अन्यत्रोभयोः सामर्त्यावधारणाद्, इह प्रत्यासन्नत्वाच्चेति। तथा च त्रितन्तुकादि परिमाणं त्रितन्तुकादौ वर्तते। त्रितन्तुकादौ च तन्तुषु तत्परिमाणञ्च तत्संख्या च तेष्वेवेति कार्यकारणैकार्थसमवायलक्षणा प्रत्यासत्तिरिति। कथं तर्हीदं वाक्यम् "कारणमहत्त्वान्येव महत्त्वमारभन्ते न बहुत्वमिति? अवधारणप्रतिषेधार्थम्। तथाहि, यदुक्तं समानसंख्यैरारब्धेऽतिशया[]दर्शनात् कारणमहत्त्वान्येव महत्त्वमारभन्त इति, एतन्न। बहुत्वस्याप्युक्तन्यायेन कारणत्वात्।
ि यद् वा समानसंख्यैराब्धेऽतिशया[]दर्शनादिति महत्त्वस्य कारणत्वोपदर्शन मेतत्, नावधारणमिति।
प्रचयश्च तूलपिण्डयोर्वर्तमानः पिण्डारम्भकावयवप्रशिथिलसंयोगापेक्षः, इतरेतरपिण्डावयवसंयोगापेक्षो वा द्वितूलके महत्त्वमारभते न बहुत्वमहत्त्वानि, समानसंख्यापलपरिमाणैरारब्धेऽतिशयदर्शनात्।
प्रचयस्य कारणत्वमाह *प्रचयशच् तूलपिण्डयोर्वतंमानः पिण्डारम्भकावयव[प्र]शिथिलसंयोगापेक्षः, इतरेतरपिण्डावयवसंयोगापेक्षो वा द्वितूलके महत्त्वमारभते* इति।
तूलपिण्डश्च तूलपिण्डश्च तूलपिण्डौ, तयोर्वर्तमानः संयोगः प्रचयः। किंविशिष्टः? पिण्डारम्भकप्रशिथिलसंयोगापेक्ष इति। पिण्डारम्भकाश्च प्रशिथिलसंयोगाश्च तानपेक्षत इति तदपेक्षः। इतरेतरपिण्डावयवसंयोगापेक्षश्चेति। वा समुच्चये, न तू विकल्पे, अपेक्षाकारणत्वेनाभ्युपगतयोरुभयोरप्यत्र सद्भावात्। इतरस्य पिणअडस्येतरपिण्डावयवैः संयोगस्तथा इतरस्येतरावयवैरिति। इतरेतरपिण्डयोर्वा येऽवयवास्तेषां संयोगास्तानपेक्षत इति तदपेक्षः। स च द्वाभ्यां तूलकाभ्यामारब्धेऽपि तूलके महत्त्वमारभत इति। त्रितूलकादावप्येतत् समानम्। प्रत्यासत्तिस्तु महती द्वितूलकपरिमाणए द्वितूलके वर्तते, द्वितूलके तु तूलपिण्डयोः संयोगोऽपि। तत्रैव बहुत्वमहत्त्वयोः सद्‌भावेऽपि कारणत्वप्रतिषेध इत्याह *न बहुत्वमहत्त्वानि* द्वितूलकादौ महत्त्वमारभन्ते। कुतः? *समानसंख्यापलपरिमाणैरारब्धेऽतिशयदर्शनात्।
तथाहि, त्रिभिस्तूलपिण्डैः पञ्चपलैः प्रशिथिलावयवसंयोगैरारब्धमेकम्, अन्यच्च तद्‌विपरीतैः। तत्र यत् प्रशिथिलावयवसंयोगैरारब्धं तत्र परिमाणातिशयो दृष्ट इति प्रचयस्यैव कारणत्वम्, न संख्यापलपरिमाणानाम्, तत्कारणत्वे चोभयत्राविशेषः स्यात्।
अथ पलस्य सर्वत्र परिमाणाकारणत्वात् प्रसक्त्यभावे न युक्तः प्रतिषेधः। तथाहि, पाषाणादौ पलातिशयसद्भावेऽपि परिमाणस्यातिशयाभावः। तूलपिण्डादौ च तदभावेऽपि अतिशयोपलब्धेर्न पलस्य गुरुत्वविशेषत्वात् कारणत्वम्। किमर्थस्तत्र प्रतिषेधः? व्यामोहप्रतिषेधार्थः। तथा च परे व्यामोहाद् यद्येवंविधस्यापि पलस्य कारणत्वं प्रतिपद्येरंस्तदपि नास्ति, समानपलैरारब्धेऽतिशयादर्शनात्।
अन्ये तु अस्यैव दोषस्य परिहारार्थं पलशब्दस्य समानशब्दपर्यायतां ब्रुवते। समानसंख्यापलपरिमाणैरिति समानसंख्यैः समानपरिमाणैरित्यर्थः।
ननु चायुक्तमवधारणं प्रचयस्यैव कारणत्वमिति, बहुत्वमहत्त्वयोरप्यन्यत्र सामर्थ्यावधारणे सतीह प्रत्यासन्नत्वात्। न च समानसंख्यापलपरिमाणैरारब्धेऽपि एकत्रातिशयदर्शनं बहुत्वमहत्त्वयोः कारणत्वप्रतिषेधे हेतुः, अन्यापेक्षयानतिशयसद्भावे प्रचयस्याप्यकारणत्वप्रसङ्गात्। तथाहि, समानसंख्यापलपरिमाणैः प्रशिथिलावयवसंयोगैश्चतुर्भिरारब्धमेकम् अन्यच्च तथाविधैस्त्रिभिरिति। चतुर्भिरारब्धेऽतिशयदर्शनात् संख्यापि कारणम्। तथा स्थूलैश्चतुर्भिः प्रशिथिलावयवसंयोगैरारब्धमेकम् अन्यच्च स्थूलतमैस्तथाविधैरेवेत्यत्र कारणपरिमाणातिशयेन कार्यपरिमाणस्यातिशयोपलब्धेः परिमाणस्यापि कारणत्वम्। यत्र तु समानसंख्यापरिमाणैः प्रशिथिलावयवसंयोगारब्धैर्महत्त्वमारभ्यते तत्राविशेषेण त्रितयस्यापि कारणत्वम्, अन्यत्र सामर्थ्यावधारणे सतीह प्रत्यासन्नत्वात्। वाक्यस्य तु व्याख्यानं पूर्ववत्।
द्वित्वसंख्या चाण्वोर्वर्तमाना द्व्यणुकेऽणुत्वमारभते
अणुत्वोत्पत्तौ कारणमाह *द्वित्वसंख्या चाण्वोर्वर्तमाना द्व्यणुकेऽणुत्वमारभते* इति। द्व्यणुकाणुपरिणाणं कार्यम्। तस्य हि समवायिकारणं द्व्यनुकमित्यन्येनासमवायिकारणेन भवितव्यम्। परमाणुपरिमाणस्य चारम्भकत्वप्रतिषेधेऽन्यस्य चासम्भवाद् द्वित्वसंख्यैवाण्वोर्वर्तमाना कार्यकारणैकार्थसमवायेन द्व्यणुकाणुपरिमाणोत्पत्तावसमवायिकारणमिति। अणुशब्दश्च सामान्यशब्दत्वात् परमाणावपि वर्तत एव, अणुत्वे सति परम इति विशेषणात्। विनाशस्तु द्वित्वसंख्यायाः पूर्ववद्व्याख्येयः।
महत्त्ववत् त्र्यणुकादौ कारणबहुत्वमहत्वसमानजातीयप्रचयेभ्यो दीर्घत्वस्योत्पत्तिः। अणुत्ववद् द्व्यणुके द्वित्वसंख्यातो ह्रस्वत्वस्योत्पत्तिः।
दीर्घत्वोत्पत्तौ कारणमाह *महत्त्ववत् त्र्यणुकादौ कारणबहुत्वमहत्त्वसमानजातीयप्रचयेभ्यो दीर्घत्वस्योत्पत्तिः* इति। यथा हि महत्त्वं कारणबहुत्व [महत्त्व] समानजातीयप्रचयेभ्यो भवति एवं दीर्घत्वमपीति। त्र्यणुके कारणबहुत्वादेव दीर्घत्वम्, द्वितन्तुके कारणदीर्घत्वादेवेति। त्रितन्तुकादौ बहुत्वदीर्घत्वप्रचयैर्दीर्घत्वमारभ्यते इत्यतिदेशार्थः। तथा *अणुत्ववद्[द्व्यणुके] द्वित्वसंख्यातो ह्रस्वत्वस्योत्पत्तिः* इति। यथा कारणान्तरासम्भवाद् द्वित्वसंख्या अणुत्वस्योत्पत्तावसमवायिकारणम् एवं ह्रस्वत्वस्यापीति।
अथ त्र्यणुकादिषु वर्तमानयोर्महत्त्वदीर्घत्वयोः परस्परतः को विशेषः, द्व्यणुकेषु चाणुत्वह्रस्वत्वयोरिति? तत्रास्ति महत्त्वदीर्घत्वयोः परस्परतो विशेषः, महत्सु दीर्घमानीयतां, दीर्घेषु च महदानीयतामिति विशिष्टब्यवहारदर्शनादिति। अणुत्वह्रस्वत्वयोस्तु परस्परतो विशेषस्तद्‌दर्शिनां प्रत्यक्ष इति।
एतच्चतुर्विधमपि परिमाणमुत्पाद्यमाश्रयविनाशादेव विनश्यतीति।
अथ समानजातीयकारणजन्यत्वात् *त्र्यणुकादिषु वर्तमानयोर्महत्त्वदीर्घत्वयोः परस्परतः को विशेषः, द्व्यणुके[षु] चाणुत्वह्रस्वत्वयोः* इति। यतः कारणभेदात् भिद्यन्ते पदार्था महत्त्वदीर्घत्वादौ तदभाव इति। तन्न। [प्रतिभा] सभेदेन महत्त्वदीर्घत्वयोर्भेदसद्भावे सति तज्जनकयोः कारणसामग्र्योर्भेदोपपत्तेः।
तथाहि कार्यभेदेन सामग्रीभेदो ज्ञायते। स चेहास्त्येव प्रतिभासभेदादित्याह *तत्रास्ति महत्त्वदीर्घत्वयोः परस्परतो विशेषः*। कुतः? *महत्सु दीर्घर्मानीयतां दीर्घेषु [च] मह [दिति? दानीयतामिति विशिष्ट] व्यवहारदर्शनात्। अन्यथा हि महत्त्व[ा]विशेषात् ततो दीर्घत्वेनातिशय्यानयनं दीर्घेषु च महत्त्वेनेति न स्यात्। दृष्टञ्चैतत्। तस्माद् दीर्घत्वं महत्त्वाद् भेदेन प्रतिपन्नं महत्त्वञ्च दीर्घत्वादिति प्रतिभासभेदाद् रूपादीनामिव भेदः।
समानकारणजन्यत्वञ्च समवाय्यसमवायिनिमित्तापेक्षया। (वि?)पाकजैर्व्यभिचरतीति नाभेदे हेतुः। सामग्र्यपेक्षया तु समानकारणत्वमसिद्धम्, कार्यभेदेन तद्भेदोपपत्तेः। *अणुत्वह्रस्वत्वयोस्तु(व्यवहार?)परस्परतो विशेषस्तद्‌दर्शिनाम्* इति। योगिनां प्रत्यक्षस्तेषामतीन्द्रियार्थदर्शित्वात्। ह्रस्वत्वसद्भावस्तु भाक्तव्यवहारेण पूर्वं व्यवस्थापित इति विद्यमानत्वाद् योगिनामवश्यमितरपदार्थव्यावृत्ततया ग्रहणमित्यलम्।
*एतच्चतुर्विधमपि परिमाणमुत्पाद्यमाश्रयविनाशादेव विनश्यतीतिः। कारणान्तरप्रतिषेधार्थमवधारणम्। उत्पाद्यग्रहणन्तु नित्यपरिमाणव्यवच्छेदार्थमिति।
पृथक्‌त्ववैधर्म्यम्
पृथक्त्वमपोद्धारव्यवहारकारणम्। तत्पुनरेकद्रव्यमनेकद्रव्यञ्च। तस्य तु नित्यानित्यत्वनिष्पत्तयः संख्यया व्याख्याताः।
एतावांस्तु विशेषः, एकत्वादिवदेकपृथक्‌त्वादिष्वपरसामान्याभावः संख्यया तु विशिष्यते, तद्‌विशिष्टव्यवहारदर्शनादिति।
इदानीमुद्देशक्रमेणावसरप्राप्तस्य पृथक्‌त्वस्य लक्षणपरीक्षार्थ *पृथक्त्वमपोद्धारव्यवहारकारणम्* इत्यादिप्रकरणम्। व्यवहृतिर्व्यवहारो ज्ञानम्, व्यवह्रियतेऽनेनेति व्यवहारोऽभिधानं तयोर्हेतुः पृथक्‌त्वमित्युक्तेऽतिप्रसङ्गस्तदर्थमपोद्धारग्रहणम्। अपोद्धरणमपोद्धारः पृथक्‌करणम्। तथाप्यपोद्धारव्यवहारहेतुत्वमाकाशान्मनोर्न व्यावृत्तमिति विशेषणत्वे सतीति पदमूह्यम्। पृथक्त्वत्वसामान्यव्यवच्छेदार्थञ्च द्रव्य[पदमपी]ति। पृथक्त्वमितरेभ्यो भिद्यते, द्रव्यविशेषणत्वे सति अपोद्धारव्यवहारकारणत्वात्, यस्त्वितरेभ्यो न भिद्यते न चासावेवम्, यथा रूपादिरिति। व्यवहारो वा साध्यः।
तथा परीक्षापञ्च वाक्यम्। अपोद्धारव्यवहारो हि विशिष्टव्यवहारः। स च नर्त्ते विशेषणाद् भवतीति रूपादिव्यवहारविलक्षणत्वाद् विलक्षणेनैव निमित्तेन भवितव्यम्, तथा रूपाद्यनुपलब्धौ पृथगिति व्यवहारदर्शनाच्च।
न चेदम् अस्मात्पृथगिति व्यवहारो विशेषणसम्बन्धाद् भविष्यतीति वाच्यम्, अनित्येषु नित्यविशेषाणामभावात्। अथानित्येष्वसाधारणधर्मसम्बन्धः पृथगिति व्यवहारे निमित्तम्? तन्न, तद्‌विशिष्टतानुपलब्धेः। न हि पृथगिति व्यवहारे द्रव्यरूपादिकर्मसामान्यात्मिका असाधारणधर्मविशिष्टता प्रतिभाति।
यच्चाभिहितं तेभ्योऽर्थान्तरं विशेषणं न पृथक्त्वम्। अथेतरेतराभावस्तर्हि निमित्तम्। तथाहि, `इदमिदं न भवति', `इदमस्माद् व्यावृत्तम्, कपृथग्, अर्थान्तरम्, विलक्षणम्, इति प्रत्ययाः सर्वत्र तन्निमित्ता एवेति? न, पदार्थान्तरावधिं विना एकत्वादिसंख्याविशिष्टस्य पृथगिति व्यवहारस्य ततोऽर्थान्तरत्वात्। तथाहि, इतरेतराभावविशिष्टो व्यवहारः पदार्थान्तरावधित्वेन प्रवर्तते न चैकत्वादिसंख्यानुरक्तः। तद्‌विलक्षणश्चायमित्यर्थान्तर निमित्तः।
अन्ये तु इतरेतराभावस्य प्रतिषेधार्थं xxxxxxx नानाप्रत्ययजनकमिति। न। अनित्यद्रव्येषु नित्यस्य गुणस्यानुपलब्धेराश्रयविनाशेन तद्‌विनाशे सर्वत्रानुपलब्धिरेव स्यात्। अनित्यतायान्त्वशेषद्रव्याश्रितस्योत्पत्तिकारणाभावः, तेषां क्रमेणोत्पादात्। न चान्यत्र समवेतमुपजातमन्यत्र समवैतीति अदर्शनात्। एकस्य च नित्यस्यानेकवृत्तौ (द्रव्यत्व?)सामान्यरूपता स्यात्। न च द्रव्यं द्रव्यमिति प्रत्ययवत् पृथक् पृथगिति पदार्थान्तरावधिं विना प्रत्ययो दृष्टः। सावधिकस्तु प्रत्ययोगुणादिष्वपीतरेतराभावनिमित्तो न सामान्यनिबन्धनः। तद्‌विलणश्चायमित्युक्तम्।
अथ पृथक्त्वप्रत्यया विभिन्नस्वभावाः संख्यया विशिष्यन्त इति। अथ पूर्वं द्वित्वादेरुत्पादोऽपेक्षाबुद्धिविनाशेन विनाशोपपत्तेर्न द्विपृथक्त्वादिकालेऽवस्थानम्, द्विपृथक्त्वादेश्च पूर्वमुत्पादे द्रव्यज्ञानसमकालं विनाशात् द्वित्वोत्पत्तिसमकाले नावस्थानम्, अतो विशेष्यज्ञानसमकालं विनाशात् द्वित्वोत्पत्तिसमकाले नावस्थानम्, अतो विशेष्यज्ञानोत्पत्तौ व्यापारानुपपत्तेर्द्वित्वादेर्न विशेषणत्वमिति।
अथैकस्मिन्नेव काले विभिन्नपुरुषयोरपेक्षाबुद्धिद्वारेण उभयोरुत्पत्तिसम्भवाद् युक्तं द्वित्वादेर्विशेषणत्वमिति चेन्न। पुरुषान्तरबुद्धिसम्पादितस्य द्वित्वादेः पुरुषान्तरेणाग्रहणात्। गृहीतञ्च विशेषणमिति, नैष दोषः, स्मर्यमाणस्योपलक्षणत्वाभ्युपगमात्।
तथाहि, द्विपृथक्त्वोत्पादिकायाः स्वकारणात् अपेक्षाबुद्धेरुत्पत्तिः, द्वित्वस्मरणस्योत्पद्यमानता, द्विपृथक्त्वस्योत्पद्यमानता, ततो द्वित्वस्मरणस्योत्पादः, द्विपृथक्त्वस्योत्पादः, अपेक्षाबुद्धेर्विनश्यत्ता, द्विपृथक्त्वगुणबुद्धेरुत्पद्यमानतेत्येकः कालः।
ततो द्वित्वस्मरणस्य द्विपृथक्त्वज्ञानजनकत्वमेवेति मन्यमाना गुणादिष्वपि `एतस्मादयं व्यावृत्तो विलक्षणः' इत्यादिव्यवहारः पृथक्त्वनिमित्तः, स च निर्गुणत्वाद् गुणादीनामुपचार इति मन्यन्ते। न च पृथगिति ज्ञानं निर्विषयं वासनाप्रभवम्, तस्याः पूर्वमेव प्रतिषेधात्।
लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धौ संशये सति तन्निरासार्थं विभागमाह *तत्पुनरेकद्रव्यमनेकद्रव्यञ्च* इति। एकमेव द्रव्यमाश्रयोऽस्येत्येकद्रव्यम्। अनेकमेव च द्रव्यमाश्रयोऽस्याविनश्यद[वस्थ]द्रव्यस्येत्यनेकद्रव्यम्।
*तस्य तु द्विविधस्यापि नित्यानित्यत्वनिष्पत्तयः संख्यया व्याख्याताः* इत्यतिदेशः। तथाहि, एकपृथक्त्वं नित्येष्वनिष्पद्यमानत्वान्नित्यम्। कार्येषु च कारणगुणपूर्वकमाश्रयविनाशादाशु विनश्यतीत्यतिदेशार्थः। द्विपृथक्त्वादेर्द्वित्वादिवदपेक्षाबुद्धित उत्पत्तिर्विनाशस्तु तद्‌विनाशात्। क्वचिदाश्रयविनाशाच्च। शतपृथक्त्वाद्युत्पत्तिस्तु शतसंख्योत्पत्तिन्यायेनेत्यतिदेशः।
नन्वेवं तर्हि शतसंख्यातो न विशेषः स्यादित्याशङ्क्याह *एतावांस्तु विशेषः, एकत्वादिवदेकपृथक्त्वादिष्वपरसामान्याभावः* इति। यथा हि, संख्यात्वव्यतिरेकेणापरमेकत्वादिसामान्यमस्ति नैवम् एकपृथक्त्वादीति।
अथानुगतज्ञानादयुक्तमेतत्, न, अनय्था तदुपपत्तेः। तथाहि, द्रव्यगुणकर्मनिमित्तमबाध्यमानमनुगतं ज्ञानं सामान्यसत्तां दर्शयति। पृथक्त्वे च एकत्वादिसंख्यावशादनुगतज्ञानं घटत इत्याह *संख्यया तु विशिष्यते*। कुतः? *तद्‌विशिष्टव्यवहारदर्शनात्*। इदमेकं पृथक्, द्वे पृथक्, त्रीणि पृथगित्यादि।
अथाशेषद्रव्येष्वेकमेवास्तु पृथक्त्वं संख्यावद् विशेषणज्ञानत्वाद् विशेषणमपेक्षते। न च रूपादीनामन्यतमं निमित्तं, तद्व्यवहारविलक्षणत्वादिति निमित्तान्तरेण भवितव्यमिति।
[इतःप्रभृति पृथक्त्वप्रकरणान्तः पाठः संयोगप्रकरणे आदर्शपुस्तके आसीत् किन्तु द्विपृथक्त्वोत्पादकप्रक्रियानिरूपकत्वादयं ग्रन्थस्तत्रासङ्गतो दृश्यतेऽतोऽत्र निवेशितोऽपि स्थानभ्रष्टत्वात् पाठभ्रष्टत्वाच्च सङ्गतिर्नैव दृश्यते। स च विद्‌द्भिः स्वयं योजनीयः।]
तत्‌क्रियया गुणबुद्धेरुत्पादो, द्रव्यबुद्धेरुत्पद्यमानता, द्वित्वस्मरणस्य विनश्यत्ता, अपेक्षाबुद्धेर्विनाशः, द्विपृथक्त्वगुणस्य विनश्यत्ता, ततो द्वे पृथगिति द्रव्यबुद्धेरुत्पादः, गुणबुद्धेर्विनश्यत्ता, द्वित्वस्मरणस्य विनाशः, अपेक्षाबुद्धिविनाशात् गुणस्य विनाशः, संस्कारस्योत्पद्यमानता, ततः संस्काराद् द्रव्यबुद्धेर्विनाश इति।
यद् वा द्वित्वोत्पादिकाया अपेक्षाबुद्धेरुत्पादः, द्वित्वस्योत्पद्यमानता, द्विपृथक्त्वोत्पादिकायाश्चापेक्षाबुद्धेरुत्पद्यमानता, ततोद्वित्वस्मरणस्योत्पादः तद्‌बुद्धेरुत्पद्यमानता, द्विपृथक्त्वोत्पादिकायाश्चापेक्षाबुद्धेरुत्पादः, द्विपृथक्त्वस्योत्पद्यमानता, द्वित्वोपादिकाया अपेक्षाबुद्धेर्विनश्यत्ता, ततो द्विपृथक्त्वस्योत्पादः, द्वित्वगुणबुद्धेरुत्पादः, द्वित्वगुणात्तज्ज्ञानात् तदेकार्थसमवायाच्च द्विपृथक्त्वगुणबुद्धेरुत्पद्यमानता, अपेक्षाबुद्धेर्विनाशः, द्वित्वस्य विनश्यत्ता, द्विपृथक्त्वोत्पादिकायाश्चापेक्षाबुद्धेर्विनश्यत्तेत्येकः कालः।
ततो द्विपृथक्त्वगुणबुद्धेरुत्पादः, द्रव्यबुद्धेरुत्पद्यमानता, द्वित्वगुणस्य विनाशः, तद्बुद्धेर्विनश्यत्ता, द्विपृथक्त्वोत्पादिकायाश्चापेक्षाबुद्धेर्विनाशः, द्विपृथक्त्वगुणस्य विनश्यत्तेत्येकः कालः।
ततो द्वे पृथगिति द्रव्यबुद्धेरुत्पादः, गुणबुद्धेर्विनश्यत्ता, द्विपृथक्त्वगुणस्य विनाशः, द्वित्वगुणबुद्धेश्च विनाशः, संस्कारस्योत्पद्यमानता, ततः संस्काराद् द्रव्यबुद्धेर्विनाश इति। अत्र तु विद्यमानस्य द्वित्वगुणस्य स्वानुभवसहकारिणो द्विपृथक्त्वगुणज्ञानोत्पत्तौ व्यापार इति विशेषः।
अन्ये त्वेकैकगुणालम्बनैका बुद्धिरुत्पद्यते, द्वित्वद्विपृथक्त्वयोरुत्पद्यमानतेति मन्यन्ते। ततो द्वित्वद्विपृथक्त्वयोरुत्पादः, द्वित्वगुणज्ञानस्योत्पद्यमानता, ततो द्वित्वगुणज्ञानस्योत्पादः, द्विपृक्त्वज्ञानस्योत्पद्यमानता, अपेक्षाबुद्धेर्विनश्यत्ता, ततो द्विपृथक्त्वगुणज्ञानस्योत्पादः, द्रव्यज्ञानस्योत्पद्यमानता, द्वित्वगुणज्ञानस्य विनश्यत्ता, अपेक्षाबुद्धेर्विनाशः, द्वित्वद्विपृथक्त्वयोर्विनश्यत्ता, ततो द्रव्यज्ञानस्योत्पादः, द्विपृथक्त्वगुणज्ञानस् विनाशः, द्वित्वद्विपृथक्त्वयोर्विनाशः, संस्कारस्योत्पद्यमानता, ततः संस्काराद् द्रव्यबुद्धेविनाश इत्यत्र तु विद्यमानस्य द्वित्वगुणस्य द्वे पृथगिति द्रव्यज्ञानस्योत्पत्तावपि व्यापार इति विशेषः।
अथ समवेतानामेव गुणकर्मसामान्यानां विशेषणतोपलब्धेः कथं द्विपृथक्त्वादाववर्त्तमानं द्वित्वादि विशेषणमिति चेत्, बाधकोपपत्तेरुपचारेणेत्युक्तं पदार्थसङ्करे। तथा च सूत्रं `गुणकर्मसु गुणकर्माभावात् गुणकर्मापेक्षं न विद्यते (वै. सू.) इति, गुणकर्मसु समवेतानां गुणकर्मणामभावात् तदपेक्षं मुख्यज्ञानं नास्तीति।

संयोगवैधर्म्यम्
संयोगः संयुक्तप्रत्ययनिमित्तम्। स च द्रव्यगुणकर्महेतुः, द्रव्यारम्भे निरपेक्षस्तथा भवतीति, सापेक्षेभ्यो निरपेक्षेभ्यश्चेति वचनात्। गुणकर्मारभ्भे तु सापेक्षः, संयुक्तसमवायादग्नेर्वैशेषिकमिति वचनात्।
इदानीमुद्देशवतः संयोगस्य लक्षणपरीक्षार्थं *संयोगः संयुक्तप्रत्ययनिमित्तम्* इत्यादि प्रकरणम्। प्रतीतिः प्रत्ययो ज्ञानम्, प्रतीयतेऽनेनेति प्रत्ययोऽभिधानम्, तयोर्निमित्तं सर्वेऽपि पदार्था इति संयुक्तग्रहणम्। तथापि संयुक्तप्रत्ययनिमित्तत्वमाकाशात्मनोर्विद्यत इति विशेषणत्वे सतीति कार्यम्। अतः संयोग इतरेभ्यो मिद्यते, विशेषणत्वे सति संयुक्तप्रत्ययनिमित्तत्वात्, यस्त्वितरस्मादसंयोगान्न भिद्यते न चासावेवम्, यथा रुपादिरिति। परीक्षापरत्वेनापि सम्बन्धते संयोगः संयुक्तप्रत्ययनिमित्तमिति वाक्यम्।
अथ विशिष्टोत्पादाद् द्रव्यमेव संयुक्तव्यवहारनिमित्तम्। तथाहि, विश्लेषक्षणात् संश्लेषक्षणोत्पादे संयुक्तव्यवहारो दृष्टो नान्यथेति। तदसत्, विशिष्टताया व्यतिरेकानभ्युपगमे तस्या द्रव्यरूपतया सर्वत्राविशेषात् द्रव्यमात्रे संयुक्तप्रत्ययः स्यात्। व्यतिरेके तु येन सता रूपादिविलक्षणेन संयुक्त इति व्यवहारः स एव संयोग इति न किञ्चिद् बाध्यते, संश्लेषस्यात्र संयोगरूपत्वादिति। नचायं व्यवहारो वासनानिमित्तस्तस्याः पूर्वमेव प्रतिषेधात्।
अर्थक्रियामाह *स च द्रव्यगुणकर्महेतुः* इति। [संयोग] सद्‌भावे प्रमाणञ्चेदमिति। न हि तन्तुसंयोगादृते पटस्योपत्तिः, भेरीदण्डसंयोगञ्च विना शब्दस्य, हस्ततोमरादिसंयोगाभावे च तोमरकर्मण इति दृष्टञ्च अतो संयोगोऽभ्युपगन्तव्यः।
कथं पुनर्द्रव्यारम्भकत्वमस्येत्याह *द्रव्यारम्भे निरपेक्षः* इति। यद्यपि समवाय्यादिकारणमपेक्षते तथाप्यनपेक्षः पश्चाद्‌भाविकारणानपेक्षणात्। यथा च व्याख्यातमेतत् *तथा भवति* नान्यथेति। कुतो ज्ञातमिति चेत्? *सापेक्षेभ्यो निरपेक्षेभ्यश्चेति* (वै. सू.) वचनात्। अस्य च सूत्रस्यायमर्थः। पूर्वमन्त्यतन्तुसंयोगोत्पत्तेः सापेक्षास्तन्तवः पटं नारभन्ते। तज्जातीयानान्तु पटान्तरे सामर्थ्यावधारणादन्त्यतन्तुसंयोगसम्पादनायोपादीयन्ते। तदुत्पत्तौ चानपेक्षास्तदनन्तरमेवारभन्त इति द्रव्यारम्भे निरपेक्षः संयोगः। अत एवान्त्यसंयोगव्यतिरेकेण नान्या शक्तिः, तस्याश्चरमसहकारिरूपत्वादित्युक्तं पृथिव्यधिकारे।
न च पूर्वस्य विरलदेशक्षणस्य विनिवृत्तावविरलदेशक्षणस्य विशिष्टस्योत्पादे पटव्यवहारादलं संयोगकल्पनयेति वाच्यम्, क्षणभङ्गस्य प्रतिषेधात्। अवयवव्यतिरिक्तस्य चावयविनो व्यवस्थापनादिति।
*गुणकर्मारम्भे तु सापेक्षः* पश्चाद्भाविनिमित्तापेक्षत्वादिति। कथं ज्ञायत इत्याह *`संयुक्तसमवायादग्नेर्वैशेषिकम्' (वै. सू.) इति वचनात्* अस्यार्थः, संयुक्तः पार्थिवेन परमाणुनाग्निस्तत्र समवायादग्नेः सम्बन्धिनं वैशेषिकगुणमुष्णस्पर्शनपेक्षमाणः पार्थिवपरमाण्वग्निसंयोगः पाकजानारभते। अग्नेः सम्बन्धिनमुष्णस्पर्शमपेक्षमाणो वैशेषिकं रूपादिकमारभते।
ननूष्णस्पर्शस्य चिरोत्पादान्न पश्चाद्भावित्वमस्ति, पूर्वोत्पन्नकारकापेक्षित्वं द्रव्यारम्भे संयोगस्येष्यत एवेत्यविशेषः स्थात्? न, श्यामादिनिवृत्तिविशिष्टस्य पश्चाद्भावात्। तथा हस्तात्मसंयोगः पश्चाद्भाविनं प्रयत्नम् पेक्षणाणो हस्ते कर्मारभते।
नन्वेवमपि आत्ममनःसंयोगस्य बुद्ध्याद्युत्पत्तौ न पश्चाद्भाविनिमित्तमस्ति, शरीरसम्बन्ध इति चेत्, न, तस्य पश्चाद्भावानुपपत्तेः। यद्यपि संहारावस्थायामान्ममनःसम्बन्धसद्भावेऽपि न ज्ञानम्, शरीरसम्बन्धे तु भवति। तथापि शुक्रशोणितसम्बन्धसमकालं मनःसम्बन्धाभ्युपगमादवश्यं प्राक्तनसंयोगस्य निवृत्तिरिति न तदपेक्षया शरीरसम्बन्धश्चरमभावी। परिनिष्पण्णेऽपि च शरीरे मनसः क्रियाद्वारेण सम्बन्धात् तथा शरीरस्यापि भवतीति न तत्र पूर्वापरभावे प्रमाणमस्तीति।
न चैवमात्ममनःसम्बन्धस्यानपेक्षित्वमेव, सुखदुःखादीनां निमित्तकारणानां तदुत्तरकाले भावात्। तथाहि, इच्छोत्पत्तावात्ममनःसम्बन्धस्य सुखं स्मरणं वा पश्चाद्भावित्वादपेक्षाकारणम्, एवं द्वेषाद्युत्पत्तावपि दुःखादेः कारणत्वमभ्यूह्यम्। शरीरसम्बन्धस्य तु नियमेन पश्चाद्भावित्वं निषिध्यते, न कारणत्वमिति। एवं कर्मोत्पत्तावपि संयोगस्य न सर्वत्र चरमभाविनिमि[त्तं? त्तत्वं] सम्भवतीति। तथा शाखादावुपरि पाषाणादिसंयोगाद् गुरुत्वापेक्षादधोगमनम्, नदीस्रोतसि च द्रवत्वापेक्षात् तृणोदकसंयोगात् तृणादौ गमनञ्च गुरुत्वद्रवत्वयोः पश्चाद्भावित्वमस्तीति।
नन्वेवं तर्हि `गुणकर्मारम्भे सापेक्षः' इत्ययुक्तं वाक्यम्? न, अयोगव्यवच्छेदानभ्युपगमात्। तथा च गुणकर्मारम्भ एव सापेक्षो न तु सापेक्ष एव, अनपेक्षितत्वस्याप्युपलब्धेः।
अथ कथंलक्षणः कतिविधश्चेति? अप्राप्तयोः प्राप्तिः संयोगः। स च त्रिविधः। अन्यतरकर्मजः, उभयकर्मजः, संयोगजश्च। तत्रान्यतरकर्मजः क्रियावता निष्क्रियस्य, यथा स्थाणोः श्येनेन, विभूनाञ्च मूर्त्तैः। उभयकर्मजो विरुद्धदिक्‌क्रिययोः सन्निपातः, यथा मल्लयोर्मेषयोर्वा। संयोगजस्तु उत्पन्नमात्रस्य चिरोत्पन्नस्य वा अक्रियस्य कारणसंयोगिभिरकारणैः कारणाकारणसंयोगपूर्वकः कार्याकार्यगतः संयोगः। स चैकस्माद् द्वाभ्यां बहुभ्यश्च भवति। एकस्मात् तावत् तन्तुवीरणसंयोगात् द्वितन्तुकवीरणसंयोगः द्वाभ्यां तन्त्वाकाशसंयोगाभ्यामेको द्वितन्तुकाकाशसंयोगः। बहुभ्यश्च तन्तुतुरीसंयोगेभ्य एकः पटतुरीसंयोगः।
*अथ कथंलक्षणः कतिविधश्चेति*वाक्यं लक्षणस्य निर्णीतत्वाद् व्यर्थम्? न, लक्षणान्तराभिधित्सया अस्योपपत्तेः। यद्यप्युपसर्जनस्य प्राक् लक्षणमुक्तम्, तथापि स्वातन्त्र्येण कथमस्य लक्षणमित्याशङ्का भवत्येव। परीक्षापरमेव तद्‌वाक्यमिति अन्ये। यद् वा विपर्यस्तोऽयं कथंलक्षणमस्येति, न सम्भवत्येव संयोगस्य लक्षणमिति मन्यन्ते।
कतिविधश्चेति भेदार्थं प्रश्नः। तत्र लक्षणमाह *अप्राप्तयोः प्राप्तिः संयोगः* इति। प्राप्तिः समवायोऽपि भवतीत्यप्राप्तयोरिति पदम्। पर्यायशब्दस्य च लक्षण[त्व]मिष्टमेव। स च प्रत्यक्षेण गृह्यत इति न संयोगस्यासम्भवेन लक्षणस्याश्रयासिद्धत्वमिति।
*स च त्रिविधः* इति भेदप्रतिपादनं सामान्यलक्षणस्यासम्भवित्वपरिहारार्थम्। केन रूपेण त्रैविध्यमित्याह *अन्यतरकर्मज उभयकर्मजः संयोगजश्च* संयोग इति। तत्रान्यतरस्मिन् कर्म तस्माज्जातोऽन्यतरकर्मजः। *यथा स्थाणोः श्येनेन* इति। *विभूनाञ्च मूर्त्तैः* इत्युदाहरणद्वयमवान्तरविशेषविवक्षया। तथाहि, श्येनस्थाणुसंयोगः कर्मणा संयोगेन च जन्यते। विभूनास्तु परमाणुभिः संयोगः कर्मणैवेति। संयोगकर्मणोश्च व्यापाराविशेषेऽपि कर्मणैव व्यपदेशः संग्रहार्थम्। अन्यतरकर्मजत्वमुभयत्राप्यस्तीत्यवबोधः [?नाय]।
नन्वेवं संयोगजः कर्मजश्चेति वाच्यम्, तद्‌विशेषत्वादन्येषामिति। सत्यम्। तथापि कर्मजस्यैतावानेव भेद इति परिसंख्यार्थमन्यतरादिग्रहणम्, न संयोगस्य कारणत्वप्रतिषेधार्थपरम्। तथा च प्रयत्नापेक्षाच्छ्येनचरणसंयोगाच्चरणक्रियाया उत्पादः, विभागस्योत्पद्यमानता, श्येनावयविनय्स्वकारणात् क्रियाया उत्पद्यमानता, ततः श्येनचरणविभागस्योत्पादः, संयोगस्य विनश्यत्ता, श्येनावयविकर्मणोऽप्युत्पादः, विभागस्योत्पद्यमानता, ततः श्येनचरणसंयोगस्य विनाशः, उत्तरसंयोगस्योत्पद्यमानता, श्येनावयविविभागस्योत्पादः, श्येनावयविकर्मणा च श्येनस्थाणुसंयोगो जन्यते, प्रत्यासन्नत्वे सत्युभयोः सामर्थ्यावधारणात्। अतः श्येनस्थाण्वोः समवायिकारणत्वम्, श्येनक्रियायास्तच्चरणस्थाणुसंयोगस्य चासमवायिकारणत्वम्। प्रत्यासत्तिस्तु श्यनचरणसंयोगस्य महत्यपि सम्भवतीत्यन्यतरावरोधे न विशेषहेतुरस्तीति वक्ष्यामः।
उभयकर्मजोऽप्युभयोः कर्मणी ताभ्यां जातः। *यथा मल्लयोर्मेषयोर्वा*। अत्राप्यवयवकर्मभ्यां विभागसमकालमवयविनः कर्माभ्युपगमे संयोगैरवयविकर्मभ्याञ्च संयोगो जन्यत इति चिन्त्यम्। यथा ह्यवयवकर्म अवयवान्तरेण संयोगं करोति, एवं तदवयविनापि इतरावयवकर्मापि, इतरावयवकर्मसंयोगवत् तदवयविनापीति, संयोगत्रितयम्। तच्च प्रत्यासन्नत्वे सति सामर्थ्यावधारणात् कारणमिति। मेषयोः समवायिकारणत्वम्। [अत्रैव द्विपृथक्त्वोत्पादकप्रक्रियापाठो मातृकायमासीत्] संयुक्तप्रत्यये हि विशेष्यावयवावयविसंयोगस्य चासमवायिकारणत्वम्, शेषं निमित्तकारणमिति। केवलोभयकर्मजत्वञ्च परमाणुद्वयसंयोगस्य द्रष्टव्यम्।
अन्ये तु उभयपदस्य लुप्तविभक्तिकस्य पूर्वोत्तरेण सम्बन्धात् संयोगकर्मजभेदस्यापि ग्रहणं भविष्यत्येवेति मन्यन्ते। तथाहि, संयोगकारणत्वेनोभयोरुपलम्भात् कर्मणः स्वशब्देनोपादाने अन्यतरः संयोगो लभ्यत एव। अन्यतरश्च कर्म चान्यतरकर्मणी ताभ्यां जातोऽन्यतरकर्मजः। स चोभय एकेन कर्मणा सङ्गत्य द्वितीयेन जन्यते। द्वाभ्याञ्च संयोगः सद्वितीयाभ्यामिति। तथोभयः केवलकर्मजोऽप्येकेन कर्मणा जन्यते द्वाभ्याञ्चेति। *संयोगजस्तु उत्पन्नमात्रस्य चिरोत्पन्नस्य वा* इत्युभयः। तस्य लक्षणमाह *अक्रियस्य* इत्यादि।
अक्रियस्येत्ययं नियमः। कैः सहेत्याह *अकारणैः*। किंविशिष्टैः? *कारणसंयोगिभिः* इति। कारणेन संयोगास्ते येषां तानि तथोक्तानि, तैः कारणसंयोगिभिरकारणैः सह अक्रियस्य यः संयोगः स संयोगजोऽनय्स्य कारण[स्या]भावात्।
संग्रहोक्तेर्विवरणमाह *कारणाकारणसंयोगपूर्वकः कार्याकार्यगतः संयोगः* इति। कारणमत्र समवायिकारणम्, स्वकार्यस्य तदपेक्षयान्यदकारणम्। तयोर्यः संयोगस्तत्पूर्वकः कार्याकार्यगतः संयोगः। प्रकृतस्य कारणस्य यत् कार्यं तत्संयुक्तञ्चान्यदकार्यं तयोः संयोगज इति। तत्र चिरोत्पन्नस्योदाहरणं विभागजविभागावसरे वक्ष्यमाणमित्युत्पन्नमात्रस्य विभागद्वारेणोदाहरणमाह *स चैकस्मात्* इत्यादि। स च संयोगजसंयोगः, *एकस्माद् द्वाभ्यां बहुभ्यश्च*। `च' शब्दादेकस्माद् द्वौ इति विभागः।
*एकस्मात्तावत् तन्तुवीरणसंयोगात् द्वितन्तुकवीरणसंयोगः* इति। तथा हि, तन्तोर्वीरणेन संसृष्टस्य तन्त्वन्तरेणाभिसम्बन्धे सति द्वितन्तुकमुत्पद्यते। तस्य च रूपाद्युत्पत्तिसमकालं वीरणेन संयोगो जनय्त इति तदुत्पत्तावसमवायिकारणमन्वेषणीयम्। न चात्र क्रिया सम्भवति, उभयोर्निष्क्रियत्वात्। रूपादीनाञ्च स्वकार्योत्पत्तावेव सामर्थ्यावधारणात्। असमवायिकारण़ञ्च विना वस्तुभूतस्य कार्यस्योत्पत्तिर्नोपलब्धेति तन्तुवीरणसंयोग एव समानजातीयत्वे सति प्रत्यासन्नत्वादसमवायिकारणमिति। प्रत्यासत्तिस्तु कार्यैकार्थसमवायः कारणैकार्थसमवायश्चेत्युभयरूपा न सम्भवत्येवेति, कार्यैकार्थसमवायस्यैव ग्रहणं कारणेनाव्यवधानादिति केचित्। महती तु यत्र कारणवृत्तीनामेव कार्ये गुणारम्भकत्वं तत्रैव ग्राह्येति।
न चैकस्यारम्भकत्वे `गुणाश्च गुणान्तरमारभन्ते' (वैः सू. ...) इति सूत्रविरोधः। कारणवृत्तीनां समानजात्यारम्भकत्वमेव नियमात्। तथाहि, ये कारणवृत्तयः समानजातीयमेवारभन्ते तेषामनेकत्वसंख्यायुक्तानामेवारम्भकत्वमिति नियमः। तदेवं द्वितन्तुकवीरणयोः समवायिकारणत्वम्, तन्तु वीरणसंयोगस्यासमवायिकारणत्वम्। शेषं निमित्तकारणमिति।
द्वितन्तुकवीरणसंयोगस्योत्पत्तिः *द्वाभ्यां तन्त्वाकाशसंयोगाभ्या [मेको] द्वितन्तुकाकाशसंयोगः* इति। तन्तोराकाशसम्बद्धस्य तन्त्वन्तरेणाभिसम्बन्धे सति द्वितन्तुकमुत्पद्यते। तन्तुक्रिया च तन्त्वन्तरेणेव चाकाशदेशेनापि संयोगं करोति, प्रतिबन्धकाभावात्। उत्पन्ने तु द्वितन्तुके रूपाद्युत्पत्तिसमकालमाकाशेनापि संयोगो भवत्येव। किमत्र प्रमाणमिति चेत्, अनुमानम्।
तथा हि, द्वितन्तुकं स्वकारणसंयोगिना संयुज्यते, तत्संयुक्तकारणकार्यत्वात्, वीरणसंयुक्तद्वितन्तुकवत्। आकाशं वा, स्वसंयुक्तकारणकार्येण संयुज्यते, तत्कारणसंयोगित्वात्, द्वितन्तुकसंयुक्तवीरणवतृ। सिद्धे च संयोगे तस्य कार्यत्वादुत्पत्तिकारणं चिन्त्यम्। तत्र द्वितन्तुकाकाशयोः समवायिकारणत्वमिति अन्येनासमवायिकारणेन भवितव्यम्। न च रूपाद्युत्पत्तिसमकालं द्वितन्तुके क्रिया सम्भवतीति तन्त्वाकाशसंयोगयोः समानजात्तीयत्वे सति प्रत्यासन्नत्वादसमवायिकारणत्वमिति। प्रत्यासत्तिस्तूभयरूपापि सम्भवतीति पूर्ववद् ग्राह्या।
*बहुभ्यश्च तन्तुतुरीसंयोगेभ्य एकः पटतुरीसंयोगः* तन्तूनां तुर्या सह संयोगे सति अन्त्यतन्तुसंयोगानन्तरं पट उत्पद्यते। तस्य तत्पटाद्युत्पत्तिसमकालं तुर्या सह संयोगो गृह्यते इत्युत्पत्तिकारणं वाच्यम्। तत्र पटतुर्योः समवायिकारणत्वमनय्स्यासमवायिकारणस्यानुपलब्धेस्तुन्तुतुरीसंयोगानामसमवायिकारणत्वम्। प्रत्यासत्तिस्तु पूर्ववद् बाच्येति।
ननु चायुक्तमेतत्, तन्तूनां पटोत्पत्तावकारणत्वात्। कारणाकारणसंयोगपूर्वकश्च कार्याकार्यगतः संयोगः संयोगज इति तन्तोस्तन्त्वन्तरेणाभिसम्बन्धे सति द्वितन्तुकमुत्पद्यते। पुनस्तन्त्वन्तरेणाभिसम्बन्धेऽन्यत् कार्यम् इत्यनेककार्यव्यवधानेन पटोत्पत्तेः कथं तन्तूनां पटोत्पत्तौ कारणन्वम्? न, आरब्धकार्यस्यैव सहकार्यन्तरप्राप्तावारम्भकत्वे सति आरभ्यारम्भकवादः स्यात्, तत्र च मूर्त्तानां समानासमानदेशत्वम्। तथा हि, तन्तुभ्यामारब्धं तनत्वोर्वर्त्तते। पुनरन्यसहिताभ्यामारब्धं तयोस्तत्र चेत्येवमुत्तरोत्तरेष्वप्यूह्यम्।
अथान्यसहिताभ्यामारब्धमेकस्मिन्नेव वर्त्तत इत्येकद्रव्यवृत्तित्वं स्यात्, `इह तन्तुषु पटः' इति प्रत्ययाभावश्च। तद्‌विनाशे चावान्तरकार्यानुपलम्भः, शेषञ्च आरभ्यारम्भकवादे दूषणं पृथिव्यधिकारे ज्ञेयम्। तस्माद् व्योमादिसम्बन्धादवयवक्रियाद्वारेणावान्तरकार्यविनाशे तन्त्वन्तराभिसम्बन्धकालमवस्थितसंयोगास्तन्तवः पुनः कार्यान्तरमारभन्त इत्येष न्यायस्तावद् यावदन्त्यतन्तुसंयोगात् पटोत्पत्तिरिति।
न चावान्तरकार्योत्पत्तिवैयर्थ्यम्, तदन्तरेणाभिप्रेतकार्यानुत्पत्तेः। यथा हि, विशिष्टस्थानप्राप्तिर्नावान्तरस्थानप्राप्तिं विना सम्पद्यत इत्यकारणत्वेऽपि तत्सद्भावः, तद्वदवान्तरकार्यं विनाभिप्रेतकार्यं न सम्पद्यत इति, तस्मात् तत्सद्भावोऽभ्युपगन्तव्यः। कारणत्वन्तु निषिध्यते तदपायेऽप्युत्पत्तेरित्यलम्।
*एकस्माच्च द्वयोरुत्पत्तिः। कथम्? यदा पार्थिवाप्ययोरण्वोः संयोगे सत्यन्येन पार्थिवेन पार्थिवस्य अन्येनाप्येन चाप्यस्य युगपत् संयोगौ भवतस्तदा ताभ्यां संयोगाभ्यां पार्थिवाप्ये द्‌व्यणुके युगपदारभ्येते। ततो यस्मिन् काले द्‌व्यणुकयोः कारणगुणपूर्वक्रमेण रूपाद्युत्पत्तिस्तस्मिन्नेव काले इतरेतरकारणाकारणगतात् संयोगादितरेतरकार्याकार्यगतौ संयोगौ युगपदुत्पद्येते। किं कारणम? कारणसंयोगिना हि अकारणएन कार्यमवश्यं संयुज्यतइति न्यायः। अतः पार्थिवद्‌व्यणुकं कारणसंयोगिना आप्येनाणुना सम्बद्ध्यते। आप्यमपि द्‌व्यणुकं कारणसंयोगिना पार्थिवेनेति। अथ द्व्यणुकयोरितरेतरेतरकारणाकारणसम्बद्धयोः कथं परस्परतः सम्बन्ध इति? तयोरपि संयोगजाभ्यां संयोगाभ्यां सम्बन्ध इति।
अथैकस्मात् संयोगाद् द्वयोः संयोगयोरुत्पत्तिः कथमित्याह *यदा पार्थिवाप्ययोरण्वोः संयोगे सत्यन्येन पार्थिवेन परमाणुना सह पार्थिवस्य, [अन्येन] आप्येन चाप्यस्य युगपत् संयोगौ भवतस्तदा* ताभ्यां समानजातीयद्रव्यसम्बन्धात् *पार्थिवाप्ये द्व्यणुके युगपदारभ्येते*। ततो द्व्यणुकोत्पादानन्तरं यस्मिन्नेव काले कारणगुणपूर्वप्रक्रमेण द्व्यणुकयो रूपाद्युत्पत्तिः *तस्मिन्नेव काले इतरेतरकारणाकारणगतात् संयोगादितरेतरकार्याकार्यगतौ संयोगौ युगपदुत्पद्येते*। इतरः परमाणुः कारणं स्वकार्यस्य, इतरोऽकारणं तदपेक्षया। एवमन्योऽपीति। तद्गतात् तत्समवेतात् संयोगादितरेतरकार्याकार्यगतौ, इतरत् पार्धिवं द्व्यणुकं कार्यं स्वकारणस्य, इतरश्चाप्यपरमाणुरकार्यः, तथेतरदाप्यं द्व्यणुकं कार्यमितरश्त्रपार्थिवपरमाणुरकार्यः, तद्गतौ संयोगौ युगपदुत्पद्येते। तत्र च द्व्यणुकपरमाण्वोः समवायिकारणत्वमिति अन्यदसमवायिकारणं चिन्त्यम्। न चात्र क्रिया सम्भवति, उभर्योर्निष्क्रियत्वादिति परमाण्वोः संयोगः प्रत्यासन्नत्वे सति सामर्थ्यावधारणात् कारणमिति।
अथ पार्थिवद्व्यणुकस्य आप्येनाणुना संयोगः, तथा आप्यस्य पार्थिवेनेति किं कारणम्, किं प्रमाणमित्याह *कारणसंयोगिना हि अकारणएन कार्यमवश्यं संयुज्यत इति न्यायः* प्रमाणम्। तथाहि, पार्थिवद्व्यणुकं स्वकारणसंयोगिना संयुज्यते, तत्संयुक्तकारणकार्यत्वात्, वीरणसंयुक्तद्वितन्तुकवत्। आप्यो वा परमाणुः स्वसंयुक्तकारणकार्येण संयुज्यते, तत्कारणसंयोगित्वात्, द्वितन्तुकसंयुक्तवीरणवत्। एवमितरत्रापि वाच्यम्। यत एवमतः पार्थिवद्व्यणुकं स्वकारणसंयोगिना आप्येनाणुना सम्बध्यते, आप्यमपि द्व्यणुकं पार्थिवेनेति।
*अथ द्व्यणुकयोरितरेतरकारणाकारणसम्बद्धयोः* इति। इतरस्य पार्थिवद्व्यणुकस्य यत् कारणम् तदितरस्याकारणम्, एवमाप्यद्व्यणुकस्य कारणमितरस्यपार्थिवद्व्यणुकस्याकारणम्। तत्सम्बद्धयोर्द्व्यणुकयोः परस्परतः कथं सम्बन्ध इत्याह *तयोरपि संयोगजाभ्यां संयोगाभ्यां सम्बन्धः* इति। यौ तौ कार्याकार्यगतौ संयोगावेकस्मात् संयोगादुत्पन्नौ ताभ्याम्। द्व्यणुकयोः समवायिकारणत्वम्, कार्याकार्यसंयोगयोश्चासमवायिकारणत्वम्। प्रत्याससत्तिस्तु उभयरूपापि सम्भवतीति पूर्ववद् ग्राह्या। अदृष्टादिश्च निमित्तकारणमिति।
न च द्व्यणुकस्य स्वकारणसंयोगिना परमाण्वन्तरेण द्व्यणुकान्तरेणापि रूपाद्युत्पत्तिसमकालमेकस्मादेव कारणाकारणसंयोगात् संयोगो भविष्यतीति वाच्यम्। तस्मिन् काले द्व्यणुकस्य कारणसंयोगित्वाभावात्। कारणसंयोगिना चाप्यकार्येण संयोगः संयोगज इति। तस्मादाप्यद्व्यणुकस्य पार्थिवेन परमाणुना संयोगः पार्थिवस्य चाप्येनेति पूर्वमेवाभिधेयम्। येन कारणसंयोगित्वाद् द्व्यणुकयोरपि संयोगः संयोगजो भवतीति।
नाजः संयोगेऽस्ति, नित्यपरिमण्डलवत् पृथगनभिधानात्। यथा चतुर्विधं परिमाणमुत्पाद्यमुक्त्वा आह `नित्यं पारिमाण्डल्यम्' इत्येवमन्यतरकर्मजादिसंयोगमुत्पाद्यमुक्त्वा पृथङ्‌नित्यं ब्रूयान् न त्वेवमव्रवीत्, तस्मान्नास्त्यजः संयोगः। परमाणुभिराकाशादीनां प्रदेशवृत्तिरन्यतरकर्मजः संयोगः। विभूनान्तु परस्परतः संयोगो नास्ति युतसिद्ध्यभावात्। सा पुनर्द्वयोरन्यतरस्य वा पृथग्‌गतिमत्त्वं युताश्रयसमवायित्वञ्चेति।
इदानीं विभागसूत्रेऽजसंयोगानभिधानान्न्यूनत्वमित्याशङ्क्य परिहारार्थमाह *नाजः संयोगोऽस्ति नित्यपरिमण्डलवत् पृथगनभिधानात्*। यथा भगवानृषिः सकलार्थदर्शी *चतुर्विधं परिमाणमुत्पाद्यमुक्त्वा आह *नित्यं पारिमाण्डल्यम्* परमाणुपरिमाणमस्तीति *एवमन्यतरकर्मजादिसंयोगम्* त्रिविधम्। *उत्पाद्यमुक्त्वा पृथङ् नित्यम्* संयोगम्। *ब्रूयात्, नत्वेवमब्रवीत्, तस्मान्नास्त्यजः संयोगः*। प्रतिज्ञातञ्च महर्षिणा यद्भावरूपं तत्सर्वमभिधास्यामीति।
ननु चात्र अजः संयोगो नास्तीति प्रतिज्ञावाक्ये पदयोर्व्याघातः, यथेदञ्च नास्ति चेति। न। अन्यथा प्रतिज्ञानात्। तथा हि, परमाणुभिराकाशादीनां संयोगो नित्यत्वेनाभ्युपगतः परेण, तस्याजत्वमेव निषिध्यते, न सद्भावः। परमाणुभिराकाशादीनां संयोगोऽजो न भवति, सर्वज्ञेन महर्षिणा अजातत्वेन पृथगप्रतिपाद्यमानत्वात्। यच्च अजं तदजत्वेन पृथगुपदिष्टं यथा `नित्यं पारिमाण्डल्यम्' इति।
अथ संयोगस्याप्राप्तिविरोधित्वम्, तत्तु न सम्भवत्येव, आकाशादेर्विभुत्वेन तत्परित्यागानुपपत्तेः। न चाश्रयविनाशाद् विनाशोऽत्र, आश्रयस्यापि नित्यत्वात्। न चान्यद् विनाशकारणमस्तीत्यजत्वमेव। अवचनन्तु व्यामोहादपि सम्भवतीत्यन्यथासिद्धम्। अस्य प्रतिषेधार्थमाह *परमाणुभिराकाशादीनां प्रदेशवृत्तिरन्यतरकर्मजः संयोगः* इति। कथमाकाशापरित्यागेन परमाणोः संयोगा विभागाश्च भवन्तीति चेत्? यथा वृक्षापरित्यागेन देवदत्तस्य। तथा हि, मूलप्रदेशादूर्ध्वप्रदेशमारोहतः पुरुषस्य वृक्षापरित्यागेनैव संयोगा विभागाश्चोपलभ्यन्ते, `मूलप्रदेशे वृक्षेण संयुक्तः, मध्यप्रदेशे, अग्रप्रदेशे' चेति। न च प्रदेशस्यैव ते संयोगाः, `वृक्षेण संयुक्त' इति ज्ञानं स्यात्। न चैतदस्ति। `वृक्षेण संयुक्तः' इति ज्ञानस्य सर्वस्यामवस्थायामुपलब्धेः।
यदि च संयोगस्य प्रदेशवृत्तित्वात् प्रदेशेनैव संयोगो न वृक्षेणेति, तर्हि तेऽपि प्रदेशाः स्वावयवापेक्षया अवयविन इति तत्प्रदेशानां संयोगः, तेषामप्यवयवित्वात् प्रदेशानामिति तावद् यावन्निर्देशाः परमाणवः। तेषाञ्च निष्प्रदेशत्वात् संयोगाभावेन द्व्यणुकादिप्रक्रमेण कार्यमिति क्षित्यादेरसम्भव एव।
अथ निष्प्रदेशत्वेऽपि सति परमाणूनां प्रदेशत्वाद् इष्यत एव संयोगस्तर्हिं द्व्यणुकानां संयोगाभावे न त्र्यणुकमिति दूषणं तदवस्थमेव। न च परमाणुषु वर्तमानः संयोगो द्व्यणुकादिसमवेतं द्रव्यमारभते, व्यधिकरणस्यारम्भकत्वेऽतिप्रसङ्गात्। तस्मात् संयोगस्य प्रदेशवृत्तित्वमाश्रयाव्यापकत्वमित्यवयवेनावयविना च संयोगो धटत एव।
न च प्राक्तनस्य मूलप्रदेशे वृक्षेण संयोगस्यावस्थाने सत्युत्तरसंयोगेन शक्यं भवितुमिति तद्‌विनाशको विभागोऽपि सिद्धः। यथा चात्र वृक्षापरित्यागेनैव पुरुषस्यान्यतरकर्मजाः संयोगा विभागाश्च भवन्ति तद्वदाकाशापरित्यागेनैव परमाणोः संयोगा विभागाश्च भविष्यन्तीति व्यापकत्वमतन्त्रम्।
तदेवं परमाण्वाकाशादिसंयोगस्योत्पत्तिविनाशकारणोपपत्तेर्नाजत्वमिति। यच्च सूत्रकारस्यावचनं व्यामोहादपि सम्भवतीत्युक्तम्, तदसत्, तदभिहितानां पदार्थानां प्रमाणान्तरेणापि तथाभावोपलब्धेः सम्यग्‌ज्ञानसिद्धौ तद्‌विरुद्धस्य मिथ्याज्ञानस्य निवृत्तेः।
अथ विभूनां परस्परतः संयोगो भविष्यतीति। तथा ह्याकाशम् आत्मादिना संयुज्यते, मूर्त्तसंयोगित्वात्, घटवत्। अस्य प्रतिषेधार्थमाह *विभूनान्तु परस्परतः संयोगो नास्ति, युतसिद्ध्याभावात्*। यत्र यत्रसंयोगस्तत्र तत्र युतसिद्धिरुपलब्धा। सा च संयोगस्य व्यापिका व्यावर्तमाना स्वव्याप्तं संयोगं गृहीत्वा व्यावर्तत इत्यन्यथासिद्धं साधनम्।
*सा पुनः* युतसिद्धिः। *द्वयोरन्यतरस्य वा पृथग्‌गतिमत्त्वं युताश्रयसमवायित्वञ्चेति*। द्वयोः पृथग्गतिमत्त्वमन्यतरस्य वेति, इयं नित्यानां युतसिद्धिः। द्वयोर्युताश्रयसमवायित्वमन्यतरस्य वेति, अनित्यानाम्। अस्यास्तु विस्तरेण विचारो विभागावसरे द्रष्टव्यः। न च विभूनां पृथग्गतिमत्त्वम्मूर्त्तत्वात्। युताश्रयसमवायित्वमपि न सम्भवत्येवाकार्यत्वादिति।
संयोगविनाशप्रकारः
विनाशस्तु सर्वस्य संयोगस्यैकार्थसमवेताद् विभागात्, क्वचिद् आश्रयविनाशादपि। कथम्? यदा तन्त्वोः सयोगे सत्यन्यतरतन्त्वारम्भकेंऽशौ कर्मोत्पद्यते, तेन कर्मणा अंश्वन्तराद् विभागः क्रियते, विभागाच्च तन्त्वारम्भकसंयोगविनाशः, संयोगविनाशात् तन्तुविनाशः, तद्‌विनाशे तदाश्रितस्य तन्त्वन्तरसंयोगस्य विनाश इति।
विनाशस्य च सहेतुकत्वात् कुतः संयोगो विनश्यतीत्याह *विनाशस्तु सर्वस्य संयोगस्यैकार्थसमवेताद् विभागात्* इति। ययोरेव संयोगस्तयोरेव विभागात् संयोगस्य विनाशः, तेन सता तस्यामुपलब्धेः। [अत्र क्वचिदाश्रयविनाशादपि' इत्यादिः `तन्त्वारम्भक संयोगविनाश इति' इत्यन्तस्य प्रशस्तपादीयग्रन्थस्य व्याख्या न दृश्यतेऽतोऽनुमीयते ग्रन्थः पतित इति] संयोगविनाशा [त् तन्तुविनाशः] तन्तुंविनाशे तदाश्रितस्य [तन्त्वन्तर] संयोगस्य विनाश इति। यदा तन्तुसंयोगविनाशसमकालं तन्त्वन्तरेऽपि कर्म सम्भाव्यते तदा आश्रयविनाशविभागाभ्यामपि संयोगस्य विनाश इति ज्ञेयम्।
विभागवैधर्म्यम्
विभागो विभक्तप्रत्यनिमित्तम्, शब्दविभागहेतुश्च।
इदानीं विभागस्य लक्षणपरीक्षणार्थम् *विभागो विभक्तप्रत्यनिमित्तम्* इत्यादि प्रकरणम्। प्रतीतिः, प्रत्ययो, ज्ञानम्, प्रतीयतेऽनेनेति प्रत्ययोऽभिधानम्। तद्धेतुत्वमन्येषामपीति विभक्तग्रहणम्। तथाप्याकाशात्मभ्यां व्यभिचारपरिहारार्थं[द्रव्य]विशेषणत्वे सतीति द्रष्टव्यम्। तथाहि, विभागः, इतरेभ्योभिद्यते, द्रव्यविशेषणत्वे सति विभक्तप्रत्ययनिमित्तत्वात्, यस्तु न भिद्यते न चासावेवम्, यथा रूपादिरिति। तथा विभक्तप्रत्ययो विशेष्यज्ञानत्वान्नर्ते विशेषणाद् भवतीति परीक्षापरं वाक्यम्। न चास्य वासनाप्रभवत्वम्, तस्याः पूर्वमेव प्रतिषेधात्। विरलदेशोत्पादश्च क्षणभङ्गविषेधादेव निषिद्धः।
अथ संयोगस्यानुत्पादे विनाशे च विभक्तव्यवहारान्नान्यो विभाग इति चेत्, न, विभागं विना संयोगविनाशस्यैवाभावात्। तथा हि गुणानामाश्रयविनाशाद् विरोधिगुणप्रादुर्भावाच्च विनाशोपलब्धेः, यत्राश्रयविनाशस्तत्र संयोगस्यानिनाशान्न विभक्तप्रत्ययः स्यात्, दृष्टश्च संयोगविनाशस्तेन कर्मणो गुणविनाशे सामर्थ्यादर्शनात्, अन्यस्य विनाशहेतोरभावाद् विभागोऽभ्युपगन्तव्यः। संयोगाभावे च भाक्तो विभक्त प्रत्यय इति।
अर्थक्रियामाह *शब्दविभागहेतुश्च*। वंशदलविभागाच्छब्दोत्पत्तिः, विभागाञ्च विभागोत्पत्तिरिति वक्ष्यामः।
अथ कथंलक्षणः कतिविधिश्चेति वाक्यमिहापि सम्बध्यत इति ज्ञेयम्, पूर्ववत् प्रतिसमाधानात्।
प्राप्तिपूर्विका अप्राप्तिर्विभागः। स च त्रिविधः। अन्यतरकर्मज उभयकर्मजो विभागजश्च विभाग इति। तत्रान्यतरकर्मजोभयकर्मजौ संयोगवत्। विभागजस्तु द्विविधः, कारणविभागात् कारणाकारणविभागाच्च।
लक्षणमाह *प्राप्तिपूर्विका अप्राप्तिर्विभाग*। प्राप्तिः संयोगः पूर्वं यस्याः सा तत्पूर्विका, अप्राप्तिर्विभागः। संयोगानुत्पत्तिश्चाप्राप्तिर्न च प्राप्तिपूर्विकेति।
अथ प्राप्तेः पूर्वकालत्वात् किं कारणत्वम्, सति भावो वा? सति भावमात्रम्, न तु काररणत्वमिति केचित्। तत्तु न बुध्यामहे। क्रियावदन्वयव्यतिरेकाभ्यां विभागजन्मनि संयोगस्यापि व्यापारोपलब्धेः। न हि क्रियावत्‌संयोगाभावे विभागो भवति, तद्‌भावे तु भवतीति। न चान्वयव्यतिरेकिणः संयोगस्य विभागकारणत्वे किञ्चिद् बाधकमस्ति, यस्य भयादकारणत्वमिष्येत। स्वकार्यविरोधित्वन्तु गुणानामिष्टं शब्दादौ। प्रत्यासन्नश्च संयोगो विभागोत्पत्तावित्यसमवायिकारणम्। यथोक्ता चाप्राप्तिर्विभाग इति लक्षणे संयोगवदाक्षेपप्रतिसमाधानम्।
*स च चिविधः* एव। *अन्यतरकर्मज उभयकर्मजो विभागजश्च विभाग* इति। *तत्रान्यतरकर्मजोभयकर्मजौ संयोगवत्* इति। एतेन कर्मणा विभागेन च विभागो जन्यते, यथा स्थाणोः श्येनेनेति। अत्र हि श्येनावयविनि स्थाणुना तच्चरणविभागसमकालं कर्मसञ्चिन्तनाद् उभयोः प्रत्यासन्नत्वे सति व्यापारः सम्भवतीति चिन्तनीयम्। विभूनाञ्च मूर्तैरिति केवलैककर्मजः। तथा द्वाभ्यां कर्मभ्यां विभागैश्च विभागो जन्यते। यथा मल्लयोर्मेषयोर्वेति। यथा हि मेषशिरसि कर्मोत्पन्नं शिरोऽन्तराद् विभागं करोति एवं तदवयविनापि इत्यवयवावयविविभागत्रयमवयविविभागोत्पत्तौ प्रत्यासन्नत्वे सति सामर्थ्यावधारणात् कारणमिति। तथा विभागरहिताभ्यां विभागो जन्यते, यथा परमाण्वोरित्यतिदेशार्थः।
विभागजस्तु व्याख्यायते। एतद् द्विविधं कारणभेदादित्याह *कारणविभागात् कारणाकारणविभागाच्च* इति। नन्वनेकस्मादपि कारणादेकं कार्यमुत्पद्यमानं दृष्टमिति न कारणभेदाद् भेदो युक्तः, तन्न, सामग्रीभेदस्य विवक्षितत्वात्। तथा ह्येका कारणविभागोपलक्षिता, अन्या तु कारणाकारणविभागोपलक्षिता सामग्रीति, तद्‌भेदाञ्च विभागस्य भेदो घटतएव, सामग्रीभेदेन कार्यस्य घटादेर्भेददर्शनात्, विरुद्धधर्माधिकरणत्वाच्च विभिन्नप्रतिभासविषयत्वात्। तथाहि, कारणविभागपूर्वको विभागः सक्रियस्यैव, कारणाकारणविभागपूर्वकस्तु निष्क्रियस्यैवेति। तथा कारणविभागपूर्वको विभागः शब्दमारभते, कारणाकारणविभागपूर्वको विभागो विभागमेवेति धर्मभेदः। तद् भेदाच्चान्यत्र भेदोपलब्धेरिहापि भेदोऽवश्यम्भावी।
तत्र कारणविभागात् तावत् कार्याविष्टे कारणे कर्मोत्पन्नं यदा तस्यावयवान्तराद् विभागं करोति न तदा आकाशदिदेशात्। यदा तु आकाशादिदेशाद् विभागं करोति न तदा अवयवान्तरादिति स्थितिः।
अतोऽवयवकर्म अवयवान्तरादेव विभागमारभते, ततो विभागाच्च द्रव्यारम्भकसंयोगविनाश-, तस्मिन् विनष्टे कारणाभावात् कार्याभाव इत्यवयविविनाशः। तदा कारणयोर्वर्तमानो विभागः कार्यविनाशविशिष्टं कालं स्वतन्त्रं वावयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्यसंयुक्तादाकाशादिदेशाद् विभागमारभते, न निष्क्रियस्य, कारणाभावात्, उत्तरसंयोगानुत्पत्तावनुपभोग्यत्वप्रसङ्गः।
न तु तदवयवकर्म आकाशादिदेशाद् विभागं करोति, तदारम्भकालातीतत्वात्। प्रदेशान्तरसंयोगन्तु करोत्येव, अकृतसंयोगस्य कर्मणः कालात्ययाभावादिति।
कारणविभागात् तावद् विभागमाह *कार्याविष्टे* इत्यादिना। कार्येणाविष्टं व्याप्तमारब्धकार्यमिति यावत्, तस्मिन्, *कारणे कर्मोत्पन्नम्* न कारणमात्रे। यदा *अवयवान्तराद् विभागम्* द्रव्यारम्भकसंयोगविरोधिनम्। *करोति न तदा आकाशादिदेशात्*। *यदा तु आकाशादि देशात्, न तदा अवयवान्तराद्* विशिष्टं विभागमिति। *स्थितिः* विभागजविभागचिन्तायाः प्रतिज्ञा वा।
ननु सर्वमेतदसाम्प्रतम्, विपरीतार्थव्यवस्थायां प्रमाणोपपत्तेः। तथाहि, विशिष्टकारणकर्म, अवयवान्तरविभागोत्पत्तिसमकालमाकाशदेशेन विभागमारभते, अवयवकर्मत्वात्, यद् यदवयवकर्म तत्तदवयवान्तरविभागोत्पत्तिसमकालमाकाशदेशेनापि विभागमारभते, यथा पद्मावयवकर्म, तथा चैतत् कर्म, तस्माद् यथोक्तसाध्यम्। एवं विशिष्टावयवाः, अवयवान्तरविभागोत्पत्तिसमकालमाकाशदेशेन विभज्यन्ते, अवयवत्वात्, पद्मपत्रवत्। अवयवविभागोऽपि, आकाशदेशे विभागेन सहोत्पद्यते, अवयवविभागत्वात्, पद्मावयवविभागवत्। एवमन्यदप्यूह्यम्। न चात्र पक्षधर्मत्वादीनामुपलब्धेर्बाधकमस्तीति।
असदेतत्, बाधकोपपत्तेः। तथा हि, यत्र विभागद्वयजनकत्वं कर्मणो दृष्टं तत्र द्रव्यविनाशः, द्रव्यारम्भकसंयोगाविनाशः, तद्‌विरोधिविभागानुत्पादः, अवयवस्यास्वातन्त्र्यम्, तद्‌वृत्तित्वञ्च कर्मण इति व्यापका धर्मा दृष्टाः। ते च व्यावर्तमानाः स्वव्याप्तं विभागद्वयजनकत्वं गृहीत्वा व्यावर्तन्त इत्यन्यथासिद्धम्। न चैवं विशेषविरुद्धानुमानमेतत्, धर्माणामव्यभिचारात्। यत्र हि व्यभिचारिणो धर्मास्तत्रैव विशेषविरुद्धानुमानमिति।
यद्वा अन्यत्र कार्यविशेषेण कारणविशेषप्रसिद्धेः कार्यविशेषप्रतिपादनार्थं तत्। एकत्र द्रव्यारम्भकसंयोगविरोधिविभागोऽनय्त्र विभागमात्रम्। न तु दृष्टान्तदार्ष्टान्तिकयोर्वैधर्म्यमात्रमेवेति।
न च कार्यविशेषः कारणविशेषं व्यभिचरतीति द्रव्यारम्भकसंयोगविरोधिविभागसम्पादने विभागमात्रजनने च कर्मणो विशेषोऽभ्युपगन्तव्यः। स तु क्षणिकैकद्रव्यवृत्तित्ववादिनामुभयत्रापि सम्भवाद् एकत्राकाशदेशे विभागजनकत्वमन्यत्राजनकत्वमेव विशेष इति कल्प्यते। तेन यदि स्वतन्त्रावयवकर्म आकाशदेशेन विभागं कुर्यात्, द्रव्यारम्भकसंयोगविरोधिनो विभागस्यानुत्पत्तिरिति संयोगाविनाशे द्रव्याविनाशः स्यात्।
न चात्रावयवविनाशात् कार्यद्रव्यस्य च विनाशः, तदवयवकर्मणोऽप्याकाशदेशेन विभागजनकत्वाभ्युपगमेऽवयवान्तरेण विशिष्टविभागानुत्पत्तौ संयोगाविनाशेन तस्याप्यविनाशः स्यात्। एवमुत्तरोत्तरावयवेष्वपि आश्रयविनाशेन विनाशाभ्युपगमे द्व्यणुकस्याविनाशः, तदाश्रयस्य नित्यत्वात्।
अथ संयोगविनाशाद् द्व्यणुकविनाशस्तर्हि द्रव्यारम्भकसंयोगविरोधिविागोऽभ्युपगन्तव्यः, तेन सता आश्रयाविनाशेनापि विनाशोपपत्तेः।
तथाहि, द्रव्यारम्भकसंयोगविनाशाद् विनष्टे समवायिकारणे तदाश्रितस्य कार्यद्रव्यस्य विनाशो घटत एव। तस्माद् यत्र द्रव्यविनाशस्तत्र अवयवकर्म आकाशदेशेन विभागं नारभत इति। प्रयोगस्तु, स्वतन्त्रावयवकर्म, अवयवान्तरेण द्रव्यारम्भकसंयोगविरोधिविभागसमकालमाकाशदेशेन विभागं नारभते, अवयवकर्मत्वात्, पद्मपत्रकर्मवत्। तथा, स्वतन्त्रावयवः, अवयवान्तरेण विशिष्टविभागसमकालं नाकाशदेशेन विभजते, अवयवत्वात्, पद्मपत्रवत्। एवं विभागादेरपि पक्षीकरणेनानुमानमूह्यम्।
विशिष्टविभागानामुत्पत्तिश्चात्र द्रव्याविनाशेनैव निश्चीयत इति सपक्षधर्मत्वम् पद्मावयव कर्मादेः। न च विशिष्टविभागसमकालमाकाशदेशेन विभागमारभमाणं किञ्चिदुपलब्धमिति विपक्षाभावादन्वयाव्यभिचारेणैव गमकत्वं ज्ञेयम्। सामान्येन तु अवयवविभागसमकालमाकाशदेशेन विबागजनकत्वप्रतिषेधे साध्ये व्यतिरेकाव्यभिचारेणापि गमकत्वमिति।
तथाहि, स्वतन्त्रावयवकर्म, अवयवान्तरविभागसमकालमाकाशदेशेन विभागं नारभते, स्वतन्त्रावयवकर्मत्वात्, यत्त्वारभते न तत् स्वतन्त्रावयवकर्म, यथा पद्मपत्रकर्मेति। तथा स्वतन्त्रावयवः, अवयवान्तरविभागसमकालं नाकाशदेशेन विभजते, स्वतन्त्रावयवत्वात्, यस्तु विभजते न चासौ स्वतन्त्रावयवः, यथा पद्मपत्रमिति। स्वातन्त्र्यन्तु क्रियाक्रमेण द्रव्यविनाशे भवतीति पूर्वमेवोक्तम्। न चैतत् पद्मावयवसङ्कोचादिक्रयायां सम्भवति, द्रव्यविनाशादर्शनात्।
अथ पद्मावयवकर्मापि अवयवविभागसमकालमाकाशदेशेन विभागमारमत इत्यतीन्द्रियत्वादनुमानं प्रमाणं वाच्यम्, प्रमाणं विना प्रमेयासिद्धेः। तत्र यदि अस्वतन्त्रावयवकर्मत्वं व्यतिरेकाव्यभिचारेण गमकमितरेतराश्रयत्वं स्यात्, एकाप्रसिद्धावितराप्रसिद्धेरिति।
नैतदेवम्, आकाशदेशेनास्वतन्त्रावयवकर्मणो विभागजनकत्वे बाधकाभावात्। तथाहि, स्वतन्त्रावयवकर्मणो द्रव्यारम्भकसंयोगविरोध्युत्पादकत्वम् आकाशदेशेन विभागजनकत्वे बाधकमस्ति, नैवमत्रेति।
तथाहि, पद्मावयवकर्म, आकाशदेशेन विभागमारभते तदारम्भकबाधकानुत्पत्तौ कर्मत्वात्, यद् यदेवं तत्तदाकाशादिदेशेन विभागमारभते, यथा अनारब्धकार्यं परमाणुकर्मेति। अवश्यञ्च परमाणोराकाशादिदेशेन सम्बद्धस्योत्पन्नं कर्म तत्संयोगनिवर्त्तकं विभागमारभते, तदन्तरेण पूर्वसंयोगावस्थानादुत्तरसंयोगानुत्पत्तौ द्व्यणुकादिप्रक्रमेण कार्यानुत्पत्तिप्रसङ्गात्।
अन्ये तु अस्वतन्त्रावयवकर्मणो यथा अवयवान्तरविभागसमकालम् अकारणेन तृणादिना विभागजनकत्वम्, एवमाकाशादीनामपीति मन्यन्ते। तृणादिविभागश्च पद्मावयवस्य प्रत्यक्ष इत्युदाहरणम्। न चैवं स्वतन्त्रावयवकर्मणोऽपि अकारणएन विभागजनकत्वं प्रत्यक्षसिद्धमस्ति (विवादोपपत्तेरित्यलम्?)। नापीदमसदुत्तरम्। प्रसङ्गसमापेक्षायामुदाहरणेऽपि क्वचिदनुमानोपन्यासाभ्युपगमात्।
अतः स्वतन्त्रावयवकर्म *अवयवान्तरादेव विभागमारभते, विभागाच्च द्रव्यारम्भकसंयोगविनाशः, तस्मिन् विनष्टे कारणाभावात् कार्याभाव इत्यवयविविनाशः*। ततः स्वतन्त्रावयवस्याकाशदेशेन विभागो वाच्यः। तदन्तरेण पूर्वसंयोगस्यावस्थानादुत्तरसंयोगानुत्पत्तौ कर्मणः कालान्तरावस्थायित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात्। न चैतदस्ति, कर्मणः कालान्तरावस्थायित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात्। न चैतदस्ति, कर्मणः क्षणिकत्वोपलब्धेः। न च विनाशहेतुं विना अस्य विनाशः [तादृशविनाशस्य] प्रतिषेधात्। अतोऽन्यस्य विनाशहेतोरभावादुत्तरसंयोगस्यैवान्वयव्यतिरेकाभ्यां कर्मविनाशे सामर्थ्यावधारणात् कारणत्वमिति।
न चोत्तरसंयोगः पूर्वस्याकाशदेशेन संयोगस्य प्रतिबन्धकस्यावस्थाने भवतीति तद्‌विनाशहेतुर्विभागो निश्रीयते। न चासौ क्रियातः सम्भवत्युक्तन्यायात्। असमवायिकारणं विना च विभागस्योत्पत्तिर्नोपलब्धेति अन्यस्यासमवायिकारणस्याभावात् कारणयोर्वर्तमानो विभागः प्रत्यासन्नत्वे सति समानजातीयत्वादसमवायिकारणमिति। यत्र हि समानजातीयं नास्ति तत्र विजातीयमेवासमवायिकारणमिति कल्प्यते। क्रिया तु विद्यमानाप्यत्र बाधकसद्भावादकारणमेव। तस्मात् *कारणयोर्वर्तमानो विभागः* कार्यसंयुक्तात् कार्यसंयोगोपलक्षितात् *आकाशादिदेशाद् विभागमारभत* इति। आदिपदेनात्मादेरवरोधः।
किमपेक्ष्य इत्याह *कार्यविनाशविशिष्टं कालम्* इति। कार्यविनाशो द्रव्यविनाशः, तद्‌विशिष्टं कालम्। तद्‌विनाशात् स्वतन्त्रोऽवयवस्तं च अपेक्ष्यारभत इति।
अन्ये तु कार्यविनाशविशिष्टं कालमिति सामान्याभिधानात् संयोगविनाशविशिष्टमपेक्ष्य द्रव्यविनाशसमकालमारभत इति ब्रुवते। *स्वतन्त्रं वा अवयवमपेक्ष्य* इति। द्रव्यविनाशादूर्ध्वं स्वातन्त्र्यमस्येति उपचारेण पूर्वमेवोच्यते। स्वतन्त्रमीश्वरं वा, अवयवं वा, अपेक्ष्येति।
कस्येत्याह *सक्रियस्यैव* इति। अथ कारणविभागस्योभयवृत्तित्वाविशेषात् सक्रियस्याकाशादिदेशेन विभागः, *न निष्क्रियस्य* इति। किमत्र नियामकम्? उत्तरसंयोगोत्पत्तिरिति। तथा हि, विभागात् संयोगविनाशे सति कर्म उत्तरसंयोगं करोति, तस्माद् बिभागः कर्म च व्यावर्तते। निष्क्रिये तूत्पन्नो विभागः कथमुत्तरसंयोगानुत्पत्तौ व्यावर्तेत न च विभागात् पूर्वं संयोगनिवृत्तावुत्तरसंयोगोत्पत्तिर्युक्ता, कारणस्य कर्मणोऽभावात्। असंयुक्तस्य चाकाशादिभिरवस्थाने तेषामसर्वगतत्वं स्यात्। न चान्यकर्मसम्पादितः संयोगोऽन्यक्रियाजन्यस्य विभागस्य निवर्तको दृष्टः। तस्मात् स्वकारणकर्मकार्या उत्तरसंयोगाद् विभागस्य निवृत्तिर्दृष्टेति। *उत्तरसंयोगानुत्पत्तावनुपभोग्यत्वप्रसङ्ग;* इति। निष्प्रयोजनत्वस्य प्रसङ्गः, विनाशित्वप्रसङ्गश्चेति। तस्य हि पूर्वसंयोगनिवर्तनाद् उत्तरसंयोगोत्पत्तौ सप्रयोजनत्वं विनाशित्वञ्च घटते।
यद् वा निष्क्रियस्याकाशादिदेशेन विभागाभ्युपगमे सक्रियस्योत्तरसंयोगानुत्पत्तिः, कारणाभावात्, न तु निष्क्रियस्य विभागजविभागप्रतिषेधे कारणाभावो हेतुः, समवाय्यादिकारणानां सम्भवात्। तथाहि, निष्क्रियावयवाकाशादेः समवायिकारणत्वम्, विभागस्यासमवायिकारणत्वम्, शेषं निमित्तकारणमित्यस्ति कारणसद्भावः। तस्मादुत्तरसंयोगप्रतिषेधे कारणाभावो हेतुः। तथाहि, सक्रियस्याकाशादिदेशेन विभागानभ्युपगमे प्राक्तनसंयोगस्य प्रतिबन्धकस्यावस्थानाद् उत्तरसंयोगानुत्पत्तिः, तदनुत्पत्तावनुपभोग्यत्वं निष्प्रयोजनत्वं विभागकर्मणोरिति।
अन्ये तु न निष्क्रियस्याकाशादिदेशेन विभाग इति। असदेतत्। कुतः? कारणाभावात्। प्रमाणाभावादित्युक्ते परेण बाधकमाह उत्तरसंयोगानुत्पत्तावनुपभोग्यत्वम् अविनाशित्वं विभागस्येति।
अथ यद्यपि अवयवकर्म अवयवान्तरविभागसमकालमाकाशादिदेशेन विभागं नारभते तथापि कार्यविनाशादूर्ध्वमारप्स्यत इति तन्निषेधार्थमाह *न तु तदवयकर्म आकाशादिदेशाद् विभागम्* आरभते, विरम्य व्यापारप्रतिषेधात्। तदेतदाह *तदारम्भकालातीतत्वात्* इति। तस्य कर्मणो विभागारम्भककालः, तस्य वा विभागस्यारम्भककालः तदारम्भकालः, तस्यातीतत्वादिति।
अथ कर्मणो विरम्य व्यापारप्रतिषेधे कथमुत्तरसंयोगः? न, विरम्य व्यापारप्रतिषेधस्यापरिज्ञानात्। तथाहि, कर्म विभागं कृत्वा पुनर्विभागं नारभते, वेगञ्च कृत्वा पुनर्वेगम्, न पुनः संयोगं नारभते इत्याह *उत्तरसंयोगन्तु [? प्रदेशान्तरसंयोगन्तु] करोत्येव अकृतसंयोगस्य कर्मणः [कालात्ययाभावात्]* कालात्ययो विनाशस्तस्याभावादिति। दृष्टश्चात्र सद्भावेऽपि तस्य विनाशः। तेनोत्तरसंयोगजनकत्वं कर्मणोऽभ्युपेयम्। तस्मात् तस्य निवृत्तिरिति।
कारणाकारणविभागादपि कथम्? यदा हस्ते कर्मोत्पन्नम् अवयवान्तराद् विभागमकुर्वद् आकाशादिदेशेभ्यो विभागानारभ्य प्रदेशान्तरे संयोगानारभते तदा ते कारणाकारणविगागाः कर्म यां दिशं प्रति कार्यारम्भाभिमुखं तामपेक्ष्य कार्याकार्यविभागानारभन्ते। तदनन्तरं कारणाकारणसंयोगाच्च कार्याकार्यसंयोगानिति।
कारणाकारणविभागादपि विभागः कथं भवतीत्याह *यदा हस्ते कर्मोत्पन्नम्* इत्यादि। हस्ते स्वकारणात् कर्मोत्पन्नमवयवान्तरविभागं द्रव्यारम्भकसंयोगविरोधिनमकुर्वद् आकाशादिदेशेभ्यो विभागानारभत इत्यादिपदेनात्मादेरवरोधः। तांस्त्वारभ्य यदा पूर्वसंयोगविनाशे सति प्रदेशान्तरैराकाशादिदेशैः संयोगानारभते तस्मिन् काले *ते कारणाकारणविभागाः कार्याकार्यविभागानारभन्ते* इति। हस्तः शरीरस्य कारणम् आकाशादि चाकारणं तद्‌विभागाः, कार्यं शरीरं हस्तस्य अकार्यमाकाशादि, तद्‌विभागानारभन्त इति। तदुत्पत्तौ शरीराकाशादेः समवायिकारणत्वम्, हस्ताकाशादिविभागानाञ्च असमवायिकारणत्वम्। प्रत्यासत्तिस्तूभयरूपापि सम्भवतीति बाधकानुपपत्तेर्ग्राह्या। कार्यैकार्थसमवायान्न व्यधिकरणत्वम्, एवंविधायाः प्रत्यासत्तेरन्यत्र कर्मण्युपलम्भात्।
अथ प्रत्यक्षेणैव हस्तपुस्तकविभागसमकालं शरीरस्यापि तेन विबागोपलब्धेः कर्मैवासमवायिकारणमिति कल्प्यते? न, आशुभावित्वेन उत्पलपत्रशतव्यतिभेदवत् प्रत्यक्षाभिमानस्य भ्रान्तत्वात्। यथा हि, युगपदुत्पलपत्रशतं व्यतिभिन्नमिति प्रत्यक्षज्ञानं ग्राहिणानुमानेन बाध्यमानत्वादप्रमाणम्, एवं तत्रापि हस्तविभागसमकालं शरीरस्यापि तेन विभाग इति यौगपद्यज्ञानमनुपानबाधितत्वादप्रमाणम्। किमनुमानमिति चेत्? अवयवकर्मणो विभिन्नाश्रयत्वम्। तथाहि, विवक्षितावयवकर्म, स्वाश्रयव्यतिरिक्ताधारसमवेतमेव विभागं नारभते, कर्मत्वात्, उभयाभिमतकर्मवत्। न च अनुष्णोऽग्नः, कृतकत्वाद् इत्यनुमानवत् प्रत्यक्षेणास्य विरोधः, पञ्चरूपत्वात्। तथाहि, दुष्टमनुमानं प्रत्यक्षेण स्वविषयसहकारिणा बाध्यते, दुष्टञ्च प्रत्यक्षमनुमानेनेति। तस्मादनुमानस्याबाधितविषयत्वाद् विभागेऽपि आशुभावित्वेन यौगपद्यग्रहणम्, न अर्थतथाभावादिति। दृष्टश्चानेकक्षणशतव्यवधानेऽप्याशुभावित्वं भ्रमनिमित्तम् उत्पलपत्रशतव्यतिभेदे, किं पुनरेकक्षणव्यवधाने क्षणद्वयव्यवधानेवेति।
तथाहि कारणाकारणविभागात् संयोगविनाशे सति कार्याकार्यविभागाभ्युपगमाद् एकक्षणव्यवधानम्, कारणविभागपूर्वकस्य तु विभागस्य संयोगविनाशे द्रव्यविनाशे चानन्तरं भवनमिति क्षणद्वयव्यवधानम्। उत्पलपत्रावयवेषु तु वेगवत्‌सूच्यादिसम्बन्धात् कर्मोत्पत्तौ विभागात् संयोगविनाशे सति पत्रविनाशः, पुनः पत्रान्तरे सम्बन्धात् अवयवकर्मोत्पत्तिरित्ययं क्रमः पत्रशतेऽप्यूह्य इत्यनेकक्षणशतव्यवधानेऽप्याशुभावित्वस्य भ्रमनिमित्तत्वाभ्युपगमात्। एकक्षणव्यवधाने तु भविष्यत्येव। तस्माद् आशुभावित्वेन यौगपद्याभिमानस्य भ्रान्तत्वात् कारणाकारणविभागाः कार्याकार्यविभागानारभन्त इति।
*तददन्तरम्* कार्याकार्यविभागानन्तरम्, प्राक्तनसंयोगविनाशे सति कारणाकारणसंयोगश्च कार्याकार्यसंयोगानारभन्ते, न पूर्वम्, प्राक्तनसंयोगस्य प्रतिबन्धकस्यावस्थानात्। इदन्तु चिरोत्पन्नानां संयोगजसंयोगस्य पूर्वं प्रतिज्ञातस्य विभागजविभागानन्तरभावित्वात्, समानोपायतया च अत्रैव निरूपणमिति।
अथ शरीरस्याकाशादिना विभागः संयोगश्चेति किं प्रमाणम्? अनुमानम्। तथाहि, शरीरम्, स्वकारणविभागिना विभजते, तद्‌विभागिकारणकार्यत्वात्, वीरणविभागितन्तुकार्यपटवत्। आकाशादि वा, स्वविभागिकारणकार्येण विभजते, तत्कारणविभागित्वात्, तन्तुविभागिवीरणवत्। एवं शरीरम्, स्वकारणसंयोगिना संयुच्यते, तत्संयुक्तकारणकार्यत्वात्, वीरणसंयुक्ततन्तुकार्यपटवत्। सिद्धे तु शरीराकाशदिसंयोगे शरीरस्य तस्मिन ्काले निष्क्रियत्वाद् अवयवक्रियायाश्च सत्त्वेन आश्रयान्तरेणैव समवेतकार्यजनकत्वप्रतिषेधात्, असमवायिकारणञ्च विना भावस्योत्पत्तेरदर्शनात्, अन्यस्य चासम्भवे सति कारणाकारणसंयोगात् तस्योत्पत्तिः कल्प्यत इति। शरीराकाशादि समवायिकारणम्। विशिष्टा च द्ङ्‌निमित्तकारणमिति।
यदिकारणविभागानन्तरं कार्यविभागोत्पत्तिःकारणसंयोगाच्चानन्तरं कार्यसंयोगोत्पत्तिः, नन्वेवमवयवावयविनोर्युतसिद्धिदोषप्रसङ्ग इति। न, युतसिद्‌ध्यपरिज्ञानात्। सा पुनर्द्वयोरन्यतरस्य वा पृथग्‌गतिमत्त्वम्, इयन्तु नित्यानाम्, अनित्यानान्तु युतेष्वाश्रयेषु समवायो युतसिद्धिरिति। त्वगिन्द्रियशरीरयोः पृथग्‌गतिमत्त्वं नास्ति युतेष्वाश्रयेषु समवायोऽस्तीति परस्परेण संयोगः सिद्धः। अण्वाकाशयोस्त्वाश्रयान्तराभावेऽप्यन्यतरस्य पृथग्‌गतिमत्त्वात् संयोगविभागौ सिद्धौ। तन्तुपटयोरनित्ययोराश्रयान्तराभावात् परस्परतः संयोगविभागाभाव इति। दिगादीनान्तु पृथग्‌गतिमत्त्वाभावादिति परस्परेण संयोगविभागाभाव इति।
एवं निर्णीते विभागजविभागे पूर्वपक्षवादी असद्दूषणमाह *यदि कारणविभागानन्तरं कार्यविभागोत्पत्तिः कारणसंयोगाच्चानन्तरं कार्यसंयोगोत्पत्तिः* न समकालम्। *नन्वेवम् अवयवावयविनोर्युतसिद्धिदोषप्रसङ्ग इति*। न युक्तमेतत्। कुतः? *युतसिद्ध्यपरिज्ञानान्*। न परेण युतसिद्धिर्विज्ञाता यत एवमाहेति। तथाहि, परस्परसंयोगविभागयोग्यता युतसिद्धिः। अवयवानां हि पदार्थान्तरैः संयोगविभागयोग्यता तथा अवयविनः सम्भवत्येव न तु परस्परमित्यव्यभिचारः। सम्भवे वा युतसिद्धिरेवेति न समवायः स्यात्। अस्ति चासाविति वक्ष्यामः।
इदन्तु सामान्यलक्षणं युतसिद्धेर्विशेषलक्षणाल्लभ्यत एव, विशेषस्य सामान्यव्याप्तत्वदिति विशेषलक्षणमाह *सा पुनर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वम्* इतीयं नित्यानां युतसिद्धिः। द्वयोः परमाण्वोः पृथग्गतिमत्त्वं युतसिद्धिः, आकाशपरमाण्वोश्चानय्तरस्य पृथग्गतिमत्त्वमिति। तच्च परस्परं संयोगविभागजननयोग्यत्वं विवक्षितम्। अन्यथा हि द्व्यणुकारम्भकयोः परमाण्वोर्द्व्यणुके व्रजति गमनोपलब्धेर्द्व्यणुकेन सह युतसिद्धिः स्यात्।
अनित्यानान्तु युतेषु पृथग्‌भूतेष्वाश्रयेषु समवायो युतसिद्धिरिति। नन्वेवमपि अवयवावयविनोर्युताश्रयसमवायाद् युतसिद्धिः। स्यात्। तथाहि, अवयवी अवयवेषु वर्तते अवयवाश्च स्वावयवेष्विति युताश्रयसमवायः? न, अभिप्रायापरिज्ञानात्। यदा [? था] घटतदाश्रयव्यतिरेकेण आश्रयान्तरे समवायः पटस्य, पटतदाश्रयव्यतिरेकेण घटस्य नैवमवयविनोऽवयवव्यतिरेकेण आश्रयान्तरे समवायः, तस्मान्न युतसिद्धिः। अत्रापि द्वयोर्युताश्रयसमवायित्वम् अन्यतरस्य वेत्यनुवर्तते। द्वयोर्यथा घटपटयोरन्यतरस्य, यथाकाशाघटयोरन्यतरस्य, घटस्य युतेष्वाश्रयेष्वसमवायो नाकाशस्य, अनाश्रितत्वात्।
नन्वेवं तर्हि नित्येष्विवानित्येष्वपि पृथग्गतिमत्त्वस्य सम्भवात् सैवास्तु, कृतं युताश्रयसमवायित्वेनाव्यापिना। कनैतदेवम्, अनित्येषु पृथग्गतिमत्त्वस्यान्वयव्यतिरेकाभावाद् युताश्रयसमवायित्वमेव। तत्‌सद्‌भावात् सैव युतसिद्धिरित्याह *त्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वं नास्ति*। युतेषु तु समवायोऽस्तीति *परस्परेण संयोगः सिद्धः*। तथाहि, त्वगिन्द्रियशरीरयोरामरणं विभागानुपपत्तेः पृथग्गतिमत्त्वाभावेऽपि परस्परेण संयोगप्रसिद्धेर्युताश्रयसमवायित्वमेव युतसिद्धिः, तयोरितरेतराश्रयपरिहारेण स्वाश्रयेष्वेव समवायात्। एवम् उत्पन्नमात्रस्य घटादेर्गतिमत्त्वाभावेऽपि रूपाद्युत्पत्तिसमकालम् आकाशादिना संयोगोपलब्धेरन्यतरस्य युताश्रयसमवायित्वमेव युतसिद्धिः।
नित्यानान्तु युताश्रयसमवायाभावेऽपि संयोगविभागोपलब्धेः पृथग्गतिमत्त्वमेव युतसिद्धिरित्याह *अण्वाकाशयोस्तु* युताश्रयसमवायित्वाभावेऽपि। *अनय्तरस्य पृथग्गतिमत्त्वात् संयोगविभागौ सिद्धौ* इति।
एवमनित्यानां युताश्रयसमवायित्वस्य, नित्यानान्तु पृथग्गतिमत्त्वस्यान्वयोपदर्शनान्तरं व्यतिरेकमाह *तन्तुपटयोरनित्ययोराश्रयान्तराभावात् परस्परतः संयोगविभागाभाव इति* यद्यपि तन्तवोंऽशुषु वर्तन्ते तथापि पटद्रव्ये न तन्तुव्यतिरेकेण आश्रयान्तरमस्तीति युताश्रयसमवायित्वाभावः। तदभावान्न परस्परेण संयोगविभागाविति। विशिष्टञ्च पृथग्गतिमत्त्वस्य घटपरमाण्वोस्तु उभयसम्भवाद् उभयावरोधोऽन्यतरावरोधो वेति, उभयावरोध एव [? इव] अन्यतरावरोधे विशेषहेत्वभावात्। तथाहि, नित्ये परमाणौ पृथग्गतिमत्त्वम् अनित्ये तु घटे युताश्रयसमवायित्वम् उभयोरुभयत्रान्वयव्यतिरेकाभ्यां समर्थनाद् अत्र सम्भवेन ग्रहणं न्याय्यम्। यत्र चानित्यमेव तत्र पृथग्गतिमत्त्वसद्भावेऽपि युताश्रयसमवायित्वस्यावरोधः, यथा घटाकाशयोर्द्वयोर्वा घटयोरित्यलमतिविस्तरेण। तस्मात् कारणविभागानन्तरं कार्यविभागः, कारणसंयोगान्तरं ककार्यसंयोगो युतसिद्धिरिति अपरिज्ञातयुतसिद्धेर्वचनमिति।
विभागविनाशप्रकारः
विनाशस्तु सर्वस्य विभागस्य क्षणिकत्वात्, उत्तरसंयोगावधि सद् भावात् क्षणिक इति। न तु संयोगवद् ययोरेव विभागस्तयोरेवसंयोगाद् विनाशो भवति। कस्मात्? संयुक्तप्रत्ययवद् विभक्तप्रत्ययानुवृत्त्यभावात्। तस्माद् उत्तरसंयोगावधि सद्भावात् क्षणिक इति।
अथेदानीं विनाशमाह *विनाशस्तु सर्वस्य विभागस्य क्षणिकत्वात्* इत्यादिना। ननु क्षणिकत्वम् आशुतरविनाशित्वम्, तत्र [? च्च] विभागस्य विनाशे साध्ये साध्यान्न विशिष्यते? न, व्यवहारस्य साध्यत्वात्। तथाहि, विभागो, विनाशीति व्यवहर्त्तव्यः, क्षणिकत्वात्। यद् वा क्षणिकत्वम् आशुतरविनाशकारणसंयोगित्वम्, तस्माद् विभागस्य विनाशे साध्ये न साध्याविशिष्टता। अथ किं तद् विनाशकारणम्? उत्तरसंयोगः। कथम्? *उत्तरसंयोगावधि सद्भावात्*। उत्तरसंयोग एवावधिः सीमा सद्भावे यस्य इत्युत्तरसंयोगं यावत् सद्भावः, तदनन्तरमभाव इत्यन्वयव्यतिरेकाभ्यामुपलब्धम्। *न [तु] संयोगवत्* अस्य विनाश इति। यथा हि, ययोरेव संयोगस्तयोरेव विभागात् संयोगस्य विनाशो नैवम्* ययोरेव विभागस्तयोरेव संयोगात् *विभागस्य विनाशः। किं तर्हि? तयोरन्येन वा स्वकारणकर्मजः, तत्संयोगजो वा संयोगोऽस्तु तस्माद् विनश्यतीति।
अथ संयोगस्य विभागमात्राद् अविनाशवद् विभागस्यापि संयोगमात्रेण अविनाशः किमिति नेष्यत इत्याह *संयुक्तप्रत्ययवद् विभक्तप्रत्ययानुवृत्त्यभावात्* अस्य विनाशप्रसङ्गात्। यथा हि, संयोगे विभागमात्रोत्पादे संयुक्तप्रत्ययानुवृत्तिः `संयुक्तं संयुक्तम्' इति दृष्टा नैवं विभागस्य संयोगमात्रोत्पादे विभक्तप्रत्ययानुवृत्तिरस्ति। *तस्माद् उत्तरसंयोगावधिसद्भावात् क्षणिकः* इत्युपसंहारः।
अन्ये, न तु संयोगवदवस्थितो विभागः। कस्मात् ? ययोरेव संयोगादस्य विनाशप्रसङ्गात्। यथाह्यवस्थितः संयोगस्तयोरेव विभागान्निवर्तते, विभागोऽप्येवं तयोरेव संयोगान्निवर्तेत। इष्यत एवेति चेत्? तदसत्, संयुक्तप्रत्ययवद् विभक्तप्रत्ययानुवृत्त्यभावात्। न ह्यर्थान्तरेण विभागे संयुक्तप्रत्ययानुवृत्तिवद् अर्थान्तरेण संयोगे विभक्तप्रत्ययानुवृत्तिरस्तीति। यच्चाप्राप्तिज्ञानं तद् बाधकसद्भावात् संयोगाभावे द्रष्टव्यमिति। अन्यथा हि पिण्डस्य देशान्तरगमने मरणए वा अवस्थितत्वाद् एक पिण्डग्रहणेऽपि ग्रहणं स्यात्। न चैतदस्ति। तस्माद् विद्यमानक्रिये द्रव्ये विभक्तप्रत्ययो मुख्योऽन्यदा तु तत्सामान्याद् भाक्त इति।
क्वचिदाश्रयविनाशादेव विनश्यतीति। कथम्? यदा द्वितन्तुककारणावयर्वेऽशौकर्मोत्पन्नम् अंश्वन्तराद् विभागमारभते तदैव तन्त्वन्तरेऽपि कर्मोत्पद्यते विभागाच्च तन्त्वारम्भकसंयोगविनाशस्तन्तुकर्मणा तन्त्वन्तराद् विभागः क्रियत इत्येकः कालः। ततो यस्मिन्नेव कालेविभागात् तन्तुसंयोगविनाशस्तस्मिन्नेव काले संयोगविनाशात् तन्तुविनाशः, तस्मिन् विनष्टे तदाश्रितस्य तन्त्वन्तरविभागस्य विनाशः इति।
एवं त्रहि उत्तरविभागानुत्पत्तिप्रसङ्गः कारणविभागाभावात्, ततः प्रदेशान्तरसंयोगवति संयोगाभाव इत्यतो विरोधिगुणासम्भवात् कर्मणश्चिरकालावस्थायित्वम्, नित्यद्रव्यसमवेतस्य च नित्यत्वमिति दोषः। कथम्? यदा द्व्यणुकारम्भकपरमाणौ कर्मोत्पन्नम् अण्वन्तराद् विभागं करोति तदैवाणअवन्तरेऽपि कर्म, ततो यस्मिन्नेव काले विभागाद् द्रव्यारम्भकसंयोगविनाशस्तदैवाणअवन्तरकर्मणा द्व्यणुकारण्वोर्विभागः क्रियते, ततो यस्मिन्नेव काले विभागाद् द्व्यणुकाणुसंयोगस्य विनाशस्तस्मिन्नेव काले संयोगविनाशाद् द्व्यणुकस्य विनाशः, तस्मिन् विनष्टे तदाश्रितस्य द्व्यणुकाणुविभागस्य विनाशः। ततश्च विरोधिगुणासम्भवान्नित्यद्रव्यसमवेतकर्मणो नित्यत्वमिति? तन्त्वंश्वन्तरविबागाद् विभाग इत्यदोषः। आश्रयविनाशात् तन्त्वोरेव विभागो विनष्टो न तन्त्वंश्वन्तरविभाग इत्येतस्मादुत्तरो विभागो जायते। अङ्गुल्याकाशविभागाच्छरीराकाशविभागवत् तस्मिन्नेव काले कर्म संयोगं कृत्वा विनश्यतीत्यदोषः।
एवं संयोगाद् विभागस्य विनाशं प्रतिपाद्य आश्रयविनाशेन विनाशमाह *क्वचिच्चाश्रयविनाशाद् विनश्यति* इत्यादिना। कथमित्यव्युत्पन्नप्रश्नानन्तरमाह *यदा द्वितन्तुककारणावयवेंऽशौ* इत्यादि। द्वितन्तुकस्य कारणं तन्तुः, तस्यावयवोंऽशुस्तस्मिन् स्वकारणात् कर्मोत्पन्नं यदा अंश्वन्तराद् विभागं (द्रव्यारम्भकसंयोगस्य विनाशात् तन्तुविनाशस्तस्मिन् विनष्टे तदाश्रितस्याविरोधिनमारभते(1)) [आरभते] तस्मिन्नेव काले *तन्त्वन्तरेऽपि कर्मोत्पद्यते, विभागाच्च तन्त्वारम्भकसंयोगविनाशः, तन्तुकर्मणा तन्त्वन्तराद् विभागः क्रियते* इत्यनयोरेकः कालः। *ततो यस्मिन्नेव काले विभागात्* तन्तुसंयोगस्य द्वितन्तुकारम्भकस्य विनाशस्तस्मिन्नेव काले तन्त्वारम्भकस्यांशुसंयोगस्य विनाशात् तन्तुविनाशः। *तस्मिन् विनष्टे तदाश्रितस्य तन्त्वन्तरविभागस्य विनाशः* अन्यस्य विनाशकारणस्याभावात्। तदैव द्वितन्तुकस्याप्याश्रयविनाशात् संयोगविनाशाच्च विनाश इति।
(F.N) {1. बन्धनीमध्यगतोऽसङ्गतो ग्रन्थो मातृकायां विद्यतेऽस्माभिर्यथामति मूलमनुसृत्यात्र पाठः परिकल्पित इति ज्ञेयम्।}

अवमाश्रयविनाशाद् विनाशेऽभिहितेऽनिष्टमुपपादयति *एवं तर्हि उत्तरविभागानुत्पत्तप्रसङ्ग* इति। उत्तरविभागस्तन्तोराकाशादिदेशेन विभागः, तस्यानुत्पत्तिः। *कारणविभागाभावात्*। कारणयोस्तन्त्वोर्विभागः। यद् वा कारणञ्च तद् विभागश्च, तस्य द्रव्यविनाशसमकालमभावाद् आकाशदेशेन विभागस्यानुत्पत्तिः। न च संयोगविनाशमपेक्ष्य द्रव्यविनाशसमकालं कारणविभागस्य विभागारम्भकत्वम्, विनश्यदवस्थस्यासमवायिकारणत्वानभ्युपगमात्। यथाश्रुतग्रन्थे वाचोद्यपेतत्।
ततश्च तन्तोराकाशादिदेशेन विभागानुत्पादे तत्संयोगस्य प्रतिबनधकस्यावस्थानान्न कर्म उत्तरसंयोगं कुर्यादित्याह *प्रदेशान्तरसंयोगवति संयोगाभावः* इत्यतः प्रदेशान्तरसंयोगस्य विरोधिगुणस्यासम्भवात् कर्मणः कालान्तरावस्थायित्वम्। तस्य च क्षणिकत्वं प्रमाणसिद्धमिति व्याघातः। तथा नित्यद्रव्यसमवेतस्य कर्मणो नित्यत्वमिति दोषः। कथमित्याह *यदा द्व्यणुकारम्भक परमाणौ* स्वकारणात् कर्मोत्पन्नम् अण्वन्तराद् विभागं द्रव्यारम्भकसंयोगविरोधिनम् आरभते *तदैवाणअवन्तरेऽपि* अनारम्भके कर्म उत्पद्यते। ततोऽनन्तरं *यस्मिन्नेव काले विभागात्* द्रव्यारम्भकसंयोगस्य विनाशस्तदैवानारम्भकाणुकर्मणा *द्व्यणुकाण्वोर्विभागः क्रियते, ततो यस्मिन्नेव काले विभागात्* द्व्यणुकस्याणुना *संयोगस्य विनाशस्तस्मिन्नेव काले* संयोगस्य द्रव्यारम्भकस्य विनाशात् *द्व्यणुकस्य विनाशः*। तस्मिन् द्व्यणुके विनष्टे *तदाश्रितस्य द्व्यणुक[णु]विभागस्य विनाशः* ततः कारणविभागाभावाद् उत्तरविभागानुत्पत्तौ तत्संयोगस्याव्यावृत्तेर्न कर्म उत्तरसंयोगं करोतीति, विरोधिगुणस्यासम्भवात् परमाणुसमवेतस्य कर्मणो नित्यत्वं स्यादिति। प्राक्तनचोद्यस्य प्रतिसमाधानमाह *तन्त्वंश्वन्तरविभागाद् विभाग इत्यदोषः*।
ननु तन्त्वंशुविभागस्तन्तुक्रियाकार्यो न भवन्येव, अंशोर्द्वितन्तुकोत्पत्तावाकाशादिवदकारणत्वात्। नाप्यंशुक्रियाकार्यः, तन्तूत्पत्तौ तन्त्वन्तरस्याकाशवदेवाकारणत्वात्। कारणए चोत्पन्नं कर्म कारणान्तरविभागसमकालकारणएन विभागं नारभते, विशिष्टविभागानुत्पत्तिप्रसङ्गादित्युक्तम्। न च कारणं विना कार्यं भवतीति तन्त्वंशुविभागासम्भव एव। नैतदेवम्। अंशुक्रियाजनिताद् विभागात् तस्योत्पत्त्यभ्युपगमात्। तथाहि, अंशुक्रियाजनितो विभागः संयोगविनाशविशिष्टं कालमपेक्ष्य तन्तुविनाशसमकालम् आकाशादिदेशेनेव तन्त्वन्तरेणापि विभागमारभते। तन्तुविनाशविशिष्टञ्चापेक्ष्य द्वितन्तुकविनाशसमकालञ्चाश्रयविनाशात् तन्त्वोरेव परस्परं विभागो विनष्टो न तन्त्वन्तरविभागोंऽशुक्रियाजनिताद् विभागाद् उत्पन्नो विनष्ट इत्येकस्मात् तन्त्वन्तरविभागाद् उत्तरो विभागस्तन्त्वाकाशादिविभागो जायते। *अङ्गुल्याकाशबिभागाच्छरीराकाशविभागवत्* इत्युदाहरणम्। यथा अङ्गुल्याकाशादिविभागाद् हस्ताकाशविभागः, तस्माच्च विभागाच्छरीराकाशविभागस्तद्वद् इहाप्यंशुक्रियाजनिताद् विभागात् तन्त्वंशुविभागः, तस्माच्च विभागात् तन्त्वाकाशविभागो जायत इति। तस्मिन्नुत्पन्ने प्राक्तनसंयोगस्य प्रतिबन्धकस्याभावात् कर्म उत्तरसंयोगं कृत्वा तस्माद् विनश्यतीति न कालान्तरावस्थायित्वं दोषः।
नन्वेतस्मिन् पक्षे कथमुत्तरसंयोगात् तन्त्वाकाशादिविभागस्य निवृत्तिः, तन्तुकर्मणा पारम्पर्येणाप्यजनितत्वात्? न, विभागजनिते विभागे नियमानुपलब्धेः। अन्ये तु तन्तावुत्पन्ना क्रिया तन्त्वन्तरेणएव तदारम्भकेणांशुनापि विभागं करोत्येव, पारम्पर्येणांशोरपि कारणंत्वात्। आकाशादिश्च पारम्पर्येणापि द्वितन्तुकोत्पत्तावकारणमिति। तन्तुक्रिया अवयवान्तरविभागसमकालं न तेन विभागं करोतीति। यद् वा अंशुक्रिया अवयवान्तरविभागसमकालं न तेन विभागं करोतीति। यद् वा अंशुक्रिया अंश्वन्तरादिवत् तन्त्वन्तरेणआपि विभागमारभते, अंशुकार्येण सहैव कार्यारम्भकत्वात्। अतश्चाश्रयविनाशात् तन्त्वोरेव विभागो विनष्टो न तु तन्त्वन्तरविभागः। तस्मात् तन्त्वाकाशादिविभागो जायते अङ्गुल्याकाशादिविभागाच्छरीराकाशादिविभागवत्।
ननु अङ्गुल्याकाशविभागाद् हस्ताकाशविभागः कारणाकारणविभागस्य कार्याकार्यविभागारम्भकत्वात्, नत्वङ्गुलेः शरीरं कार्यमिति। अतो यद्यपि अङ्गुल्याकाशविभागस्य शरीराकाशविभागेन सह आकाशवृत्तित्वात् प्रत्यासत्तिरस्ति तथाप्यकारणत्वमेव। तस्माच्छरीरारम्भकत्वाद् उपचारेण हस्त एव शरीरमिति युक्तम्। एतावच्चोदाहरणम्, यथा अङ्गुल्याकाशविभागात् कारणाकारणविभागाद् हस्ताकाशविभागस्तथा तन्त्वंशुविभागात् तन्त्वाकाशविभाग इति।
अथ वा अंश्वन्तरविभागोत्पत्तिसमकालं तस्मिन्नेव तन्तौ कर्मोत्पद्यते, ततांऽश्वन्तरविभागात् तन्त्वारम्भकसंयोगविनाशः, तन्तुकर्मणा च तन्त्वन्तराद् विभागः क्रियते इत्येकः कालः। ततः संयोगविनाशात् तन्तुविनाशस्तद्‌विनाशाच्च तदाश्रितयोर्विभागकर्मणोर्युगपद् विनाशः।
*अथ वा* इति विभागस्याश्रयविनाशेन विनाशे प्रकारान्तरोपन्यासः, न तु प्रकृताक्षेपसमाधानम्, कालान्तरावस्थायिनि द्रव्ये कर्मणः कालान्तरावस्थायित्वोद्भावनात्। अतः *अश्वन्तरविभागोत्पत्तिसमकालं तस्मिन्नेव तन्तौ* विभज्यमानांशौ कर्म उत्पद्यते। ततोऽनन्तरम् अंशुविभागात् *तन्त्वारम्भकसंयोगविनाशः तन्तुकर्मणा च तन्त्वन्तराद् विभागः क्रियत इत्येकः कालः, ततः संयोगविनाशात् तन्तुविनाशः*। तन्त्वन्तरविभागाच्च तत्संयोगविनाशः, ततो द्वितन्तुकस्योभयविनाशाद् विनाशः, तन्तुविनाशाच्च *तदाश्रितयोर्विभागकर्मणोर्युगपद् विनाशः* इति।
तन्तुवीरणयोर्वा संयोगे सति द्रव्यानुत्पत्तौ पूर्वोक्तेन विधानेनाश्रयविनाशसंयोगाभ्यां तन्तुवीरणविभागविनाश इति।
अथ नित्यद्रव्यसमवेतस्य नित्यत्वं स्यादित्याक्षेपप्रतिसमाधानद्वारकं वाक्यम् *तन्तुवीरणयोर्वा* इत्यादि। यथा हि, तन्तुवीरणयोः संयोगे सति द्रव्यानुत्पत्तिर्विजातीयत्वात्, एवं द्व्यणुकाण्वोरपि संयोगाद् द्रव्यं नोत्पद्यते। तथाहि, एकद्व्यणुकमनित्यम् अन्यश्च परमाणुर्नित्य इति विजातीयत्वम्। विचातीयसंयोगश्च द्रव्यानारम्भक इति द्व्यणुकाण्वोः संयोगेऽपि द्रव्यानुत्पत्तौ परमाणावुत्पन्नं कार्यं [? कर्म] द्रव्यारम्भकसंयोगविरोधिविभागानुत्पादकत्वाद् आकाशदिदेशेनापि विभागमारभते वीरणकर्मवत्। एवं प्राक्तनसंयोगनिवृत्तावृत्तरसंयोगं कृत्वा विनश्यतीति *पूर्वोक्तेन विधानेन* विनाशः।
यद् वा पूर्वोक्तविधानेनेत्ययमर्थः, तन्त्वारम्भकेंऽशौ कर्मोत्पत्तिसमकालं वीरणेऽपि कर्म, अंशुकर्मणा च अंश्वन्तराद् विभागः क्रियते। वीरणकर्मणा च तन्त्वन्तरादित्येकः कालः। ततो विभागाद् अंशुसंयोगविनाशे वीरणविभागाच्च वीरणतन्तुसंयोगविनाशः, ततो द्रव्यारम्भकसंयोगविनाशात् तन्तुविनाशः। तन्तुवीरणसंयोगविनाशे च उत्तरसंयोगः, ततश्चाश्रयविनाशसंयोगाभ्यां तन्तुवीरणविभागविनाश इति।
अन्ये तु `वा' शब्दस्योपमार्थत्वात् तन्तुवीरणयोरिव द्व्यणुकाण्वोः संयोगे सति द्रव्यं नोत्पद्यते, द्रव्यानुत्पत्तौ च द्व्यणुकाणुविभागस्य परमाणुकर्मणा द्व्यणुकारम्भकसंयोगविनाशसमकालं जनितस्य कथं विनाशः? पूर्वोक्तेन विधानेनेति, आश्रयविनाशेनेत्यर्थः। यदा तु परमाणौ कर्मोत्पत्तौ परमाण्वन्तरविभागोत्पत्तिसमकालम् अस्मिन्नेव द्व्यणुके कर्मसञ्चिन्तनं तदा पूर्वोक्तेन विधानेन आश्रयविनाशाद् विभागकर्मणोर्युगपद् विनाश इति। द्व्यणुकारम्भके च परमाणौ कर्मोत्पत्तिसमकालम् अनारम्भकेऽपि कर्मसञ्चिन्तनात् तदाश्रयविनाशसंयोगाभ्यां तन्तुवीरणविभागविनाशवद् विनाश इत्यलम्।
परत्वापरत्ववैधर्म्यम्
परत्वमपरत्वञ्च परापराभिधानप्रत्ययनिमित्तम्। तत्तु द्विविधं दिक्‌कृतं कालकृतञ्च। तत्र दिक्‌कृतं देशविशेषप्रत्यायकम्। कालकृतञ्च वयोभेदप्रत्यायकम्।
इदानीं परत्वापरत्वयोर्लक्षणपरीक्षार्थम् *परत्वम्* इत्यादि प्रकरणम्। अभिधानञ्च प्रत्ययश्चेति, तयोर्निमित्तम् *परत्वमपरत्वञ्च* इत्युक्तेऽतिप्रसङ्गः, तदर्थं परापरग्रहणम्। तथापि परापराभिधानप्रत्ययनिमित्तत्वम् आकाशात्मनोर्न व्यावृत्तमिति विशेषणत्वे सतीत्यूह्यम्। तथा सामान्यमपि विशेषणत्वे सति परापरामिधानप्रत्ययनिमित्तमतो द्रव्यग्रहणम्। तथाहि, परत्वापरत्वे, अन्यस्माद् भिद्येते द्रव्यविशेषणत्वे सति परापरामिधानप्रत्ययनिमित्तत्वात्, यस्त्त्वितरान्न भिद्यते न चासावेवम्, यथा रूपादिरिति। व्यवहारो वा साध्यः। अत्र च अभिधानपदेन संख्यादिलक्षणेष्वपि करणव्युत्पत्त्याभिधानम्, भावव्युत्पत्त्या च ज्ञानमित्युभयरूपो व्यवहारः प्रत्ययश्च विवक्षित इति ज्ञापयति। एकस्मिंश्च प्रकरणे गुणद्वयनिरूपणम् एकोत्पत्तेरितरोपायापेक्षिकत्वात्, पृथगभिधाने तु ग्रन्थबहुत्वं स्यादिति सङ्ग्रहत्वादेकदाभिधानम्।
परत्वापरत्वयोः सद्भावे किं प्रमाणमित्यपेक्षायां परत्वमपरत्वञ्च परापराभिधानप्रत्ययनिमित्तमिति वाक्यं परीक्षापरत्वेन च योजनीयम्। तथाहि, परापराभिधानप्रत्ययः, विशेषणपूर्वकः, विशेष्याभिधानप्रत्ययत्वात्, दण्डीति विशेष्याभिधानप्रत्ययवत्। न च रूपादीनामन्यतमं विशेषणम्, तद्व्यवहारविलक्षणत्वात्। अबाध्यमानञ्च ज्ञानं निमित्तं विना न सम्भवत्येव। वासना तु निमित्तं तत्र न भवतीत्युक्तम्। अथ द्रव्यमेव विशिष्टोत्पादवशात् परापरव्यवहारजनकम्? तन्न, क्षणिकत्वप्रतिषेधात्। अभ्युपगमेन तूच्यते, विशिष्टताया व्यतिरेकाभ्युपगमे विशिष्टव्यवहारजनकत्वे च संज्ञाभेदमात्रम्। अव्यतिरेकेतु समानदेशावस्थितपिण्ढे समानवयसि च परापरव्यवहारः स्यात्, द्रव्यसद्‌भावस्याविशेषात्। अतः परापरव्यवहारे रूपादिविलक्षणं निमित्तमस्तीति ज्ञातम्।
तद् द्विविधं कारणभेदादित्याह *दिक्कृतं कालकृतञ्च* इति। ननु दिक्कालयोः सर्वोत्पत्तिमतां निमित्तिकारणत्वाभिधानाद् विशेषाभिधानासम्भव एव? न, दिक्कालपिण्डसंयोगयोस्तच्छब्दवाच्यत्वेन तत्कृतत्वोपपत्तेर्दिकपिण्डसंयोगकृतं दिक्कृतम्, कालपिण्डसंयोगकृत़ञ्च कालकृतमिति। तथानयोः परस्परं भेदमाह *तत्र दिक्कृतं देशविशेषप्रत्यायकम्* इति। देशविशेषः प्रत्यायकोऽस्येति, देशविशेषं वा प्रत्याययतीति कालकृताद् भिद्यते। *कालकृतञ्च वयोभेदप्रत्यायकम्* इति। वयोभेदः प्रत्यायको यस्येति वयो भेदप्रत्यायकम्, वयोभेदं वा प्रत्याययतीति दिक्कृताद् भिद्यते।
तत्र दिक्कृतस्योत्पत्तिरभिधीयते। कथम्? एकस्यां दिश्यवस्थितयोः पिण्डयोः संयुक्तसंयोगबह्वल्पभावे सति एकस्य द्रष्टुः सन्निकृष्टमवधिं कृत्वा `एतस्माद् विप्रकृष्टोऽयम्' इति परत्वाधारेऽसन्निकृष्टा बुद्धिरुत्पद्यते। ततस्तामपेक्ष्य परेण दिक्‌प्रदेशेन संयोगात् परत्वस्योत्पत्तिः।
तथा विप्रकृष्टञ्चार्वाधं कृत्वा `एतस्मात् सन्निकृष्टोऽयम्' इत्यपरत्वाधारे इतरस्मिन् सन्निकृष्टा बुद्धिरुत्पद्यते। ततस्तामपेक्षय अपरेण दिक्‌प्रदेशेन संयोगाद् अपरत्वस्योत्पत्तिः।
*तत्र दिक्कृतस्योत्पत्तिरभिधीयते*। *कथम्* इत्यव्युत्पन्नप्रश्नानन्तरमाह *एकस्यां दिश्यवस्थितयोः पिण्डयोः* इत्यादि। पिण्डयोरिति समवायिकारणनिर्देशः। एकस्यां दिशय्वस्थितयोः, न विभिन्नदिश्यवस्थितयोरिति नियमप्रतिपादनम्। *संयुक्तसंयोगबह्वल्पभावे सति* इति भूप्रदेशान् अधिकृत्य। एतत्संयुक्तेन सह संयोगास्तेषां बह्वल्पभाव इति एकस्मिन् पिण्डेसंयुक्तसंयोगाल्पीयस्त्वम्, अनय्स्मिंस्ततो बहुत्वम्। तस्मिन् सति *एकस्य द्रष्टुः* न विभिन्नस्य। *सन्निकृष्टमवधिं कृत्वा एतस्माद् विप्रकृष्टोऽयमिति परत्वाधारे* उत्पत्स्यमानपरत्वे। *बुद्धिरुत्पद्यते, तामपेक्ष्यपरेण दिक्प्रदेशेनसंयोगात्* परत्वोत्पत्तिरिति। दिक्प्रदेशयोः परापरव्यपदेशस्तत्सम्पादकत्वादुपचारेण।
विप्रकृष्टञ्च पिण्डमवधिं कृत्वा इतरस्मिन् पिण्डसंयुक्तसंयोगाल्पीयस्त्वान्निमित्तात् सन्निकृष्टा बुद्धिरुत्पद्यते। तां सन्निकृष्टां बुद्धिमपेक्ष्य अपरेण दिक्‌प्रदेशेन योगाद् परत्वोत्पत्तिरिति। पिण्डः समवायिकारणम्, दिक्‌पिण्डसंयोगोऽसमवायिकारणम्, विशिष्टा च बुद्धिर्निमित्तकारणमिति।
ननु चात्र सन्निकृष्टमवधिं कृत्वा विप्रकृष्टे बुद्धिः, विप्रकृष्टञ्चावधिं कृत्वा सन्निकृष्टे बुद्धिरिति विप्रकृष्टसन्निकृष्टबुद्ध्योः परस्परापेक्षित्वाद् उभयाभावप्रसह्गः। तन्न। निर्विकल्पकज्ञाने प्रतिभातस्यावधित्वेनाभ्युपगमात्। तथाहि, सन्निकृष्टविप्रकृष्टयोः प्रत्यक्षेणैव निर्विकल्पकावभासे सति `एतस्मादयं सन्निकृष्टो विप्रकृष्टश्च' इति सविकल्पकं ज्ञानं भवत्येव।
अन्ये तु निर्विकल्पावभासजनितसंस्कारजस्मृत्युपस्थापितयोः सन्निकृष्टविप्रकृष्टयोः परस्परावधिभावो घटत इति ब्रुवते। तस्मान्न परस्परापेक्षितत्वादुभयाभाव इति स्थितम्।
कालकृतयोरपि कथम्? वर्तमानकालयोरनियतदिग्देश[संयुक्त]योर्युवस्थविरयो रूढश्मश्रुकार्कश्यवलिपलितादिसान्निद्ये सत्येकस्य द्रष्टुर्युवानमर्वाधं कृत्वा स्थविरो विप्रकृष्टाबुद्धिरुत्पद्यते। ततस्तामपेक्ष्य परेण कालप्रदेशेन संयोगात् परत्वस्योत्पत्तिः। स्थविरञ्चार्वाधं कृत्वा यूनि सन्निकृष्टा बुद्धिरुत्पद्यते। ततस्तामपेक्ष्य अपरेण कालप्रदेशेन संयोगाद् अपरत्वस्योत्पत्तिरिति।
कालकृतयोरपि परत्वापरत्वयोः कथमुत्पत्तिरित्याह *वर्तमानकालयोः* इत्यादि। वर्तमानः कालो ययोः पिण्डयोस्तौ च तथोक्तौ तयोरित्युभयत्रापि दिक्कालकृतपरत्वापरत्वयोरुत्पत्तौ नियमः। *अनियतदिग्देशयोः* इति। न नियतो दिग्देशो ययोस्तौ तथोक्तौ तयोरिति कालकृतयोरुत्पत्तावनियमोपदर्शनम्। *युवस्थविरयोः* इति वयोभेदोपदर्शनार्थम्, समानवयसि परापरव्यवहारादर्शनात्। [*रूण्श्मश्रुकार्कश्यवलीपलितादिसान्निध्ये सति*] रूढश्मश्रु च कार्कश्यञ्च वलयश्च पलितानि च तान्यादिर्येषां तानि, तथोक्तानि, तेषां सान्निध्ये सतीति। रूढ़श्मश्रुकार्कश्यादि सान्निध्यं सन्निकृष्टबुद्धेः कारणम्, वलीपलितादिसान्निध्यञ्च विप्रकृष्टबुद्धेरिति। *एकस्य द्रष्टुः* इति। यो हि द्रष्टा परत्वापरत्वे द्रष्टुमभिवाञ्छति तस्य। *युवानमवधिं कृत्वा स्थविरे विप्रकृष्टा बुद्धिरुत्पद्यते*। तां विप्रकृष्टां बुद्धिमपेक्ष्य परेण कालप्रदेशेन योगात् परत्वस्योत्पत्तिरिति। विप्रकृष्टञ्च स्थविरमवधिं कृत्वा यूनि`एतस्मात् स्थविरादयं सन्निकृष्टः' इति सन्निकृष्टा बुद्धिरुत्पद्यते। *तामपेक्ष्य अपरेण कालप्रदेशेन [सं] योगाद् अपरत्वस्योत्पत्तिरिति*। सन्निकृष्टविप्रकृष्टपिण्डयोः समवायिकारणत्वम्, कालपिण्डयोः संयोगस्य चासमवायिकारणत्वम्, सन्निकृष्टविप्कृष्टबुद्ध्योश्च निमित्तकारणत्वमिति।
ननु चायुक्तमेतत् आहारोपयोगे सति पाकजोत्पत्तिन्यायेनैकस्मिन्नहन्युपजातत्वाविशेषेण सन्निकृष्टविप्रकृष्टबुद्ध्योरभावात् परत्वापरत्वयोरसम्भवः। नैतदेवम्। जन्मनः प्रभृति एकस्यां शरीरसन्ततावादित्यपरिवर्तनापेक्षया तदुपपत्तेः। तथाहि, एकस्य जनुःप्रभृति भूयांस्यादित्यपरिवर्तनानि अपरस्याल्पीयांसीति तदपेक्षया सन्निकृष्टविप्रकृष्टबुद्ध्योर्भावः। स्थविरे भूयांस्यादित्यपरिवर्तनानीति विप्रकृष्टबुद्धिः, यूनि चाल्पीयांसीति सन्निकृष्टबुद्धिः। तदपेक्षया परत्वापरत्वयोरुत्पत्तिरिति शरीरसन्तानस्यादित्यपरिवर्तनापेक्षया घटत एवैतत्। दिक्कृतपरत्वापरत्ववैलक्षण्यञ्चानयोर्निमित्तान्तरासम्भवे सति कालकृतत्वमिष्टम्। न हि तस्मादेव निमित्ताद् व्यतिकरः सम्भवतीति।
तदेवं परत्वापरत्वयोरुत्पादे व्यकस्थिते सूत्रेणाभिसम्बन्धोपदर्शनञ्च। तथा च सूत्रम् "एकदिक्कालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च" (वं. सू.) इति। एका दिक् कालश्च ययोस्तौ तथोक्तौ ताभ्यामिति समवायिकारणनिर्देशः। एकदिग्भ्यामिति दिक्कृतपरत्वापरत्वापेक्षयैव नियमः। एककालाभ्यां वर्त्तमानकालाभ्याम् उभयत्रापीति। न हि असद्भ्यां सदसद्भ्याञ्च परत्वापरत्वे जायेते। सन्निकृष्टविप्रकृष्टाभ्यामिति समवायिकारणोपसर्जनतया सन्निकृष्टविप्रकृष्टबुद्ध्योर्निमित्तकारणत्वमुक्तमेव। तथाहि, "परमपरञ्चेति बुद्ध्यपेक्ष्" [वै. सू.] इत्यपेक्षाशब्दश्चात्र कारणे वर्त्तत इति। "कारणपरत्वात् कारणापरत्वाच्च परत्वापरत्वे" (वै. सू.) इत्यसमवायिकारणं दर्शयति।
ननु च कारणपरत्वात् कारणापरत्वाच्च यदि कार्ये परत्वापरत्वे भवतस्तर्हि रूपादिवच्चिरोत्पन्नत्वात् सन्निकृष्टविप्रकृष्टबुद्धिं विनापि समाने देशे समाने वयसि च पिण्डे तयोर्ग्रहणं स्यात्, न चैतदस्ति। अथ अनभिव्यक्तितोऽनुपलब्धिः? तन्न, सद्भावे प्रमाणाभावात्। सन्निकृष्टविप्रकृष्टबुद्ध्यादिसद्भावे चेदानीमुत्पन्नमात्रस्यापि ग्रहणमुपपद्यत एव। तस्माद् दिक्‌पिण्डसंयोगः कालपिण्डसंयोगश्च परत्वापरत्वसम्पादकत्वादुपचारेण परत्वापरत्वे इत्यभिधीयेते। न च परत्वापरत्वयोः परस्परापेक्षितत्वाद् असम्बद्धमुत्पत्त्यादिनिरूपणमिति वाच्यम्, सर्वत्र परस्परापेक्षितत्वानुपलब्धेः। तथाहि, न बीजाङ्कुरयोः परस्परापेक्षित्वम्, बीजविनाशे सति कालान्तरे द्व्यणुकादिप्रक्रमेण अङ्कुरस्योत्पत्तेः। एवमङ्कुरविनाशे सति उत्तरोत्तरकार्याणां पूर्वपूर्वविनाशे सति भावात्, नाङ्कुराद् बीजमिति परस्परापेक्षित्वाभावः। तथा पितृपुत्रयोः धर्मशरीरयोश्च न परस्परापेक्षित्वं, यत एवोपलब्धिस्तत्कारणत्वानुपलब्धेः। कार्यान्तरे तु कारणत्वं न प्रतिषिध्यते इत्यलमतिप्रसङ्गेन।
विनाशस्त्वपेक्षाबुद्धिसंयोगद्रव्यनाशात्। अपेक्षाबुद्धिविनासात् तावदुत्पन्ने परत्वे यस्मिन् काले सामान्यबुद्धिरुत्पन्ना भवति ततोऽपेक्षाबुद्धेर्विनश्यत्ता, सामान्यतज्ज्ञानतत्सम्बन्धेभ्यः परत्वगुणबुद्धेरुत्पद्यमानतेत्येकः कालः। ततोऽपेक्षाबुद्धेर्विनाशो गुणबुद्धेश्चोत्पत्तिः, ततोऽपेक्षाबुद्धिविनाशाद् गुणस्य विनश्यत्ता, गुणज्ञानतत्सम्बन्धेभ्यो द्रव्यबुद्धेरुत्पद्यमानतेत्येकः कालः। ततो द्रव्यबुद्धेरुत्पत्तिर्गुणस्य विनाश इति।
तदेवं परत्वापरत्वयोरुत्पत्तिमत्त्वादवश्यं विनाश इति, तस्य सहेतुकत्वात् कारणं वाच्यमित्याह *विनाशस्त्वपेक्षाबुद्धिसंयोगद्रव्यविनाशात्* इति त्रेधा, त्रितयविनाशाच्चापरः पक्ष इति सप्तधा विनाशः।
तत्रापेक्षाबुद्धिविनाशात् तावद् विनाशमाह *उत्पन्ने परत्वे* स्वकारणाद् विशेषणत्वात् पूर्वं तत्संयुक्तसमवेतसमवायात् सामान्यबुद्धिरुत्पद्यते। सा च यस्मिन् काले समुत्पन्ना भवति तदैव तत्सामान्यज्ञानात् *अपेक्षाबुद्धेर्विनश्यत्ता* विनाशकारणसान्निध्यम्। *सामान्यतज्ज्ञानतत्सम्बन्धेभ्यः परत्वगुणबुद्धेरुत्पद्यमानता* उत्पत्तिकारणसान्निध्यमित्येकः कालः। ततोऽपेक्षाबुद्धेर्विनाशो गुणज्ञानस्योत्पादोऽपेक्षाबुद्धिविनाशाद् गुणस्य विनश्यत्ता, सामान्यज्ञानस्य विनश्यत्ता, गुणाश्च तज्‌ज्ञाऩञ्च तत्सम्बन्धश्चेति तेभ्यो द्रव्यबुद्धेरुत्पद्यमानतेत्येकः कालः। ततो द्रव्यबुद्धेरुत्पत्तिरपेक्षाबुद्धिविनाशाद् गुणस्य च विनाशोऽनय्स्य विनाशकारणस्यानुपलब्धेः।
संयोगविनाशादपि कथम्? अपेक्षाबुद्धिसमकालमेव परत्वापरत्वाधारे कर्मोत्पद्यते, तेन कर्मणा दिक्‌पिण्डविभागः क्रियते, अपेक्षाबुद्धितः परत्वस्योत्पत्तिरित्येकः कालः। ततः सामान्यबुद्धिरुत्पत्तिर्दिक्‌पिण्डसंयोगस्य च विनाशः। ततो यस्मिन् काले गुणबुद्धिरुत्पद्यते तस्मिन्नेव काले दिक्‌पिण्डसंयोगविनाशाद् गुणस्य विनाशः।
संयोगविनाशादपि कथं विनाश इत्यव्युत्पन्नप्रश्नानन्तरमाह *अपेक्षाबुद्धिसमकालमेव परत्वापरत्वाधारे कर्मोत्पद्यते* विभागपरत्वापरत्वयोरुत्पद्यमानतेत्येकः कालः। ततः *तेन कर्मणा दिक्‌पिण्डसंयोगस्य विनश्यत्ता। *ततः सामान्यबुद्धेरुत्पत्तिर्दिक्‌पिण्डसंयोगस्य च विनाशः* सामान्यज्ञानादपेक्षाबुद्धेर्विनश्यत्ता, गुणबुद्धेरुत्पद्यमानता, संयोगविनाशाद् गुणस्य विनश्यत्ता। *ततो यस्मिन् काले गुणबुद्धिरुत्पद्यते तस्मिन्नेव काले* दिक्‌पिण्डसंयोगस्य असमवायिकारणस्य विनाशाद् *गुणस्य* परत्वस्यविनाशः। (सामान्यज्ञानादपेक्षाबुद्धेरपि विनाशः। अत एवापेक्षाबुद्धिविनाशो गुणविनाशस्य कारणं समकालत्वात्।(2))
(F.N ){2. प्रकरणसङ्गत्यभावात् पङिक्तिरियमत्र न सङ्गच्छते पूर्वप्रकरण एवासीदित्यनुमीयते।}

द्रव्यविनाशादपि कथम्? परत्वाधारावयवे कर्मोत्पन्नं यस्मिन्नेव कालेऽवयवान्तराद् विभागं करोति तस्मिन्नेव कालेऽपेक्षाबुद्धिरुत्पद्यते। ततो विभागाद् यस्मिन्नेव काले संयोगविनाशस्तस्मिन्नेव काले परत्वमुत्पद्यते। ततः संयोगविनाशाद् द्रव्यविनाशस्तद्‌विनाशाच्च तदाश्रितस्य गुणस्य विनाशः।
द्रव्यविनाशादपि कथं विनाश इत्याह *परत्वाधारावयवे कर्मोत्पन्नम्* यस्मिन् कालेऽवयवान्तरविभागं द्रव्यारम्भकसंयो [गिन ? गविरोधिन] मारभते संयोगस्य विनश्यत्ता। तस्मिन्नेव काले स्वकारणादपेक्षाबुद्धिरुत्पद्यते, परत्वस्योत्पद्यमानता। विभागाद् यस्मिन् काले संयोगस्य द्रव्यारम्भकस्य विनाशो द्रव्यस्य विनश्यत्ता तस्मिन्नेव काले परत्वमुत्पद्यते। तत्सामान्यज्ञानस्योत्पद्यमानता, ततः संयोगविनाशाद् द्रव्यविनाशः, सामान्यज्ञानस्योत्पादोऽपेक्षाबुद्धेर्विनश्यत्ता, परत्वगुणस्यापि विनश्यत्ता। ततो द्रव्यविनाशात् तदाश्रितस्य गुणस्य विनाशः। सामान्यज्ञानादपेक्षाबुद्धेश्च विनाश इति पूर्वकालत्वादाश्रयविनाश एव गुणविनाशो कारणमिति।
द्रव्यापेक्षाबुद्ध्योर्युगपद् विनाशादपि कथम्? यदा परत्वाधारावयवे कर्मोत्पद्तेतदैवापेक्षाबुद्धिरुत्पद्ते, कर्मणा चावयवान्तराद् विबागः क्रियते, परत्वस्योत्पत्तिरित्येकः कालः। ततो यस्मिन्नेव कालेऽवयवविभागाद् द्रव्यारम्भकसंयोगविनाशस्तस्मिन्नेव काले सामान्यबुद्धेश्चापेक्षाबुद्धिविनाश इत्येकः कालः। ततो द्रव्यापेक्षाबुद्ध्योर्विनाशात् परत्वस्य विनाशः।
द्रव्यापेक्षाबुद्ध्योर्युगपद् विनाशादपि कथं परत्वापरत्वयोर्विनाशस्तदाह *यदा* परत्वाधारस्योत्पत्स्यमानपरत्वस्यावयवे कर्मोत्पद्ते विभागस्योत्पद्यमानता तदैवापेक्षाबुद्धिरुत्पद्यते, परत्वस्योत्पद्यमानता, कर्मणा चावयवान्तराद् द्रव्यारम्भकसंयोगविरोधिविभागः, संयोगस्य विनश्यत्ता, परत्वस्योत्पत्तिस्तत्सामान्यज्ञानस्योत्पद्यमानतेत्येकः कालः। *ततो यस्मिन्नेव काले* विबागाद् द्रव्यारम्भकसंयोगविनाशो द्रव्यस्य विनश्यत्ता, *तस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते*। अपेक्षाबुद्धोर्विनश्यत्ता। *तदन्तरं संयोगविनाशाद् द्रव्यविनाशः, सामान्यबुद्धेश्चापेक्षाबुद्धिविनाशः* गुणस्य विनश्यत्तेत्येकः कालः। *ततो द्रव्यापेक्षाबुद्ध्योर्विनाशात्* तदाश्रितस्य *परत्वस्य विनाशः* इति। एकैकस्यान्यत्र गुणविनाशे सामर्थ्यावधारणादुभयोरत्र पूर्वकालभावित्वे सति कारणत्वं निश्चीयते।
द्रव्यसंयोगविनाशादपि कथम्? यदा परत्वाधारावयवे कर्मोत्पन्नम् अवयवान्तराद् विभागं करोति तस्मिन्नेव काले पिण्डकर्मापेक्षाबुद्ध्योर्युगपदुत्पत्तिः। ततो यस्मिन्नेव काले परत्वस्योत्पत्तिस्तस्मिन्नेव काले विभागाद् द्रव्यारम्भकसंयोगविनाशः, पिण्डकर्मणा दिक्‌पिण्डस्य च विभागः क्रियत इत्येकः कालः। ततो यस्मिन्नेव काले सामान्यबुद्दिरुत्पद्यते तस्मिन्नेव काले द्रव्यारम्भकसंयोगविनाशात् पिण्डविनाशः, पिण्डविनाशाच्च पिण्डसंयोगविनाशः। ततो गुणबुद्धिसमकालं पिण्डदिक्‌पिण्डसंयोगविनाशात् परत्वस्य नाशः।
संयोगद्रव्यविनाशादपि कथं परत्वापरत्वयोर्विनाश इत्याह *यदा*द्रव्यावयवे [? परत्वाधारावयवे] कर्मोत्पन्नमवयवान्तराद् विभागं करोति संयोगस्य विनश्यत्ता, तस्मिन्नेव काले पिण्डेऽपि समवायिकारणए कर्म चापेक्षाबुद्धिश्च स्वकारणात् तयोर्युगपदुत्पत्तिः, दिक्‌पिण्डविभागपरत्वापरत्वयोरुत्पद्यमानतेत्येकः कालः। ततो यस्मिन्नेव काले परत्वमुत्पद्यते तत्सामान्यज्ञानस्योत्पद्यमानता, तस्मिन्नेव कालेऽवयवविभागाद् द्रव्यारम्भकसंयोगविनाशः, द्रव्यस्य विनश्यत्ता, पिण्डकर्मणा च दिक्‌पिण्डविभागः क्रियते, संयोगस्य विनश्यत्तेत्येकः कालः। ततो यस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते गुणबुद्धेरुत्पद्यमानता, अपेक्षाबुद्धेर्विनश्यत्ता, तत्समकालं संयोगविनाशात् पिण्डविनाशः, विभागाच्च दिक्‌पिण्डसंयोगविनाशः, गुणस्य विनश्यत्ता। ततो गुणबुद्धिसमकालं पिण्डसंयोगयोर्विनाशात् परत्वस्य विनाशः, सामान्यबुद्धेश्चापेक्षाबुद्धिविनाश इति। अत एव समकालत्वादपेक्षाबुद्धिविनाशो न कारणम्, पिण्डसंयोगविनाशयोश्चान्यत्र सामर्थ्यावधारणे सति पूर्वकालभावित्वात् कारणत्वमिति।
संयोगापेक्षाबुद्ध्योर्युगपद् विनाशादपि कथम्? यदा परत्वमुत्पद्यते तदा परत्वाधारे कर्म, ततो यस्मिन्नेव काले परत्वसामान्यबुद्धिरुत्पद्यते तस्मिन्नेव काले पिण्डकर्मणा दिक्‌पिण्डविभागः क्रियते। ततः सामान्यबुद्धितोऽपेक्षाबुद्धिविनाशो विभागाच्च दिक्‌पिण्डसंयोगविनाश इत्येकः कालः। ततः संयोगापेक्षाबुद्ध्योर्विनाशात् परत्वस्य विनाशः।
संयोगापेक्षाबुद्ध्योर्युगपद् विनाशादपि कथं विनाश इत्याह *यदा परत्वमुत्पद्यते* स्वकारणपरत्वसामान्यज्ञानस्योत्पद्यमानता, *तदा परत्वाधारे* स्वकारणात् कर्म, विभागस्योत्पद्यमानता, *ततो यस्मिन्नेव काले परत्वसामान्यबुद्धिरुत्पद्यते* गुणबुद्धेरुत्पद्यमानता, अपेक्षाबुद्धेर्विनश्यत्ता, *तस्मिन्नेव काले पिण्डकर्मणा दिक्‌पिण्डविभागः क्रियते* तत्संयोगस्य विनश्यत्ता। *ततः सामान्यबुद्धितोऽपेक्षाबुद्धिविनाशो विभागाच्च दिक्‌पिण्डसंयोगविनाशः* गुणस्य विनश्यत्तेत्येकः कालः। *ततः संयोगापेक्षाबुद्ध्योर्विनाशात् परत्वस्य विनाशः* इति।
त्रयाणां समवाय्यसमवायिनिमित्तकारणानां युगपद् विनाशादपिकथम्? यदापेक्षाबुद्धिरुत्पद्यते तदा पिण्डावयवे कर्म, ततो यस्मिन्नेव काले कर्मणावयवान्तराद् विभागः क्रियतेऽपेक्षाबुद्धेः परत्वस्य चोत्पत्तिस्तस्मिन्नेव काले पिण्डेऽपि कर्म, ततोऽवयवविभागात् पिण्डारम्भकसंयोगविनाशः, पिण्डकर्मणा च दिक्‌पिण्डविभागः क्रियते, सामान्यबुद्धेश्चोत्पत्तिरित्येकः कालः. ततः संयोगविनाशात् पिण्डविनाशः, विभागाच्च दिक्‌पिण्डसंयोगविनाशः, सामान्यज्ञानादपेक्षाबुद्धेर्विनाश इत्येतत् सर्वं युगपत्, त्रयाणां समवाय्यसमवायिनिमित्तकारणानां विनाशात् परत्वस्य विनाश इति।
त्रयाणां समवाय्यसमवायिनिमित्तानां युगपद् विनाशादपि कथं विनाश इत्याह *यदापेक्षाबुद्धिरुत्पद्यते* परत्वस्योत्पद्यमानता। *तदा पिण्डावयवे कर्म* विभागस्योत्पद्यमानता। ततो यस्मिन्नेव कालेऽवयवान्तराद् द्रव्यारम्भकसंयोगविरोधिविभागः क्रियते, अवयवकर्मणा संयोगस्य विनश्यत्ता, परत्वस्योत्पत्तिः, तत्सामान्यज्ञानस्योत्पद्यमानता, तस्मिन्नेव काले स्वकारणात् पिण्डेऽपि कर्म, विभागस्योत्पद्यमानता, ततो विभागात् पिण्डारम्भकसंयोगविनाशः, पिण्डस्य विनश्यत्ता, पिण्डकर्मणा च विभागः क्रियते। दिक्‌पिण्डसंयोगस्यविनश्यत्ता सामान्यबुद्धेश्चोत्पत्तिः, अपेक्षाबुद्धेर्विनश्यत्ता, गुणबुद्धेरुत्पद्यमानतेत्येकः कालः। ततः संयोगविनाशात् पिण्डविनाशः, विभागाच्च दिक्‌पिण्डसंयोगविनाशः, सामान्यज्ञानादपेक्षाबुद्धेर्विनाश इत्येतत्‌ सर्वं युगपद् भवतीति। तत्र त्रयाणां समवाय्यसमवायिनिमित्तानां विनाशात् परत्वस्य विनाश इति। अन्यत्र हि व्यस्तानां कारणत्वोपलब्धेः समुदितानामत्र सम्भवाद् गुणविनाशे कारणत्वमिति सम्भाव्यमानानेककारणत्वोपन्यासः।

बुद्धिवैधर्म्यम्
बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः।
अथेदानीं बुद्धेरवसरप्राप्ताया लक्षणपरीक्षार्थं *बुद्धिरुपलब्धिः* इत्यादि प्रकरणम्। बुद्धिरिति पदम् आवर्त्त्यमानं लक्ष्यनिर्देशो लक्षणनिर्देशश्च भवति। तथाहि, बुद्धिरिति लक्ष्यनिर्देशः। बुद्धिरुपलब्धिर्ज्ञांनं प्रत्यय इति पर्याया लक्षणम्।
अथ आकाशे [पर्यायशब्दरूपत्वात्] वर्तमानाः कथं व्यधिकरणत्वात् बुद्धेर्लक्षणम्? वाच्यवाचकभावेन तद्धर्मत्वात्। लक्षणवैचित्र्यज्ञापनार्थञ्चात्र पर्यायलक्षणाभिधानम्। तथाहि, न परम् असाधारणत्वात् कार्यकरणादिर्लक्षणम् पर्यायात्मकञ्चेति।
अथ शब्दानां पुरुषेच्छानुविधायितया अर्थान्तरेऽपि वृत्तिः सम्भवतीति व्यभिचारः? न, अनादिकालप्रवाहायातत्वेन विशेषितत्वात्। तथाहि, बुद्धिरितरस्माद् भिद्ते, अनादिकारप्रवाहायातेत्थम्भूतपर्यायाभिधेयत्वात्, यस्त्वितरस्मान्न भिद्यते न चासावेवम्, यथा रूपादिरिति। व्यवहारो वा साध्यः।
ननु बुद्धेरन्येऽपि पर्याया विद्यन्त इति तत्परिहारेणआमीषामेव लक्षणत्वेनाभिधाने विशेषहेतुर्वक्तव्यः। स चायं विशेषोऽत्रैव विप्रतिपत्तेः, लक्षणार्थमपीदं वाक्य ंसामर्थ्यात् तन्निरासपरं भवतीति।
तथा च सांख्याः, प्रधानस्याद्यो विकारो बुद्धिः, वीजस्योच्छूनतेव। प्रधानञ्च सत्त्वरजस्तमसां साम्यावस्था, तद्‌विकारो वैषम्यम्। उपलब्धिस्तु सुखदुःखाकारपरिणतायां बुद्धावात्मनः प्रतिबिम्बोदयो भोगः। तदाह,
विविक्तदृक्‌परिणतौ बुद्धौ भोगोऽस्य कथ्यते।
प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ।। (आसुरिः) इति।
विविक्तदृग्‌विषयाकारपरिणतेन्द्रियाकारपरिणतिर्यस्याः सा तथोक्ता, तस्यां बुद्धौ सत्यामात्मनो भोगः कथ्यते। किं रूपः? प्रतिबिम्बोदयः, न वास्तवः। यथा चन्द्रमसः प्रतिबिम्बनं स्वच्छे, न कलुषाम्भसि; एवं विशिष्टपरिणामोपचितायां बुद्धावात्मन इति। वास्तवे हि भोगे पुरुषस्य पूर्वस्वरूपनिवृत्तौ स्वरूपान्तरापत्तिर्विकारः स्यात्। तत्र चाचेतनत्वादनेकदूषणमिति।
अन्ये त्वन्यथा भोगं मन्यन्ते। यथा हि,
पुरुषोऽविकृतात्मैव स्वनिर्भासेन चेतनम्।
मनः करोति सान्निध्यादुपाधिस्फटिकं यथा ।।(विन्ध्यवासी)इति।
सान्निध्यादुपाधिस्फटिकमतद्रूपं स्वनिर्भासं स्वाकारं करोति। एवमयं पुरुषोऽविकृतस्वरूपोऽचेतनं मनः स्वनिर्भासं चेतनमिव करोति सान्निध्यात्, न पुनर्वस्तुतस्तस्य चैतन्यं विकारित्वात्। ज्ञानन्तु विषयाकारपरिणतेन्द्रियाकारतया बुद्धेः परिणामः। तदा भोगोत्सुकं पुरुषं मत्वा बुद्धेराकूतिः सम्पद्यते। तदाकूतसंवेदनाच्चेन्द्रियाणां पूर्वस्वरूपनिवृत्तेर्विषयाकारपरिणामः। अन्यथा हि पूर्वरूपापरित्यागे प्रागिव पश्चादपि विषयावबोधो न स्यात्। विषयाकारपरिणामश्च प्रतिकर्मव्यवस्थातो नीलस्येदं पीतस्येदमिति ज्ञेयम्। अन्यथा हि विषयाकारं विना परिणामस्याविशेषादियं व्यवस्था न स्यात्। एवं विषयाकारपरिणतेन्द्रियेषु तदाकारतया बुद्धेः परिणामः।
तथासिद्ध्यादिप्रत्ययाः पञ्चाशद् बुद्धेः परिणामविशेषा एव।
अष्टधा सिद्धिर्नवधा तुष्टिः पञ्चविपर्ययभेदाः।
तथाशक्तिरष्टाविंशतिधेत्यसिद्धितुष्ट्योर्भेदाः ।।
सप्तदशैकादशेन्द्रियवधाश्चेति पञ्चाशद् भवन्तीति पर्यायत्वं बुद्ध्यादिशब्दानां न सिद्धाः, विभिन्नार्थवाचकत्वात्। अभिन्नप्रवृत्तिनिमित्ताश्चैकार्थवाचकाः शब्दाः पर्याया इति।
तदेतदसाम्प्रतम्, एषां प्रयोगतः प्रयायताप्रतीतेः। तथाहि, बुद्धः, उपलब्धः, ज्ञातः, प्रतीतः, इत्येकस्मिन्नर्थे प्रयुज्यमानाः प्रतीयन्ते। विभिन्नार्थतायान्तु उपलब्धो न बुद्धः, ज्ञातो न प्रतीत इति संवेदनं स्यात्। न चैतदस्ति। न च प्रधानासत्त्वस्य वक्ष्यमाणत्वात् तद्‌विकारस्य बुद्धेः सद्भावः। तदभावादात्मनि बुद्धेर्न बिम्बनम्, उपलब्धिस्तत्परिणामो वा, ज्ञानं, प्रत्ययश्चेति। यदि न वास्तवो भोगः स्यात्, न संसार्यात्मनो मुक्ताद् विशेषः, स्वनिष्ठायाश्चितेरुभयत्राविशेषात्।
न च व्यापित्वाविशेषात् संसार्यात्मन एव बुद्धेर्विशेषेण सान्निध्यात् प्रतिबिम्बनं नेतरस्येति वाच्यम्। भोग्यभोक्तृत्वसम्बन्धस्तु भोगस्यावास्तवत्वाद् विचार्यः। न च क्रमैव नियामकम्, तस्य बुद्ध्या सम्पादित्वात्। तथाहि, बुद्ध्या सम्पादितं कर्म पुरुषेण विशिष्टसम्बन्धाभावाद् अशेषपुरुषोपभोग्यं स्यात्। न च बुद्धेः कर्त्तृत्वं हि स्वातन्त्र्यम् [तत्र] करणत्वं पारतन्त्र्यं न स्यात्, स्वातन्त्र्यपारतन्त्र्योर्विधिप्रतिषेधरूपत्वादिति पुरुषस्यैव कर्तृत्वमभ्युपेयम्। न च तस्यपूर्वमकृत्वा कुर्वतः परिणामित्वम्, कारणसाकल्ये कार्यकरणात्, तद्‌वैकल्ये चाकरणात्। साकल्यवैकल्ययोश्चाविर्भावतिरोभावाभ्यां नात्मनस्तथाभावस्ततोऽन्यत्वात्। अतः पुरुषस्य कर्त्तृत्वे युक्तं वास्तवं भोक्तृत्वम्। अन्यथा हि भोगक्रियामकुर्वतः कथमुदासीनस्य भोक्तृत्वं स्यात्, भोगस्य सुखदुःखवेदनारूपत्वात्। तदाधारता तु भोक्तृत्वमिति।
यच्चोदं पुरुषस्य भोगोत्सुकतां मन्यमानाया बुद्धेराकूतिः सम्पद्यते, तत्संवेदनाच्चेन्द्रियामामिति, असदेतत्, अचेतनत्वात्। अचेतना हि बुद्धिस्तथेन्द्रियाणि, तेषामाकूतसंवेदनाभावे कथं नियतो विषयाकारतया परिणाम्? पुरुषस्य तु चिद्रूपताव्यतिरेकेण नापरा भोगोत्सुकतास्ति। यश्चायमिन्द्रियाणां विषयाकारपरिणामस्तस्य विषयाकारतायां न प्रतिकर्मव्यवस्था प्रमाणम्, तदन्तरेणआपि तद्‌भावात् इति वक्ष्यमाणन्यायात्। यदि च बुद्धेः पूर्वरूपनिवृत्ताविन्द्रियाकारतया परिणामस्तर्हि स्वरूपस्याव्यतिरेकाद् बुद्धेरेवोत्पत्तिर्निवृत्तिश्चेति। अन्यत्वे प्रतिसन्धानाद्यभाव एव। न ह्येकेनोपलब्धमर्थमन्यः प्रतिसन्धातुमर्हतीति। परिणामास्तु बुद्धेस्तादात्म्येन वर्तन्त इति तेषामनेकत्वे बुद्धेरप्यनेकत्वम्, विपर्यये तादात्म्यविरहात्।
यदपीदं बुद्धेः परिणामविशेषाः पञ्चाशत् प्रत्ययाः, तदबुद्धिपूर्वकम्, तत्परिणामविशेषानामानन्त्यात्। न च तेषामेष्वेवान्तर्भावः प्रतिनियतलक्षणावरोधस्यानुपलब्धेरित्यलमतिप्रसङ्गेन।
सा चानेकप्रकारा, अर्थानन्त्यात् प्रत्यर्थनियतत्वाच्च।
तदेवं बुदध्यादिपर्यायाः परपक्षव्युदासे सति लक्षणमिष्यन्त इति स्थिते लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धेर्विप्रतिपत्तेश्च संशये सति तन्निरासार्थ *सा चानेकप्रकारा* इति वाक्यम्। कुत एतत्? *अर्थानन्त्यात् प्रत्यर्थनियतत्वाच्च*।
ननु चार्यानन्त्यमर्थधर्म इति व्यधिकरणत्वम्? न, अन्यथा तदुपपत्तेः। तथाहि, बुद्धेरर्थानन्त्यमित्यर्थोपदर्शनम्, एतत्साधनञ्च अनन्तार्थत्वादिति। अर्थोऽनन्तो यस्याः सा तथोक्ता, तस्या भावोऽनन्तार्थत्वमिति। अर्थस्तु अर्थ्यतेऽनेनेति कारकसामग्र्यं न कारकैकदेशः, तद्भेदेऽपि कार्यस्याभेदोपलब्धेः। तथाहि, अनेककारकसम्पाद्यं घटादि एकं दृष्टमिति। सामग्री तु प्रतिकार्यनियतत्वान्न तद्भेदं व्यभिचरतीति। अतोऽनेकप्रकारा बुद्धिरनन्तार्थत्वात्, अनन्तकारकसामग्रीजन्यत्वात् घटादिवदिति। यश्चैको न चासावनन्तकारकसामग्रीजन्यो यथा घट इति। न तु कर्मव्युत्पत्त्या अनन्तकर्मकारकजन्यत्वं साधनं विवक्षितमिति व्याख्येयम्, प्रत्यर्थनियतत्वादित्यनेन गतार्थत्वात्। तथाहि, अर्थमर्थं प्रति नियतं यावद्भेदभिन्नं कर्मकारकं तावद्भेदभिन्ना बुद्ध्य इति बुद्धिरनेकप्रकारा प्रत्यर्थनियतत्वाद् घ्राणादिवत्।
अन्ये तु पूर्वस्मिन्नेव वाक्ये कर्मव्युत्पत्त्या अनन्तकर्मकारकजनय्त्वं साधनं लभ्यतएवेति प्रत्यर्थनियतत्वं प्रत्यात्मवृत्तित्वं विवक्षितमिति मन्यन्ते। तथाहि, अर्थतेऽस्मिन्नित्यात्मा इत्यर्थः तं प्रति नियतत्वं प्रत्यात्मवृत्तित्वमेव। सामान्यस्य तु अनन्तात्मवृत्तित्वान्न प्रत्यात्मनियतत्वमस्तीति सम्भवेऽपि बुद्धेर्विशेषगुणत्वाद् विशेषगुणत्वे सतीति विशेषणमभ्यूह्यम्।
अन्ये तु रूपज्ञानं रसज्ञानमित्यादिबुद्धेर्नानात्वस्य प्रत्यक्षेणैव प्रसिद्धेरीश्वरबुद्धेरस्मद्बुद्धेश्च परस्परभेदज्ञापनार्थम् अर्थानन्त्यात् प्रत्यर्थनियतत्वाच्चेति पदद्वयमिति ब्रुवते। तथाहि, ईश्वरबुद्धिरनन्तार्थत्वादस्मद्‌बुद्धेर्भिद्यते, अस्मद्‌बुद्धिश्च प्रत्यर्थनियतत्वादीश्वरबुद्धेरिति। अत्र च बुद्धेरनेकत्वं सामान्येन प्रतित्रातमित्ययं विशेषः कुतो लभ्यत इति चिन्त्यम्।
अथ बुद्धिव्यतिरेकेणार्थस्य सद्भावे प्रमाणाभावाद् अयुक्तमर्थानन्त्यं प्रत्यर्थनियतत्वञ्चेति। तथाहि, विज्ञानं स्वयम्प्रकाशरूपत्वादात्मानं प्रकाशयति, अर्थास्तु जडात्मानः, तेषां कथं प्रकाशः? यदि ज्ञानं प्रगृहीतं प्रकाशकमिष्येत तस्यापि ज्ञानान्तरेण ग्रहणाभ्युपगमे ज्ञानपरम्परायामुपक्षीणत्वाद् अभिप्रेतस्यार्थस्याप्रकाशनमेव। न च पूर्वज्ञानपरम्परायामुपक्षीणत्वाद् अभिप्रेतस्यार्थस्याप्रकाशनमेव। न च पूर्वज्ञानाग्रहणेऽपि अर्थस्यैव ग्रहणमिति वाच्यम्। तेषामासन्नत्वे सति ग्राह्यलक्षणप्राप्तत्वात्। तदाह,
तां ग्राह्यलणप्राप्तामासन्नां जनिकां धियम्।
अगृहीत्वोत्तरं ज्ञानं गृहणीयादपरं कथम् ।। (प्र. वा. 2।515)
अथागृहीतमेवार्थप्रकाशकम्? एवं तहिं सन्तानान्तरोद्भूतानामपि सर्वेषां प्रकाशकं स्यात्। यथा हि, स्वसन्ततावुपजातमज्ञातमेवार्थप्रकाशकम्, एवं सन्तानान्तरेऽपि स्यादविशेषात्। अथ स्वसम्बेद्यस्वसन्ततौ विज्ञानमर्थप्रकाशकम्? एवं तर्हि बोधशरीरादर्थान्तरस्य वस्तुनोऽप्रकाश एव। तथाहि, यद्यमी पदार्थाः प्रकाशरूपाः कथं बोधाद् व्यतिरिच्यन्ते? बोधस्यैव तद्रूपत्वाद्, अप्रकाशरूपतया च सर्वदा न प्रकाशः स्यात्। अतो ज्ञानमेव, प्रकाशस्वरूपत्वादिति व्यवह्रियते। प्रकाशरूपतया हि सत्त्वं व्याप्तम्। सा च व्यावर्त्तमाना बाह्यार्थेभ्यः स्वव्याप्तं सत्त्वं गृहीत्वा व्यावर्त्तत इत्यसत्त्वं बोधव्यतिरेकिणाम्।
न च बोधस्य बोधरूपतया सर्वत्राविशेषाद् विशिष्टार्थप्रकाशकत्वं स्यात्। अथ नीलस्येदं पीतस्येदमिति प्रतिकर्मव्यवस्थातः साकारं विज्ञानमिष्टम्? तर्हि विज्ञानमेवास्तु तदाकारमलं बाह्यार्थकल्पनयेति। तदुक्तम्,
धियो नीलादिरूपत्वे बाह्योऽर्थः किं निबन्धनः। (प्र. वा. 2।403) इति
तथा विज्ञानकालेऽर्थस्यासद्भावाद्, अर्थकाले तु ज्ञानस्येति कथं तयोर्ग्राह्यग्राहकभावः, सदसद्रूपयोस्तदभावात्। एकस्मिंश्च काले द्रयोरुत्पत्त्यभ्युपगमे किं ग्राह्यं किञ्च ग्राहकमित्यविशेषात्। न च विज्ञानार्थयोः स्वात्मन्येव पर्यवसाने अर्थाधीनतायाः प्रतिपत्तुमशक्यत्वाद् ग्राह्यग्राहकभावः। तथा अवयविप्रतिषेधद्वारेण रूपादिसमुदायमात्रम्, तच्च समुदीयमानेभ्यो नार्थान्तरमिति व्यवस्थायामर्थाभाव एव, समुदायस्य परमार्थसत्त्वेनाप्रतिभासनात्। ये तु परमार्थसन्तः परमाणवस्तेऽस्मद्दर्शनविषया न भवन्त्येव, अतीन्द्रियत्वात्। कार्यञ्चापरमार्थसत्त्वात् प्रतिभासमानमलिङ्गमेव। तस्मादनादिवासनावशाद् विज्ञानांश एव ग्राह्यग्राहकप्रविभागः। एतदाह,
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ।। (प्र. वा. 2।354)
न तु परमार्थतः। तदाह,
नान्योऽनुभाव्योबुद्ध्यास्ति तस्या नानुभवोऽपरः।
ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ।। (प्र. वा. 2।327)
ननु तर्हि नीलमहं वेद्‌मि चक्षुषेति प्रतिभासः कथम्? तथाहि, नीलमिति कर्म, अहमीति कर्ता, वेद्‌मीति क्रिया, चक्षुषेति करणम्। एतेषां परस्परव्यावृत्तवपुषां प्रतिभासनाद् अभेदप्रतिपादनमुन्मत्तभाषितम्? नैतदेवम्। तैमिरिकस्य द्विचनद्‌रदर्शनबदस्याप्युपत्तेः। यथा हि, तैमिरिकस्यार्थाभावेऽपि तदाकारं विज्ञानमुदेति एवं कर्मादिष्वविद्यमानेष्वपि अनादिवासनावशात् तदाकारं विज्ञानमुदेति एवं कर्मादिष्वविद्यमानेष्वपि अनादिवासनावशात् तदाकारं विज्ञानमिति। अथ तैमिरिकस्य केशादिज्ञानं बाध्यमानत्वान्निर्विषयम्, न चैवमेतत्, तदसत्, बाध्यवाधकभावस्यैवासम्भवात्। तथाहि, न विज्ञानमर्थेन बाध्यते, प्रतीयमानाप्रतीयमानाभ्यां बाध्यत्वेऽतिप्रसङ्गात्। प्रतीयमानेन हि बाधायां सर्वं विज्ञानं बाध्यं स्यात्, एवमप्रतीयमानेनापीति।
अथ ज्ञानेनैव ज्ञानं बाध्यते, तत्रापि न विभिन्नविषयेण, रूपज्ञानेन रसादिज्ञानस्यापि बाधप्रसङ्गात्। समानविषयत्वे तु सम्पादकत्वमेव स्यान्न बाधकत्वम्। न च विज्ञानस्योत्पत्तिर्विनाशो वा बाधात्, सर्वस्यापि तथाभावप्रसङ्गात्। अथ विषयान्तरोपसर्पणा मिथ्यापत्तिर्बाधः? तदसत्, विषयस्य कर्मकारकरूपत्वात्, यत्रोत्पद्यते ज्ञानं स एव तस्य विषय इति विषयान्तरोपसर्पणमसिद्धम्। विज्ञाने बाध्यबाधकसद्भावस्यैवाप्रसिद्धेर्न मिथ्याज्ञानमस्तीति। नापि संविदि सम्यक्‌त्वम्, प्रमाणाभावात्।
अथ अर्थक्रियासंवादः प्रमाणम्? न, तत्रापि संवादकापेक्षायामनवस्थाप्रसङ्गात्, संवादकञ्च विना न सम्यक्‌त्वसिद्धिरिति। न चार्थक्रियापि बोधाद् भिद्यते सर्वस्यापि प्रतिभासमानस्य बोधादव्यतिरेकात्। यथोक्तम्,
प्रकाशमानस्तादात्म्यात् स्वरूपस्य प्रकाशकः।
यथा प्रकाशोऽभिमतस्तथा धीरात्मवेदिनी ।।
(प्र. वा. 2।329) इति।
यदि च पदार्थानां निजं स्वरूपादि यथैकस्य प्रतिभासस्तथा सर्वेषामपीति विसंवादो न स्यात्? न चैतदस्ति। तथाहि,
मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः।
अन्यथैवावभासन्ते तद्रूपरहिता अपि ।। (प्र. वा. 2।355) इति।
अथ चोपप्लुतचक्षुषामन्यथा प्रतिभासस्तत इति किं प्रमाणम्? अनुपप्लुतचक्षुषां तथैव दर्शनमिति। तदाह,
तथैव दर्शनात्तेषामनुपप्लुतचक्षुषाम्।
दूरे यथा वा मरुषु महानल्पोऽपि दृश्यते ।। (प्र. वा. 2।356) इति।
अव्यवस्थामेवोत्तरार्धेन दर्शयति, एवमेकशो बुद्ध्या विचार्यमाणेषु भावेषु रूपं न व्यवतिष्ठते। यथा हि, तन्तुषु विचार्यमाणेषु पटस्याव्यवस्थानम्, अंशुव्यतिरेकेण तन्तूनाम्, इत्याद्यूह्यम्। कथं तर्हि शाक्याः स्नानादिक्रियासु प्रवर्तन्ते, बाह्यार्थस्यासत्वादिति? लोकव्यवहारानुसारितया। यथाहि, अपरीक्षका बाह्यमर्थम् अविद्यावशात् प्रतिपद्यमानाः प्रवर्तन्ते तद्वत् परीक्षका अपीति, `लोकव्यवहारं प्रति सदृशौ बालपण्डितौ' इति न्यायात्।
तदेतदसत्, अर्थविशेषादुत्पत्तिमन्तरेण बुद्धिविशेषस्याभावप्रसङ्गात्। रूपज्ञानं रसज्ञानमित्यादि परस्परं व्यावृत्तस्वरूपाणि ज्ञानानि प्रथन्त इत्यर्थविशेषोऽभ्युपगन्तव्यः। अथ वासनाविशेषाद् विज्ञानविशेषः? तस्या अपि विशिष्टज्ञानजनकत्वेऽपि ज्ञानाद् व्यतिरेके च संज्ञाभेदमात्रम्। अव्यतिरेके तु ज्ञानरूपोभयं सर्वत्राविशिष्टमिति रूपज्ञानं रसज्ञानमित्यादिवैचित्र्याभावः। न चाकारविशेषाद् विज्ञानविशेषः, तस्याप्यसम्भवात्। तथाहि, ज्ञानमात्रस्य वास्तवाकारतायां नीलदिज्ञानं वास्तवाकारत्वात् प्रमाणम्, द्विचन्द्रादिज्ञानञ्चावास्तवाकारत्वादप्रमाणमिति विशेषव्याघातः, वास्तवाकारतायाः सर्वत्राविशेषात्। अथावास्तवाकारम्, तथापि विशेषाभ्युपगमहानिः, वादिप्रतिवादिनोश्च जयपराजयव्यवस्था न स्यात्, उभयोरप्रमाणेन प्रवृत्तेरविशेषात्।
न चावास्तवस्य विज्ञानतादात्म्यम्, सदसद्रूपयोः खरविषाणयोरिवैकत्वादर्शनात्। अत एव,
सहोपलम्भनियमादभेदो नीलतद्धियोः।
(धर्मकीर्तेरिति प्रज्ञाकर भा. पृ. 127)
इत्येकत्वसाधनमुन्मत्तभाषितम्। असतः सत्तादात्म्ये सत्त्वम्, असत्तादात्म्ये तु तद्रूपत्वमिति। तथा परप्रसिद्ध्या नियमेन सहोपलभ्यमानत्वं भेदेनैव व्याप्तमिति विरुद्धं स्यात्। अथ साहाय्यं यौगपद्यं वा विवक्षितं सहोपलभ्यमानत्वम्? तथापि तयोर्भेदेनैव व्याप्तत्वाद् विरुद्धत्वम्। तथा सर्वज्ञः स्वचित्तेन सहोपलभते परचित्तम्, न च तस्य तस्मादभेद इति व्यभिचारः, सर्वेषां सर्वज्ञताप्रसङ्गात्। न चैकस्यैवोपलम्भनियमो हेतुः, अशब्दार्थत्वात्, साध्याविशिष्टत्वाच्च। तथा अनेकरूपाद्यवयवस्य हि तस्यार्थस्योपलम्भे स्वरूपासिद्धोऽपीति।
अथ बाह्यार्थाभावादेकोपलम्भनियमः? तन्न, इतरेतराश्रयत्वप्रसङ्गात्। तथा चैकोपलम्भनियमात् बाह्यार्थाभावसिद्धिः, तत्‌सिद्धेश्चैकोपलम्भनियमसिद्धिरित्येकाभावादितराभावः। अथैकेनैवोपलभ्यमानत्वं साधनम्? न, अन्यवेदनाभावस्याप्रसिद्धेः। अर्थस्तु तत्समानक्षणैरन्यैरप्युपलभ्यत इत्येकेनैवोपलभ्यमानत्वमसिद्धम्। सच्चन्द्रासच्चन्द्रदृष्टान्तो सदसतोरेकत्वविरोधात् साध्यविकलः, साधनविकलश्च, असतश्चन्द्रस्य सत्त्वेनोपलम्भाभावात्।
तथा ज्ञानं ग्राहकस्वरूपम्, नीलादि ग्राह्यस्वरूपमित्यनयोः शुक्लपीतयोरिव स्वभावभेदाद् भेदः। अभेदे हि बोधोऽपि नीलस्य ग्राह्यः, नीलञ्च बोधस्य ग्राहकमिति स्यात्। न चैतदस्ति, कारणभेदाच्च नीलाद् बोधोऽर्थान्तरम्। तथाहि, `बोधाद् बोधरूपता', `इन्द्रियाद् विषयप्रतिनियमः', `विषयादाकारग्रहणम्' इति भेदादेषां भेद एव। अथ न कारणभेदः? किं तर्हि? व्यावृत्तिभेदमात्रम्। अबोधव्यावृत्तिर्बोधः, निराकारताव्यावृत्तिः साकारत्वम्, अतद्रूपव्यावृत्तिर्विषयप्रतिनियम इति। एवं तर्हि नीलावबोधचक्षुषामाकारबोधविषयप्रतिनियमेषु व्यावृत्तिस्वरूपेषु व्यापारासम्भवाद् अकारणत्वमेव, व्यावृत्तेरवस्तुरूपत्वात्। अथ व्यावृत्ताद् बोधादबोधादिव्यावृत्तिर्नान्या, तर्हि बोधस्यैकरूपत्वात् कारणभेदप्रतिपादनमसम्बद्धं स्यात्। अतः कारणभेदादेव नीलतद्बोधयोर्भेदः। चित्रप्रतिभासे तु नीलपीताद्यनेकाकारं विज्ञानं बोधमात्रतायां कथं स्यादिति चिन्त्यम्। तथा हि, तेषामाकाराणामेकबोधतादात्म्यादेकत्वम्, तत्तादात्म्ये वा बोधस्यानेकत्वमिति दुर्निवारः प्रसङ्गः।
अथ यावन्तस्तत्राकारास्तावन्त्येव ज्ञानानीति? तर्हि तेषां प्रतिनियताकारत्वात् चित्रप्रतिभासाभावः। न चाकारसद्भावे प्रतिकर्मव्यवस्ता प्रमाणम्, अन्यथापि भावात्। तथाहि, सकलकारकजन्यत्वाविशेषेऽपि नीलस्य कर्मरूपतया व्यापारात्तेनैव व्यपदेशो नाकारार्पकत्वादिति। सर्वेषां जनकत्वाविशेषेऽपि अर्थस्यैवाकारार्पकत्वे र्विशेषहेतुर्वाच्यः। अथार्थस्य कर्मरूपतया व्यापारात् तस्यैवाकारार्पकत्वे र्विशेषहेतुर्वाच्यः। अथार्थस्य कर्मरूपतया व्यापारात् तस्यैवाकारार्पकत्वम्? तर्हि कर्मरूपतैवास्तु व्यपदेशनियमे हेतुः, किमाकारेणासम्भविना कल्पितेनेति। तथाहि, नीलादेरसाधारणाकारार्पकत्वे बोधरूपता न स्यात्, साधारणाकारार्पकत्वे तु प्तिकर्मव्यवस्थाभाव इति।
अथ समारोपिताकारं विज्ञानमिति नायं दोषः? तदसत्, आत्मनोऽवस्थितस्याभावे कथं ज्ञानात्मनि आकारः समारोप्यते। न तावदनुत्पन्नस्य विनष्टस्य वा समारोपकत्वम्। न चोत्पत्तिसमकालम्, आत्मलाभकाले समारोपणे व्यापारासम्भवात्। तस्मादाकारसद्भावे प्रमाणाभावादर्थविशेषादेवायं विशेष इति युक्तम्।
अथाप्काशस्वरूपत्वादर्थानां क[र्म?थं]प्रकाशः? तद्‌विषयज्ञानोत्पाद एव। तथाहि, यस्मिन् विषये ज्ञानमुत्पन्नं स एवोपलब्धो नेतर इति विषयविषयिभावस्य नियामकत्वम्, अतो ज्ञानमर्थप्रकाशो न तु प्काशकमिति। किं गृहीतमर्थप्रकाशकमुत अगृहीतमित्यादिविकल्पः परमतास्पर्शी, चक्षुरादेः कारकजातस्यार्थप्रकाशकत्वाभ्युपगमात्। यत्र च ज्ञानं विशेषलिङ्गं वा तत्र गृहीतस्यार्थपरिच्छेदे व्यापारोऽभ्युपगम्यत एव। तस्य च आत्मान्तःकरणसम्बन्धाद् ग्रहणम्, नावश्यम् तत्रापि ज्ञानान्तरमित्यनवस्थाभावः।
न चोत्पन्ने ज्ञाने संवेदनाभावस्याविशेषात् सन्तानान्तरेऽप्यर्थप्रकाशः? नियतात्मसम्बन्धस्य नियामकत्वात्। तथाहि, यस्मिन्नात्मनि समवेतं तज्‌ज्ञानमुपजातं स एव द्रष्टा नान्यः, तत्र विवक्षितज्ञानसमवायात्। यस्य तु स्वसंवेद्यं ज्ञानं निराधारं तस्य सन्तानान्तरेऽर्थप्रकाश[स्त?ःक]स्मान्न भवतीति चिन्त्यम्। कार्यकारणभावस्तु क्षणिकत्वे सति पूर्वं प्रतिषिद्द एव।
यच्चेदं स्वसंवेद्यं विज्ञानम् इत्यर्थान्तरस्यासंवेदनमेव, तदसत्, विकल्पानुपपत्तेः। तथाहि, यदि स्वसंवेद्यमात्मान्तःकरणसंयोगादुपलभ्यं तदिष्टमेव। अथ तदेवज्ञानं प्रमाणं प्रमेयं फलञ्चेति, तन्न, अन्यत्र त्रितयस्याभेदादर्शंनात्। भेदेत्वनेकं दणअडाद्युदाहरणम्। अतो न ज्ञाने करणकर्मणोरभेदः स्वसंवेद्यत्वम्, नापि क्रियाकर्मणोरिति। तस्मात् ज्ञानान्तरसंवेद्यं संवेदनं वेद्यत्वात् घटादिवत्।
यच्चेदं प्रकाशस्वरूपत्वाद् आत्मनैव प्रकाशते प्रदीपवत् इत्युक्तम्, तत्र यदि प्रकाशकत्वं बोधरूपत्वं विवक्षितं तदा साधनविकलमुदाहरणम्, प्रदीपे बोधरूपत्वस्यासम्भवात्। अथ प्रकाशकत्वं भास्वररूपसम्बन्धित्वं तद्‌ विज्ञाने नास्ति, अतो ज्ञानान्तरस्यतद्विषस्योत्पाद एव ज्ञानस्य परिच्छेद इति।
यच्चेदं किं प्रकाशस्वरूपास्तद्‌विपरीता वा पदार्था ज्ञानेन प्रकाशन्त इत्युक्तम्, तत्र यदि प्रकाशस्वरूपत्वं बोधरूपत्वं तन्नास्ति, अर्थानामबोधरूपत्वात्। तेषां कथं प्रकाशः? तद्विषयज्ञानोत्पादात्। यद्विषयं ज्ञानमुत्पन्नम् असावर्थः परिच्छिन्न इति व्यवहारः। तस्मान्निराकारत्वे विज्ञानस्य विषयविषयिभावो नियामक इति,
धियो नीलादिरूपत्वे बाह्योऽर्थः किंनिबन्धनः। (प्र. वा. 2।433) इत्यपास्तमेव।
यच्चेदं ग्राह्यग्राहकयरेककालानुभवाभावेन दूषणम्, तदप्यपास्तम्, क्षणिकत्वानभ्युपगमात्। यो हि क्षणिकत्वं मन्यते तस्यायं दोषो ज्ञानकालेऽर्थस्यासद्भावोऽर्थकाले ज्ञानस्येति तयोर्ग्राह्यग्राहकभावानुपपत्तिरिति। तथा अवयविनः पूर्वमेव व्यवस्थापनात्, न रूपादिसमुदायस्यापरमार्थत्वेन विज्ञानविषयत्वमिति। परमाणूनां सद्भावसिद्धेर्विज्ञानमात्रमेवेति अदूषणमनभ्युपगमात्। अतो यदाह विज्ञानवादी `एवं ग्राह्यग्राहकप्रविभागः कल्पनावशादिति', तदप्यपास्तमेव, बोधरूपव्यतिरेकेण बाह्यार्थस्य चक्षुरादिना प्रतिभासनात्, प्रवृत्तनिवृत्त्योश्च तद्विषयत्वादिति। तथाहि, अर्थावरोधे सति अर्थक्रियार्थनस्तदभिमुखाः प्रवर्तन्ते चेति दृष्टम्। न च भ्रान्त्यैव प्रवृत्तिः, अविसंवादोपलब्धेः।
अथ प्रवृत्तिनिवृत्त्योरर्थक्रियायाश्च विज्ञानादव्यतिरेक एव, तन्न, वस्तुरूपतया प्रतिभासमानानां परस्परब्यावृत्तात्मनां ज्ञानाभेदे प्रमाणाभावात्। अर्थानभ्युपगमे च संवादानुत्पत्तिः। व्यापारव्याहाराभ्याञ्च सन्तानान्तरानुभवात् अर्थाकारे संवाः, तन्न, तस्यासत्त्वात्। न चोत्पादनाविशेषेण संवादः। रूपज्ञानान्तरं रसज्ञानोत्पत्तौ विसंवादप्रसङ्गात्।
अथ स्वसन्ततौ कव्यापारव्याहारयोः स्वचित्तेहापूर्वकत्वेनोपलम्भात् सन्तानान्तरेऽपि तत्पूर्वकत्वानुमानमिति सन्तानान्तरसिद्धिः, न, प्रतीयमानयोर्व्यापारव्याहारयोः स्वचित्तादभेदे परचित्तपूर्वंकत्वाभावप्रसङ्गात्, भेदे च वहिर्मुखावभासित्वेन प्रतीयमानत्वे कथं न बाह्यार्थसद्भावः?
न च स्वसंविद्वादिनोऽविनाभावग्रहणाभावेऽनुमानप्रवृत्तिर्युक्ता। तथा हि, व्यापारव्याहारः प्रतिभासिज्ञानात्मनश्चित्तान्तरपूर्वकतां गृह्णाति, आत्मन्येव पर्यवसानात्। एतत्कारणमपि चित्तं न तत्कारणतां गृह्णाति, नाप्युभाभ्यां वासनाक्रमेण विकल्पज्ञानं कार्यकारणभावग्राहकमिति वाच्यम्, अनुभवानुरूपत्वाद् वासनायाः कथं कार्यकारणभावाग्रहे तदध्यवसायिविकल्प इति। न चातद्रूपसमारोपितो विकल्पः, तस्य पारम्पर्येणाप्यर्थाविषत्वे कार्यकारणभावाग्रगेऽनुमानाप्रवृत्तिरेव। तस्मादुभयोर्लिङ्गलिङ्गिनोरिदमस्य व्याप्यमिदमस्य व्यापकमित्यविनाभावग्रहे सति अनुमानं प्रवर्तत इति बोधादन्योऽर्थोऽभ्युपगन्तव्यः।
यच्चेदं नीलमहं वेद्‌मीति ज्ञानं तैमिरिकस्य द्विचन्द्रदर्शनवद् भ्रान्तमिति, असदेतत्, अबाध्यमानत्वात्। तथाहि, तैमिरिकस्य तिमिरविनाशादूर्ध्वमेकत्वज्ञाने सति द्विचन्द्रदर्शनं भ्रान्तमिति प्रतिभाति, अनुत्पन्नतिमिरस्यान्यस्य, नैवं नीलमित्यादि ज्ञाने विपरीतार्थग्राहकप्रमाणानुपपत्तेर्न मित्यात्वमिति।
ननूक्तं, किं केन बाध्यते? ज्ञानं ज्ञानेनेति। तथाहि, उदकज्ञानस्योदकं विषयः सर्वजनप्रतीतः, तत्परित्यागेन विषयानत्रे मरीच्यादावुत्पन्नं तद्‌ग्राहिणा ज्ञानेन बाध्यते मिथ्यात्वविशिष्टतया ज्ञाप्यते मिथ्येदं ममोदकज्ञानमुत्पन्नमिति, तज्जनितसंस्कारनिवृत्तिर्वा। तथाहि, मरीचिज्ञाने सति उदकज्ञानजनितसंस्कारनिवृत्तौ कालान्तरेऽपि उदकं मया दृष्टमिति स्मरणानुत्पत्तौ तद्देशाभिमुख्येन प्रवृत्त्यभाव इति। बाधकानभ्युपगमे च ज्ञानस्य सत्येतरविवेकानुपपत्तेर्वादिप्रतिवादिनोर्जयपराजयव्यवस्था न स्यादित्युक्तम्।
यत्तु `मन्त्राद्युपप्लुताक्षाणाम्' इत्यादि वाक्यम्, तन्न परिहारार्हम्, स्वत एव प्रतिभासस्यानय्थात्वाभ्युपगमात्। तथाहि, मृच्छकलादयोऽन्यथा प्रतिभासन्ते न स्वरूपेणोपप्लुतचक्षुषाम्, न सर्वेषामितीष्यत एवेदं मिथ्याज्ञानम्, बाधकोपपत्तेः। इष्टञ्च बाधकं `तथैव दर्शनं तेषामनुपप्लुतचक्षुषाम्' इति। दूरे च मरुषु अल्पोऽपि महानुपलभ्यते सन्निकृष्टे चाल्प एवेति, अनेन तस्य बाधा। न च तेनैवास्य बाधा, प्रमातृमात्रस्य सर्वदेशेष्वतद्रूपतया प्रतिभासनात्। महत्त्वञ्च देशविशेष एव प्रतिभासते नान्यत्रेत्यसदेव। तदेव हि पदार्थानां स्वरूपं यदविसंवादि स्वस्थात्मनामर्थक्रियासम्पादकञ्चेति। अतो मृच्छकलादयो येन रूपेणाविप्लुतचक्षुषां प्रतिभासन्तेऽर्थक्रियाञ्च सम्पादयन्ति तेनैव रूपेण सन्तो न रूपानत्रेणेति। कथम्? अर्थानामव्यवस्थानात्। अथ स्वप्नावस्थायामर्थानामसत्त्वेऽपि प्रतिभासो विशिष्टार्थक्रिया च रेतसो विसर्गः सम्भवतीति। नन्वेवं तर्िह स्वप्नावस्थायामर्थानामसत्त्वं कथं ज्ञातमिति वाच्यम्। यदि जाग्रदवस्थायामनुपलम्भात्? तर्हि येषामुपलम्भस्तेषां सत्त्वमायातम्। अन्यथा हि जाग्रदवस्थायामनुपलम्भेन स्वप्नावस्थायामसत्त्वं न स्यात्। अतः प्रतीयमानत्वात् स्वप्नावस्थायामिव जाग्रदवस्थायामप्यसत्त्वमिति न वाच्यम्, प्रतिभासमानत्वस्य साधनस्य सद्भावेऽपि असत्त्वस्य साध्यस्यानिश्चयात्, प्रतीयमानत्वञ्च बोधेऽस्ति न चासत्त्वमिति व्यभिचारः। तथा अर्थानामसत्त्वे प्रतीयमानत्वस्य साधनस्यापक्षधऱ्मत्वं स्यात्। उदाहरणए प्रतीयमानत्वेन नासत्त्वम्, अपि तु प्रमाणतोऽनुपलब्धेरित्यन्यथासिद्धञ्चेति। न च `सर्वं विज्ञानम्' इति वादिनः स्वप्नावस्था जाग्रदवस्था चेति विशेषः सम्भवति, उभयत्रापि स्वसंवेद्यस्य ज्ञानस्यावस्थानाभ्युपगमात्। व्रतवश्च (?) पूर्वं निरस्ता एव। तस्मादक्षादिजनितज्ञानसमवायो जाग्रदवस्था, तद्विपरीता तु स्वप्नावस्थेति युक्तम्।
यच्चेदं बुद्ध्या विवेचनाद् भावानामसत्त्वम् इत्युक्तम्, तदसत्, स्वबुद्धिप्रतिभासमानवपुषामसत्त्वे बोधस्याप्यसत्त्वप्रसङ्गात्। तथाहि, रूपादयः परस्परस्वरूपपरिहारेण व्यवस्थिताः स्वबुद्धिविषयाः, पटादयोऽप्येवम्। अतो यद्यपि पटस्तन्त्वादिबुद्धौ न प्रतिभासते तथापि स्वबुद्धिविषयत्वात् परमार्थसन्नेव। तदेवं पटादयः परस्परव्यावृत्तबुद्धिविषया विशिष्टार्तख्रियाकारिणश्चेति परमार्थसन्त एव।
न च प्रमाणं विना प्रमेयसिद्धिरिति विज्ञानव्यतिरेकिणआमसत्त्वे प्रमाणमभिधेयम्। प्रमाणं विना च पदार्थानामसत्त्वसिद्धौ सत्त्वमपि स्यात्, प्रमाणाभावस्योभयत्राविशेषात्। अथ अर्थानामसत्त्वसिद्धौ ग्राह्यलक्षणायोगः प्रमाणम्? न, तस्यापि भावधर्मत्वे विरुद्धत्वम्, अभावधर्मत्वे चाश्रयासिद्धत्वम्, उभयधर्मत्वे तु व्यभिचारादसाधनत्वमिति, व्यधिकरणत्वाच्च। तथाहि, ग्राह्यलक्षणस्यायोगो न ग्राह्यधर्म इति, कथं तस्यासत्त्वं साधयेत्? स्वरूपासिद्धश्च, ग्राह्यलक्षणस्य सद्भावात्। तथा च, महत्त्वादि ग्राह्यलक्षणं वक्ष्यमानमिति। साध्याविशिष्टञ्च, ग्राह्यलक्षणायोगस्यापि साध्यत्वात्। न च प्रमाणानत्रमस्तीति।
एतेन शून्यवादोऽपि निरस्त एवेति न पृथगभिधीयते। तथाहि, सर्वार्थानामसत्त्वे विज्ञानस्यापि ग्राह्यग्राहकाकाररहितत्वाद् असत्वे च, सर्वं शून्यमिति स्यात्, तच्च निरस्तमेव, प्रमाणाभावेन प्रमेयस्यासिद्धेः, बोधस्यार्थानाञ्च प्रमाणतो व्यवस्थापनादिति। तदेवं बोधव्यतिरेकेणार्थसद्भावसिद्धेरर्थानन्त्यात् प्रत्यर्थनियतत्वाच्च बुद्धेरनेकत्वं युक्तमिति।
अन्ये तु आत्मनः परिणामविशेषो बुद्धिस्तद्रूपतया चानित्या, आत्मरूपतया तु नित्येति मतम्। तस्य निरासार्थं सा चानेकप्रकारेति वाक्यं मन्यन्ते। तथाहि, बुद्धेरनेकत्वादात्मनोऽप्यनेकत्वम्, अभेदात्, आत्मैकत्वे वा बुद्धेरेकत्वम्। न च भेदाभेदपक्षः सम्भवति, अनेकान्तवादस्य पूर्वमेव प्रतिषेधात्। अतो बुद्धेर्गुणत्वादनेकत्वेऽप्यात्मनस्तथाभावो न भवतीति दिग्‌वाससां मतं निषिद्धम्।
तस्याः सत्यप्येनकविधत्वे समासतो द्वे विधे। विद्या चाविद्या चेति। तत्राविद्या चतुर्विधा संशयविपर्ययानध्यवसायस्वप्नलक्षणा।
नन्वेवं त्रिह बुद्धेरानन्त्यात् कथं तत्त्वज्ञानविषयत्वमित्याह *तस्याः सत्यप्यनेकविधत्वे समासतः* संक्षेपतो द्विविधेति परिज्ञानं कार्यमिति। केन रूपेण द्वैविध्यमित्याह *विद्या चा विद्या चेति*।
अन्ये तु वेदान्तमते विद्याविद्ययोः श्रवणात् बुद्धेरानन्त्यप्रतिपादनमागमविरुद्धं स्यादित्याशङ्कानिषेधार्थमाह `तस्याः सत्यप्यनेकविधत्वे समासतः' संक्षेपतो द्वैविध्यमिष्यत एव `विद्या चाविद्या चेति'।।
विद्या हि देशकालावस्थादिभेदेनाबाध्यमानोऽध्यवसायः। तद्विपरीतार्था चाविद्येति, न तु प्रमाणाप्रमाणत्वे विद्याविद्यत्वे, व्यभिचारात्। तथाहि, यदि प्रमीयतेऽनेनेति प्रमाणमिति विवक्षितम् संशयादेरप्यात्मान्तःकरणाधिगमे प्रमाणत्वमस्तीति व्यभिचारः। सर्वेषु च प्रत्यक्षादिज्ञानेषु कारणत्वानुपपत्तेरव्याप्तिश्च। फलविवक्षायान्तु न स्मृतेः प्रमाणफलत्वमिति विद्यात्वं न स्यात्।
गुरवस्तु विशिष्टव्यवहारकारणं विज्ञानं विद्या, विपरीतञ्चाविद्येति ब्रुवते। तत्र यदि प्रवृत्तिनिवृत्तिलक्षणो विशिष्टव्यवहारो विवक्षितस्तदा संशयादिज्ञानेष्वपि भावादतिव्याप्तिः। न च पक्षे सर्वत्रास्तीति अव्याप्तिश्च। अथ देशादिभेदेनापि सम्यक्‌तया मयोपलब्धमिति ज्ञानं विशिष्टव्यवहारः? तज्जनकत्वमपि न सर्वेषु विद्याभेदेष्वस्तीत्यव्याप्तिः। तथा च सम्यङ् मयोपलब्धमिति व्यवहारो न सर्वेषु विद्याभेदेषु विद्यत इत्यव्यापकत्वमेव।
तत्राप्यविद्या चतुर्विधेति क्रमातिक्रमेणाविद्यायाः स्वरूपनिरूपणमर्थप्रकाशस्य विवक्षितत्वात् तदुच्छेद्यत्वज्ञापनार्थमिति चान्ये, अविद्या हि विद्यया समुच्छिद्यत इति।
अथ केन रूपेण चतुर्विधा? *संशयविपर्ययानध्यवसायस्वप्नलक्षणा* स्वरूपेति। ननूहज्ञानमप्यस्ति, तस्यान्तर्भावो न विद्यायां नाप्यविद्यायाम्, उभयात्रापि चातुर्विध्याभिधानात्। न युक्तमेतत्, संशयनिश्चयव्यतिरेकेणोहज्ञानस्यासंवेदनात्। अथास्ति संशयादूर्ध्वं बाह्यालिप्रदेशे सम्बन्धोपलब्धेः स्थानुपक्षप्रतिषेधे सति पुरुषेणानेन भवितव्यमिति सम्भावनाप्रत्ययः? स तु तस्मिंस्तदिति रूपत्वान्निश्चय एव। तथा हि, किमयं स्थाणुः स्यात् पुरुषो वेत्युभयप्रसङ्गे सत्येकस्य प्रतिषेधात् तदन्यस्याप्रतिषिद्धस्यावस्थानं भवत्येव।
अथ व्यधिकरणविशेषोपलम्भान्न युक्तो निश्चयः, तदसत्, संयोगिविशेषस्याभ्युपगमात्। यथा हु, काकनिलयनादयो विशेषाः संयोगिनि स्थाणौ निश्चयमुत्पादयन्ति, एवं बाह्यालीप्रदेशे पुरुषेऽपीति। तत्सम्बन्धस्तु समवेत एव विशेष इति न व्यधिकरणत्वम्। अथ नायं स्थाणुः बाह्यालीप्रदेशसम्बन्धित्वात्, इति विषयात् साधनान्न निर्णयः, तन्न, व्यापारापेक्षया पुरुषविषयत्वस्यापि सम्भवात्। ज्ञानान्तरत्वे तु ऊहज्ञानस्याव्यभिचार्यर्थज्ञानत्वात् प्रमाणरूपतायां प्रमाणान्तरमभिधेयम्, प्रमाणं विना तत्फलस्यानुपपत्तेः, व्यभिचारि वा प्रमाणसामान्यलक्षणं स्यात्। अथ इन्द्रियार्थसन्निकर्षाद्येव प्रमाणमूहोत्पत्तौ? कथं तर्हि ज्ञानान्तरम्, प्रत्यक्षफलत्वादित्यलम्।
अन्ये तूहस्य सद्‌भावेऽपि समानतन्त्रप्रसिद्धतया लाभाद् इहानभिधानम् इति ब्रुवते। न च प्रत्यक्षादेरप्यनेनैव न्यायेन लाभः, स्वमताभावे समानतन्त्रतासिद्धेरभावात्।
संशयस्तावत् प्रसिद्धानेकविशेषयोः सादृश्यमात्रदर्शनात्, उभयविशेषानुस्मरणात्, अधर्माच्च किंस्विदित्युभयावलम्बी विमर्षः संशयः।
अथ संशयस्येतरस्माद् भेद-विषयविभागनिरूपणार्यं *संशयस्तावत्* इत्यादिप्रकरणम्।
संशयस्तावद् ब्याख्यायतेऽवसरप्राप्तत्वादिति। प्रसिद्धा अनेके विशेषा ययोस्तौ तथोक्तौ तयोरिति विषयनिरूपणम्। न तु प्रसिद्धौ च तावनेकविशेषौ चेति कर्मधारयपरिग्रहः, संशयस्य च धर्मिविषयत्वात्। अथ एकस्यैव धर्मिणस्तत्र सद्‌भावाद् उभयोः कथं विषयत्वसम्भवः? पक्षोपन्यासाददोषः। तथाहि, यत्रानेके विशेषाः प्रसिद्धास्तत्रैव संशय इति नियम्यते, न त्वेकस्मिन्नेव काले तयोरविषयत्वम्, एकस्य तत्रासम्भवात्। कालभेदेन तु उभयोर्विषयत्वम्। यद् यत्र सम्भाव्यते, संशयोत्पत्तौ स तस्य विषय इति।
कारणमिह *सादृश्यमात्रदर्शनात्* इति। सादृश्यमात्रं दृश्यतेऽस्मिन्निति सादृश्यविशेषि[न?त] धर्मिदर्शनं लभ्यत इति व्याख्येयम्। न तु सादृश्यमात्रस्य दर्शनमित्यभ्युपगमेन धर्मोपलम्भाद् धर्मिणि संशयस्य व्यधिकरणत्वात्। अत्र `सादृश्यमात्रदर्शनात्(3) इति मात्राभिधानेनात्यन्तविशेषानुपलब्धिं दर्शयति, सामान्यस्य विशेषसहितस्योपलम्भेऽपि संशयादर्शनादिति। न च सामान्योपलम्भं विना विशेषानुपलब्धिः संशयजनिकेत्युभयाभिधानम्। तथापि नावाद्यारूढस्य वृक्षादिषूभयसद्भावेऽपि न संशय इति* उभयविषानुस्मरणात्* इति पदम्। विशेषानुस्मरणञ्च न पूर्वोक्तं विना संशयजनकं दृष्टमिति समुदितं कारणम्। तदेवं सामान्यदर्शनाद् विशेषादर्शनाद् उभयविशेषानुस्मरणाद् अधर्मादिभ्यश्चोत्पद्यमानत्वात् संशय इतरेभ्यो भिद्यत इति कारणात्मकं लक्षणम्। तथा च सूत्रम् `सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश्च संशयः' (वै. सू. 2।2।17) इति। सामान्यं प्रत्यक्षं यस्मिन् धर्मिण्यसौ तथोक्तस्तस्मादिति। प्रत्यक्षशब्चश्च दृढप्रमाणवचनः, अत्रानुमानिकस्यापि संशयस्याभ्युपगमात्। विशेषाप्रत्यक्षादिति विशेषानुपलब्धेस्तत्स्मृतेश्च संशय इति।
ननु चायुक्तमेतत्, देवदत्तस्य स्वप्रियतमां परित्यज्य व्रजतो देशव्यवधानात् त्रितयसद्भावेऽपि तत्र संशयानुपलब्धेः। तथाहि, स्त्रीत्वसामान्योपलम्भेऽप्यनेकादिविशेषोपलम्भात् तत्स्मरणाच्च किं मदीया अन्यदीया वेति संशयो न दृष्टः, परपक्षप्रतिषेधकस्य देशकालविशेषस्य बाधकस्योपलब्धेः, एकस्मिन् देशे काले चान्या न सम्भवतीति। अतोऽस्य व्यवच्छेदार्थं बाधकसाधकप्रमाणाव्यवस्थातश्चेति पदं कार्यम्? न। विशेषानुपलब्धिपदेनैव निरस्तत्वात्। तथाहि, विशेषानुपलब्धिपदेन समस्तविशेषानुपलब्धिर्विवक्षिता। सा चात्र नास्ति, देशकालविशेषस्य निश्चितत्वात्। अतो विशेषानुपलब्धिपदेनैवास्य निरस्तत्वादिति व्यवच्छेद्याभावं मन्यमानो मुनिर्न विशेषान्तरमाहेति।
*स च द्विविधः* इति विभागः। केन रूपेण? *अन्तर्बहिश्च*। ननु पञ्चविधत्वात् संशयस्य द्वैविध्यमनुपपन्नम्? न, अस्यैवावानत्रभेदेन तदुपपत्तेः। तथाहि, समानधर्मोपपत्तेः, अनेकधर्मोपपत्तेः, विप्रतिपत्तेश्चेति बाह्यस्त्रिविधः संशयः। उपलब्ध्यनुपलब्ध्योश्च मनःपरिच्छेद्यत्वादान्तरो द्विविध इति। अभिप्रेतञ्चैतद् भाष्यकर्तुर्यत आह `समानोऽनेकश्चधर्मोज्ञेयस्थः, उपलब्ध्यनुपलब्धी पुनर्ज्ञातृस्थे' इत्यविरोधः। सङ्ग्रहानभ्युपगमे च प्रत्यक्षाप्रत्यक्षविषयभेदेनापि संशयस्य भेदात् पञ्चत्वमसम्बद्धं स्यात्। अथानेनैव सङ्ग्राहादनभिधानम्? तहिं द्वैविध्येनैव सङ्ग्रहान्न पञ्चत्वमभिधीयते, तस्य हि तद्भेदत्वादिति।
अनेकश्च धर्मो साधारणत्वात् संशयहेतुर्न भवत्येव, विरुद्धविशेषैः सहानुपलम्भेन तत्स्मरणाजनकत्वात्। नापि विरुद्धाव्यभिचारी संशयहेतुस्तस्यैवासम्भवादिति वक्ष्यामोऽनैकान्तिकावसरे।
अन्तस्तावद् आदेशिकस्य सम्यङ् मिश्र्या चोद्दिश्य पुनरादिशतस्त्रिषुकालेषु संशयो भवति किन्नु सम्यङ्‌ मिथ्या वेति।
तत्र अन्तःसंशयस्य स्वरूपनिरूपणार्थम् *अन्तस्तावदादेशिकस्य* इत्यादि। यथा हि, आदेशिकेन विशिष्टं निमित्तमुपलभ्यादिष्टमेकदा `वृष्टिर्भविष्यतीति' सम्यक् जातमन्यदा तु विपरीतम्। पुनस्तथैवादिशतस्त्रिषु कालेषु असत्सु तस्मिन् ज्ञाने संशयो भवति किन्नु सम्यङ् मिथ्या वेति। अथ ज्ञानस्य सामान्यदर्शनविशेषानुस्मरणकालेऽवस्थानाभावात् कथं संशयविषयत्वम्? तथाहि, तस्मिन् ज्ञाने भविष्यद्वृष्टिविषयत्वं समानो धर्मस्तद्विशिष्टे ज्ञाने ज्ञानमुत्पद्यते, तस्य तु विनश्यत्ता, सम्यक्त्वासम्यक्त्वविशेषस्मरणस्योत्पद्यमानता, ततो विशेषस्मरणकाले ज्ञानमतीतं कथं विषयः? तदुपलक्षितात्मनो विषयत्वाददोषः। तथा च, किन्नु सम्यक् ज्ञानवानहं मिथ्याज्ञानवान् वेति संशयः।
अन्ये तु विद्यमानस्येवातीतस्यापि विषयत्वमस्तीति ब्रुवते।
बहिर्द्विविधः, प्रत्यक्षविषये चाप्रत्यक्षविषये च। तत्राप्रत्यक्षविषये तावत् साधारणलिङ्गदर्शनादुभयविशेषानुस्मरणाद् अधर्माच्च संशयो भवति। यथा अटव्यां विषाणमात्रदर्शनाद् गौर्गवयो वेति।
*बहिर्द्विविधः* केन रूपेण? *प्रत्यक्षविषये चाप्रत्यक्षविषये च* इति। *तत्राप्रत्यक्षविषये तावत्* अभिधीयते संशयः *साधारणलिङ्गदर्शनात्* इति। यल्लिङ्गं विरुद्धविशेषैः सहोपलब्धं तद्दर्शनाद् विशेषानुपलब्धेः, *उभयविशेषानुस्मरणादधर्मात्* दिक्कालादिभ्यश्च संशयो भवति। *यथाटव्यां विषाणमात्रदर्शनात्* तद्गतविशेषानुपलब्धेस्तत्स्मरणात् संशयो भवति *गौर्गवयो वेति*।
अथ प्रत्यक्षादस्य विशेषः कथम्? सामान्यविशेषितस्य धर्मिणः प्रत्यक्षत्वं विशेषलक्षणा[न]भिधानात् (?)। अथ किं गोगवयविषाणेषु सामान्यम्? तुल्यावयवरचनायोगः। यथाभूता हि अवयवरचना गोविषाणे दृष्टा तथा गवयविषाणेऽपीति। ये तु गोविषाणविशेषा गवयविषाणविशेषाश्च पूर्वोपलब्धास्तेषामत्रानुपलम्भ इति। अतः सादृश्यमात्रविशेषितं विषाणमुपलभमानस्य विशेषानुपलब्धेस्तत्स्मरणाच्च किं गौः स्यात्, गवयोवेति संशयः।
प्रत्यक्षविषयेऽपि स्थाणुपुरषयोरूर्ध्वतामात्रसादृश्यदर्शनात् वक्रा[?ता] दिविशेषानुपलब्धितः स्थाणुत्वादिसामान्यविशेषानभिव्यक्तावुभयविशेषानुस्मरणादुभयत्राकृष्यमाणस्यात्मनः प्रत्ययो दोलायते किन्नु खल्वयं स्थाणुः स्यात् पुरुषो वेति।
*प्रत्यक्षविषयेऽपि स्थाणुपुरुषयोरूर्ध्वतामात्रसादृश्यदर्शनात् वक्रा[?ता] दिविशेषानुपलब्धितः* इति। आदिपदेन काकनिलयनादयः स्थाणौ, शिरः पाण्यादयश्च पुरुषेषु विशेषास्तेषामनुपलम्भादिति। स्थाणुत्वमादिर्यस्येत्यादिपदेन पुरुषत्वग्रहणम्। तच्च सामान्यमेव विशेषः। तस्यानभिव्यक्तिर्व्यञ्जकस्य शिरः पाण्यादेरनुपलम्भात्। अतस्तद् *अनभिव्यक्तावुभयविशेषानुस्मरणादुभयत्र* स्थाणौ पुरुषे च, *आकृष्यमाणस्यात्मनः प्रत्ययो दोलायते* नैककोटौ व्यवतिष्ठते। स च किंस्वरूप इत्याह *किन्नु खल्वयं स्थाणुः स्यात् पुरुषो वेति*।
अथ किमिदमेकं ज्ञानम्, आहोस्विदनेकमिति। यद्यनेकं क्रमेणोत्पद्यते स्थाणुरित्येकं पुरुष इति चान्यत्। तर्हि यत् तस्मिंस्तदिति रूपं तत् सस्यक् ज्ञानम्, विपरीतन्तु मिथ्याज्ञानमिति संशयोच्छेदः? न, अनेकत्वानभ्युपगमात्। तथाहि, एकमेव किमयं स्थाणुः स्यात् पुरुषो वेति विरुद्धोल्लेखिज्ञानम्, विरुद्धविशेषानुस्मरणोपलक्षितसामग्रीजन्यत्वात्। एकस्तु संस्कारो विशेषानुभवात् पूर्वपूर्वसंस्कारसचिवादुत्पद्यत इत्येकं स्मरणं विरुद्धविशेषविषयं जनयत्येव।
यद्वा प्रतिनियतविशेषानुभवजनिताः संस्काराः संशयोपभोगप्रापकादृष्टनियमिताः संस्कारमारभन्ते तस्मादनेकविशेषविषयं स्मरणमिति, विषयसंशयोत्पत्तावविशेषात्, प्रत्यक्षत्वञ्चोभयत्रापि समानमिति। सत्यम्। तथापि सामान्यविशेषितस्य लिङ्गोपलम्भात् साध्यधर्मविशेषिते धर्मिणि संशयाभ्युपगमोऽन्यत्र च अलिङ्गभूते साध्यधर्मरहिते सामान्यवति प्रत्यक्षे धर्मिणीति विशेषः। किञ्चित् साधर्म्यन्तु न निषिध्यते, सामान्यलक्षणाक्रान्तिश्चान्वयव्यतिरेकाभ्यामुपलभ्यते, प्रत्यभिज्ञानाच्च। तथा हि, ममात्र संशयज्ञानमुत्पन्नमिति पश्चाद् विजानातीति सविषयत्वमस्य।
विपर्ययवैधर्मय्म्
विपर्ययोऽपि प्रत्यक्षानुमानविषय एव भवति।
अथ विपर्ययस्य कारणस्वरूपविषयविभागनिरूपणार्थं न परं संशयो *विपर्ययोऽपि प्रत्यक्षानुमानविषय एव भवति* इत्येवमादि प्रकरणम्। यद्वा, संशयस्य प्रत्यक्षानुमानविषयत्वाभ्युपगमाद् विपर्ययस्य विषयाभावादसम्भवो भाभूदित्याह `विपर्ययोऽपि प्रत्यक्षानुमानविषय एव भवति' इति। न च विषयाभेदादेकत्वम्, स्वरूपभेदस्य कारणभेदस्यच सम्भवात्। आगमिकेऽपि विषये विसंवादोपलब्धेर्विपर्ययदर्शनाद् व्याहतमवधारणं प्रत्यक्षानुमानविषय एव विपर्यय इति? न, निर्विषयत्वप्रतिषेधपरत्वात्।
यच्चेदम् असत्यपि प्रत्यक्षे प्रत्यक्षाभिमान इति वाक्यं तदन्यथा व्याख्येयमिति केचित्।
अन्ये तु पराभ्युपगतस्यकल्पनाज्ञानस्य निरासार्थं `विपर्ययोऽपि प्रत्यक्षानुमान विषय एव'। न तु सर्वः सविषयः क्वचिदविषयस्यापि सम्भवात्। यत्र हि विषयोऽन्वयव्यतिरेकाभ्यामुपलभ्यतेऽसौ सविषयोऽन्यस्तु निर्विषयो न तु सर्व इति।
अन्ये तु प्रत्यक्षानुमानविषयो भवत्येव विपर्यय इत्यभावनप्रतिषेधो विवक्षितो नित्यविपर्ययव्यवच्छेदार्थमिति ब्रुवते। तदयुक्तं व्याख्यानम्, तस्यैवासिद्धेः। न च नित्यस्य प्रत्यक्षानुमानविषयत्वं व्यापारादृते सम्भाव्यत इति कथमस्यात्र अभवनप्रतिषेध इत्यलम्।
प्रत्यक्षविषये तावत् प्रसिद्धानेकविशेषयोः पित्तकफानिलोपहतेन्द्रियस्यायथार्थालोचनाद् असन्निहितविषयज्ञानजसंस्कारापेक्षादात्मनसोः संयोगाद् अधर्माच्चातस्मिंस्तदिति प्रत्ययो विपर्ययः। यथा गव्येवास्व इति।
असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानो भवति, यथा व्यपगतघनपटलमचलजलनिधिसदृशवपुरम्बरमञ्जनचूर्णपुञ्जश्यामं शार्वरं तम इति।
प्रत्यक्षविषये तावद् विपर्यमाह [*प्रसिद्धानेकविशेषयोः*] प्रसिद्धा अनेका विशेषा ययोस्तौ तथोक्तौ तयोरिति विषयनिरूपणम्। [*पित्तकफानिलोपहतेन्द्रियस्य* इति] पित्तञ्च कफश्चानिलश्चेति पित्तकफानिलास्तैरुपहतानीन्द्रियाणि यस्यासौ स तथोक्तस्तस्य विपर्ययो भवति। केभ्य इत्याह *अयथार्थालोचनात्* इत्यादि। अयथार्थमालोच्यतेऽनेनेत्ययथार्थालोचनं सादृश्यज्ञानम्।
यद्‌वा आलोचितिरालोचनम् अयथार्थञ्च तदालोचनञ्चेत्युपचारेण सादृश्यज्ञानमयथार्थालोचनहेतुत्वाद् विवक्षितम्, तस्मात्। असन्निहितश्चासौ विषयश्चेति तथोक्तस्तस्मिन् ज्ञानम्, तस्माज्जतोऽसन्निहितविषयज्ञानजः, स चासौ संस्कारश्चेति। संस्कारकार्यत्वात् स्मृतिः संस्कारपदेन विवक्षिता। तत्संस्कारमपेक्षत इत्यात्ममनःसंयोगस्तदपेक्षः। तस्मादसमवायिकारणाद् अधर्माच्च विपर्ययः। स च किं स्वरूपः? *अतस्मिंस्तदिति प्रत्ययः* इति। तथाहि, अतस्मिंस्तदिति प्रत्ययः, इतरस्माद् भिद्यते, विपर्यय इति वा व्यवहर्तव्यः, अयथार्थालोचनादिभ्य उत्पद्यमानत्वादिति। यस्त्वेवं न भवति न चासावुक्तकारणेभ्यो निष्पद्यते (तस्मिंस्तदिति प्रत्ययश्च?) यथा संशयादिरिति। तस्योदाहरणं *यथा गव्येवाश्व इति*। यथाहि, दूराद् विषाणादिविशेषमनुपलभमानस्याश्वसादृश्यविशेषितपिण्डोपलम्भाद् अश्वानुस्मरणाच्च गव्येवाश्वोऽयमिति ज्ञानमुत्पद्यते, तथा मरीचिषूदकज्ञानम्, शुक्तिकायां रजतज्ञानमिति।
ननु चायुक्तमेतत्, विपर्ययज्ञानसम्पादकस्य कारकस्यैवासम्भवात्। तथाहि, इन्द्रियाणि सम्यक्‌ज्ञानसम्पादनायोत्पन्नानि तस्मिंस्तदिति रूपत्वात्, कथं मिथ्याज्ञानं कुर्युरिति। न च काचकामलादिदोषवशाद् विपरीतज्ञानजनकत्वम्, दुष्टस्य कारकस्य कार्याजनकत्वात्। यथा हि, शालिबीजस्य तैलादिनाभ्यक्तस्य शाल्यङ्कुराजनकत्वम्, न पुनर्यवाङ्कुरसम्पादकत्वम्। एवमिन्द्रियाणां सम्यक्‌ज्ञानसम्पादकत्वमेव स्यात्, न विपरीतज्ञानोत्पादकत्वमिति। न च रजतादिज्ञानस्य शुक्तिकाद्यालम्बनत्वे प्रमाणमस्ति। तस्मात् सादश्यज्ञानानन्तरं स्वाकारपरिभ्रष्टं स्मरणमुत्पद्यते इदं रजतमिति। तथाहि, इदमिति सादृश्यज्ञानं रजतमिति स्मरणं तदित्याकारशून्यम्।
नैतद्युक्तम्, रजतार्थिनः प्रवृत्तिनिवृत्त्योरभावप्रसङ्गात्। अथ ज्ञानयोर्भेदेऽपि इदमेव रजतमिति सामानाधिकरण्यं मन्यमानः प्रवर्तते? तर्हीदमेव व्यधिकरणयोः सामानाधिकरण्यज्ञानं मिथ्याज्ञानमिति। अथ इदमिति सादृश्यं तत्र रजतमिति भेदाप्रतिभासे सति प्रवृत्तिर्वेष्यते? तन्न, प्रतिपत्त्यभावस्याप्रवर्तकत्वात्। तथाहि, रजतार्थी इदमेव रजतमिति मन्यमानः प्रवर्तते, नेतरथा। इदमिति ज्ञानस्यापरोक्षतानिर्देशो न ज्ञानान्तरम्। अन्यथा हि इदं रूपम् अयं रस इत्यादावपि स्मृतिप्रमोषः स्यात्।
यच्चेदं रजतमिति ज्ञानस्य शुक्तिकाद्यालम्बनत्वे प्रमाणाभाव इत्युक्तम्, तदसत्, प्रत्यभिज्ञानादेः सम्भवात्। तथाहि, इयं शुक्तिका मम रजतमिति प्रतिभाता। तथा नेदं रजतमिति ज्ञानस्य शुक्तिकाविषयत्वाद् रजतमिति ज्ञानस्य तद्विषत्वम्। अन्यथा हि रजतमिति ज्ञानस्य शुक्तिकाविषयतामन्तरेण नेदं रजतमिति प्रतिषेधो न स्यात् प्रसक्त्यभावात्। अप्रसक्तस्य च निषेधे नायं घटादिरित्यपि स्यात्। तथा च सति सर्वत्र प्रतिषेधपरम्पराप्रसङ्गः। न चैतदस्ति। तस्माज्ज्ञानद्वारेण रजतं तत्र प्रसक्तमिति निषिध्यते।
यच्चेदम् उत्पत्तिकारणाभावादित्युक्तम्, तदसत्,दोषानुगृहीतस्येन्द्रियादेर्ज्ञानजनकत्वात्। यथाहि, दोषाभावे सतीन्द्रियं भावव्यतिरेकाभ्यां सम्यक्‌ज्ञानस्य जनकमुपलब्धं तथा दोषसद्भावे सति मिथ्याज्ञानस्यापीत्युभयरूपस्य कार्यस्येन्द्रियव्यापारेणोपलब्धेरुभयार्थमिन्द्रियाणां सर्गो निश्चीयते। मिथ्यात्वञ्चास्य स्वविषयपरित्यागेन विषयान्तरोपसर्पणात्।
अथालौकिकं रजतमेवास्य विषयमिति विषयान्तरोपसर्पणमसिद्धम्? तन्न, अलौकिकरजताध्यवसाये सति प्रवृत्तिनिवृत्त्योरभावप्रसङ्गात्। अथालौकिकस्यापि लौकिकतां मनय्मानः प्रवर्तते। कथं तहिं मिथ्याज्ञानस्यसम्भव इति? न चैतस्मिन् पक्षे मिथ्येदं ममोत्पन्नं ज्ञानमिति बाधकं ज्ञानं स्यात्, प्रत्यभिज्ञानाद्यसम्भवश्च। अस्ति प्रत्यभिज्ञानं शुक्तिकादौ, ममात्र रजतज्ञानमुत्पन्नम्, मिथ्यात्वप्रतिपत्तिश्चेति कथं मिथ्याज्ञानस्यासम्भवः?
यदि चेदं रजतमिति ज्ञानं रजतालम्बनमेव स्यात्, तस्योपलब्धिलक्षणप्राप्तत्वात समीपवर्त्तिनः कथमग्रहणम्? यद् वस्तूपलब्धिलक्षणप्राप्तं दूरस्थेनाप्युपलभ्यते तदवश्यं समीपवर्त्तिना गृह्यत एव, इन्द्रियादेस्तादवस्थ्यात्। न चैतदस्ति। तस्माद् रजतादिज्ञानं शुक्तिकादावुत्पन्नमिति।
अन्ये तु यदेव रजतमन्यदेशकालविशेषितमुपलब्धं तदेवान्यदेशादिविशेषितमुपलभ्यत इति मिथ्यात्वं ब्रुवते। तदसत्, तस्यात्राविद्यमानतया विषयत्वासम्भवात्। तस्मादिन्द्रियव्यापारविषयेऽङ्गुल्यादिना व्यपदिश्यमानश्च शुक्तिकादिरेव विषयः। अन्यथा विषयान्तरोत्पन्नं रजतज्ञानं कथं शुक्तिकाज्ञानेन बाध्येत? विभिन्नविषयत्वे बाध्यबाधकभावस्यैवासम्भवात्। अतो रजतज्ञानं शुक्तिकायामुपजातं शुक्तिकाज्ञानेन स्वविषयसहकारिणा बाध्यते मिथ्यात्वविशिष्टतया ज्ञाप्यते, विषयान्तरोपसर्पणात्। रजतज्ञानस्य तु रजतं विषयः सर्वजनप्रतीतस्तत्त्यागेन शुक्तिकायामुत्पद्यमानत्वाद् व्यभिचारित्वम्। एतेन निर्विषयं कल्पनाज्ञानमेतद् इत्यपास्तम्, विषयस्य शुक्तिकादेः प्रमाणतो व्यवस्थापनात्।
*असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानः* इत्यादिना निर्विषयं विपर्ययमाहेति केचित्।
उदाहरणन्तु *यथा व्यपगतघनपटलम्, अचलजलनिधिसदृशवपुः, अम्बरम्, अञ्जनचूर्णपुञ्जश्यामं शार्वरं तमः* इति। व्यपगतानि घनानां पटलानि यस्मिन् अम्बरे तत् तथोक्तम्। तथा न चलोऽचलः, स चासौ जलनिधिश्च तेन सदृशं तुल्यं वपुः स्वरूपमस्येति। तच्च जलनिधिसदृशत्रपुरम्बरमिति ज्ञानम् अम्बरस्यातीन्द्रियत्वात् उक्तरूपस्यापि न जलनिधिना सादृश्यग्रहणं सम्भवतीति निर्विषयः प्रत्यक्षाभिमानः। तथा शर्वर्यां भवं शार्वरं तमः। किंविशिष्टम्? अञ्जनचूर्णपुञ्जश्याममिति। न चाभावरूपस्य तमसः श्यामरूपसम्बन्धित्वमस्तीति निर्विषयत्वम्। सविषयत्वाभ्युपगमेऽपि देशकालविशेषितस्य तेजसोऽभावस्यालम्बनत्वाददोषः।
तथा स्वाश्रयाद् विनिवृत्ताश्चक्षुरश्मयः स्वात्मीयं गोलकरूपं यथोक्तेन जलनिधिना सदृशवपुरम्बरमित्युपलम्भं जनयन्ति। आदर्शात् प्रतिस्खलितानां स्वमुखग्रहणवदिति। यथा हि, आदर्शात् प्रतिस्खलिताश्चक्षुरश्मयः स्वमुखे विपर्ययमुत्पादयन्ति आदर्शमुखमिति तद्‌वद् इहापि दूराद् विनिवृत्ताः स्वगोलकमेवाम्बरमित्युपदर्शयन्ति।
अनुमानविषयेऽपि वाष्पादिभिर्धूमाभिमतैर्वह्न्यनुमानम्, गवयविषाणदर्शनाच्च गौरिति।
अनुमानविषयेऽपि विपर्ययमाह *वाष्पादिभिः* इत्यादिना। अत्रादिपदेन नीहारमशकावर्तादिग्रहणम्। तैः किम्भूतैः *धूमाभिमतैः* धूमरूपतया ज्ञातैरग्न्यनुमानमिति। तथा *गवयविषाणदर्शनाच्च गौरिति* ज्ञानं विपर्ययः। अत्र तु लिङ्गे विपर्ययज्ञानमिन्द्रियजम्, तद्व्यापारजञ्चानुमानिकम्।
त्रयीदर्शनविपरीतेषु शाक्यादिदर्शनेषु इदं श्रेय इति मिथ्याप्रत्ययो विपर्ययः। शरीरेन्द्रियमनःसु आत्माभिमानः, कृतकेषु नित्यत्वदर्शनम्, कारणवैकल्ये कार्योत्पत्तिज्ञानम्, हितमुपदिशत्सु अहितमिति ज्ञानम्, अहितमुपदिशत्सु हितमिति ज्ञातम्।
इदानीमसद्दर्शनाभ्यासाद् विपर्ययमाह *त्रयीदर्शवनविपरीतेषु शाक्यादिदर्शनेषु इदं श्रेय इति मिथ्याप्रत्ययः* इत्यादिना। त्रयाणां समाहारस्त्रयी रूढ़िवशाद् ऋग्‌यजुःसामलक्षणा गृह्यते। त्रय्येव दर्शनम्, तद्विपरीतानि शाक्यादिदर्शनानीत्यादि पदेन [नैशना ? जैना] दिदर्शनस्यावरोधः। तेषु *इदं श्रेयः* इति। सर्वं क्षणिक[मिति] ज्ञानम्, शून्यं निरात्मकमिति ज्ञानं श्रेयःसाधकत्वाच्छ्रेय इति शाक्यदर्शनाभ्यासाद् विपर्ययः। क्षणिकादिपक्षे बाधकस्योक्तत्वात्। एष्वर्थेष्वनेकान्तज्ञानेन दर्शने विपर्ययः। तथेतरेष्वप्यूह्यः। न च शाक्यादिदर्शनविपरीतत्वात् त्रय्यामपि विपर्यय इति वाच्यम्, प्रधानार्थेष्वात्मादिषु अर्थेषु बाधकानुपपत्तेः। शाक्यादिदर्शनेषु क्षणिकत्वादिपदार्थेषूक्तं बाधकमबाध्यमानमिति।
अन्ये तु त्रयाणां प्रत्यक्षानुमानागमानां समाहारस्त्रयी, तदेव दृश्यतेऽनेनेति दर्शनम्, तद्विपरीतानि शाक्यादिदर्शनानि, तैर्बाधोपपत्तेः। तदुपलक्षितं वा वैशेषिकदर्शनम्, तद्विपरीतानि शाक्यादिदर्शनानि, बाध्यमानत्वादित्युक्तम्।
तथा *शरीरेन्द्रियमनःसु आत्माभिमानः* विपर्ययः। शरीरमेवात्मेति विपर्ययो लौकायतिकानाम्। इन्द्रियाण्येवात्मेति इन्द्रियचैतन्यवादिनाम्। मनश्चैतन्यवादिनां मन एवेति।
*कृतकेषु नित्यत्वदर्शनम्* विपर्ययो मीमांसकानाम्। तथाहि, क्षित्यादेः कृतकत्वं पूर्वमेव व्यवस्थापितम्, तत्र च नित्यत्वदर्शनं तेषामिति। यद्वा सांख्यानामयं विपर्ययः। कृतकेषु घटादिषु नित्यत्वदर्शनमिति, न समुत्पद्यते भावो न स्वात्मानं जहातीति।
उक्त *कारणवैकल्ये कार्योत्पत्तिज्ञानम्* विपर्ययः स्वभाववादिनाम्। तथा च, निरुक्तं क्षित्यादिवैचित्र्यं कर्त्तारमन्तरेण स्वभावत एव भवतीति। एतच्चासत्, कार्यत्वस्य स्वकर्तृपूर्वकत्वेन व्याप्तस्योपलम्भात्। क्षित्यादावपि कर्तृपूर्वकत्वस्य व्यवस्थापितत्वात् स्वभाववादिनां विपर्ययज्ञानमेतत्। तथा चेतनमधिष्ठातारं विना कार्यस्यानुपलब्धेः, जैमिनीयानां शौद्धोदनेः शिष्याणाञ्च कर्तारं विना क्षित्यादिकार्यविज्ञानं विपर्ययः।
प्रधाने प्रलीनयोश्च धर्माधर्मयोरभिव्यक्तत्वान्न कार्योत्पत्तौ व्यापारः सम्भवतीति तद्वैकल्ये कार्योत्पत्तिज्ञानं विपर्ययः सांख्यानाम्।
सौगातानाञ्च कारणवैकल्ये कार्योत्पत्तिज्ञानं विपर्ययः। कथम्? उत्पत्तिविनाशयोस्तादात्म्यात्। क्षणिकत्वे सति यदैव कार्योत्पादस्तदैव कारणस्य विनाशः, स चोत्पत्तेर्नार्थान्तरमिति। सहोत्पन्नयोर्न कार्यकारणभाव इति कारणवैकल्ये कार्योत्पत्तिज्ञानं विपर्ययः।
तथा सर्वमिदं कार्यं परमेशपूर्वकं, तदाराधनञ्च परमस्य श्रेयसः साधनम्। वेदानाञ्च स्वरूपेऽप्यर्थे प्रामाण्यमित्येवं *हितमुपदिशत्सु* वैशेषिकेषु नैवं भवतीति ज्ञानं विपर्ययो मीमांसकसौगतजैनानाम्।
यदा तु न परमशिवादेः सद्भाव इति वैयात्याद् वदन्ति वैशेषिकास्तदा नेदं परमार्थतो हितमिति हितमुपदिशत्सु वैशेषिकेषु अहितमेवेदमिति ज्ञानं विपर्ययस्तेषाम्।
यद्वा संसार्यात्मनां नानात्वम्, परमशिवश्चैतेभ्यो भिन्नः, तदाराधनाच्चास्मदादेः श्रेयो भवतीत्येवं हितमुपदिशत्सु वैशेषिकेषु अहितमिति ज्ञानं विपर्ययः।
द्वैतवादिनां तदर्था[न]भ्युपगमेन च वचनेन हितमिति ज्ञानं विपर्ययः। तेषां क्षित्यादिकार्यं परमाणुभिर्द्व्यणुकादिप्रक्रमेणारब्धमीश्वरकर्तृकञ्चेति एवं हितमुपदिशत्सु, वैशेषिकेषु नैवमेतत् प्रधानपूर्वकत्वाज्जगत इति ज्ञानं विपर्ययः सांख्यानाम्, प्रधानस्तित्वे प्रमाणाभावात्।
अथास्ति अन्वयपरिमाणशक्तिप्रवृत्त्युपकार्योपकारकभाववैश्वरूप्येभ्यः प्रधानम्। तथाहि, सर्वमिदं शरीरादिकार्यं सुखदुःखमोहान्वितमुपलभ्यते, यच्चान्वितं तदेकस्मात् कारणादुत्पद्यमानं दृष्टम्, यथैकस्मात् कारणादुत्पद्यते अन्वितत्वात् घटादिवत्। तथा चास्य पक्षधर्मत्वं सुखदुःखादिसमन्वयस्य सर्वेषु शरीरादेः सुखदुःखमोहात्मकत्वम्, तज्जनकत्वात्, तथा प्रसादादिजनकत्वोपलब्धेश्च तत्स्वभावत्वम्। सुखादयस्तु सत्त्वरजस्तमसां परिणामविशेषास्ततोऽर्थान्तरं न भवन्ति, कार्यस्य कारणाद् भेदानुपपत्तेः। अतः सत्त्वरजस्तमांस्येव शब्दाद्यात्मना व्यवतिष्ठमानानि सुखदुःखमोहात्मकं कार्यमुपजनयन्तीति शब्दादयोऽपि न सत्त्वादिभ्यो व्यतिरिच्यन्ते। सत्त्वरजस्तमसाञ्च साम्यावस्था प्रधानम्।
तथा परिमितत्वाच्च। यत् परिमितं तत् एकस्मात् कारणादुत्पद्यते, यथाङ्कुरादि बीजात्। परिमितत्वञ्च इयत्तावधारणविषयत्वम्। तथा शरीरादि कार्यम् एकस्मादुत्पद्यते परिमितत्वात् अङ्कुरादिवत्।
शक्तिप्रवृत्तेश्च। शक्त्या हि कारणं कार्यार्थिनोपादीयत इति सर्वं कार्यं स्वकारणे शक्तिरूपतया व्यवस्थितं तावद् यावत् प्रधानमिति। नन्वेवं सर्वस्यापि कार्यस्य प्रधानादभेदे विद्यमानत्वात् कथमुत्पत्तिविनाशाविति? असतः खरविषाणादेरिव कार्यत्वानुपपत्तेः सत एवाविर्भावतिरोभाविति ब्रूमः। शक्तिरूपतया हि व्यवस्थितं कार्यं परं व्यक्तिरूपतामापद्यते। पुनस्तु तिरोभावे शक्तिरूपतया व्यवतिष्ठते, न सन्निरुधयत इति।
तथा परस्परमुपकार्योपकारकभावेनावस्थितानाम् आसन्दिकाङ्गानामेकस्मात् कारकाद् उत्पत्तेरुपलम्भाच्छरीरादेरपि तथाभावोपलब्धेरेककारणपूर्वकत्वं साध्यते।
तथा दध्यादिवैश्वरूप्यस्यैकस्मात् क्षीरादुत्पत्तेरुपलम्भाच्छरीरादिवैचित्र्यस्याप्येककारणपूर्वकत्वं साध्यते। यच्चैकं कारणं तत् प्रधानमिति। तस्माच्च महान्, महतोऽहङ्गारः, तस्मात् पञ्चतन्मात्राणि एकादशेन्द्रियाणि, तेभ्यो भूतानीति।
सर्वमेतदसत्, अन्वयादेर्गमकत्वानुपपत्तेः। तथाहि, शरीरादेरेककारणपूर्वकत्वे साध्येऽन्वितत्वमहेतुः सन्दिग्धत्वात्। अथ सुखदुःखादिसमन्वितत्वं हेतुः, तन्न, स्वरूपासिद्धात्वात्। तथाहि, सुखःखादीनां पूर्वमेवात्मगुणत्वेन प्रतिपादितत्वात् शरीरादिगुणत्वमसिद्धम्। घटादिदृष्टान्तोऽपि साधनविकलः। तत्रान्वितस्यैककारणपूर्वकत्वेन व्याप्तस्यानुपलम्भात्। अथ मृदन्वितत्वं घटादावस्ति, तच्चासिद्धम्, पक्षे प्रत्यक्षेण च शरीरादेरुपादानं प्रतिनियतजातीयमनेकमुपलभ्यत इति, कालात्ययापदिष्टञ्च साधनम्।
एवं परिमितत्वमियत्तावधारणविषयत्वमसिद्धम्, अवानत्रभेदेन शरीरादेरानन्त्यात्। अथ वर्गापेक्षया परिमितत्वम्, तथाप्यनैकान्तिकत्वम्, परदृष्ट्या नित्येष्वपि भावात्। सत्त्वरजस्तमांसि च परिमितानि न चैककारणपूर्वकानीति, प्रधानस्यैव तद्रूपत्वात्। तथा एककारणपूर्वकत्वाभावेऽपि परमाण्वादीनि वर्गापेक्षया परिमितानीति। अङ्कुरादेरपि भौमानलसम्बन्धाद् बीजावयवक्रियाक्रमेण पूर्वद्रव्यविनाशे सति द्व्यणुकादिप्रक्रमेणोत्पादाद् एककारणपूर्वकत्वमसिद्धम्।
यच्चेदं शक्तानां कारणानां कार्योत्पत्तौ व्यापाराच्छक्तिरूपतया कार्यस्यावस्थानमित्युक्तम्, तदसत्, शक्तेश्चरमसहकारिरूपतया कार्यादर्थान्तरत्वात्। न च कार्यकारणयोरेकत्वम्, विभिन्नप्रतिभासविषयत्वात्। प्रतिभासभेदश्च पदार्थानां भेदव्यवहारे हेतुः। तत्सद्भावेऽप्येकत्वाभ्युपगमे सर्वेषामेकताप्रसङ्गान्न चतुर्विंशतितत्त्वानीति स्यात्। तथा स्वरूपभेदोऽर्थक्रियाभेदश्च कार्यकारणयोः। सूक्ष्ममनेकञ्च समवायिकारणम्, अधिकमेकञ्च कार्यमिति, तस्य पूर्वं कारणेष्वसत्त्वम्, अनुपलम्भात्। अथानभिव्यक्तेरनुपलम्भः? सद्भावे किं प्रमाणम्? उत्पत्तेरिति चेत्, न, विद्यमानस्योत्पत्तेरयोगात्। अथ अविद्यमानस्योत्पत्तौ खरविषाणादीनामुत्पत्तिः स्यात्? [न,] कारणाभावात्। येषां हि कारणमस्ति जनकं तेषामेवोत्पत्तिर्न खरविषाणादिष्वेतदस्ति, कार्याभावेनैव कारणाभावप्रतीतेः। एवं तन्तुषु घटादेर्मृत्‌पिण्डे च पटादेरनुत्पत्तिर्वाच्या, प्रतिनियतसामग्र्याः प्रतिनियतकार्यजनकत्वात्। तन्तूपलक्षिता हि सामग्री पटस्यैव जनिकोपलब्धा, अन्या तु अन्यस्येत्युपादानेषु कार्यनियमो, न सत्त्वादिति। यच्चोत्पद्यते तदुत्पत्तेः पूर्वमसत्, न पुनर्यद् यदसत् तदुत्पद्यतइति व्याप्तिः।
यच्चोत्पद्यमानत्वेन हेतुना सत्त्वम्, तदसत्, तस्यासाधारणत्वेनागमकत्वात्। तथाहि, सति आकाशादौ, असति च खरविषाणादौ, उत्पद्यमानत्वं नास्तीति।
यच्चायं व्यपदेशोऽङ्कुरो जायते, घटं कुर्विति अयमपि मुख्ये बाधकप्रमाणसद्भावाद् भाक्तो द्रष्टव्यः। तथाहि, यदि विद्यमानस्यैव घटस्य कर्मत्वमङ्कुरस्य च कर्तृत्वमिष्येतोत्पत्तिर्व्याहता स्यात्, विद्यमानत्वादेव कारकव्यापारवैयर्थ्यञ्च। अथाभिव्यक्त्यर्थं व्यापारः, तदसत्, अभिव्यक्तेरपि विद्यमानत्वात्। अथाभिव्यक्तिरविद्यमानैव क्रियते? तर्हि सदुत्पद्यत इति व्याहतम्। अभिव्यक्तेस्तु स्वरूपोपलम्भस्य अविद्यमानस्यैवोत्पत्तेः। न चावरणव्यपगमोऽभिव्यक्तिः, आवरणस्यैवानुपलब्धेः। तस्माद् विद्यमानस्य उत्पत्त्यर्थासम्भवाद् उपचरितमङ्कुरादेः स्वजनिकर्तृत्वं कर्मत्वञ्चेति व्यपदेशस्यान्यथासिद्धत्वम्।
यच्चेदम् उपकार्योपकारकभावापन्नत्वादेककारणपूर्वकत्वमित्युक्तं [तदप्यसत्,] यदि परस्परापेक्षाणामेककार्यजनकत्वमुपकार्योपकारकभावो विवक्षितः, स च नित्येष्वस्तीति व्यभिचारी, साध्यविकलश्च दृष्टान्तः, विभिन्नकारकजन्यत्वादासन्दिकाङ्गानाम्।
तथा दध्यादिवैश्वरूप्यमप्युक्तकारणपूर्वकं न भवति, स्वावयवकार्यत्वात्। तथाहि, स्वावयवेभ्यो दध्युत्पद्यते, न क्षीरात्। भौमानलसम्बन्धादवयवक्रियान्यायेन विनष्टे हि क्षीरे पुनः उत्पन्नपाकजैर्द्व्यणुकादिक्रमेण दध्यादेरुत्पत्तिरित्यतो वैश्वरूप्यस्यैककारणपूर्वकत्वाभावः। प्रत्यक्षेण च पक्षे प्रतिनियतजातीयमनेकं कारणमुपलब्धमिति कालात्ययापदिष्टञ्च वैश्वरूप्यमिति।
न च किञ्चित्‌कार्यमेकस्मादेव कारणादुत्पद्यमानमुपलब्धमिति अविद्यमानसपक्षस्य अन्वयादेर्विपक्षे सद्भावः। तदेवमन्वयादीनामगमकत्वात् प्रधानासिद्धौ बुद्ध्यादेरसम्भव एव। प्रतिहतश्च प्रधानवादोऽस्मद्गुरुभिर्विस्तरेणेति नेह प्रतन्यते। अतः सांख्यानामयं विपर्ययः प्रधानपूर्वकम् जगदिति।
तथा शरीरस्य परिमाणभेदेन भेदोपपत्तेः शरीरमेवात्मेत्यभ्युपगमे प्रतिसन्धानं न स्यादित्यात्मनः शरीरादिव्यतिरेकेण नित्यत्वं प्रतिपत्तव्यमिति हितमुपदिशत्सु वैशेषिकेष्वहितज्ञानं विपर्ययो लौकायतिकानाम्। समानञ्चैतत् सौगतजैनानाम्। तथाहि, सङ्कोचविकासधर्मकत्वादात्मनः सपरिणामत्वेऽन्यत्वेन भेदोपपत्तेः स्मरणं न स्यात्। बोधाच्च बोधरूपतेतिप्रतिबन्धप्रतिषेधाद् बोधमात्रेऽप्यात्मनि स्मरणानुत्पत्तौ श्रेयोबुद्धेरभाव इत्यलं विस्तरेणेति।
अनध्यवसायोऽपि प्रत्यक्षानुमानविषये (एव) सञ्जायते। तत्र प्रत्यक्षविषये तावत् प्रसिद्धार्थष्वप्रसिद्धार्थेषु वा व्यासङ्गाद[न]र्थित्वाद् वा किमित्यालोचनमात्रमनध्यवसायः। यथा बाहीकस्य पनसादिष्वनध्यवसायो भवति। तत्र सत्ताद्रव्यत्वपृथिवीत्ववृक्षत्व(रूपादिः) शाखाद्यपेक्षोऽध्यवसायो भवति। पनसत्वमपि पनसेष्वनुवृत्तमाम्रादिभ्यो व्यावृत्तं प्रत्यक्षमेव, केवलन्तूपदेशाभावाद् विशेषसंज्ञाप्रतिपत्तिर्न भवति।
इदानीमनध्यवसायस्य कारणस्वरूपविषयविभागनिरूपणार्थं न परं विपर्ययः *अनध्यवसायोऽपि प्रत्यक्षानुमानविषये सञ्जायते* इत्यादि प्रकरणम्। अनध्यवसितिरनध्यवसायः, ज्ञानमनिश्चयात्मकम्। तच्च संशयादिभ्योऽर्थान्तरम्, कारणभेदाद्, विषयभेदाच्चेति।
*[तत्र] प्रत्यक्षविषये तावत्* व्याख्यायते। *प्रसिद्धार्थेष्वप्रसिद्धार्थेषु* च विषयेषु भवतीत्यतः संशयाद् भिद्यते। संशयो हि प्रसिद्धार्थेष्वेव भवतीति। अथ प्रसिद्धार्थेषु कुतः कारणादनध्यवसाय इत्याह *व्यासङ्गाद[न]र्थित्वाद् वा* इति। यथा[व्यासङ्गात्]इषुकारस्य इषावासक्तमनसो महति गतेऽपि राजनि `किन्नामायं गतः' इत्यनध्यवसायः। अ[न]र्थित्वात् स्वानुष्ठाननिरतस्य तपस्विनो महत्यपि राजन्यनध्यवसायः `किन्नामायं गतः'इति।
न चायं संशयः, तस्योभयोल्लेखित्वात्, सामान्योपलम्भादिभ्यश्चोत्पद्यमानत्वाच्च। इत्यतोऽनध्यवसाय इतरस्माद् भिद्यते यथोक्तकारणजन्यत्वात्। यथोक्तं वा ज्ञानम् अनध्यवसाय इति व्यवहार्त्तव्यम् उक्तकारणेभ्यो निष्पद्यमानत्वात्। यस्तु न भिद्यते न चैवं व्यवह्रियते, न चासावुक्तकारणेभ्यो निष्पद्यते। यथा संशयादिरिति।
तस्य स्वरूपमाह *किमित्यालोचनमात्रम्* किं नामेति ज्ञानं विशेषसंज्ञोल्लेखशून्यमनध्यवसाय इति।
अप्रसिद्धार्थेषु *यथा बाहीकस्य पनसादिष्वनध्यवसायो भवति* बाहीको हिठकः[? हिरठकः] तस्य पनसादिषु सङ्केताभावाद् विशेषसंज्ञोल्लेखशून्यं `किन्नामायम्' इति ज्ञानमुत्पद्यते। तत्र हि *सत्ताद्रव्यत्वपृथिवीत्ववृक्षत्वरूपादिशाखाद्यपेक्षोऽध्यवसायः* एव। तथाहि, सन्नयम् इति निश्चयज्ञानम्। तथा द्रव्यं पृथिवी वृक्षो रूपादिमांश्छाखादिमांश्चेति अध्यवसाय एव। तथा पनसत्वमपि निर्विकल्पकबोधे *पनसेष्वनुवृत्तमाम्रादिभ्यो व्यावृत्तं प्रत्यक्षमेव*।
नन्वेवं तर्हि क्व विषयेऽनध्यवसाय इत्याह *केवलन्तूपदेशाभावात्* सङ्गेताभावाद् विशेषसंज्ञोल्लेखिनी पनसोऽयमिति *प्रतिपत्तिर्न भवति* इति। नन्वेवं तर्हि प्रतिपत्त्यभावोऽनध्यवसायः स्यात्, तस्य चाभावरूपत्वाद् अविद्यायामन्तर्भावोऽनुपपन्नः? नैतदेवम्, किन्नामायमित्यनिश्चयात्मकज्ञानस्य संशयादिविलक्षणस्यानुभूयमानतयापलापायोगात्। तस्य चाविद्यालक्षणुक्तत्वादविद्यायामन्तर्भाव इति।
अनुमानविषयेऽपि नारिकेलद्वीपवासिनः सास्नामात्रदर्शनात् को नु खल्वत्र प्राणी स्यादित्यनध्यवसायो भवति।
*अनुमानविषयेऽपि नालिकेरद्वीपवासिनः* अकृतसमयस्य पिण्डानुपलम्भे *सास्नामात्रदर्शनात् को नु खल्वत्र प्राणी स्यादित्यनध्यवसायो भवति *पूर्वं हि सङ्केताप्रतिपत्तावपि सास्ना प्रामाण्याविनाभूतोपलब्धा, तदुपलम्भात् पिण्डानुपलम्भेऽपि अविनाभावसम्बन्धस्मरणानन्तरं परामर्शज्ञाने सति को नु खल्वत्र प्रदेशे प्राणीति,किन्नामात्र प्राणीति स्यादित्यनध्यवसायः।
उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्येन्द्रियद्वारेणेव यदनुभवनं मानसं तत् स्वप्नज्ञानम्।
तदेवमनध्यवसायस्य कारणादिभेदेन भेदमभिधाय स्वप्ननिरूपणमाह *उपरतेन्द्रियग्रामस्य* इत्यादि। उपरतः स्वविषयग्रहणं प्रति निवृत्त इन्द्रियाणां ग्रामो यस्यासौ तथोक्तस्तस्य। *प्रलीनमनस्कस्य* इति। प्रलीनं नेन्द्रियदेशेन संयुक्तं मनो यस्यासौ तस्य प्रलीनमनस्कस्य। *इन्द्रियद्वारेणेव यदनुभवनं मानसम्* उत्पद्यते *तत् स्वप्नज्ञानम्* इति। मनसि भवं मानसं तच्च स्मरणसुखाद्यपि भवतीति तन्निवृत्त्यर्थमनुभवनपदम्। अनुभवनञ्च बाह्येन्द्रियजमपीति मानसग्रहणम्। तथापि सुखदुःखाद्यनुभवैर्व्यभिचारस्तदर्थमुपरतोन्द्रियग्रामस्येति। सुखाद्यनुभवश्चेन्द्रियज एव मनसस्तत्र व्यापारात्। अथोपरतेन्द्रियग्रामस्य मानसं स्वप्नान्तिकमपि भवतीति व्यभिचारः, तन्न, तस्य स्मृतिरूपतया अनुभवनपदेनैव व्यवच्छिन्नत्वात्।
अन्ये त्वस्य व्यवच्छेदार्थमविद्यासामान्यलक्षणमनुवर्तयन्तीति।
न च निमीलिताक्षस्य नीलपीतादिज्ञानमुपरतेन्द्रियग्रामस्य भवतीत्याशङ्कनीयम्, विषयसान्निध्ये सतीन्द्रियान्तरेण तस्य ज्ञानोत्पादात्। यदा हि विषयसान्निध्येऽपि नेन्द्रियेण ज्ञानं तदैवोपरतेन्द्रियग्रामः पुरुषोऽमिधीयत इति। न च चक्षुर्व्यापारं विना नीलपीतादिष्वनुभवनं सम्भवतीति स्मरणमेतन्नाय्यम्, तच्चानुभवपदेनैव व्यवच्छिन्नम्। नन्वेवमप्युपरतेन्द्रियग्रामस्य मानसानुभवनत्वात् स्वप्नज्ञानम् इतरस्माद् भिद्यते इत्युक्ते व्यभिचाराभावः, किमर्थं प्रलीनमनस्कस्योन्द्रियद्वारेणेवेति पदद्वयम्? लक्षणान्तरार्थम्। तथाहि, प्रलीनमनस्कस्य यदनुभवनं मानसं तत् स्वप्नज्ञानमिति द्वितीयं लक्षणम्। प्रलीनमनस्कस्यस्वप्नान्तिकमपि भवतीत्यनुभवनपदम्। अनुभवनञ्च सुखादिषु भवतीति प्रलीनमनस्कपदम्।
अतः प्रलीनमनस्कानुभवत्वात् इतरस्माद् भिद्यते, तथेन्द्रियद्वारेणेवोत्पद्यमानत्वे सति मानसानुभवनत्वादिति। इन्द्रियद्वारेणेवोत्पद्यते स्वप्नान्तिकमतोऽनुभवनमिति। अनुभवनञ्च सुखादावपि भवतीति इन्द्रियद्वारेणेवेति पदम्।
कथम्? यदा बुद्धिपूर्वादात्मनः शरीरव्यापारादहनि खिन्नानां प्राणिनां निशि विश्रामार्थमाहारपरिणामार्थ वा अदृष्टकारितप्रयत्नापेक्षादात्मान्तःकरणसम्बन्धान्मनसि क्रियाप्रबन्धादन्तर्हृदये निरिन्द्रिये आत्मप्रदेशे निश्चलं मनस्तिष्ठति तधा प्रलीनमनस्क इत्याख्यायते।
प्रलोने च तस्मिन्नुपरतेन्द्रियाग्रामो भवति। तस्यामवस्थायां प्रबन्धेन प्राणापानसन्तानप्रवृत्तावात्ममनःसंयोगविशेषात् स्वापाख्यात् संस्काराच्चेन्द्रियद्वारेणेव असत्सु विषयेषु प्रत्यक्षाकारं स्वप्नज्ञानमुत्पद्यते।
अथ कथं स्वप्नज्ञानमुत्पद्यते, पुरुषश्चोपरतेन्द्रियग्रामः प्रलीनमनस्कश्च भवतीत्याह *यदा*इत्यादि। यदान्तर्हृदये न बाह्ये, निर्गतानीन्द्रियाणि यस्यासौ तथोक्तस्तस्मिन्नात्मप्रदेशे, निश्चलं क्रियाशून्यं क्रियाशून्यं मनस्तिष्ठति तदा पुरुषः प्रलीनमनस्क इत्याख्यायते।
अन्ये त्वागमाभिमतम् अधोमुखं कमलं निरिन्द्रियात्मप्रदेशस्तत्र निश्रलं मनस्तिष्ठतीति ब्रुवते।
स च विशिष्टात्मसम्बन्धः क्रियाप्रबन्धात् क्रियासन्तानाद् भवति। क्रियाप्रबन्धश्चात्मान्तःकरणसंयोगाददृष्टकारितात् प्रयत्नापेक्षादुत्पद्यते। तथाहि, मनःसमवायिकारणम्, आत्ममनः संयोगोऽसमवायिकारणम्, अदृष्टकारितप्रयत्नो निमित्तकारणमित्येवं मनसि क्रियाप्रबन्धाद् विशिष्टात्मप्रदेशेन संयोगः स्वापाख्यः सम्पद्यते।
स च कदा? *निशि* इति बाहुल्यापेक्षया तस्य। किमर्थञ्च भवतीति *विश्रामार्थमाहारपरिणामार्थं वा* इति। पुरुषभेदापेक्षया समस्तं व्यस्तञ्चैतद् विवक्षितम्। कस्यचिदेकं प्रयोजनं कस्यचिदुभयमपि भवतीति। किंविशिष्टस्य प्राणिनः? अहनि खिन्नस्य। कुतः? शरीरव्यापारात्। स च नावाद्यारूढस्यापि सम्भवति न च तस्मात् खेदः, तदर्थम् *बुद्धिपूर्वात्* बुद्धिश्च स्मरणेच्छाद्वारेण व्यापारोत्पत्तौ कारणं न साक्षात्। तथापि शरीरान्तरेषु बुद्धिपूर्वको व्यापारो नियोगद्वारेण सम्भवति, न च तस्मात् खेदस्तदर्थम् *आत्मनः* स्वशरीरस्येति। एवमुक्तक्रमेण निरिन्द्रियप्रदेशसम्बद्धं प्रलीनं मनोऽपदिश्यते। प्रलीने च तस्मिन् उपरतेन्द्रियग्रामः पुरुषो भवति, मनसानधिष्ठितानामिन्द्रियाणां स्वविषये व्यापारासम्भावात्। जीवनन्तु तस्यामवस्थायामनुमीयते। *प्रबन्धेन* सातत्येन, प्राणापानसन्तानस्य प्रवृत्तौ सत्याम्। तथाहि, प्राणापानसन्तानप्रवृत्तिः प्रयत्नकार्या न चेच्छाद्वेषपूर्वकः प्रयत्नोऽत्र सम्भवत्यतो जीवनपूर्वकः प्रयत्नोऽनुमीयत इति वक्ष्यामः प्रयत्नाधिकारे।
अथैवं प्रलीनमनस्कस्योपरतेन्द्रियग्रामस्यात्मनः कुतः स्वप्नज्ञानमुत्पद्त इत्याह *आत्ममनःसंयोगविशेषात्* असमवायिकारणात्, स्वाप इत्याख्या संज्ञा यस्यात्ममनःसंयोगविशेषस्यासौ तथोक्तस्तस्मात्। *संस्काराच्च* इति। संस्कारः स्मृत्युत्पत्तिद्वारेण स्वप्नज्ञानोत्पत्तौ कारणमिति।
यद्वा स्वापाख्यादिति संस्कारविशेषणम्। यो हि संस्कारः स्वापावस्थायां स्मृतिद्वारेण स्वसंज्ञानहेतुर्भवत्यसौ स्वापाख्य इति। तस्माद् दिक्कालदिभ्यश्चेन्द्रियद्वारेणेव असत्सु अविद्यमानेषु विषयेषु हस्त्यादिषु प्रत्यक्षाकारं प्रत्यक्षमिव स्वप्नज्ञानमुत्पद्यते।
अन्ये तु कुड्यादय एव हस्त्यात्मना व्यवस्थिताः स्वप्नज्ञानस्यालम्बनमिति मन्यन्ते। यच्चेदम् असत्सु विषयेषूत्पद्यते स्वप्नज्ञानमित्युक्तं तदपि हस्त्यादिस्वरूपापेक्षया, तेन हि रूपेण तेषामसत्त्वादिति।
तदेतदसत्, कुड्यादेरालम्बनत्वे प्रमाणाभावात्। न च स्वप्नोत्थितस्य `ममैते कुड्यादयो हस्त्यादिरूपतया प्रतिभाता' इति प्रत्यभिज्ञानमस्ति। नापीन्द्रियाणां कुड्यादिषु हस्त्यादिज्ञानजन्मनि व्यापारः सम्भवति, तद्व्यापारोपरमे सति तत्र ज्ञानस्य भवनात्। मनसोऽपि बहिर्विषये स्वातन्त्र्येण व्यापारः प्रतिषिद्ध एव। तस्मान्निर्विषय एव स्वप्नज्ञानमिति।
अथ स्वप्नज्ञानं न विपर्ययादिभ्योऽर्थान्तरम्। तथाहि, स्वप्नज्ञानम् अतस्मिंस्तदित्युत्पद्यमानं विपर्ययज्ञानमेव। किमयं स्थाणुः पुरुषो वेत्युभयोल्लेखित्वे सति संशयज्ञानम्। किंनामायमिति चोत्पादेऽनध्यवसाय इति न स्वप्नज्ञानमेतेभ्योऽर्थान्तरम्। पृथगभिधानन्तु शुभाशुभसूचकत्वादिति।
नैतद् युक्तम्, कारणादिभेदेनास्य विपर्ययादिभ्योऽर्थान्तरत्वादिति केचित्। तथाहि, विपर्ययज्ञानं प्रत्यक्षानुमानविषये पित्तकफानिलोपहतेन्द्रियस्य पुरुषस्योत्पद्यते। संशयस्तु सामान्योपलम्भादितः प्रत्यक्षानुमानविषये प्रसिद्धोभयविशेषस्य भवतीत्येवमनध्यवसायस्यापि विलक्षणमेव कारणमुक्तम्। तद्विपरीतानि तु स्वप्नज्ञानोत्पत्तौ कारणानीति कारणभेदाद् भेदः। लक्षणभेदेऽप्यभेदाभ्युपगमे सर्वत्र तथाभावप्रसङ्गः। तथात्यन्ताप्रतसिद्धेऽप्यर्थे स्वप्नज्ञानमुत्पद्यते, न चैवं विपर्ययादाविति। तस्मादुभयोल्लेखित्वादिसद्भावेऽपि स्वप्नलक्षणोपपत्तेः संशयादिविलक्षणं स्वप्नज्ञानमेवैतदित्यभ्युपगन्तव्यम्।
तत्तु त्रिविधम्। संस्कारपाटवात् धातुदोषात्, अदृष्टाच्च।
तत्र संस्कारपाटवात् तावत् कामी क्रुद्धो वा यदा यमर्थमादृतश्चिन्तयन् स्वपिति तदा सैव चिन्तासन्ततिः प्रत्यक्षाकारा सञ्जायते।
धातुदोषात्, वातप्रकृतिस्तद्दूषितो वा आकाशगमनादीन् पश्यति। पित्तप्रकृतिः पित्तदूषितो वा अग्निप्रवेशकनकपर्वतादीन् पश्यति। श्लेष्मप्रकृतिः श्लेष्मदूषितो वा सरित्समुद्रप्रतरणहिमपर्वतादीन् पश्यति।
यत् स्वयमनुभूतेष्वननुभूतेषु वा प्रसिद्धार्थेष्वप्रसिद्धार्थेषु वा यच्छुभावेदकं गजारोहणच्छत्रलाभादि तत् सर्वं संस्कारधर्माभ्यां भवति। विपरीतञ्च तैलाभ्यञ्जनखरोष्ट्रारोहणादि तत् सर्वमधर्मसंस्काराभ्यां भवति।
अत्यन्ताप्रसिद्धार्थेष्वदृष्टादेवेति।
तस्य कारणभेदाद् भेदमाह *तत्तु* स्वप्नज्ञानम्। *त्रिविधम् संस्कारपाटवाद् धातुदोषाद् अदृष्टाच्च* इति। संस्कारपाटवात् तावत् स्वप्नज्ञानमाह *कामी* यस्यामङ्गनायामनुरक्तस्तामादृतोऽतिशयेन प्रयत्नयुक्तश्चिन्तयन्, क्रुद्धो वायं शत्रुं प्रयत्नाच्चिन्तयन् स्वपिति। *सैव* सुप्तस्य, *चिन्तासन्ततिः प्रत्यक्षाकारा सञ्जायते* नादृष्टात्।
धातुदोषात् स्वप्नमाह *वातप्रकृतिः* वातमधिकं निमित्तमेपक्षमाणैः परमाणुभिरारब्धः, वातदूषितश्च तथाविधाहारोपगमाद् आकाशादिगमनानि पश्यति। एवं पित्तप्रकृतिरित्यादावपि द्रष्टव्यम्।
अदृष्टकारितं स्वप्नमाह *यत्स्वयमनुभूतेष्वननुभूतेषु* अर्थेषु, *प्रसिद्धेष्वप्रसिद्धेषु वा* शुभावेदकमुत्पद्यते स्वप्नज्ञानं तददृष्टात्। तत्र यद् गजारोहणच्छत्रलाभादिशुभावेदकं *तत् सर्वं संस्कारधर्माभ्याम्* उत्पद्यते। संस्कारो हि पूर्वानुभवजनितः, स च स्मृत्युत्पत्तिद्वारेण स्वप्नज्ञानोत्पत्तौ कारणम्।
विपरीतमशुभावेदकम् *तैलाभ्यञ्जनखरोष्ट्रारोहणादि* तच्चाधर्मसंस्काराभ्यां भवति।
अत्यन्ताप्रसिद्धेषु अननुभूतेष्वदृष्टादेव स्वप्नज्ञानमुत्पद्यते। तथाहि, ब्रह्मादिपदारूढ़मात्मानं पश्यतीति।
स्वप्नान्तिकं यद्यप्युपरतेन्द्रियग्रामस्य भवति तथाप्यतीतज्ञानप्रबन्धप्रत्यवेक्षणात् स्मृतिरेवेति भवत्येषा चतुर्विधा अविद्येति।
अथ स्वप्नान्तं स्वप्नज्ञानमेव, आहोस्विदर्थान्तरमित्याह *स्वप्नान्ति कम्* स्वप्नान्ते स्वप्नावसाने भवं स्वप्नान्तिकम्। *यद्यप्युपरतेन्द्रियग्रामस्यभवति तथापि* स्मृतिरेवेति। *अतीतज्ञानप्रबन्धप्रत्यवेक्षमात्* इति। अतीतश्चासौ ज्ञानप्रबन्धश्च तस्मिन् प्रत्यवेक्षणरूपत्वात् स्मृतिरेवेति।
एवं यथोक्तरूपा चतुर्विधा भवत्यविद्येत्युपसंहारः।
अन्ये तु *एषा* यथा मया व्याख्याता तथा चतुर्विधा भवत्यविद्या। अन्यथा हि विविधैवेति।
विद्यापि चतुर्विधा, प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा।
अथेदानीं विद्यास्वरूपनिरूपणार्थं न केवलमविद्या *विद्यापि चतुर्विधा* इत्यादि प्रकरणम्। केन रूपेणेत्याह *प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा* तत्स्वरूपेति। प्रत्यष्टिः प्रत्यक्षम्, लिङ्गदर्शनात् सञ्जायमानं लैङ्गिकम्, स्मरणं स्मृतिः, ऋषीणआमिदं (ज्ञानम्?) आर्षमिति।
ननु शाब्दज्ञानस्यापि विद्यारूपत्वादिहानुपन्यासे किं प्रयोजनम्? विप्रतिपत्तिज्ञापनमिति। तथा हि, शाब्दमनुमानेऽन्तर्भवतीति केचित्, अन्ये तु प्रमाणान्तरमिति वैशेषिकाणां विप्रतिपत्तिस्तेनेहानभिधानम्। अत्र तु विद्याविभागपरेणापि वाक्येनोपसर्जनतया तज्जनकमपि सामग्र्यां प्रतिज्ञातमेव। प्राधान्येन तु करणव्युत्पत्तिद्वारेण प्त्यक्षादिविभागाभ्युपगमे विद्याविभागनिरूपणमुपसर्जनतया स्यात्, तत्तु न युक्तम्, बुद्धिभेदस्य पूर्वं प्रतिज्ञातस्येह निरूपणात्।
तत्राक्षमक्षं प्रतीत्योत्पद्यत इति प्रत्यक्षम्। अक्षाणीन्द्रियाणि घ्राणरसनचक्षुस्त्वक्‌छोत्रमनांसि षट्। तद्धि द्रव्यादिषु पदार्थेषूत्पद्यते। द्रव्ये तावत् त्रिविधे महत्यनेकद्रव्यवत्त्वोद्भूतरूपप्रकाशचतुष्टयसन्निकर्षाद् धर्मादिसामग्र्ये च स्वरूपालोचनमात्रम्।
तत्र प्रत्यक्षस्य निरूपणार्थमाह *अक्षमक्षं प्रतीत्योत्पद्यतइति प्रत्यक्षम्*। प्रतिगतमक्षं प्रत्यक्षमिति प्रादिसमासः, अन्यथाव्ययीभावसमासाभ्युपगमे प्रत्यक्षं रूपम्, प्रत्यक्षाः पुमासः, प्रत्यक्षा स्त्रीति लिङ्गभेदो वचनभेदश्च न स्यात्। अक्षमक्षमिति वीप्साविधानं सकलेन्द्रियावरोधार्थम्। अथाक्षमिति सामान्यशब्दात् सकलेन्द्रियावरोधो भवत्येव? न, सामान्यशब्दस्योभयथापि प्रवृत्तेः। तथाहिः `ब्राह्मणो न हन्तव्यः' इति सकलब्राह्मणापेक्षया प्रतिषेधः, `ब्राह्मणान् भोजय' इति ब्राह्मणविशेषापेक्षया नियोगः। तस्माद् व्याप्त्यर्थं वीप्साकरणमिति। अथ वीप्सासद्भावेऽपि व्याप्तिर्नोपलब्धा। यथा अन्तर्वेद्यां ग्रामः, ग्रामो रमणीयः, [रमणीयः] पुरुषः, पुरुषे गुणविशेष इति वीप्साकरणमत्र। सत्यम्, तथाप्यल्पसंख्यायोगिनि पदार्थे व्याप्तावेव वीप्सोपलब्धेति।
अन्ये तु द्वितीयाक्षपदमवधारणार्थमिति मन्यन्ते। अक्षमेव प्रतीत्य प्राप्य यदुत्पद्यते ज्ञानं तत्प्रत्यक्षम्। अथ ज्ञानस्यानुत्पन्नत्वाद् अक्षेण प्राप्तिर्नास्तीति कथमक्षं प्राप्योत्पद्यते? उपचारस्य विवक्षितत्वाददोषः। यथाहि, शिशुरयं मातरं भक्षयित्वोपजात इति। अतएवाक्षाश्रितं कार्यमिति, [तत्त्वेन] तजज्ञानमिति। इन्द्रियरूपादिश्चेन्द्रियाश्रितो न च ज्ञानमिति।
नन्वेवमपि संशयज्ञानञ्चाक्षं प्रतीत्योत्पद्यत इत्यतिप्रसङ्गः? तन्न, विद्यासामान्यलक्षणानुवृत्तिस्तु विशेषलक्षणेऽनुक्तेऽपि लभ्यत इति। वक्ष्यति च `य दवितथमव्यपदेश्यं ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणमिति। न वितथमवितथमित्यनेन विपर्ययसंशयज्ञानयोर्व्युदासः। वितथं हि संशयज्ञानं विपर्ययज्ञानञ्चेति।
अन्ये तु प्रतितन्त्रन्यायेन व्यवसायात्मकपदमनुवर्तनीयमिति मन्यन्ते। अव्यपदेश्यमिति, व्यपदेशः शब्दस्तस्येदं व्यपदेश्यम्, न व्यपदेश्यमव्यपदेश्यम् अशब्दजन्यं ज्ञानमिति। नन्वक्षं प्राप्य नोत्पद्यते शाब्दज्ञानमित्यनेनैव व्यवच्छिन्नम्? न, इन्द्रियसहकारिणा शब्देन यज्जन्यते तस्य व्यवच्छेदार्थत्वात्। तथाहि, अकृतसमयो रूपं पश्यन्नपि चक्षुषा रूपमिति न जानीते, रूपमिति शब्दोच्चारणानन्तरं प्रतिपद्यत इत्युभयजं ज्ञानम्।
ननु च शब्देन्द्रिययोरेकस्मिन्नेव काले व्यापारासम्भवादयुक्तमेतत्। तथाहि, मनसाधिष्ठितन्तु श्रोत्रं शब्दं गृह्णाति, पुनः क्रियाक्रमेण चक्षुषा सम्बन्धे सति रूपग्रहणम्। न च शब्दज्ञानस्यैतावत्‌कालमवस्थानं सम्भवतीति कथमुभयजं ज्ञानम्? अत्रैका श्रोत्रसम्बद्धे मनसि क्रियोत्पन्ना विभागमारभते, विभागाच्च यदैव संयोगस्य विनश्यत्ता तदैव शब्दज्ञानस्योत्पद्यमानता, ततः शब्दज्ञानस्योत्पादः, संयोगस्य विनाशः, उत्तरसंयोगस्योत्पद्यमानता ततो विषयसम्बद्धेन चलुषा सह संयोगस्योत्पादो रूपज्ञानस्योत्पद्यमानता, ततः स्वज्ञानसहायशब्दसहकारिणा चक्षुषा रूपज्ञानमुत्पद्यते इत्युभयजं ज्ञानम्।
यद् वा गृहीतस्य शब्दस्यार्थपरिच्छेदे व्यापार इत्ययं नियमो नावश्यं ग्रहणसहकारिणा इति, कालान्तरेणापि मनसश्चक्षुषा सम्बन्धे रूपशब्दस्य गृहीतत्वात् भत्येवोभयजं ज्ञानम्। कार्यसद्भावेन च कारणकल्पना क्रियते। तच्चेहोपलब्धमित्यनेन क्रमेणोत्पत्तिश्चिन्त्यते। तथा शब्देन व्यपदेशाच्चक्षुषा पश्यतापि रूपमिति मया न ज्ञातं रूपशब्दाच्च प्रतिपन्नमित्युभयजं ज्ञानम्। यदि शब्दस्य व्यापारादप्रत्यक्षं तर्हि इन्द्रियव्यापारान्न शाव्दमिति प्रमाणान्तरफलं स्यात्? नैतदेवम्, प्रत्यक्षलक्षणेऽव्यपदेश्यमिति विशेषणवच्छब्दलक्षणेऽनिन्द्रियजमिति विशेषणाश्रवणात् शब्दे सहकारिनियमा भावः। शाब्दं हि ज्ञानं शब्दादिन्द्रियसहकारिणः, तद्रहिताद् वा भवतु सर्वथा तज्जनकं शाब्दं प्रमाणं भवति।
अत्र चाक्षं प्रतीत्योत्पद्यते यज्ज्ञानं तत्प्रत्यक्षमिति वाक्ये विवरणवाक्येषु चतुष्टयादिसन्निकर्षाभिधानात् षोढा सम्बन्धो लभ्यत एव। स च संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवेतसमवायो, विशेषणविशेष्यभावश्येति।
नन्वेवमपीन्द्रियार्थसन्निकर्षपदेनैव व्यवच्छिन्नम्। अथेन्द्रियं मनोऽर्थश्चात्मा तत्सन्निकर्षाद् अनुमानादिज्ञानमपि भवतीति प्रत्यक्षफलं स्यात्? न, ज्ञानमात्रोत्पत्तावन्तःकरणस्येन्द्रियत्वानुपपत्तेः। करणत्वादिविशेषणस्यापरोक्षज्ञानजनकत्वमिन्द्रियलक्षणमित्युक्तम्। न चानुमानज्ञानमिन्द्रिग्राह्येऽर्थे भवतीति। तदेवमिन्द्रियं प्रतीत्यार्थे यदवितथमव्यपदेश्यं व्यवसायात्मकं ज्ञानमुत्पद्यते, तद्‌ यतो भवति तत् प्रत्यक्षमिति फलविशेषणपक्षः। एतानि त्वव्यभिचारित्वादीनि व्यवच्छेदकानि अतीतेऽपि विशेष्यज्ञाने बुद्धिसमारोपणाद् भवन्तीति।
सामग्रीविशेषणपक्षे तु न साक्षादव्यभिचारित्वादिविशेषणयोगः। अथाक्षमक्षं प्रतीत्योत्पद्यते सामग्री, तस्याः कारकसाकल्यरूपत्वात्। साकल्यन्तु चरमसहकारिप्राप्तावेव न पूर्वमित्युत्पद्यत एव। तथा ज्ञायतेऽनयेति ज्ञानमक्षाद्युपलक्षिता सामग्र्येव अव्यभिचारि, व्यवसायात्मिका, अव्यपदेश्यपदेन ज्ञानजनकत्वेन सामग्र्यास्तद् व्यपदेश इति सामग्रीविशेषणपक्षेऽपि विशेषणयोगः? सत्यम्, तथापि अव्यभिचारित्वादिविशेषणानि फलस्य, तद्द्वारेण तु सामग्र्या भवन्तीति परं फलविशेषणपक्षः।
स्वरूपविशेषणपक्षस्तु निरस्त एव, प्रमाणशब्दस्य करणार्थत्वात्। तथाहि, प्रमीयतेऽनेनेति प्रमाणम्, येन कर्तृकर्मविलक्षणेन प्रमा क्रियते। स्वरूपविशेषणपक्षे तु न जन्यजनकरूपतया प्रमाणस्य प्रामाण्यम्, किन्त्वव्यभिचारित्वादिधर्मोपेतत्वेनैव। तच्चातिव्यापकमव्यापकञ्च। तथा च परामर्शादिज्ञानस्याप्येवं रूपमस्ति, न च तस्य प्रत्यक्षत्वम्, अनुमितिजनकत्वेनानुमानत्वात्। साग्रूयास्तु प्रत्यक्षत्वेनाभिमतायाः प्रत्यक्षत्वं न लभ्यत इत्यव्याप्तिः।
सौगतानान्तु प्रमाणफलयोरव्यतिरेक इति तत्पक्षे स्वरूपविशेषणतैव घटते। तथा[हि], सौत्रान्तिकानामाकारः प्रमाणं प्रमेयोऽर्थः स्वसंवित् फलमिष्यत इति ज्ञानं स एव प्रमाणफलव्यवहारः कल्पनं वा। न चैतद् युक्तम्, क्रियाकरणयोरभेदानुपलब्धेः। न च बोधे विषयाकारः सम्भवतीत्युक्तम्, कथं तस्य प्रामाण्यम्? न च मेयरूपतया विषयपरिच्छेद्ये प्रामाण्यं युक्तम्, विषयस्यात्यन्तपरोक्षतया तेन सह प्रतिबन्धानुपलब्धेः। यदि चागृहीतप्रतिबन्धो व्यापारो विषयविशेषं गमयेत् अतिप्रसङ्गः स्यात्। तथा च रूपाकारस्य रूपवद् रसादिव्यवस्थापकत्वमपि स्यात्, उभयत्रापि प्रतिबन्धानुपलम्भस्याविशेषात्। न चाकारमात्रसंवेदनवादिनो विषयविशेषान्तरग्रहणम् आकारे सम्भवति, विषयस्यात्यन्तपरोक्षत्वेऽवस्थितस्य प्रतिसन्धातुरभावे च अन्वयव्यतिरेकयोरत्यन्तपरोक्षत्वात्।
परकीयञ्च प्रत्यक्षलक्षणं गुरुभिर्विस्तरेण निरस्तमिति नोक्तम्।
अक्षशब्दस्यानेकार्थत्वादाह *अक्षाणीन्द्रियाणि*। तानि तु*घ्राणरसनचक्षुस्त्वक्‌छ्रोत्रमनांसि* न कर्मेन्द्रियाणि पराभ्युपगतानि। निर्विषयज्ञानस्य प्रतिषेधेन स्मृतिव्यवच्छेदार्थमाह *तद्वि* प्रत्यक्षं यस्मात् *द्रव्यादिषु पदार्थेषूत्पद्यते* तस्मान्न निर्विषयमिति। अत्र च आदिशब्देन गुणकर्मसामान्यानि गृह्यन्ते। समवायोऽपीत्यन्ये।
अन्ये तु इन्द्रियस्यार्थेन सन्निकर्षप्रतिपादनार्थं `तद्धि द्रव्यादिषु पदार्थेषूत्पद्यते, प्रत्यक्षम्। तस्मादस्तीन्द्रियेण संयुक्तसमवायादिसम्बन्धः।
यतो वा द्रव्यादिषु पदार्थेषूत्पद्यते प्रत्यक्षमतो *द्रव्ये तावत्* व्याख्यायत इति। किं विशिष्टे? *त्रिविधे* तिस्रो विधा यस्य तत् तथोक्तं तस्मिन्। *महति* महत्त्वाधिकरणे *स्वरूपालोचनम्* निर्विकल्पकं ज्ञानमुत्पद्यते। कुतः? [*अनेकद्रव्यवत्त्वोद्भूतरूपप्रकाशचतुष्टयसन्निकर्षात्*] अनेकद्रव्य[त्वं? वत्त्वं] च [उद्‌भूत] रूपञ्च प्रकाशश्च चतुष्टयसन्निकर्षश्चेति तथोक्तस्तस्मात्। *धर्मादिसामग्र्ये च* इति। अनेकञ्च द्रव्यञ्चेत्यनेकद्रव्यं तद यस्यास्ति तत्, तद्वत् तस्य भावोऽनेकद्रव्यवत्त्वम्। रूपञ्चात्र रूपविशेषो विवक्षितः। तथा च सूत्रम् `महत्त्वादनेकद्रव्यवत्त्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम्' (वै. सू. 4।1।6) इति। अपरोक्षज्ञानसद्भावे सति समस्तं व्यस्तञ्चेदं प्रत्यक्षज्ञानस्य कारणं विवक्षितमित्युक्तं वाय्वधिकारे। चतुष्टयसन्निकर्षश्च आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति चतुष्टयसन्निकर्षस्तस्मात्। धर्मादिसामग्र्ये चेति आदिपदाद् दिक्कालादेर्ग्रहणमिति।
अथास्त्वेवं निर्विकल्पकज्ञानोत्पत्तिः। सद्भावे किं प्रमाणम्? सविकल्पकज्ञानोत्पत्तिरेव। अन्यथा हि विशिष्टार्थानुपलब्धौ विशिष्टस्य सङ्केतस्मरणस्यानुपपत्तेः सविकल्पकं ज्ञानं न स्यात्, तस्य तत्कार्यत्वात्। न च सङ्केतस्मरणमेव तस्य निमित्तम्, अक्षणिकत्वे सति अर्थस्य निर्विकल्पज्ञानोत्पत्ताविव सविकल्पकज्ञानोत्पत्तावन्वयव्यतिरेकाभ्यां व्यापारोपलब्धेरित्युक्तन्यायात्।
सामान्यविशेषद्रव्यगुणकर्मविशेषणापेक्षादात्ममनःसन्निकर्षात् प्रत्यक्षमुत्पद्यते सद्द्रव्यम्, पृथिवी विषाणी, शुक्लो गौर्गच्छतीति।
तदेवं निर्विकल्पकं प्रतिपाद्य सविकल्पकं विशेष्यज्ञानमाह *सामान्यविशेषद्रव्यगुणकर्मविशेषणापेक्षात्* इत्यादिना। सामान्यञ्च सामान्यविशेषश्च द्रव्यञ्च गुणश्च कर्म चेति तथोक्तानि। तान्येव विशेषणानि, तान्यपेक्षत इति तदपेक्षः समुच्चये। न केवलं स्वरूपालोचनमात्रमुक्तकारणेभ्यो निष्पद्यते, सामान्यादिविशेषणापेक्षञ्च तत एवोत्पद्यत इति।
ननु चतुष्टयसन्निकर्षस्यापवादं विना ऊर्ध्वं सर्वत्रानुवृत्तेरभ्युपगमाद् व्यर्थम् आत्ममनःसन्निकर्षस्याभिधानम्? न, अनन्तरज्ञानेऽप्यस्यासमवायिकारणत्वज्ञापनार्थत्वात्।
तत्र सदिति सत्ताविशेषणं द्रव्यमिति सामान्यम्, विशेषापेक्षं पृथिवीति, तथा विषाणीति द्रव्यविशेषणम्, शुक्ल इति गुणविशेषणापेक्षम्, गौरिति सामान्यविशेषविशेषणापेक्षम्, गच्छतीति क्रियाविशिष्टं ज्ञानमित्युदाहरणानि।
रूपरसगन्धस्पर्शेष्वनिकद्रव्यसमवायात् स्वगतविशेषात् स्वाश्रयसन्निकर्षान्नियतेन्द्रियनिमित्तमुत्पद्यते। शब्दस्य त्रयसन्निकर्षाच्छ्रोत्रसमवेतस्य तेनैवोपलब्धिः. संख्यापरिमाणपृथक्‌त्वसंयोगविभागपरत्वापरत्वस्नेहद्रत्ववेगकर्मणां प्रत्यक्षद्रव्यसमवायाच्चक्षुःस्पर्शनाभ्यां ग्रहणम्। बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां द्वयोरात्ममनसोः संयोगादुपलब्धिः।
गुणादिषु प्रत्यक्षमाह *रूपरसगन्धस्पर्शेषु* विएषयेषु अनेकद्रव्येण सह समवायात्। *स्वगतविशेषात्* च, यत् कृता क्वचिद् विषये तेषामुपलब्धिर्यदभावाच्चानुपलब्धिः स उद्भवसमाख्यातो रूपादिधर्मः सहकारिविशेषस्तस्मात्। *स्वाश्रयसन्निकर्षात्*च। स्वाश्रयेण द्रव्येण संयुक्तमिन्द्रियं तत्समवायात्, धर्मादिसामग्र्ये च सति प्रतिनियतेन्द्रियनिमित्तमुत्पद्यते ज्ञानम्। *शब्दस्य त्रयसन्निकर्षात्* इति। आत्मा मनसा संयुज्यते मन इन्द्रियेणेति त्रयस्य सन्निकर्षः। *श्रोत्रसमवेतस्य* इति। इन्द्रियार्थसन्निकर्षोऽप्युपदर्शित एव। तेनैव श्रोत्रेणोपलब्धिर्नेन्द्रियान्तरणेति।
अन्ये तु त्रयश्चासौ सन्निकर्षश्चेतीन्द्रियार्थसन्निकर्षोऽप्युपलभ्यते। तस्माच्छ्रोत्रसमवेतस्य तेनैवोपलब्धिरिति।
*संख्यापरिमाणपृथक्‌त्वसंयोगविभागपरत्वापरत्वस्नेहद्रवत्ववेगकर्मणाम्* ग्रहणम्। कुतः? *प्रत्यक्षद्रव्यसमवायाच्चक्षुःस्पर्शनाभ्याम्* रतत्समवायात् संख्यादीनां ग्रहणमिति। *बुद्धिसुखदुःखेच्छद्वेषप्रयत्नानां द्वयोरात्मनसोः* सन्निकर्षादुपलब्धिः। बुद्ध्यादयो हि आत्मनि समवेतास्तत्‌सम्बद्धेन मनसा गृह्यन्ते।
भावद्रव्यत्वगुणत्वकर्मत्वादीनामुपलभ्याधारसमवेतानामाश्रयग्राहकैरिन्द्रियैर्ग्रहणमित्येतदस्मदादीनां प्रत्यक्षम्।
सामान्ये प्रत्यक्षमाह [*भावद्रव्यत्वगुणत्वकर्मत्वादीनामुपलभ्याधारसमवेतानामाश्रयग्राहकैरिन्द्रियैर्ग्रहणम्*] भावश्च द्रव्यत्वञ्च कर्मत्वञ्च तथोक्तानि, तान्यादिर्येषामित्यादिपदेन पृथिवीत्वोत्‌क्षेपणत्वादीनां ग्रहणम्। उपलभ्यश्चासावाधारश्च, तत्समवेतानामाश्रयग्राहकैरिन्द्रियैर्ग्रहणम्। येनैवेन्द्रियेणाश्रयग्रहणं तेनैव तत्समवेतानां सत्तादीनां ग्रहणमिति। तथाहि, सत्ता द्रव्ये वर्तमाना संयुक्तसमवायेन चक्षुःस्पर्शनाभ्यामुपलभ्यते। गन्धरसरूपस्पर्शेषु समवेता घ्राणरसनचक्षुस्त्वगिन्द्रियैरुपलभ्यन्ते संयुक्तसमवेतसमवायेन। शब्दे तु समवेतसमवायाच्छ्रोत्रेण। सुखादि तु संयुक्तसमवेतसमवायान्मनसा गृह्यते। गुणत्वमप्येवम्। अतः सत्तायां गुणत्वे च सर्वेन्द्रियं ज्ञानमिति। द्रव्यत्वं संयुक्तसमवायेन चक्षुःस्पर्शनाभ्यामुपलभ्यते। कर्मत्वञ्च संयुक्तसमवेतसमवायात्। रूपत्वादावप्येवं ग्रहणम्। इत्येतदस्मदादीनां प्रत्यक्षम् *इत्युसंहारः।
अस्मद्‌विशिष्टानान्तु योगिनां युक्तानां योगजधर्मानुगृहीतेन मनसा स्वात्मान्तराकाशदिक्कालपरमाणुवायुमनस्सु तत्समवेतगुणकर्मसामान्यविशेषेषु समवाये चावितथं स्वरूपदर्शनमुत्पद्यते। वियुक्तानां पुनश्चतुष्टयसन्निकर्षाद् योगजधर्मानुग्रहसामर्थ्यात् सूक्ष्मव्यवहितविप्रकृष्टेषु प्रत्यक्षमुत्पद्यते।
तथास्मद्‌विशिष्टानां योगिनां केष्वर्थेषु कथञ्च प्रत्यक्षमुत्पद्यत इति व्याख्यायते। तत्र युक्तानां समाध्यवस्थानां योगजधर्मानुगृहीतेन तत्सहकारिणा मनसा अपरोक्षस्वरूपदर्शनं जन्यते। केष्वर्थेषु? स्वात्मा चात्मान्तरञ्चाकाशाञ्च दिक् च कालश्च वायुश्च परमाणवश्च मनश्चेति तथोक्तानि तेषु। तथा न परं स्वात्मादिषु संयुक्तेन मनसा योगिनामपरोक्षग्रहणं तत्समवेतेषु गुणकर्मसामान्यादिविशेषेषु संयुक्तसमवायेन, समवाये च संयुक्तविशेषणविशेष्यभावेन ग्रहणम्। अतएव समवायस्य पृथगभिधानं विभिन्नसन्निकर्षपरिच्छेद्यत्वात्। गुणकर्मसु परमाण्वादिगतेषु यत्सामान्यं तत्र संयुक्तसमवेतसमवायेन।
अथ योगी यदा स्वमन्तःकरणं गृह्णाति तदा किं करणम्? आत्ममनःसंयोगः, तस्मिन् मनःपरिच्छेद्ये मन एव करणमिति। परकीयेन च मनसा सूक्ष्मशरीरस्थं मनः प्रेर्यमभिसम्बन्धयति, तत्सम्बद्वञ्च तद्गृह्णादीति।
*वियुक्तानां पुनश्चतुष्टयसन्निकर्षात्* अस्मदादीनामिव प्रत्यक्षमुत्पद्यते ज्ञानम्। केष्वर्थेषु? सूक्ष्मव्यवहितविप्रकृष्टेषु* इति। सूक्ष्माः परमाणवो व्यवहिता नागभुवनादयो विप्रकृष्टा मेर्वादयस्तेष्वपरोक्षं ज्ञानम्। असमाध्यवस्थानां योगजधर्मानुग्रहसामर्थ्यात् तदुत्पद्यते, योगीन्द्रियाणां हि धर्मविशेषानुग्रहेण सर्वत्राप्रतिबन्धात्। चतुष्टयसन्निकर्षग्रहणमुदाहरणार्थम्, त्रयसन्निकर्षेणापि ग्रहणात्। तथा हि योगी ब्रह्मादिभाषितं योगजधर्मानुग्रहादप्रतिबध्यमानसन्तानन्यायेन श्रोत्रदेशमागतं गृह्णाति त्रयसन्निककर्षेण।
ननु सर्वमेतदसत्, योगिनां सद्भावे प्रमाणाभावाद्, बाधकोपपत्तेश्च। तथा च न योगी अतीन्द्रियार्थद्रष्टा प्राणित्वाद् अस्मदादिवत्। योगीन्द्रियाणि वा न सर्वविषयाणि इन्द्रियत्वाद् अस्मदादीन्द्रियवत्। नैतद् युक्तम्, स्वतन्त्रे योगिनामप्रसिद्धतया प्राणित्वादिहेतोराश्रयासिद्धत्वात्। अथ परव्याप्त्या परस्यानिष्टापादनमेतत्? तत्र यदि सम्यक् प्रमाणेन परप्रसिद्धिस्तेनैव बाध्यमानत्वादनुत्थानं तत्प्रतिषेधहेतूनाम्। न च कार्येणैव कारणस्य व्याघातः, तदन्तरेणापक्षधर्मतया तन्मूलस्य हेतोरप्रामाण्यप्रसङ्गात्। अथ प्रमाणं विनैव परेणाभ्युपगता योगिन इति प्रतिषिध्यन्ते। तर्हि प्रमाणाभावेनैव प्रमेयस्याप्रसिद्धेर्व्यर्थं तत्प्रतिषेधानुमानम्।
अस्ति च योगिनां सद्भावेऽनुमानम्। तथाहि, अस्मदादीनां प्रत्यक्षेणानुपलभ्यमानाः परमाण्वादयः कस्यचित्। प्रत्यक्षाः प्रमेयत्वाद् घटादिवदिति। पक्षीकृतेषु परमाण्वादिषु प्रमेयत्वस्य हेतोः सद्भावात् पक्षधर्मत्वम्। तथा कस्यचित् प्रत्यक्षेण साध्येन प्रमेयत्वस्य हेतोर्घटादौ व्याप्तेरुपलम्भः। न रचास्य प्रत्यक्षागमाभ्यामस्ति बाधा। नायं सत्प्रतिपक्ष इत्यव्यभिचारित्वाद् गमक एव।
सर्वञ्चानुमानं सामान्येन व्याप्तिग्रहणापेक्षं प्रवर्तमानं पक्षे विशेषं प्रसाधयतीत्यतः कस्यचित् प्रत्यक्षमेव परमाण्वादेः सामान्येन साध्यते। यस्य च प्रत्यक्षाः परमाण्वादयः सोऽस्मदादिविलक्षणो योगी।
तथा अभ्यासवशाद् बुद्धेस्तारतम्यमुपलभ्यमानं क्वचिद् विश्रान्तं तारतम्यशब्दवाच्यत्वादणुपरिमाणतारतम्यवत्। यत्र विश्रामस्तेऽस्मदादिविलक्षणा योगिनः इत्यनुमानस्य तु निर्दिष्टतायां योगिसद्भावसिद्धेः। शेषं वचनमात्रं न बाधकमित्युपेक्ष्यते।
तत्र सामान्यविशेषेषु स्वरूपालोचनमात्रं प्रत्यक्षं प्रमाणं, प्रमेया द्रव्यादयः पदार्थाः, प्रमाता आत्मा, प्रमितिर्द्रव्यादिविषयं ज्ञानम्। सामान्यविशेषज्ञानोत्पत्तावविभक्तमालोचनमात्रं प्रत्यक्षं प्रमाणम्, अस्मिन् नान्यत् प्रमाणान्तरमस्ति, अफलरूपत्वात्।
तदेवं योगिनामयोगिनाञ्च प्रत्यक्षं व्याख्याय शिष्यव्युत्पादनाय विप्रतिपत्तिनिरासार्थञ्च प्रमाणफलविभागं निरूपयति *तत्र सामान्यविशेषेषु स्वरूपालोचनमात्रम्* इत्यादिना। सामान्यविशेषेषु द्रव्यत्वगुणत्वकर्मत्वादिषु स्वरूपालोचनमात्रम्। आलोचितिरालोचनं निर्विकल्पकं ज्ञानम्। *प्रत्यक्षं प्रमाणम्* तदुपलक्षिता सामग्री प्रत्यक्षं प्रमाणमिति। मात्राभिधानात् ज्ञानान्तराभावं दर्शयति [*प्रमेयाः* इति।] प्रमीयन्त इति प्रमेयाः प्रमाणपरिच्छेद्या द्रव्यादयः पदार्थाः, प्रमिणोतीति प्रमाधारत्वात् प्रमाता आत्मा, प्रमितिः प्रमाणादिसाध्या प्रतीतिर्द्रव्यादिविषयं ज्ञानं फलम्। इत्येवमितरेतरव्यावृत्तलक्षणयोगित्वात् प्रमाणादयः परस्परं विभिन्ना इति तदभेदवादिनो निरस्ता भवन्ति।
अथ प्रमाणफलयोर्व्यतिरेकाभ्युपगमात् सामान्यविशेषेषु स्वरूपालोचनस्य प्रमारूपत्वादुत्पत्तौ किं प्रमाणमित्याह *सामान्यविशेषज्ञानोत्पत्तावविभक्तम्* विशेषणज्ञानशून्यम्, आलोच्यतेऽनेनेत्यालोचनमात्रम्। इन्द्रियार्थसन्निकर्षाद्युपलक्षितं कारकसामग्र्यं प्रत्यक्षं प्रमाणं, प्रमेयं सामान्यविशेषा इति। अथ तस्मिन्नपि स्वरूपालोचने कस्मान्न ज्ञानान्तरमिष्यत इत्याह न तस्मिन् स्वरूपालोचनेऽन्यत् प्रमाणान्तरं ज्ञानान्तरमस्तीति, अफलरूपत्वान्निष्प्रयोजनत्वादिति। तथाहि, विशेष्यज्ञानं विशेषणानुरक्तम्, अनय्थानुपपद्यमानं विशेषणज्ञानसत्तां दर्शयति। न चैवं विशेषणज्ञाने विशेषणानुरागोऽस्ति। ज्ञानान्तराभ्युपगमे चानवस्था स्यादिति विशेष्यज्ञानानुत्पत्तिरेव। दृष्टञ्च विशेष्यज्ञानम्, अतो न विशेषणज्ञाने ज्ञानान्तरमस्तीति।
अन्ये तु `सामान्यविशेषेषु स्वरूपालोचनमात्रम्' इति मात्राभिधानेन निराकारं प्रत्यक्षं प्रमाणफलमिति ब्रुवते। सामान्यविशेषाश्च द्रव्यादय एवानुगतव्यावृत्तज्ञानविययत्वादुपचारेण विवक्षिताः। अत्र हि ज्ञानविशेषस्याकारप्रतिषेधेऽन्यत्राकारभ्युपगमः स्यात्। शेषं पूर्ववत्। यथा ज्ञाने नाकारः सम्भवति तथोक्तं ज्ञान[कार]वाद प्रतिषेधावसरे।
अथवा इति प्रमाणफलविभागे प्रकारानत्रोपदर्शनम्, न तु विकल्पनार्थम्। हेयादिज्ञानोत्पत्तावपि द्रव्यादिज्ञानं प्रमाणमिति वाक्यार्थः। तदाह *सर्वेषु पदार्थेषु* द्रव्यादिषु, *यदवितथमव्यपदेश्यं ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणम्, प्रमेया द्रव्यादयः पदार्थाः, प्रमाता आत्मा, प्रमितिर्गुणदोषमाध्यस्थ्यदर्शनम्* इति। गुणदर्शनमुपादेयज्ञानम्, दोषदर्शनं हेयज्ञानम्, उपेक्षणीयज्ञानञ्च माध्यस्थ्यदर्शनमिति।
ननु द्रव्यादिज्ञानोत्पत्तावनेककालव्यवधानेनोपादेयादिज्ञानस्योत्पत्तेः कथं द्रव्यादिज्ञानफलत्वम्? पारम्पर्येणेति। तथाहि, द्रव्यत्वादिजातीयस्य पूर्वं सुखदुःखसाधनत्वोपलब्धेस्तज्ज्ञानानन्तरं यद् यद् द्रव्यत्वादिजातीयं तत्तत्‌ सुखसाधनमित्यविनाभावस्मरणम्, तथा चेदं द्रव्यत्वादिजातीयमिति परामर्शज्ञानम्, तस्मात् सुखसाधनमिति विनिश्चयः। तत उपादेयज्ञानम्, अतः पारम्पर्येण द्रव्यादिज्ञानफलत्वम्, समानञ्चैतद्धेयोपेक्षणीयज्ञानोत्पत्तावपीति।
अथोपादेयादिज्ञानस्य सुखसाधनत्वादिविनिश्चयाद् विषयभेदो वक्तव्यः। अन्यथा ह्यनुमानफलत्वमेव स्यात्, प्रत्यक्षफलत्वञ्च सुखदुःखादिसाधनत्वादिविनिश्चयानन्तरमिन्द्रियार्थसन्निकर्षेणोपादेयादिज्ञानस्योत्पत्तेः? सत्यम्, तथापि विषयभेदो विशेषणभेदात्। सुखादिसाधनत्वविशेषणं सुखसाधनादिज्ञानात्, तस्माच्चोपादेयादिज्ञानमिति।
लिङ्गदर्शनात् सञ्जायमानं लैङ्गिकम्।
प्रत्यक्षानन्तरमुद्देशवतो लैङ्गिकस्य लक्षणपरीक्षार्थमाह *लिङ्गदर्शनात् सञ्जायमानं लिङ्गिकम्* इति। यद्यपि लिङ्गदर्शनात् संस्कारो विपर्ययज्ञानं संशयज्ञानञ्च भवति तथापि विद्यासामान्यलक्षणानुवृत्तौ विशेषलक्षणस्याभिधानान्तातिप्रसङ्गः।
यद् वा अवितथं व्यवसायात्मकमव्यपदेश्यमिति विशेषणमिहाप्यनुवर्तनीयम्। अविनाभावसम्बन्धस्मरणन्तु विद्यारूपलिङ्गदर्शनात् सञ्जायते तद्व्यवच्छेदार्थं द्रव्यादिषूत्पद्यत इत्यनुवर्तनीयम्। तदेवं लिङ्गदर्शनाद् यदव्यभिचारित्वादिविशेषणं ज्ञानमनुमेये तद् यतः परामर्शज्ञानोपलक्षितात् कारकसमूहाद् भवति तल्लैङ्गिकमिति। परामर्शज्ञानं वा लिङ्गदर्शनाद् यथोक्तविशेषणज्ञानमुत्पद्यते साधकतमत्वापेक्षयानुमानम्।
लिङ्गं पुनः
यदनुमेयेन सम्बद्धं प्रसिद्धञ्च तदन्विते।
तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ।।
विपरीतमतो यत् स्यादेकेन द्वितयेन वा।
विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत् ।।
किं पुनर्लिङ्गमित्याह *लिङ्गं पुनः यदनुमेयेन सम्बद्धम्* इत्यादि। अनुमेयः पक्षः [प्रत्ययाद्यधर्म? प्रतिपिपादयिषितधर्म] विशिष्टो धर्मी तेन व्याप्त्या सम्बद्धम्। व्याप्तिस्तु विवरणवाक्यसहचरितपदाल्लभ्यते। अन्यथा हि पक्षैकदेशे वर्तमानस्यानुमेयेन साहचर्यं स्यात्। यथा नित्याः परमाणवो गन्धवत्त्वाद् अतोऽस्य व्यच्छेदः सहचरितपदेन।
अन्ये तु पुनरिति वीप्साभिधानस्य विवक्षितत्वाल्लिङ्गं पुनः पुनर्यदनुमेयेन सम्बद्धमिति पक्षे व्याप्तिर्लभ्यत इति ब्रूवते।
अनुमेयेन सम्बद्धमेवेत्यवधारणाद् भागासिद्धव्युदास इति चान्ये। तदसत्, यत एवकारकरणं ततोऽन्यत्रावधारणमिति न्यायाभ्युपगमेनानुमेयसम[धृतं ? व्याप्तं] स्यात्(न ?) लिङ्गम्। अनुमेयो हि लिङ्गं न जहातीति व्याप्त्या पक्षे सम्बन्धो ज्ञायते। लिङ्गस्य त्वनवधारणादन्यत्रापि वृत्तिर्ज्ञायत इति व्यर्थं तदन्विते प्रसिद्धमिति पदमवधारणार्थं क्रियते। तत्रापि तदन्विते प्रसिद्धमेवेत्यवधारणाभ्युपगमे सपक्षैकदेशवृत्तेरगमकत्वप्रसङ्गात्। अथ विपक्षवृत्तिप्रतिषेधार्थं तदन्वित एव प्रसिद्धमित्यवधार्यते। नन्वेवमनवधारणेनैव विपक्षाद् व्यावृत्तिसिद्धेः व्यर्थं `तदभावे च नास्त्येव' इति पदम्। तथानुमेयेनैव सम्बद्धमित्यवधारणं बाधितम्। अथ समुच्चीयमानावधारणमेतत्। तथाहि, पक्षे वृत्तौ सिद्धायां विपक्षादेव व्यवच्छेदार्थमवधारणम्; तथाप्यवधारणस्य विद्यमानज्ञापकत्वाद् विपक्षादत्यन्तं व्यावृत्तिस्ततोऽपि लभ्यत एति व्यर्थं `तदभावे च नास्त्येव' इति पदम्। तस्यापि विद्यमानज्ञापकत्वादिति। न चान्वयोपदर्शने सति व्यतिरेकाभिधानम्, व्यतिरेकाभिधाने त्वन्वयस्याप्रतिपादनम्, एकाभिधानेनापरस्यार्थादापन्नत्वात् स्वशब्देन पुनर्वचनं पुनरुक्तमेव स्यादित्येवंविधार्थकथनार्थम् `तत्रैव न्याय इति। तस्मादवधारणं विनैव प्रकारान्तरेण पक्षैकदेशवृत्तिव्युदासो वाच्यः।
येषान्तु सर्वं वाक्यं सावधारणमिति मतं तल्लक्षणए ह्येतद् दूषणमनिवार्यमूह्यम्। यथा,
`अनुमेयेऽथ तत्तुल्ये सद्भावोऽसति नास्तिता'
इति। अनुमेयः पक्षस्तत्र सद्भावः, तत्तुल्यः सपक्षस्तत्र चेति। अथशब्दः `च' शब्दस्थाने। असति विपक्षे नास्तिता व्यावृत्तिर्यस्य तल्लिङ्गमिति। विपक्षस्तु ततोऽन्यः, तद्‌विरुद्धस्तदभावो वा, त्रिविधोऽप्यसतीत्यनेनावरुद्धः, साध्याभावरूपतायाः सर्वत्र समानत्वात्। तत्रानुमेये एव सद्भाव इत्यवधारणेऽसाधारणस्य गमकत्वप्रसङ्गः। न चास्माद् भागासिद्धिव्युदासः, पदान्तरवैयर्थ्यञ्च। अथानुमेये सद्भाव एवेत्ययोगव्यवच्छेदः? तथापि सद्भावस्यानवधारणाल्लिङ्गस्यान्यत्रापि वृत्तिर्लभ्यत इति व्यर्थं `तत्तुल्ये सद्भावः' इति पदम्। अथावधारणार्थं क्रियते? तत्रापि तत्तुल्य एव सद्भाव इत्यवधारणे पूर्वोत्तरव्याघातः। अथ पक्षे वृत्तौ सिद्धायां विपक्षादेर्व्यवच्छेदार्थं[स]मुच्चीयमानावधारणमेतत्? तथापि `असति नास्तिता' इति न कार्यम्, अवधारणएन गतार्थत्वात्। न च तुल्ये सद्भाव एवेत्यवधारणं युक्तम्, सपक्षैकदेशवृत्तेरपि गमकत्वाभ्युपगमात्। अथ असत्येव नास्तीत्यवधारणार्थं पदम्? तथापि विपक्षैकदेशवृत्तेर्गमकत्वप्रसङ्गः, तस्य हि विपक्ष एव नास्तितेति। असति नास्त्येवेत्यवधारणम्? तथापि नास्तिताया विपक्षव्यतिरेकेणान्यत्रापि सद्भावो लभ्यत इत्यसाधारणादेर्गमकत्वप्रसङ्गः। तस्मत् सर्वं वाक्यं सावधारणमिति पक्षे दूषणमेतदनिवार्यम्।
विस्तरेण चावधारणपक्षोऽस्मद्गुरुभिर्निरस्त इति नेह प्रतन्यते।
अथास्तु अवधारणं विनैव सहचरितपदात् भागासिद्धिव्युदासस्तथाप्येतद्रूपं विरुद्धासाधारणयोरस्तीति तद्व्यवच्छेदार्थं `प्रसिद्धञ्च तदन्विते' इति। तेनानुमेयसमानधर्मेणान्वितो युक्तस्तस्मिन् तदन्विते प्रसिद्धम्। न चैवं विरुद्धासाधारणाविति। तथाप्यनैकान्तिकस्य पक्षधर्मत्वं सपक्षे सत्त्वञ्चास्तीति `तदभावे च नास्त्येव' इति पदम्। तस्य साध्यसमानधर्मस्याभावो यस्मिन् धर्मिणि तत्रात्यन्तं नास्त्येवेति। न चैवमनैकान्तिकम्।
नन्वेवमपि प्रकरणसमकालात्ययापदिष्टयोस्त्रैलक्षण्योपपत्तेर्गमकत्वप्रसङ्गः। तथा च अनुष्णस्तजोऽवयवी कृतकत्वात् घटवदिति सत्यपि त्रैलक्षण्ये प्रत्यक्षेणोष्णताग्राहिणा बाध्यमानत्वात् कालात्ययापदिष्टः। प्रकरणसमस्तावत् नित्यः शब्दः अनुपलभ्यमानानित्यधर्मकत्वात् आकाशादिवत्, अनित्यः शब्दः अनुपलभ्यमाननित्यधर्मकत्वात् घटवत्। अत्रापि त्रैलक्षण्यसद्भावेऽप्यगमकत्वं सत्प्रतिपक्षत्वात्। अतश्चानयोर्व्यवच्छेदार्थमबाधितविषयत्वमसत्प्रतिपक्षत्वञ्च समानतन्त्रगतमभ्यूह्यम्, `च' शब्दस्यानुक्तसमुच्चयार्थत्वात्।
अन्ये तु प्रतिज्ञादोषेण गतार्थत्वान्न कालात्ययापदिष्टो हेत्वाभासान्तरम्। तथा च नित्यानित्यविशेषानुपलब्धेरितरेतरवाद्यभिप्रायेण असिद्धेऽन्तर्भाव इति ब्रुवते। तच्चासत्, प्रतिज्ञादोषसदभावेऽपि हेतोर्दुष्टपक्षोपन्यासानन्तरमुपन्यासात् कालात्ययापदिष्टत्वमुच्यते। अथ बाधाविनाभावयोर्विरोधान्न प्रत्यक्षेण त्रिलक्षणस्य बाधा, अभ्युपगमे वा न त्रैलक्षण्यमिति, तन्न, तेजोऽवयविनोऽनुष्णत्वे साध्ये कृतकत्वस्य हेतोस्त्रैलक्षण्यसद्भावेऽपि पक्षेण विपरीतार्थोपस्थापनाद् बाधितविषयत्वेनाविनाभावस्यैवाप्रसिद्धेः। प्रत्यक्षव्यवस्थापितेन च वपुषा सर्वप्राणभृतामर्थक्रियाजनकोऽग्निर्न रूपान्तरेणेति स्वविषयसहकारि प्रत्यक्षम्, न चैवमनुमानमिति बाध्यते।
अथ दुष्टस्यैवानुमानस्य प्रत्यक्षेणैव बाधनाद् येन दोषोण दुष्टं तदेवास्तु दूषणमलं प्रत्यक्षबाधया। न, प्रत्यक्षेण दूषणस्यैव ज्ञापनात्। तथाहि, विपरीतार्थमुपस्थापयता प्रत्यक्षेणोपदर्शितं बाधितविषयमेतदनुमानमिति। अथ कार्यस्यानुष्णत्वे साध्ये तैजसपरमाणूनामुष्णानुष्णत्वे प्रमाणाभावात् सन्दिग्धव्यतिरेकित्वेन कृतकत्वस्यागमकत्वं न कालात्ययापदिष्टत्वादिति चेत्, नैतदेवम्, यो हि परमाणुषूष्णत्वमभ्युपगम्य तत्कार्येऽनुष्णत्वं प्रसाधयेत् तं प्रति व्यतिरेकनिश्चयोपपत्तेः। न च सन्दिग्धव्यतिरेकस्यापि उष्णपक्षोपन्यासानन्तरमभिधानात् कालात्ययापदिष्टत्वं विरुध्यते। न चायं नियमो यत्रैकं दूषणं तत्रान्यन्नास्तीति। यथानेकविशेषणासिद्धत्वादिहेतोरिति।
यच्चेदं तत्त्वानुपलब्धेरितरेतरवाद्यभिप्रायेणासिद्धत्वम् इत्युक्तम्, तदसत्, उभयोः सन्दिग्धत्वात्। तथाहि, सामान्योपलम्भादिसद्भावे सति विशेषानुपलम्भाद् वादिप्रतिवादिनोः पूर्वमुपजातः संशयः, तत्रैकः सन्दिग्धः परप्रतारणाभिप्रायेण संश[य?यितं]हेतुमेव धर्मिनिर्णयार्थमुपादत्ते, तथेतरोऽपि सन्दिग्धः। तदेवमुभयोः संशयान्नान्यतरस्यापि असिद्धतोद्भावने सामर्थ्यमिति। यदि चान्यतरोऽपि नित्यानित्यविशेषोपलम्भं प्रमाणेन ब्रूयात् तदा असिद्धत्वमेव न प्रकरणसमत्वमिति। न च सन्दिग्धावस्थायां विरुद्धाव्यभिचारिणः प्रयोग इति तस्माद् व्यतिरेकः? नापि विरुद्धाव्यभिचारी सम्भवतीति वक्ष्यामः।
तदेवमनयोर्व्यवच्छेदार्थम् अबाधितविषयत्वमसत्प्रतिपक्षितत्वञ्च रूपान्तरमभ्युपगन्तव्यम्। अन्यथा हि [प्रत्य ? त्र्य] वयवं वाक्यं स्यान्न पञ्चावयवम्, अवयवद्वयस्यैतद्व्यवच्छेदार्थपरत्वादिति।
नन्वेवमपि न्यूनं लक्षणवाक्यम्, केवलान्वयिनः केवलव्यतिरेकिणश्चाव्यापनादिति। अस्ति च तयोः साध्यसाधनत्वम्। तथा च यत्र सामान्यमेव साध्यं तत्र सामान्यमेव हेतुः। यथा अभिधेयो विशेषः प्रमेयत्वात् सामान्यवदिति। विशेषाणामभिधेयत्वे साध्येऽनभिधेयस्य वस्तुनोऽसम्भवाद् विफक्षाभावः। प्रमाणेन हि विपक्षमुपलभ्य तस्माद् व्यतिरेकं वचनेनोपपादयतस्तत्राभिधेयत्वप्रमेयत्वयोः प्राप्तेस्तस्य सपक्षत्वमेव स्यादिति न विपक्षाद् व्यतिरेकोऽस्तीत्यतोऽन्वयाव्यभिचारेणैव गमकत्वम्।
तथा जीवच्छरीरं निरात्मकं न भवति, अप्राणादिमत्त्वप्रसङ्गाद्, यद् यद् निरात्मकं तत्तदप्राणादिमद् यथा घटादि, न च तथा जीवच्छरीरम्, तस्मान्निरात्मकं न भवतीति, सर्वस्य निरात्मकत्वाभ्युपगमाज्जीवच्छरीरस्य नैरात्म्यप्रतिषेधे साध्ये न सपक्षोऽस्ति। प्राणादिमत्त्वञ्च विपक्षादेवात्यन्तव्यावृत्तम्, अतो व्यतिरेकाव्यभिचारेणैव गमकत्वम्। न चैवमसाधारणम्, तस्य विपक्षादिवत् सपक्षादपि व्यावृत्तेर्व्यभिचारेणागमकत्वात्। अथ नैरात्म्यप्रतिषेधेनात्र सात्मकत्वं विवक्षितम्, न चात्मा प्रसिद्ध इत्यप्रसिद्धविशेषणः पक्षः, तन्नैरात्म्येऽपि समानम्, अप्रसिद्धत्वादात्मनः कथं तत्प्रतिषेधः? न च कल्पनासमारोपितस्य प्रतिषेधः, वास्तवत्वेन प्रतिपादनात्। प्रत्यक्षादिप्रमाणैश्च आत्मा प्रतिपादकस्य प्रसिद्धस्तदपेक्षया न अप्रसिद्धविशेषणता पक्षदोषः। प्रतिपाद्यापेक्षया तु नैतद् दूषणम्, अप्रतिपन्नतत्त्वस्य प्रतिपाद्यत्वात्। सपक्षे तु अप्रसिद्धत्वं न व्यतिरेकिणो दूषणम्, तस्य व्यतिरेकाव्यभिचारेणैव गमकत्वात्। अयं सपक्षाभाव एव सपक्षस्तस्मिन्ननुवृत्तावन्वयोपपत्तिः, व्यावृत्तौ तु असाधारणत्वमेव। तदुक्तम्,
निवृत्तिर्यदि तस्मिन्न हेतोर्वृत्तिः किमिष्यते।
सापि न प्रतिषेधोऽयं निवृत्तिः किं निषिध्यते ।। (प्र. वा. 4।224) इति।
अस्यार्थः। तस्मिन् सपक्षाभावे हेतोर्यदि निवृत्तिर्नास्ति, वृत्तिः स्यात्, तद्व्यावृत्तिरूपत्वात्। वृत्तिप्रतिषेधे तु निवृत्तिरेव स्यादिति। न च विधिप्रतिषेधव्यतिरेकेणापरः शाब्दो व्यवहारः सम्भवतीति मूकताप्रसङ्गः। तदेतदसत्, पक्षाभावस्यापि साध्यानधिकरणत्वेन विपक्षत्वात्, तस्माच्च निवृत्तिरेव अप्राणादिमत्त्वादिति हेतोः।
न च कल्पनासमारोपितत्वात् पक्षादिव्यवस्थायाः कल्पिते सपक्षे हेतोर्वृत्तावन्वयव्यतिरेकित्वम्, व्यावृत्तौ त्वसाधारणत्वमिति दूषणम्, वास्तवत्वात् पक्षादिव्यवस्थायाः. कल्पितत्वे तु कथं हेतुतदाभासव्यवस्था, कल्पनायाः सर्वत्राविशेषात्। अथ घटादौ कं सात्मकत्वव्यावृत्त्या प्राणदिमत्त्वव्यावृत्तिरुत वस्तुस्वाभाव्यादिति सन्दिग्धो व्येतिरेकः। न च घटादौ सात्मकत्वस्य सदसत्त्वे प्रमाणमस्ति। नैतदेवम्, प्राणादिमत्त्वस्य कार्यविशेषस्याभावेन तत्कारणविशेषस्य सात्मकत्वस्य तत्र व्यावृत्तिप्रसिद्धेः। तथा हि, प्राणादिमति शरीरे प्राणाद्युत्पादनसमर्थात्मसम्बन्धविशेषः सात्मकत्वं साधयति, तदभावस्तु प्राणादिकार्याभावेनैव ज्ञायते घदादाविति।
नन्वेवं कार्यस्य कारणपूर्वकत्वेनोपल [म्भ ? ब्ध] त्वादन्वयोपपत्तेः कथं केवलव्यतिरेकित्वम्? न, कार्यविशेषेण कारणविशेषे साध्येऽन्वयाभावात्। जीवच्छरीरे हि प्राणाद्युत्पादनसमर्थात्मसम्बन्धविशेषः साध्यस्तेन चान्वयाभाव एव। यस्य तु सर्वं निरात्मकमिति पक्षः स कथं घटादौ (किं?) सात्मकत्वं व्यावृत्तं न वेति सन्देहं ब्रूयात्?
नापि बुद्ध्यादिनिवृत्तावेव प्राणादिनिवृत्तिर्घटादाविति वाच्यम्, आदिशब्देन सर्वेषामवरोधात्। तदुत्पादनसमर्थश्च आत्मसम्बन्धविशेषः साध्यस्तदभावे तु कथं बुद्ध्यादीनामुत्पत्तिः, जीवच्छरीरे कारणाभावेन कार्यस्याभावप्रसङ्गात्। क्षणिकत्वे च सति कार्यकारणभावः पूर्वं प्रतिषिद्ध इति न बोधाद् बुद्ध्यादीनामुत्पत्तिः। तदेवं प्राणादिकार्यविशेषः कारणविशेषे साध्ये व्यतिरेकाव्यभिचारेणैव गमक इति।
ननु शशविषाणादिवच्छरीरं प्राणादिमत्त्वेन साध्यं स्यादिति दूषणम्, तदभावायत्तव्यावृत्तेः प्रतिपत्तुमशक्यत्वादिति। प्राणाद्युत्पत्तौ च कारणत्वाभ्युपगमेन कार्यविशेषव्यावृत्त्या यदि कारणविशेषव्यावृत्तिरिष्यते संज्ञाभेदमात्रं स्यात्, विपर्यये तु स न स्यात् तदभावायत्तप्रतिपत्त्यभाव इत्यलम्।
नन्वेवं कथमनयोर्लक्षणवाक्येनावरोधः? वाक्यभेदेन। तथाहि, `यदनुमेयेन सम्बद्धं विपक्षाभावे च तदन्वित एव प्रसिद्धमिति केवलान्वयी, पक्षधर्मत्वे सति सपक्षाभावात् तदभाव एव नास्त्येवेति केवलव्यतिरेकी। सामान्यलक्षणन्तु सति साधने साध्यस्यावश्यम्भावनियमः, साध्यसाधनत्वमनुमापकत्वपदेनोक्तमिति। लिङ्गभासनिरूपणार्थमाह
*विपरीतमतो यत् स्यादेकेन द्वितयेन वा।
विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत् ।।* इति।
अत इत्युक्तरूपाल्लिङ्गाद् यद् विपरीतमेकेन धर्मेण धर्मद्वितयेन, `वा' शब्दात् त्रिभिश्चेति, तदलिङ्गं लिङ्गप्रतिरूपकमिति काश्यपोऽब्रवूत्। विरुद्धासिद्धसन्दिग्धमिति विशेषसंज्ञानिर्देशः। तत्र धर्मद्वयसद्भावेऽपि सन्दिग्धो न विपक्षाद् व्यावृत्त इत्येकेन धर्मण विपरीतः। विरुद्धस्तु पक्षधर्मत्वसद्भावेऽपि न सपक्षे वर्तते नापि विपक्षाद् व्यावृत्त इति धर्मद्वयेन विपरीतः। असिद्धस्त्वेकेन द्वाभ्यां त्रिभिश्च विपरीतो भवतीति।
तत्रं नित्यः शब्दः सामान्यवत्त्वे सति चाक्षुषत्वादित्येकेन विपरीतः। तथा च, अस्य सपक्षे घटादौ सद्भावेऽपि विपक्षाच्च सामान्यादेर्ब्यावृत्तावपि न पक्षधर्मत्वमस्तीति। तथा नित्यः शब्दोऽप्रमेयत्वादिति द्वितयेन विपरीतः, अप्रमेयत्वस्य हि विपक्षादेव व्यावृत्तिर्न सपक्षे सद्भावो नापि पक्ष इति। त्रिभिश्च विपरीतो यथा अनित्यः शब्दः अकार्यत्वादित्यस्य हि न शब्दे पक्षे सद्भावो न सपक्षे घटादौ नापि विपक्षाद् व्यावृत्तिरिति।
यदनुमेयेनार्थेन देशविशेषे कालविशेषे वा सहचरितम्, अनुमेयधर्मान्विते चान्यत्र सर्वस्मिन्नेकदेशे वा प्रसिद्धम्, अनुमेयविपरीते च सर्वस्मिन् प्रमाणतोऽसदेव तदप्रतिद्धार्थस्यानुमापकं लिङ्गं भवतीति।
पूर्वस्य सङ्ग्रहवाक्यस्य स्पष्टार्थं विवरणमाह *यदनुमेयेनार्थेन* इत्यादि। अनुमेयेन सम्बद्धमित्यस्य विवरणमनुमेयेनार्थेन परिच्छेद्यमानेन सहचरितमजहद्वृत्तीति। *देशविशेषे कालविशेषे वा* सर्वस्मिन् देशे सर्वस्मिंश्च काल इति। प्रसिद्धञ्च तदन्विते इत्यस्य विवरणम् *अनुमेयधर्मान्विते चान्यत्र सर्वस्मिन्नेकदेशे वा प्रसिद्धम्* इति। अनुमेयः पक्षस्तस्य धर्मस्तेन तत्समानधर्मेणान्वितो युक्तः सपक्षस्तस्मिन् सर्वत्रैकदेशे वा प्रसिद्ध इत्यादि नियमः। तदभावे च नास्त्येवेत्यस्य विवरणम् *अनुमेयविपरीते च सर्वस्मिन् प्रमाणतोऽसदेव* इति। अनुमेयविपरीतोऽनुमेयधर्मरहितो विपक्षस्तस्मिन् सर्वत्रासदेव, `प्रमाणतः' इति प्रमाणेन साध्यव्यावृत्त्या साधनव्यावृत्तिर्वाच्येत्युपदर्शयति। `अनुमापकम्' इत्यस्य विवरणम् यदेतदुक्तरूपं लिङ्गं *तदप्रसिद्धार्थस्यानुमापकम्* भवतीति।
यत्तु यथोक्तात् त्रिरूपाल्लिङ्गादेकेन धर्मेण द्वाभ्यां वा विपरीतं तदनुमेयस्याधिगमे लिङ्गं न भवतीत्येतदेवाह सूत्रकारः "अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः" इति।
द्वितीयस्य सङ्ग्रहवाक्यस्य विवरणम् यत्तु यथोक्तात् त्रिरूपाल्लिङ्गात्* इति। अबाधितविषयत्वात् सत्प्रतिपक्षत्वसहितादेकेन धर्मेण द्बाभ्यां वा धर्माभ्यां त्रिभिश्च विपरीतं तदनुमेयस्याधिगमे कर्त्तव्ये लिङ्गं न भवतीति। *एतदेवाह सूत्रकारः,* "अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्च" (वै. सू.)इति सूत्रितत्वोपदर्शनम्।
`अप्रसिद्धोऽनपदेशः' इति बुरुद्धावरोधः, तस्य सपक्षेऽप्रसिद्धत्वात्। `असन्' इत्यसिद्धः, तस्य हि पक्षधर्मत्वेनासत्त्वात्। `सन्दिग्धश्चानपदेशः' इत्यनैकान्तिकसङ्ग्रहः। कालात्ययापदिष्टप्रकरणसमयोश्चाप्रसिद्धपदेनैवावरोधः, तयोरबाधितविषयत्वासत्प्रतिपक्षत्वेनाप्रसिद्धत्वात्। समानतन्त्रन्यायेन वा सङ्ग्रहः।
विधिस्तु यत्र यत्र धूमस्तत्र तत्राग्निरग्न्यभावे च धूमोऽपि न भवतीति। एवं प्रसिद्धसमयस्यासन्दिग्धधूमदर्शनात् साहचर्यानुस्मरणात् तदनन्तरमग्न्यध्यवसायो भवतीति। एवं सर्वत्र देशकालाविनाभूतमितरस्यलिङ्गम्।
यथोक्तरूपं लिङ्गं नागृहीताविनाभावस्य गमकमित्यविनाभावस्वरूपोपदर्शनार्थम् *विधिस्तु यत्र यत्र धूमः* इत्यादि वाक्यम्। विधिर्व्याप्तिरविनाभाव इति।
अथ यदि सामान्ययोरविनाभावः सिद्धसाधनम्, अपास्तविशेषस्य सामान्यस्य सिद्धत्वात्, नियतदेशावच्छेदेन विशेषार्थिनां प्रवृत्तिनिवृत्त्योरभावप्रसङ्गः. न च विशेषयोरविनाभावः, तेषामानन्त्येनाप्रसिद्धेस्तदायत्तस्याविनाभावस्याप्रसिद्धेः। [मनुष्य ? अनुक्त] धर्माणाञ्च सर्व एव विशेषाः प्रतिपत्तुं न शक्यन्त इति यावतामुपलम्भस्तावत्स्वेवाविनाभावग्रहणे च नागृहीताविनाभावस्य विशेषान्तरस्योपलम्भादनुमानं स्यात्।
नैतद् दूषणम्, सामान्यवतोरविनाभावग्रहणाभ्युपगमात्। यद्यप्यग्निविशेषा धूमविशेषाश्चानन्त्येनावस्थितास्तथापि तेष्वेवावस्थितमग्नित्वं धूमत्वञ्च सामान्यम् उपग्राहकमस्तीति तदुपग्राहकवशाद् भूयोदर्शनबलादग्निधूमयोर्देशादिव्यभिचारेऽप्यनव्यभिचारग्रहणम्। तथाहि, प्रातर्मध्याह्नादिभेदेन कालस्य भेदे, समविषमादिभेदेन च देशभेदे धुमस्याग्निना साहचर्योपलब्धेर्दोशान्तरे कालान्तरे च धूमोऽग्निं विनापि भविष्यतीत्याशङ्का न स्यात्। अत एव न कुलालस्य रासभेन व्याप्तिग्रहणप्रसङ्गः, कालान्तरे च तेन विनाप्युपलम्भात्।
अन्ये तु व्याप्तिग्रहणकाले प्रतिपत्तुर्योगिन इव अशेषविषयं परिज्ञानमस्तीति ब्रुवते। अन्यथा हि सर्वो धूमोऽग्निं विना न भवतीति व्याप्तिस्मरणं न स्यात्। विवेकेन चाप्रतिभासः समानाभिव्याहारात्। यथा धान्यराशिनिक्षिप्ताया धान्यव्यक्तेरिति।
तदेवं `यत्र यत्र' इति वीप्सार्थस्य विवक्षितत्वात्* यत्र यत्र धूमस्तत्र तत्राग्निरग्न्यभावे च धूमोऽपि न भवतीत्येवं प्रसिद्धसमयस्य *गृहीताविनाभावस्य प्रतिपत्तुरसन्दिग्धधूमद्रशनानन्तरं साहचर्यानुस्मरणम् `यत्र यत्राहं धूममद्राक्षं तत्र तत्राग्निरस्तीति *साहचर्यानुस्मरणात्* तदनन्तरम् अग्निरध्यवसीयते अन्नेति* अग्न्यध्यवसायः* परामर्शज्ञानम्। तस्माच्चाग्निप्रतिपत्तिरिति।
अन्ये तु परामर्शज्ञानस्याभावमेव ब्रूवते। तच्चासत्, अविनाभावसम्बन्धस्मरणस्यानियतत्वान्नियतप्रदेशेऽग्निप्रतिपत्तिर्न स्यात्। उपनयवैयर्थ्यञ्च, उपनयार्थस्यानभ्युपगमात्। तस्माद् व्युत्पत्त्या उपचारेण वा `अग्न्यध्यवसायः' परामर्शज्ञानं व्याख्येयमिति।
अन्ये तु कार्यकारणभावात्, स्वभावाच्च नियामकादविनाभावग्रहणमिति मन्यन्ते। तच्चासत्। कार्यकारणभावेऽप्यवश्यं भूयोदर्शनबलादेवाविनाभावग्रहणमिति वाच्यम्। अन्यथा हि देशान्तरे कालान्तरे वा अग्निं विनापि धूमो भविष्यतीत्याशङ्का स्यात्। अभाग्निधूमयोः कार्यकारणभावावगतौ कथमग्निं विना धूमस्य सम्भव इत्याशङ्का, तस्य निर्हेतुकत्वप्रतिषेधेनावश्यं स्वकारणादेवोत्पत्तेरिति। सत्यमेतत्, यदि नाम सर्वो धूमोऽग्निकार्यं इति ज्ञानमपि भूयोदर्शनं विना न भवतीति तदभ्युपगन्तव्यम्।
न चाग्नेरसाधारणं कार्यं धूमः, तस्य धुमान्तरादप्युत्पत्त्यभ्युपगमात्। तथा हि गोपालघुटिकादिषु चिरनिवृत्ते वह्नौ धूमक्षणादेव धूमोत्पत्तिरिति कथम् अतत्‌कार्यस्य धूमस्योपलब्धेरग्न्यनुमानम्? अथाग्निकार्यस्योपलम्भादनुमानमिति चेत्, न, अग्निप्रतिपत्तिं विना धूमे तज्जन्यत्वविनिश्चयस्यायम्भवात्, प्रतिपत्तौ वा किमनुमानेन? धूमस्वरूपप्रतिपत्तिवच्चागृहीतानलस्य नारिकेलद्वीपवासिनो धूमेऽग्निजन्यत्वप्रतिपत्तिर्दृष्टा, तथा प्रयोगानुपपत्तेश्च। तथाहि, पर्वतस्याग्निमत्त्वे साध्ये कार्यत्वमनैकान्तिकमेव। अथ धूमस्याग्निमत्त्वं साध्येत? तत्रापि कार्यत्वमनैकान्तिकमेव। धूमत्वे सति कार्यत्वं हेतुः? तर्हि धूमत्वमेव समर्थमिति व्यर्थविशेष्यता हेतोर्दोषः। न चाग्निकार्यत्वं धूमस्याग्निसम्बन्धात्, पूर्वद्रव्यनिवृत्तावुत्पन्नपाकजैर्द्व्यणुकादिप्रक्रमेणोत्पत्तेरित्यलम्।
तथा वृक्षत्वशिंशपात्वयोर्न तादात्म्यप्रतिबन्धः [तथाच सति] साध्यसाधनभावानुपपत्तिप्रसङ्गात्। तथाहि, धर्मिण्युपलब्धे तत्तादात्म्यादुभयोरप्युपलम्भे कथं साध्यसाधनभावः? तदुपलम्भेऽप्यनुपलब्धौ तु तादात्म्यं न स्यादिति। अथ सामान्यविशेषवत्त्वादनुमानस्य समारोपव्यावृत्त्योर्गम्यगमकभावः? तत्र च तादात्म्यतदुत्पत्त्योरसम्भव एव। तादात्म्याभ्युपगमेऽपि न साध्यसाधनत्वमेकताप्रसङ्गादिति। तथा उभयोस्तादात्म्याविशेषेऽपि शिंशपात्वेन वृक्षत्वस्य प्रतिपत्तिवद् वृक्षत्वेन शिंशपात्वप्रतिपत्तिरपि स्यात्।
न च तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धाभ्युपगमे रूपदर्शनात्। स्पर्शानुमानम्, उदयादस्तमयप्रतिपत्तिः, कृत्तिकोदयाच्च रोहि[ण्य?ण्युदया] नुमानं (न) स्यात्, तादात्म्यतदुत्पत्त्यभावात्। अथ एकसामग्र्यधीनतया रूपात् स्पर्शानुमानम्? तदसत्, समानक्षणयोर्गम्यगमकभावोपलब्धेः। तथाहि, रूपक्षणात् समानकालः स्पर्शोऽनुमीयते न पूर्वः। तत्र चैकसामाग्र्यधीनत्वासम्भव एव। न च रूपस्पर्शयोः परस्परोत्पत्तौ कारणत्वे प्रमाणमस्ति, इतरान्वयस्येतरत्रानुपलब्धेरित्यलमतिप्रसङ्गेन।
*एवं सर्वत्र देशकालाविनाभूतमितरस्य* साध्यस्य, *लिङ्गम्* इत्युपसंहारः। देशाविनाभूतं यथा केदारगिरिमारोहतां कलकलाशब्दश्रवणादशनिपातानुमानमिति।
अथ अस्य सूत्रेणासङ्ग्रहः। तथा च सूत्रम् "अस्येदं कार्यं कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम्" (वै. सू.)। न च कलकलाशब्दोऽशनिपातकार्यः, तदन्तरेणापि स्वकारणादेवोत्पत्तेः। नापि कारणमशनिपातस्य, प्रतिबन्धकाभावविशिष्टगुरुत्वकार्यत्वात्। उभयोश्चाद्रव्यत्वान्न संयोगित्वम्। परस्परमेकस्मिन्नर्थे समवायाभावात् स्वात्मन्यनारम्भकत्वान्न समवायित्वम्। परस्परविरोधाभावाच्चाविरोधित्वमित्यर्थान्तरत्वम्।
अथ कार्यादेः कथं लिङ्गत्वम्? अविनाभूतत्वात्। तथाहि, कार्यं कारणपूर्वकत्वेनोपलम्भादुपलभ्यमानं सद् गमकम्। यथा हि विशिष्टनदीपूरोपलम्भाद् उपरिष्टाद् वृष्टो देव इति। तथा च बहुलस्वरूपफेनफेनिलपर्णकाष्ठादिवहनविशिष्टस्य नदीपूरस्य वृष्टिकार्यत्वेन पूर्वमुपलम्भात् पुनस्तदुपलम्भे सति युक्तमनुमानम् अयं नदीपूरः वृष्टिकार्यः विशिष्टनदीपूरत्वात् पूर्वोपलब्धनदीपूरवदिति। पूरस्तूभयतटव्यापकोदकसंयोगः, स पारम्पर्येण वृष्टिकार्य इति कारणमपि, कार्यजनकत्वेन पूर्वमुपलब्धेरुपलभ्यमानं तल्लिङ्गम्।
यथा च विशिष्टमेघोन्नतिर्वर्षकर्मण इति। अथ कारणस्यावश्यं कार्यजनकत्वेनानुपलम्भात्, कार्याणाञ्च अनियतात् कारणादुत्पत्तेर्व्यभिचारः। तथाहि, मेघोन्नतिसद्भावेऽप्येकदा वृष्टिर्न दृष्टा। कार्यञ्च अनियतात् कारणादुत्पद्यमानं दृष्टम्। कयथा वृश्चिकाद् वृश्चिको जायते, गोमयात्, सर्पच्चेति। एवमन्यत्राप्यनियतं कारणमभ्यूह्यम् इति कथं कार्यात् कारणविशेषप्रतिपत्तिः, कारणाच्च कार्यविशेषस्येति? नैतदेवम्, कारणविशेषस्य कार्यविशेषगमकत्वमित्यभ्युपगमात्। यस्तु विद्यमानमपि विशेषं नावबुध्यते तस्यापराधो नानुमानस्येत्यदोषः।
तथा धूमोऽग्नेः संयोगी, अथ संयोगस्योभयनिष्ठत्वाविशेषे कथमेकं नियमेन साधनमितरच्च साध्यमिति व्यवस्था? तदविनाभावेऽपि समानम्, तस्याप्युभयनिष्ठत्वात् कथमेषा व्यवस्था स्यात्? अथ यस्योपलम्भादनुमेये प्रतिपत्तिस्तदेव साधनं नान्यदिति चेत्, संयोगित्वेऽपि समानमेतत्। अविनाभूतस्यावानत्रविशेषनिरूपणात्।
समवायी चोष्णस्पर्शो वारिस्थं तेजो गमयतीति। विरोधी च यथा अहिर्विस्फूर्जनविशिष्टो नकुलादेर्लिङ्गमिति।
शास्त्रे कार्यादिग्रहणं निदर्शनार्थं कृतं नावधारणार्थम्। कस्मात्? व्यतिरेकदर्शनात्। तद् यथा अध्वर्थुरों श्रावयन् व्यवहितस्य होतुर्लिङ्गम्, चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च, शरदि जलप्रसादोऽगस्त्योदयस्येत्येवमाहि तत्सर्वम् `अस्येदम्' इति सम्बन्धमात्रवचनात् सिद्धम्।
अथ सूत्रे कार्यादिग्रहणमुदाहरणार्थमवधारणार्थं वेत्याह *शास्त्रे कार्यादिग्रहणं निदर्शनार्थं कृतं नावधारणार्थम्*। कथमेतज्‌ज्ञायते? *व्यतिरेकदर्शनात्*। *तद् यथा अध्वर्युरों श्रावयन् व्यवहितस्य होतुर्लिङ्गम्* इति। न च होतुरों श्रावयेति शब्दः कारणं कार्यं वा, अन्वयव्यतिरेकाभावात्। तथा च होतारं विनैवोपपत्तिः, होतुश्चानेन विनापीति। संयोगादिष्वप्यन्तर्भावानुपपत्तिः। स च यागभूमावेवास्याविनाभावो न च देशान्तरे इति। तथा चायमध्वर्युरपि दूरदेशेन होत्रा तद्वान् ओं श्रावयेति शब्दकर्तृत्वात्, पूर्वोपलब्धाध्वर्युवत्। *चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च* लिङ्गम्। समुद्रस्य च वृद्धिरवयवोपचयः, स च स्वावयवेभ्यो निष्पद्यते न चन्द्रोदयात्। कुमुदविकाशोऽप्यवयवानामारब्धकार्याणां परस्परं विभागो द्रव्यारम्भकसंयोगाविरोधिक्रियाकार्य इति। कारणञ्चात्राभिव्यङ्ग्यस्य जनकं विवक्षितं न प्रतिपत्तेः, सर्वेषां कारणभाव एवान्तर्भावप्रसङ्गात्। *शरदि जलप्रसादोऽगस्त्योदयस्य* लिङ्गम्। अस्यापि तत्कार्यादिष्व[न]न्तर्भावः। शरदि जलप्रसादोऽगस्त्योदयवान् जलप्रसादत्वात् पूर्वोपलब्धैवंविधजलप्रसादवत्। *इत्येवमादि* इत्यादिपदेनोपयादि[रुदयादेरस्तश्चा]स्यादे र्लिङ्गमित्यूह्यम्।
अथ कथमेषां सूत्रेण सङ्ग्रहस्तदाह *तत्सर्वम् `अस्येदम्' इति सम्बन्धमात्रवचनात् सिद्धम्*। तथाहि, इदमस्य गमकम्, `इदमस्य गम्यम्, इति सामान्येन सर्वलिङ्गपरिग्रहः। विशेषापेक्षया तु `इदमस्य कार्यं' कारणमित्यादि योज्यम्।
अन्ये त्ववधारणार्थमेतत् सूत्रमिति मन्यन्ते। `शास्त्रे कार्यादिग्रहणं निदर्शनार्थम्' इति वाक्यमन्यथा व्याख्यायन्ते। तथाहि, तदुक्तं परैः `व्यतिरेकदर्शनाच्छास्त्रे कार्यादिग्रहणं निदर्शनार्थं कृतमिति ज्ञायते' इत्येतन्न, किन्त्ववधारणार्थं सर्वेषामत्रैवान्तर्भावेन व्यतिरेकदर्शनस्यासिद्धत्वात्। तथा च होतपि सन्निहितेऽध्वर्युरों श्रावयेति शब्दमुच्चारयति यागभूमौ, न तेन विनापि, इति कथं न तस्य कारणत्वम्? एवं चन्द्रोदयोऽपि समुद्रवृद्धेः कारणमन्वयव्यतिरेकवत्त्वात्, तथा च तेन सता जलनिधएर्वृद्धिर्न तदभाव इति कार्येण मेघपटलान्तरितश्चन्द्रोऽनुमीयते। गृहीतव्याप्तिकस्य देशान्तरेऽपि चन्द्रोदयोपलम्भादम्भोनिधेर्वृद्ध्यनुमानम्। एवं कुमुदविकाशेऽपीति। यद् वा रश्मिद्वारेण संयोगित्वमेव। तथा अगस्त्योदयोऽपि जलप्रसादस्य कारणम् संयोगि वा रश्मिद्वारेणेति।
पक्षद्वये च गुणदोषनिरूपणं स्वत एव कार्यं परीक्षकैरिति।
तत्तु द्विविधम्, दृष्टं सामान्यतो दृष्टञ्च। तत्र दृष्टं प्रसिद्धसाध्ययोर्जात्यभेदेऽनुमानम्। यथा गव्येव सास्नामात्रमुपलभ्य देशानत्रेऽपि सास्नामात्रदर्शनाद् गवि प्रतिपत्तिः। प्रसिद्धसाध्ययोरत्यन्तजातिभेदे लिङ्गानुमेयधर्मसामान्यानुवृत्तितोऽनुमानं सामान्यतो दृष्टम्। यथा कर्षकवणिग्राजपुरुषाणाञ्च प्रवृत्तेः फलवत्त्वमुपलभ्य वर्णाश्रमिणामपि दृष्टं प्रयोजनमनुदिश्य प्रवर्तमानानां फलानुमानमिति।
भेदमाह *तत्* अनुमानम्। *द्विविधम्*। केन रूपेण? *दृष्टं सामान्यतो दृष्टञ्च* इति। *तत्र दृष्टं प्रसिद्धसाध्ययोर्जात्यभेदेऽनुमानम्* प्रसिद्धश्च साध्यश्चेति प्रसिद्धसाध्यौ, तयोः प्रसिद्धसाध्ययोर्दृष्टान्तदार्ष्टान्तिकयोर्जात्यभेदे सति यदनुमानं तद् दृष्टम्। कयथा हि साध्यधर्मो दृष्टान्तधऱ्मिणि प्रत्यक्षार्हस्तथा दार्ष्टान्तिकेऽपीति साध्यधर्माभेदो न तु जातेः सामान्यस्य। तथाहि, ब्राह्मणकर्तृकं चित्रादिकार्यं प्रतिपद्य पुनः क्षत्त्रियादिकर्तृकस्याप्युपलम्भात् केनचित् कर्त्रा सम्पादितमेतत्, चित्रादिकार्यत्वात् पूर्वोपलब्धैवंविधचित्रादिकार्यवदित्यनुमानं जातेः सामान्यस्य भेदेऽपि दृष्टमेव, साध्यधर्मस्यानुमानात् पूर्व ऊर्ध्वञ्च प्रत्यक्षग्रहणार्थत्वात्।
अन्ये तु प्रसिद्धौ च तौ साध्यौ चेति प्रसिद्धसाध्याविति समासं कुर्वते। तत्र दृष्टान्तधऱ्मी प्रसिद्धत्वात् साध्यो न भवति, दार्ष्टान्तिकश्च न प्रसिद्ध इति कथमेतत्? उपचारस्य विवक्षितत्वाददोषः। तथा हि, दृष्टान्तधर्मा साध्यसामानधर्माधिकरणत्वादुपचारेण साध्यः, दार्ष्टान्तिकस्त्वनुमानादूर्ध्वं प्रसिद्धिं यास्यतीति पूर्वमपि प्रसिद्धः। शेषं पूर्ववदिति।
अस्योदाहरणं यथा गव्येव सास्नामुपलभ्य पुनर्देशान्तरे गोपिण्डव्यवधानेऽपि सास्नादर्शनाद् गवि प्रतिपत्तिः गौरियं सास्नावत्त्वात् पूरवोपलब्धसास्नादिवदिति।
सामान्यतो दृष्टञ्च *प्रसिद्धसाध्ययोः* दृष्टान्तदार्ष्टान्तिकयोरत्यन्तं सर्वथा जातिभेदे साध्यधर्मभेदेऽनुमानम्। तथा च साध्यधऱ्मोऽनुमानात् पूर्वमूर्ध्वञ्च सर्वदा अप्रसिद्ध एवेति। अथ साध्यधर्मस्य भेदेऽविनाभावस्यैवाप्रसिद्धेः कथमनुमानमित्याह* लिङ्गानुमेयधर्मसामान्यानुवृत्तितः* इति। लिङ्गञ्च अनुमेयधर्मश्च तयोः सामान्येनानुवृत्तिः, यत्र यत्रेदं साधनसामान्यम्, तत्र तत्रेदं साध्यसामान्यमिति, तद्ग्रहणेऽनुमानं प्रवर्तत एव। यथा कर्षकवणिग् राजपुरुषाणां प्रवृत्तेरभिप्रेतफलत्वेन फलवत्त्वमुपलभ्य, वर्णाश्रमिणामपि, किं विशिष्टानाम्? दृष्टं भिक्षालाभादिकं प्रयोजनमनुद्दिश्य प्रवर्तमानानामभिप्रेतफलानुमानम्। तथाहि, वर्णाश्रमिणआञ्च प्रवृत्तिः अभिप्रेतफलेन फलवती प्रेक्षापूर्वकारिप्रवृत्तित्वात् कर्षकादिप्रवृत्तिवत्।
न च दृष्टप्रयोजनापेक्षया सिद्धसाधनमिनि दूषणम्, दृष्टं प्रयोजनमनुद्दिश्येति पक्षविशेषणेन निरस्तत्वात्। ये तु दृष्टमेवोद्दिश्य प्रवर्तते न ते पक्षीक्रियन्त इति। नाप्यदृष्टफलेन फलवत्त्वं साध्यते येन दृष्टान्तः साध्यविकलो हेतुश्च विरुद्धः स्यात्। किं तर्हि? सामान्येनाभिप्रेतफलेन फलवत्त्वं साध्यते, तच्च कर्षकादिप्रवृत्तावस्त्येवेति न दृष्टान्तस्य साध्यविकलत्वं विरुद्धत्वं वा हेतोर्दोषः।
सर्वानुमानेषु समानञ्च विशेषविरुद्धानुमानमित्यनुमानमात्रस्योच्छेदप्रसङ्गः। अथेष्यत एवानुमानस्याप्रामाण्यम्। तथा च सामान्ये सिद्धसाधनं विशेषेऽनुगमाभावः. धर्मिणोश्च समुदाये साध्ये न हेतोः पक्षधर्मत्वम्, न चान्वयः समुदायस्यान्यत्रावृत्तेः। अथ समुदायैकदेशेऽपि वर्तमानः समुदाये वर्तत इत्युपचर्यते, तर्हि प्रमाणस्य गौणत्वाद् अनुमानार्थनिश्चयो दुर्लभः। तथाहि, प्रमाणं प्रत्यक्षम्, गौणम् अनुमानम्, (वा) उपचरितपक्षधर्मापेक्षित्वात्। गौणमित्यप्रमाणम्। धर्मस्यापि साध्यत्वेऽन्वयसद्भावेऽपि न पक्षधर्मत्वं समुदायस्यान्यत्र। अथ प्रतिपाद्यमानधर्मविशिष्टो धर्मीसाध्यः? तेन चान्वयाभाव एवेति सर्वमनुमानमप्रमाणम्।
तदेतदसत्, प्रतिपाद्यधर्मविशिष्टस्य धर्मिणः साध्यत्वे पक्षधर्मत्वोपपत्तेः, अन्वयस्तु साध्यसमानधर्मेण। नहि एकत्र देशे हेतोर्वृत्तिः व्यतिरेकस्तु तदभावे व्यावृत्तिरिति। लिङ्गोपलम्भाच्च साध्यधर्मिणि प्रतिपत्तेर्दृष्टत्वाद् इत्थम्भूतान्वयपरिकल्पना क्रियते। अनभ्युपगमे [वा?च] व्यभिचारिज्ञानमेव न स्यात्, तत्तु दृष्टमिति विशेषः। विरुद्धेन तुनियतविशेषप्रतिषेधेविशेषान्तरोपगमः स्यात्। समस्तविशेषप्रतिषेधे तु तन्नियतस्य सामान्यस्याप्यसिद्धिः। साधनसामान्यव्यापकं वा अवश्यं [साध्य] सामान्यं सिध्यतीति। अतः [साध्य] सामान्यस्यैव आक्षिप्रविशेषस्यैव अनुमानात् प्रसिद्धेर्वर्णाश्रमिणां फलन्तु अदृष्टं विशेषातीतमेव सिध्यतीति।
तत्र लिङ्गदर्शनं प्रमाणम् अनुमेयं ज्ञानं फलम् प्रमेयोऽग्निः, प्रमाता आत्मा। अथवा अग्निज्ञानमेव प्रमाणं प्रमितिरग्नौ गुणदोषमाध्यस्थ्यदर्शनम्, इत्येतत् स्वनिश्चयार्थमनुमानम्।
शिष्यव्युत्पादनाय प्रमाणफलविभागं दर्शयति *तत्र लङ्गिदर्शनं प्रमाणम्, अनुमेयं ज्ञानं फलम्, प्रमेयोऽग्निः प्रमाता, आत्मा* इति। ननु लिङ्गदर्शनं व्यधिकरणत्वात् कथमग्निज्ञानोत्पत्तौ प्रमाणम्? व्यापारापेक्षया तद्विषयत्वात्। यथा हि धूमज्ञानं धूमविषयम् आत्मलाभापेक्षया, तथा अग्निप्रतिपत्तौ व्यापारापेक्षया अग्निविषयमपीति। स्वावयवसमवेतस्य चक्षुषः समुत्पादे व्यापारापेक्षया रूपविषयत्वमिवेति।
नन्वेवमेकस्मिन् विषये व्यापारापेक्षया करणादिव्यवस्थानुपपत्तिः? विभिन्नलक्षणयोगित्वेन तद्भावात्। तथाहि, प्रमाधारत्वं प्रमातुर्लक्षणमुक्तम्, एवं प्रमितेर्विषयः प्रमेयम्, तद्व्यतिरिक्तञ्च प्रमाजनकं प्रमाणम्, तत्साध्यञ्च फलमित्येवं लक्षणभेदादेषां भेद इति।
*अथवा* इति प्रमाणफलविभागे प्रकारान्तरमाह *अग्निज्ञानमेव प्रमाणं प्रमितिरग्नौ गुणदोषमाध्यस्थ्यदर्शनम्* इति। अग्निज्ञाने सत्यविनाभावसम्बन्धस्मरणात् परामर्शज्ञानात् सुखसाधनत्वावबोधे सति उपादेयज्ञानम्, दुःखसाधनत्वावबोधे च हेयज्ञानम्, यस्य नेदं सुखसाधनं नापि दुःखसाधनम् इत्येवं बोधस्तस्योपेक्षणीयज्ञानमिति। अग्निज्ञानफलत्वञ्चोपादेयादिज्ञानस्य पारम्पर्येणेति पूर्ववद् वाच्यम्।
*इत्येतत् स्वनिश्चयार्थमनुमानम्* इत्युपसंहारः परार्थानुमानसंसूचकः।
शब्दादीनामप्यनुमानेऽन्तर्भावः समानविधित्वात्। यथा प्रसिद्धसमयस्यासन्दिग्धलिङ्गदर्शनप्रसिद्ध्यनुस्मरणाभ्यामतीन्द्रियेऽर्थे भवत्यनुमानमेवं शब्दादिभ्योऽपीति। श्रुतिस्मृतिलक्षणोऽप्यम्नायो वक्तृप्रामाण्यापेक्षः, तद्वचनादाम्नायप्रामाण्यम् लिङ्गाच्चानित्यो बुद्धिपूर्वा वाक्यकृतिर्वेदे बुद्धिपूर्वो ददातिरित्युक्तत्वात्।
अथेदानीं प्रमाणविभागस्य न्यूनतापरिहाराय तत्सामान्यलक्षणस्य व्यभिचारिपरिहारार्थं *शब्दादीनामप्यनुमानेऽन्तर्भावः* इत्यादि प्रकरणम्। ननु पूर्वमन्येषामनुमानेऽन्तर्भावस्यानुक्तत्वात् `अपि' शब्दवैयर्थ्यम्? न, अनुमानपदेनाभिसम्बन्धात्। न परं प्रत्यक्ष एव अनुमानेऽप्यन्तर्भाव इति। प्रमाणविभागश्च विद्याविभागपरेणापि वाक्येन पूर्वमुपदर्शित एव। तत्र च शब्दादीनामपि प्रमाणानां सद्भावादनुपपन्नोऽयमित्याशङ्का, तद्व्युदासार्थमन्तर्भावप्रकरणम्। तथा शब्दादेः कारकजातस्यानुमानसामग्र्यमन्तर्भावे तत्फलस्यापि फलेऽन्तर्भावो ज्ञायत एव।
तत्र शब्द आदौ येषां तानि तथोक्तानि, अतस्तेषामनुमानेऽन्तर्भावो लक्षणैक्यमिति तद्गुणसंविज्ञानबहुव्रीह्यभ्युपगमे शब्दस्याप्यनुमानेऽन्तर्भावः। अतद्गुणसंविज्ञाने शब्दं विना अपरेषामिति।
अन्तर्भावव्यवहारे च *समानविधित्वात्* समानलक्षणयोगित्वादिति हेतूपन्यासः कथं साध्यान्न विशिष्यते? लक्षणैकत्वस्य तद्व्यवहारादन्यत्वात्। समानो विधिरुपायो लक्षणं येषां तानि तथोक्तानि, तेषां भावस्तत्त्वं तस्मादिति। तदेवाह *यथा [प्रसिद्धसमयस्यासन्दिग्ध] लिङ्गदर्शनप्रसिद्ध्यनुस्मरणाभ्याम् अतीन्द्रियेऽर्थे भवत्यनुमानमेवं शब्दादिभ्योऽपीति*। यथा हि गृहीतसम्बन्धस्य लिङ्गदर्शनानन्तरम् अविनाभावसम्बन्धस्मरणं ताभ्यामतीन्द्रियेऽर्थे परिच्छेद्ये भवत्यनुमानम्। अनुमीयतेऽनेनेति परामर्शज्ञानमेवोपचारेण व्युत्पत्त्या वा, तद् विवक्षितम्। `एवं शब्दादिभ्योऽपीति' दार्ष्टान्तिकव्याख्यानम्।
अन्ये तु परामर्शज्ञानस्यासत्त्वमेवेति मन्यन्ते। तच्चासत्, अविनाभावसम्बन्धस्मरणस्य अनियतत्वान्नियतदेशे प्रतिपत्तिर्न स्यात्, उपनयवैयर्थ्यञ्चेत्युक्तमतः पूर्वमेव न्याय्यम्।
अत्र तद्गुणसंविज्ञानपक्षे शब्दस्याप्यनुमानेऽन्तर्भावः। तथा च शब्दश्रवणात् समयानुस्मरणे सति परामर्शज्ञानं तस्मात् परोक्षार्थप्रतिपत्तिरिति। अयं गोशब्दः ककुदादिमदर्थवान् गोशब्दत्वात् पूर्वोपलब्धैवंविधगोशब्दवदिति, सम्बन्धावगमेनार्थप्रतिपादकत्वाच्च धूमवत्।
तदेतदसत्, गोशब्दस्य ककुदादिमदर्थवत्तायाः प्रतिपादयितुमशक्यत्वात्। तथाहि, शब्दस्यार्थेन अन्यसम्बन्धाभावाद् वाच्यवाचकत्वेनार्थप्रतिपादकत्वे साध्ये गोशब्दत्वमहेतुः, प्रतिपादकत्वस्य प्रतिपत्त्यवसेयत्वात्, स्वाभाविकसम्बन्धानुपपत्तेश्च। धूमो हि स्वाभाविकसम्बन्धेन सर्वप्राणभृतामनुमेयार्थप्रतिपादकः, न चैवं शब्दः, पुरुषेच्छासम्पादितसमयापेक्षस्यार्थप्रतिपादकत्वात्। स्वाभाविकसम्बन्धे हि विनापि सङ्केतं म्लेच्छादिशब्दश्रवणाद् अर्थप्रतिपत्तिः स्यात्। सङ्केतापेक्षस्य तु अर्थप्रतिपादकत्वे स एवास्तु, अलं नित्यसम्बन्धेनेति। न च नित्यसम्बन्धाभावेऽतिप्रसङ्गः, नैमित्तिकशब्दानां द्रव्यत्वादिनिमित्तसद्भावे सत्येव सङ्केतात्, यादृच्छिकशब्दानान्तु पुरुषेच्छा[नु] विधानादिति। यत्र च विशिष्टानुपूर्वीमत्त्वसद्भावस्तदेव नियमेन वाचकम्, इतरच्च वाच्यमिति व्यवस्था सङ्केतज्ञानस्योभयनिष्ठत्वाविशेषादिति।
शङ्केतस्तु शब्दाद् वृद्धव्यवहारतश्च प्रतीयते। तथाहि, `इदमस्य वाचकम्', `इदामस्य वाच्यम्' इति वाक्यात् सङ्केतप्रतिपत्तिः। वृद्धर्व्यवहाराद् यथा `देवदत्त ! गामभ्याज शुक्लां दण्डेन' इति प्रयोगाद् अव्युत्पन्नोऽन्वयव्यतिरेकाभ्यां देवदत्तादिशब्देषु सङ्केतं प्रतिपद्यते। वृद्धव्यवहर्तॄणामपि सङ्केतप्रतिपत्तिरन्यतो व्यवहारादित्यनादित्वं परिहारः। यद् वा आदिपुरुषः साक्षाद्द्रष्टा केषाञ्चित् सङ्केतकर्ता अस्तीति। वाक्यरूपस्तु शब्दोऽर्थप्रतिपत्तौ समयमपि नापेक्षत इति सम्बन्धबलेनार्थप्रतिपादकत्वमसिद्धम्।
न च शब्दस्यानुमानत्वमेव निषिध्यते, विवक्षाकाश[? योर]धिगमे लिङ्गत्वात्। यथाहि, आकाशाधिगमे सर्वः शब्दोऽनुमानम्, विवक्षाकार्यस्तु विवक्षाधिगमेऽपीति। न च शब्दज्ञानवल्लैङ्गिकज्ञानमाप्तोक्तत्वमपेक्षते। तथाहि, शब्दज्ञाने किमिदं सम्यङ्‌मिथ्या वेति संशयोत्पत्तावाप्तोक्तमनाप्तोक्तं [चा? वा]न्वीक्षते, लैङ्गिकन्तु पक्षधर्मत्वादिकमिति व्यतिरेकः।
तदाह *श्रुतिस्मृतिलक्षणोऽप्याम्नायो वक्तृप्रामाण्यापेक्षः* इइ। न च परं लौकिकः शब्दो वक्तृप्रामाण्यमपेक्षते श्रुतिस्मृतिलक्षणोऽपीति।
ननु वक्तृप्रामाण्येनाम्नायप्रामाण्याभ्युपगमे बहूनामन्योऽन्याश्रयत्वं स्यात्। तथाहि, अर्थप्राप्त्या आप्तोक्तत्वं शब्दे निश्चीयते निश्चयाच्चार्थावबोधे सति प्रवर्तमानस्यार्थप्राप्तिरिति। तथा पौरुषेये वचसि सत्यासत्यत्वोपलब्धेर्वेदेऽपि पुरुषानुप्रवेशे तदाशङ्कायामप्रामाण्यमेव स्यात्। न च साक्षादतीनद्रियार्थद्रष्टा पुरुषः सम्भवतीति कथं तद्वाचकानि वचांसि तत्पूर्वकानीति?
यदि चान्यस्माद् वेदवाक्यादर्थं प्रतिपद्य वचनरचनां कुर्यात्, तस्यापि नित्यत्वेन किञ्चिद् बाधितं स्यात्, अनित्यत्वे तु तत्कर्तुरप्यन्यस्माद् वाक्यादर्थावबोध इत्यनवस्था स्यात्। न चानित्यत्वं वेदवाक्यानां प्रमाणप्रसिदधमिति कथं वक्तृविशेषापेक्षं प्रामाण्यम्?
अर्थप्रतिपत्तौ च शब्दस्य स्वाभिधाशक्तिबलेनैव व्यापारो नाप्तोक्तत्वमपेक्षमाणस्येति। सा च तस्य स्वात्मभूतैव, न पश्चात् परेण सम्पाद्यत इति स्वत एव प्रामाण्यम्। न चाप्तोक्तत्वं शक्यते प्रतिपत्तुं प्रति[पक्षा? बन्धा] देरविषयत्वात्। अप्रामाण्यन्तु दुष्टपुरुषप्रणीतत्वापेक्षमिति परतः।
तथा सर्वप्रमाणानामपि प्रामाण्ये न परापेक्षिता सम्भवति, स्वकारणएभ्योऽर्थावबोधस्वरूपाणामुत्पत्तेः। यदि चाविद्यमानमर्थपरिच्छेदकत्वं परिनिष्पन्ने विज्ञाने कारकान्तरादुत्पद्यते, प्रतिपद्येमहि परतः प्रामाण्यम्, न चैतदस्तीत्याह,
स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम्।
न हि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते ।। (श्लो. वा. 2।76)
न च ज्ञानस्यार्थपरिच्छेदकत्वं कारणगुणपूर्वकम्, इन्द्रियेषु तदभावात्, तदाह,
व्यापारः कारकाणां हि दृष्टो जन्मातिरेकतः।
प्रमाणेऽपि तथा मा भूदिति जन्म विवक्ष्यते ।। (श्लो. वा. पृ. 151)
यथा हीन्द्रियाणां जन्मव्यतिरेकणापरो व्यापारो नैवं ज्ञानस्य, अनन्तरमेव फलसम्पादकत्वात्। दृष्टञ्च परेणापि विशेषणादिज्ञानस्य विशेष्यादिज्ञानजन्मनि प्रामाण्यमिति। अथोपजातमपि ज्ञानं न कारकपरिशुद्धेर्बोधं विना अर्थपरिच्छेदकत्वभाक्? तर्हि तत्रापि कारकपरिशुद्धिग्रहणं वाच्यमित्यनवस्था। तदाह,
जातेऽपि यदि विज्ञाने तावन्नार्थोऽवधार्यते।
यावत् कारणशुद्धत्वं न प्रमाणान्तरागतम् ।। (श्लो. वा. पृ. 60)
तत्र ज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात्।
यावद्धि न परिच्छिन्ना शुद्धिस्तावदसत् समा ।। (श्लो. वा. पृ. 60)
तस्यापि कारणे शुद्धे तज्‌ज्ञानस्य प्रमाणता।
तस्याप्येवमितीत्त्थञ्च न कश्चिद् व्यवतिष्ठते ।। (श्लो. वा. पृ. 61)
अथ विद्यमानमपि प्रमाणस्य प्रामाण्यं न प्रमाणान्तरसंवाद विना प्रमाणव्यवहारकारणम्? तर्हि प्रमाणपरम्परायामुपक्षीणशक्तेर्विवक्षितज्ञाने प्रमाणव्यवहारो न स्यात्। तदाह,
सम्मत्या यदि चेष्येत पूर्वपूर्वप्रमाणता।
प्रमाणान्तरमिच्छन्तो न व्यवस्थां लभेमहि ।। (श्लो. वा. पृ. 68)
यदि च कस्यचित् स्वत एव प्रामाण्यमिष्येत परम्, आद्यस्यैवास्तु इत्याह,
कस्यचित्तु यदीष्येत स्वत एव प्रमाणता।
प्रथमस्य तथाभावे प्रद्वेषः किं निबन्धनः ।।
(श्लो. वा. पृ. 69)
प्रथमोत्तरयोः परस्परापेक्षं प्रामाण्यमित्यभ्यपगमे चेतरेतराश्रयत्वं स्यात्। अतः स्वत एव प्रामाण्यम् अप्रामाण्यन्तु परतः। तथाहि, लौकिकानामेव शब्दानामप्रामाण्यम्, पुरुषदोषानुप्रवेशात्, वैदिकानान्तु तदभावादप्रामाण्यशङ्कैव नास्तीति।
अथेन्द्रियाणां काचकामलादिदोषवशादप्रामाण्यं न स्वरूपतः। तथाहि, काचकामलादिदोषसद्भावे सति मिथ्याज्ञानजनकत्वं न तदभाव इति।
ज्ञाप्तौ चावबोधकत्वेन मिथ्यामतेरौत्सर्गिकमानत्वं न निवृत्तमिति बाधकप्रत्ययान्मिथ्यात्वावगतौ व्यावर्तते। न चास्मत्पक्षे शुक्तिकाज्ञानेनापि [अ] शुक्तिकाज्ञानस्य बाधायामनवस्था, कारकशुद्धिग्रहणपरम्परा वेति वाच्यम्, अवबोधकत्वेनोत्सर्गिकस्य प्रमाणत्वस्य दोष[?] दर्शनमात्रेणैव [व ? नव] स्थानात्। तदाह,
यदा स्वतः प्रमाणत्वं तदान्यं नैव मृग्यते।
निवर्तते च मिथ्यात्वं दोषज्ञानादयत्नतः ।। (श्लो. वा. पृ. 61)
दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका।
एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः ।। (श्लो. वा. पृ. 64)
इत्यनवस्थापरिहारः।
तदेतत् सर्वमविदितार्थम्, सर्वप्रमाणानामुत्पत्तौ ज्ञप्तौ च परापेक्षितोपलब्धेः। तथाहि आप्तोक्तत्वमपेक्षमाणः शब्दोऽर्थे सम्यग् ज्ञानमुपजनयति, न तदन्तरेणेति दृष्टम्। यच्च बहूनामन्योन्याश्रयत्वमुक्तम्, तन्न युक्तम्, आप्तोक्तत्वस्यागृह्यमाणस्यैव शब्दसहकारित्वाभ्युपगमात्। अर्थप्राप्तौ च प्रमाणान्तरेण पश्चात् तद्ग्रहणमिष्यत एव। तथाहि, लौकिकशब्दानामर्थप्राप्त्याप्तोक्तत्वं निश्चीयते। प्रत्यक्षेणापि गृह्यत इत्यन्ये। तथा च श्रोत्रव्यापाराद् वाक्यश्रवणे सति चाणक्योक्तं कालिदासोक्तञ्चैतदित्यबाध्यमानः प्रत्ययो दृष्टः, वैदिकवाक्यानान्तु प्रधानार्थेषु अविसंवादादाप्तोक्तत्वनिश्चयः।
यदि पौरुषेये वचसि द्वैविध्योपलब्धेर्वेदेऽपि पुरुषानुप्रवेशेऽप्रामाण्यशह्का स्यादिति दूषणम्, तन्न, तत्कर्तुर्दोषाभावात्। तथाहि, यस्य रागादिदोषोऽस्ति, तद्वचनमेवाप्रमाणमित्युपलब्धम्, वेदकर्तुश्च तत्सद्भावे प्रमाणाभावः। साक्षादतीन्द्रियार्थद्रष्टा पुरुषः सम्भवतीत्युक्तमधस्तात्। अतः `तद्वचनादाम्नायस्य (वेदराशेः?) प्रामाण्यम्' इति सूत्रकारेणोक्तम्।
अथ शब्दस्यानित्यत्वे सत्याप्तोक्तत्वेन प्रामाण्यं स्यात्, तत्तु नास्तीत्याशङ्क्याह *लिङ्गाच्चानित्य [ः शब्दः]* (वे. सू.) इति। परं प्रत्यक्षेणोच्चारणात् प्राग् ऊर्ध्वञ्चानुपलम्भादनित्यः शब्द इति प्रतीयते, लिङ्गाच्चेति, तत्तु वक्ष्यामः शब्दपरीक्षायाम्। वेदानाञ्चानित्यत्वेऽनुमानम्, अनित्यानि वेदवाक्यानि वाक्यत्वादुभयाभिमतवाक्यवत्। तथा *बुद्धिपूर्वा वाक्यकृतिः* वाक्यरचना, वेदे [बुद्धिपूर्वा] वाक्यरचनात्वाद् उभयाभिमतवाक्यरचनावत्। यच्चेदं वेदरचनायाः सर्वदा अन्यथात्वोपलम्भादिति वैधर्म्येण प्रत्यवस्थानम्, तत् सर्वानुमानेषु समानमिति। एवं (वेदे?) *बुद्धिपूर्वो ददातिः* [वेदे बुद्धिपूर्वो ददातिशब्दः ददातीत्युक्तत्वाद् उभयाभिमतददातीतिशब्दवत्।
या चेयं पुरुषानुप्रवेशे सत्यप्रामाण्यशङ्का, सा नित्यत्वेऽपि न निवर्तते, श्रोतुः पुरुषस्य तत्राप्यनुप्रवेशात्, तद्वैगुण्येन चाप्रामाण्योपलब्धेः। तथाहि, श्रोतुरप्रतिभादेर्मित्याज्ञानोत्पत्तौ कारण [त्वं] तदभावश्च सम्यग् ज्ञानोत्पत्तावित्युपलब्धमेव। न च नितय्त्वं वेदानाम् एकान्तेन प्रामाण्यहेतुः, तद्भावेऽपि श्रोत्रान्तःकरणयोः प्रतिपत्तृदोषानुप्रवेशेन क्वचिदप्रामाण्यात्।
स्वाभिधाशक्तिबलेनैव शब्दस्य प्रामाण्यमित्यभ्युपगमे च अङ्गुल्यग्रे करिणस्तिष्ठन्तीत्येवमादेरप्रामाण्यं न स्यात्। अथानाप्तप्रणीतत्वेन विसंवादादप्रामाण्यमेषाम्? तर्हि यदाप्तप्रणीतम्, तदेव प्रमाणमिति प्राप्तम्। यथा हि पुरुषगतस्य रागादेरप्रामाण्येऽन्वयव्यतिरेकाभ्यां व्यापारस्तथा तद्गुणादेः प्रामाण्येऽपीत्युभयं परतः।
अभिधानस्य च वर्ण [त्वा ?] नुपूर्वीसङ्केतव्यतिरेकेण अतीन्द्रिया शक्तिर्न विद्यते, तस्याः पूर्वमेव प्रतिषेधात्, वर्णत्वादिसद्भावे च कार्यकरणात्, स च परत एव प्रतिनियतजातिसम्बन्धस्यादृष्टकार्यत्वात्। सङ्केतस्याप्यन्यत् कारणमुक्तमिति।
यत्तु साक्षाद्दर्शनादिः पुरुषस्य रागादिविनाशे व्याप्तियते न ज्ञानोत्पत्तावित्युक्तम्, तदसत्, सम्यग्ज्ञानोत्पत्तावन्वयव्यतिरेकोपपत्तेः। यथार्थद्रष्टा तच्छिष्याणामुपदेष्टा चेति समुदितमाप्तलक्षणं यथार्थोपदेशे हेतुस्तदन्तरेणानुपदेशात्। यदि चान्वयव्यतिरेकवतोऽपि यथार्थदर्शित्वादे रागादिविनाश एव व्यापारः? तर्हि रागादेरप्येतद्‌विनाशकत्वमेवेत्युभयं परतः स्यात्। तस्माद् रागादेरप्रामाण्योत्पत्ताविव यथार्थोपलम्भादेरपि सम्यग्ज्ञानोत्पत्तौ व्यापारोऽभ्युपगन्तव्यः।
तथेन्द्रियाणआमपि काचकामलादिदोषसद्भावे [ऽपि ?] मिथ्याज्ञानमेव तदभावे सम्यग्ज्ञानजननादुभयं परतः। परेणाप्यभावस्य कारणत्वमनेकधेष्टम्। यथा सदुपलम्भकप्रमाणपञ्चकव्यावृत्तेर्मानसज्ञानोत्पत्तौ पक्षधर्मताद्यनतमापाये च लिङ्गस्य मिथ्याज्ञानोत्पत्तावित्यादि। अथ काचकामलादेर्दोषस्य मिथ्याज्ञानोत्पत्तौ कारणतोपलब्धेः, तदभावे तस्यैवानुपलब्धिर्न सम्यग्ज्ञानमिति चेत्, न, अन्वयव्यतिरेकवतोऽकारणत्वेऽतिप्रसङ्गात् [यदि ? तथा] च दोषाभावेऽन्वयव्यतिरेकवानपि न सम्यग्ज्ञानोत्पत्तौ कारणं, तत्सद्भावेऽपि न मिथ्याज्ञानोत्पत्तावित्युभयं स्वतः स्यात्। सर्गश्चेन्द्रियाणामुभयरूपस्य कार्यस्योपलब्धेरुभयार्थमिति ज्ञायेत।
ननु दोषसद्भावे सति इन्द्रियं मिथ्याज्ञानं जनयति, तदभावे च सम्यग् ज्ञानमित्यभ्युपगमाद् उभयाभावे च उभयविकलं विज्ञानं कुर्यादित्येतदचोद्यम्, उभयविकलस्येन्द्रियस्यासम्भवात्। यथा हि पूर्वमसतां दोषाणामुत्पत्तिरूर्ध्वञ्च प्रध्वंस इति नास्त्युभयविकलमिन्द्रियम्। न चोभयविशेषविकलं ज्ञानत्वसामान्यं सम्भवति, सामान्यवतो विशेषयोगात्। यथा गोत्वसामान्याधारस्य शावलेयादिर्विशेष इति।
यच्चेदं न कारणगुणपूर्वंक परिच्छेदकत्वं तदिष्यत एव, अनुभवज्ञानस्येन्द्रियादुत्पन्नस्यार्थपरिच्छित्तिरूपत्वात्। तज्जनकञ्चेन्द्रियादिकारकं कारकान्तरापेक्षञ्चेति परतः प्रामाण्यम्। कारकसामग्र्यन्तु न पश्चाद्‌भाविनिमित्तमपेक्षत इति। तदपेक्षया तूभयं स्वत इति न मिथ्याज्ञानं परतः स्यात्।
अथ ज्ञातृव्यापारो ज्ञानं तच्च अर्थपरिच्छेदेऽनपेक्षमिति स्वतः? नन्मिथ्याज्ञानेऽपि समानम्। अथ मिथ्याज्ञानं दोषमपेक्षते? तर्हि सम्यग् ज्ञानमपि तदभावाद्यपेक्षत इति। न च ज्ञातृव्यापारः सम्भाव्यते, अर्थप्रतिपत्तेरन्यथाभावात्। तथा हि सर्वं कारकं चरमसहकारिसद्भावे सति कार्यं करोतीति न तस्मादन्यो व्यापारः, सद्भावेऽपि नित्यतायां सर्वकार्योत्पत्तिप्रसह्गस्तस्यानपेक्षकारणत्वाभ्युपगमात्। अनित्यत्वे तु तदुत्पत्तावपि निर्व्यापारस्य कारणत्वायोगादन्यो व्यापारस्तदुत्पत्तावप्यन्य इत्यनवस्था स्यात्। चरमसहकारिरूपे तु व्यापारे नायं दोषस्तत् सद्भावे कार्यकरणं न तदभाव इति।
यच्चेदं कारकशुद्धेर्ग्रहणापेक्षितायां दूषणम्, तदपास्तम्, अनभ्युपगमे नेति। अथ प्रमाणस्य प्रामाण्यं विनैव प्रमाणं विज्ञायत इति, तदसत्, सर्वस्य प्रमेयस्य प्रमाणपरिच्छेद्यत्वोपलब्धेः। तथा च प्रामाण्यं प्रमाणपरिच्छेद्यं प्रमेयत्वाद् घटादिवत्। न चानवस्था, सर्वत्रावश्यं प्रामाण्यग्रहणानभ्युपगमात्। यत्र हि ज्ञानोदये सति किमिदं सम्यङ्‌मिथ्या वेति संशयोत्पत्तिस्तत्रैव प्रमाणान्तरापेक्षा, अर्थप्राप्तिपर्यन्तव्यवहारसम्भवे वा अपेक्षाविनिवृत्तेर्नानवस्थादिदोषः।
यदि च ज्ञानधऱ्मत्वात् प्रामाण्यस्य स्वसंवेद्यत्वमिष्येत, अप्रामाण्यमप्येवं स्यादिति कथं परतः? तथा मिथ्याज्ञानोत्पादे न प्रवर्तते मिथ्यात्वस्य प्रतिपन्नत्वात्, सम्यग्ज्ञानोत्पत्तौ च सम्यक्ताध्यवसाये किमिदं सम्यङ् मिथ्या वेति संशयाद्यभावः।
यच्चेदम् अवबोधकत्वेन प्रमाणस्य प्रामाण्यं दोषादर्शनमात्रेणैवावतिष्ठत इत्युक्तम्, तत्र यदि दोषादर्शनदोषज्ञानानुत्पत्तिर्न तया प्रामाण्यं ज्ञाप्यते, नापि क्रियत इति कथमनिश्चितस्थितेरवस्थानवचनम्? अथ दोषदर्शनस्य बाधकप्रत्ययस्य मिथ्यात्वज्ञापकत्वमिव तदभावज्ञानस्य प्रामाण्यज्ञापकत्वमिष्येत, तर्हि तस्यापि प्रामाण्यमन्यस्माद् विज्ञायत इत्यनवस्था स्यात्। अथ ज्ञानोत्पत्तौ संशयं विना न सर्वत्र प्रामाण्यग्रहणापेक्षेति परिहारः? तर्हि न स्वतः प्रामाण्यम्, उत्पत्तौ ज्ञप्तौ च परापेक्षित्वाभ्युपगमात्।
अथ इन्द्रियादिकारकेषु विद्यमानं सम्यक्त्वं न कारणगुणप्रक्रमेण ज्ञानेषूत्पद्यत इति स्वतः? तदप्रामाण्येऽपि समानम्। तत्रापि हि विपर्ययादिरूपता न इन्द्रिया[दिषु]विद्यमाना जायत इति।
बोधात्मकप्रमाणापेक्षया तु स्वतः प्रामाण्यं विवक्षितमित्यभ्युपगमस्य चोदनाया वक्तृविशेषापेक्षं प्रामाण्यमित्यभ्युपगमेनाविरोधाद् अविवाद एव स्यात्, अस्य हि समर्थनार्थम् अन्यप्रमाणानां परतः प्रामाण्योपदर्शनात्। न च चोदनायाः स्वतः प्रामाण्याभ्युपगमे, चोदनाजनितं ज्ञानं प्रमाणम्, दोषवर्जितैः कारकैर्जन्यमानत्वात्, लिङ्गात् प्रत्यक्षबुद्धिवदिति परीक्षार्थं प्रयासो घटते। अथ अपरेषां व्यामोहव्यावर्तनद्वारेण सम्यग्ज्ञानसम्पादनार्थं परीक्षावाक्यम्? तज्जनितज्ञानेऽपि व्यामोहे सति अन्या परीक्षा स्यादित्यनवस्था। सा चोक्तन्यायेनैव परिह्रियत इति कथं न परतः प्रमाणस्य प्रामाण्यमुत्पद्यते ज्ञायते वेति।
शेषञ्चात्र दूषणप्रतिसमाधानम् अस्मद्गुरुभिर्विस्तरेणाभिहितमिति नेहोक्तम्। अतः शब्दस्याप्तोक्तत्वेन प्रामाण्यान्नानुमानेऽन्तर्भावः।
अथ शब्दानामर्थेन प्रतिबन्धाभावाद् अप्रामाण्यमेव। तथा च दृश्यविकल्प्यावर्थावेकीकृत्य तत्समारोपेण श्रोतुः प्रवृत्तिनिवृत्ती इत्युक्तम्। योऽयं विकल्पगत आकारः, स एव बाह्योऽर्थ इति मन्यमानः प्रतिपत्ता प्रवर्तते, न बाह्यार्थप्रतिपत्तौ अर्थदर्शने सति विवक्षाक्रमेण, शब्दोत्पत्तिकालेऽर्थस्य क्षणिकत्वेनातिक्रान्तत्वात्।
प्रत्यक्षानुमानविषय[स्या ?ा]तिरिक्त[ा?]विषयाभावाच्च, न शब्दः प्रमाणान्तरम्। तथा हि स्वलक्षणविषयं प्रत्यक्षं सामान्यविषयमनुमानम्। प्रमेयद्वैविध्यात् प्रमाणद्वैविध्यमिति कथं शब्दोऽर्थान्तरत्वे सति प्रमाणम्?
यदि चेन्द्रियेण समानविषयः शब्दो भवेदन्धानन्धयोरविशेषः स्यात्।
तदाह,
अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः।
शब्दात् प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते ।।
अन्यदेव रूपादिस्वलक्षणमिन्द्रियग्राह्यम्, तस्मादन्यः शब्दस्य गोचरोऽपोह [विषय] इति गृह्यताम्। यतः शब्दात् प्रत्येति भिन्नाक्षः प्रध्वस्तनयतः, न तु प्रत्यक्षं यथा भवति तथेक्षते। समानविषयत्वे वा अनन्धस्येवान्धस्यापि शब्दादपरोक्षैव प्रतिपत्तिः स्यात्। तथात्वे इन्द्रियाग्निसम्बन्धादिवद् दाहशब्दादपि दाहार्थप्रतिपत्तिः स्यादित्याह,
अन्यथैवाग्निसम्बन्धाद् दाहं दग्धोऽभिमन्यते।
अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ।।
तस्मान्नेन्द्रियेण समानविषयत्वं शब्दस्य। तथा पदादिशब्दस्य स्वलक्षणविषयत्वे तस्य निर्भागतया शुक्लादिशब्दानामपि पर्यायता भवेत्। अपोहविषयत्वे तु नायं दोषः, विभिन्नानां समारोपव्यवच्छेदपरत्वादिति।
वास्तवार्थविषयत्वे च शब्दानां पुरुषेच्छावशेन अनियतार्थत्वं न स्यात्। व्यवहारस्तु शब्दान्मया प्रतिपन्नं शब्देन च प्रतिपादयामीति, प्रतिपाद्यप्रतिपादकयोस्तैमिरिकद्वयद्विचन्द्रदर्शनवद् भविष्यतीति। यथैकस्तैमिरिकश्चन्द्रद्वयं प्रतिपद्य प्रतिपादयति, अपरश्च प्रतिपद्यते, तथा सर्वत्र व्यवहंर्त्तॄणामयं शब्दो व्यवहार इति। अथ परीक्षकास्तर्हि शब्दार्धाध्यवसाये सति मिथ्यात्वं मन्यमानाः प्रवर्तन्ते? लोकव्यवहारानुसारितया, `लोकव्यवहारं प्रति सदृशौ बालपण्डितौ' इति न्यायात्। मिथ्याज्ञानस्य चार्थप्रतिपादकत्वं क्वचिदुपलब्धम्। यथा मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोर्मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति।
तदेतदसत्, शब्दादर्थाध्यवसाये सति प्रवर्तमानस्य अर्थाविसंवादेन अक्षजज्ञानवद् अभ्रान्तत्वेन प्रामाण्योपपत्तेः। तथा हि इन्द्रियज्ञानस्यापि सम्यक्त्वे न अर्थाविसंवादं विना प्रमाणान्तरमस्ति, स च शाब्दज्ञानेऽप्यस्तीति कथमप्रमाणम्?
प्रतिबन्धोऽपि कार्यविशेषोपलब्धेरिन्द्रियाणामवि शब्दस्याप्यर्थेन वाच्यः। स च वाच्यवाचकालम्बनं सङ्केतज्ञानमेव, अन्यस्यासम्भवात्। तस्य च विशेषाणामानन्त्येऽपि एकसामान्यस्योपग्रहादुपपत्तिरित्युक्तमेव। यदि च शब्दानामप्रामाण्यम्, प्रमाणादिस्वरूपावबोधार्थं रशास्त्रमनर्थकं स्यात्, प्रमाणादिस्वरूपस्य पारम्पर्येणापि तस्मादप्रतीतेः।
यदि च विवक्षासूचकत्वेनैव प्रामाण्यमिष्येत, तर्हि सर्ववाक्यानां तत्राव्यभिचारदविशेषेण प्रामाण्ये वादिप्रतिवादिनोर्विवादे जयपराजयव्यवस्थान स्यात्। अथ यद्वाक्यमर्थप्रतिब[न्धां?द्धां] विवक्षां सूचयति, तदेव प्रमाणं न सर्वमिति चेत्, न, शब्दवद् विवक्षाणामपि एकान्तेन अर्थप्रतिबन्धाभावात्। तथा च अर्थ दर्शनानुस्मरणक्रमेण विवक्षाकाले नार्थस्यावस्थानमस्तीति। अतो बाह्यार्थाध्यवसाये सत्येव प्रवर्तन्ते न `दृश्यविकल्प्यावर्थावेकीकृत्य तत्समारोपेण' इति।
न च दृश्यस्यानुपलब्धेर्विकल्प्येनैकीकरणं युक्तम्, उपलभ्यमानपदार्थे हि चन्द्रादौ द्वित्त्वादिसमारोपस्यान्यत्रोपलब्धेः, शब्दार्थप्रतिपत्तौ बाधकानुपपत्तेश्च मृषैषा कल्पना।
यच्चेदं विवक्षाक्रमेण शब्दोत्पत्तिकाले नार्थस्यावस्थानमस्तीति, तदपास्तम्, क्षणिकत्वानभ्युपगमेन।
अथ सामान्यविशेषव्यतिरिक्तविषयाभावादप्रमाणत्वं शब्दानाम्, तदसत्, एकान्तेन प्रमाणेषु व्यवस्थानभ्युपगमात्। तथा च, आगमादात्मा प्रतीयते, पुनरुत्पादलिङ्गैः योगबलाच्च प्रत्यक्षतोऽपीति संप्लवः। क्वचिद् व्यवस्था च। यथा आगमस्य मेध्यामेध्यप्रतिपत्तौ, इन्द्रियाणां स्वविषयेष्विति। अतः प्रत्यक्षादिविषयेऽपि शब्स्य प्रवृत्तेर्न विषयान्तराभावस्तदप्रामाण्ये हेतुरिति। विषयद्वैविध्येन च प्रमाणद्वित्त्वावधारणे दूषणं गुरुभिर्विस्तरेणाभिहितमिति नेहोच्यते।
यत्तु शब्दानां स्वलक्षणविषयत्वे अन्धानन्धयोरविशेषप्रसङ्ग इत्युक्तम्, तदसत्, विषयैकत्वेऽपि करणभेदेन प्रतिपत्त्योर्भेदात्। अन्धस्य हि शब्दाद् रूपविषयं विज्ञानमुत्पद्यते, न तु चाक्षुषमिति। यस्य च अपरोक्षं चाक्षुषं विज्ञानमस्ति, असौ अनन्धः। शब्दो हि व्यवहितमप्यर्थं प्रकाशयति सन्निकृष्टञ्च इन्द्रियम् इत्यनयोर्विभिन्नप्रतिपत्तिजनकत्वम्।
यत्तु त्वगिन्द्रियाग्निसम्बन्धादिव दाहशब्दादपि दाहार्थः सम्प्रतीयतेत्युक्तम्, तत्र यदि दाहो दुःखम्, तत्प्रतीयत एव दाहशब्दात्। न चैवं श्रोतुर्दुःखित्वप्रसङ्गः, दुःखासमवायात्। यस्य हिदुःखं समवेतमुपजातम्, स एव दुःखी, न तु दाहशब्दाद् आत्मनि समवेतं दुःखमुत्पद्यते। किं तर्हि? परात्मसमवेतमपि ततो विजानातीति। स्फोटादिलक्षणस्तु दाहस्त्वचोऽग्निसम्बन्धादुपजायते, न दाहशब्दादिति। तस्मादेधाग्निसम्बन्धादुत्पन्नस्फोटादिकार्यस्तज्जनितदुःखम् आत्मान्तःकरणसम्बन्धाद् अनुभवतीति दुःखीत्यतीदिश्यते। दाहशब्दञ्च अन्यथैव अनुत्पन्नस्फोटादिकार्यो दुःखं परात्मगतं प्रतिपद्यते, इत्यदूषणमेतत्।
न च स्वलक्षणस्य निर्भागतया शुक्लादिशब्दानां पर्यायत्वप्रसङ्गः, धर्मधर्मिणोर्व्यतिरेकात् प्रत्ययभेदस्य भेदलक्षणत्वादित्युक्तम्। तस्माद् भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकार्थत्वेऽपि न पर्यायत्वमिति।
न चापोहः शब्दार्थः, तस्यैवासम्भवादिति वक्ष्यामः।

"https://sa.wikisource.org/w/index.php?title=व्योमवती/पञ्चमः_भागः&oldid=399086" इत्यस्माद् प्रतिप्राप्तम्