शङ्करपादभूषणम्/अधिकरणम् ३ (विलक्षणाधिकरणम्)

← अधिकरणम् २ ( स्मृत्यधिकरणम्) शङ्करपादभूषणम्
अधिकरणम् ३ (विलक्षणाधिकरणम्)
[[लेखकः :|]]
अधिकरणम् ४ (शिष्टाधिकरणम्) →

अथ न विलक्षणाधिकरण्म्।
-----------------
     न विलक्षणत्वादस्य तथात्वं च शब्दात्।। 9।।
    ---------------------------------
अत्र ब्रह्मणो जगदुपादनत्वसाक्षाद्विरोधिन्ययनिरासादध्यायादिसंगतिः। यदुक्तं श्रुत्यनुरोधिस्मृत्यप्रामाण्यप्रसङ्गात्कापिलस्मृतेरप्रामाण्य इष्टापत्तिरिति। तदयुक्तम्। कापिलस्मृरेव श्रुत्यनुरोधित्वात्। नहि ब्रह्मणो वियदादिप्रकृतितावादिश्रुतिविरोधात्संख्यास्मृतेरप्रामाण्यं संभवति। विलक्षणत्वादितर्कविरोधेन श्रुतिभिर्ब्रह्मण वियदादिप्रकृतिताया एव बोधयितुमशक्यत्वात्। स्मृत्यधिकरणपूर्वपक्षोपष्टम्भकसंख्याचार्योक्तरीत्या ब्रह्मणि वियदादिप्रकृतिताबोधकश्रुतीनां तात्पर्यस्य समर्थनीयत्वादिति प्रत्यवस्थानदनन्तरसंगाति। यद्वाऽमूलानां स्मृतीनां समन्वयाविरोधित्वेऽप्यव्याहतव्याप्तिपक्षधर्मताकानां न्यायानां समन्वयविरोधिता निरपवादैवेति ( com --79) सा बोध्या। अत्रोक्तसमन्वलयो न युक्त उत युक्त इति, तदर्थं ब्रह्मणो जगदुपादानत्वाभावसाधने विलक्षणत्वादिहेतवो दुष्टा उतादुष्टा इति संशये- प्रधानमेव सुखदुःख मोहात्मकत्वात्तादृशजगदुपादानं न तु ब्रह्मा। । अतादृशत्वात्। सजातीययोरेव प्रकृतिविकारभावात्मकोपादानोपादेयभावदर्शनात्। अत्र विशेषव्याप्ताविद्या दृष्टान्तः। यद्यद्विलक्षणं तन्न तत्प्रकृतिकमिति सामान्यव्याप्तौ यथा हिरण्यविलक्षणो घटो न हिरण्यप्रकृतिक इति दृष्टान्त इति पूर्वपक्षस्तदिदमुक्तम् - - ` विलक्षणत्वात्' इति। अस्य जगतोऽचेतनत्वादिना वैलक्षण्यात्साधर्म्याभावान्न ब्रह्मोपादानम्। यद्वाऽस्य ब्रह्मणो न ततात्वं न जगत्प्रकृतित्वम्। विलक्षणत्वात्। तथात्वं च वैलक्षण्यं च शब्दच्छ्रुतेरिति सूत्रार्थः। श्रुतिश्च -` विज्ञानं चाविज्ञानं चाभवत् ' ( तैo 2। 6) इति चेतनाचेतनविभागेन ब्रह्मजगतोर्वैलक्षण्यं बोधयन्ती भाष्योदाहृता। (com -- 80) यत्तु चन्द्रिकायाम्--
(com -- 81) अस्मद्रीत्या स्वीयप्रमाणविरोधेन परकीयप्रमाणाप्रामाण्ये पूर्वत्रोक्तेऽत्र स्वीयप्रमाणाप्रामाण्यनिरासएव युक्तो न स्वपक्षे न्यायविरोधपरिहार इति उक्तरीत्या पूर्वपक्षे दुषणमुक्तम्। तदसत्। सांख्येक्तन्यायानां श्रुत्यर्थनिणर्‌य( र्णाय) कानां बलवत्त्वस्य पूर्वं शङ्किततया तेषा दुर्बलत्वानुपपादने सांख्स्मृतिविरोधनिरासापर्यवसानेन तन्निर्वाहाय तादृसन्यायानां दौर्बल्यस्याप्यवश्यवक्तव्यत्वेोक्तपूर्वपक्षावश्यकत्वात्। अन्यथा प्रक्रान्तस्मृत्यविरोधपरीक्षामपरिसमाप्य केवललयुक्तिविरोधेन समन्वयाक्षेपचिन्ताया असंगतत्वापत्तेः। स्वीयप्रमाणाप्रामाण्यपरिहारस्त्वत्र न युक्तः। वेदप्रामाण्यवादिभिः कपिलकमलासनादिभिस्तदप्रामाण्यस्य शङ्कितुमशक्यत्वात्। बौद्धार्हतादीनां पूर्वपक्षित्वे च तदनभ्युपगतेन वेदप्रामाण्यादीनसिद्धिकेन वेदनित्यत्वादिना तत्प्रामाण्यसाधनस्याशक्यत्वात्। वर्णनित्यतायां च बौद्धाद्यगमानामपि प्रमाण्यापत्तिः। आनुपूर्वीनित्यता च न वेदप्रमाण्यमन्तरा सेत्स्यति। युक्तिमात्रस्य बोद्धाद्यमगसाधारण्यात्। प्रामाण्यस्य स्वतस्त्वादिना तत्साधने च नित्यत्वलरूपवैलक्षणषानुसरणं तस्य श्रुतिसिद्धत्वकथनं च व्यर्थम्। श्रुतिप्रमाण्यायावश्यानुसरणीयेन स्वतः प्रामाण्येनैव कारीर्यादिश्रुतिप्रामाण्यस्यापि सिद्धेः। न च तत्राप्यस्ति विषयबाधः। येन तत्रापवादकसत्त्वमशङ्क्येत। स्वरूपयोग्यतालक्षणस्य श्रुतिबोधितकारणत्वस्य क्कचित्कार्यानुत्पत्त्या विरोधाभावात्। प्रत्युत वाक्यनित्यतायामेवास्ति प्रत्यक्षविसंवादः। तस्यान्यथासिद्धिकल्पनं च वेदप्रामाण्यमन्तरा न सुकल्पनम्।
यदपि चन्द्रिकायाम्- वेलक्षण्यादनुपादानत्वशङ्कायास्त्वन्मते (com -- 82) दृश्यत्वाधिकरण एव निरासात्तेनास्य(1)(f.n.oनिरंस्तेति तेनाo।) पुनरुक्ततेति दूषणमुक्तम्। तदप्यसत्। तत्रत्यपूर्वपक्षसिद्धान्तोपोद्बलनाय निबन्धादौ प्रकृतपूर्वपक्षसिद्धान्तन्यायोपदर्शनेऽपि तस्य तदधिकरणप्रमेयत्वाभावात्।
यच्च चन्द्रिकायाम् - केवलोपादानस्य कार्यसालक्षण्यनियमेऽपि त्वन्मते तन्तूत्प्रत्यूर्णनाभ्यादेरिव(1) जगत्प्रति ब्रह्मावैलक्षण्येऽपि सिद्धान्त्यभिमतस्य निमित्तत्वे सत्युपादानत्वस्य संभवेन पूर्वपक्षः सिद्धान्ताविरुद्ध इति दूषणमुक्तम्। तदप्यसत्। ऊर्णनाभिस्थलेप्यचेतनाशस्यं तदीयलालादेरेवोपादानात्वं बुद्धेरेव च कर्तृत्वम्। तदसंसर्गर्गाहमात्रेणाऽऽत्मनः कर्तृत्वव्यवहार इति वदतः पूर्वपक्षिणः सांख्यास्य मते चेतनस्याचेतनोपादानतायामसंप्रतिपत्तेः। मदभ्युपगमश्च न सांख्यारीत्या पूर्वपक्षानुत्थितिप्रयोजकः।
यच्च चन्द्रिकायाम् - किंच त्वन्मतेऽविद्यादेस्तद्विशिष्टस्य वोपादानत्वात्तस्य च जगत्सालक्षण्याच्छुद्धस्य(1)(f.n.क.oतन्तुप्रo।) विलक्षणत्वेऽपि जगद्धमादिष्ठानत्वादात्मनि चानात्मादिभ्रमस्य सांख्यादिभिरपि स्वीकारात्कथं पूर्वपक्षोदय इति दूषणमुक्तम्। तदप्येतेन परास्तम्। उपाधिभेदेऽप्युपाधिविशिष्टस्य शुद्धानतिरिक्तत्वात्तस्योपादानता न युक्तेति सांख्यरीत्या पूर्वपक्षोदयस्य बालेनापि सुबोधत्वात्। कार्याभिन्नकारणतारूपमुपादनत्वं शुद्धस्यापि। परं तद्विवर्तोपादानतारूपमिति द्योतनाय शद्धस्य भ्रमाधिष्ठानत्वमुच्यते। तादृशं चोपादानत्वं न सांख्यानामनुतम्। तैरन्यथाख्यातेरवानिर्वचनीयख्यातेरपि निषेधात्। तथा च सांख्यासूत्राणि-- ` जन्मादिव्यवस्थातः पुरुषबहुत्वम्'( सांo सूo 1। 149। ' उपाधिर्भिद्यते न तु तद्वान्' ( साo सूo 1। 151)' उपाधिर्भिद्यते न तु तद्वान्' ( सां o सूo 1। 20) ' `नाविद्यातोऽप्यवस्तुना बन्धायोगात्'(सांo सूo 1।149) `वस्तुत्वे सिद्धान्तहानिः' ( सां o सूo 1। 21) ' विरुद्धोभयरूपा चेत्' ( सां o सूo 1। 23) ` न तादृकपदार्थप्रतीतेः ' ( साo सूo 1। 24) । तत्र भाष्यम्- ननु चैतन्यैक्येऽपि तत्तद्रुपाधिविशिष्टस्यातिरिक्ततामभ्युपपगम्य व्यवस्थोपपादनीया। तत्राऽऽह - उपाधिरिति। उपाधिरेव नाना न तु तद्वानुपाधिविशिष्टोऽपि(1)(f.n.क. oद्वान् । नोपाo।) नानाऽभ्युपेयः। विशिष्टस्यातिरिक्तत्वे नानात्मता सत्ताया एव(2)(f.n.oव शब्दान्तरेणाभ्युo।) शास्त्रन्तरेऽप्यभ्युपगमापत्तेरित्यर्थः। विरुद्धोभयम् - सद्विलक्षणमसद्धिलक्षमणं चेति। किंचा निर्वचनीयख्यातिपक्षेऽपि कुम्भकाचादौ सर्वत्र रजताध्यासादर्शनेनाधिष्ठानारोप्ययो सालक्षण्यस्याऽऽवश्यकतया विवर्तोपादानताऽपि न ब्रह्मणः संभवतीति पूर्वपक्षिणः परस्य शङ्काऽतिसुलभैव।
यदपि चन्द्रिकायाम् - किंच मम मते तथात्वशब्दोक्तस्यावैदिकस्मृतिसालक्षण्यस्य निषेध्यता। तव तु तदनुक्तस्य ब्रह्माकारणकत्वस्य तथा मम विलक्षणत्वादित्यत्र स्मृत्यनवकाशेति प्रकृतस्य परपक्षप्रमाणस्य प्रतियोगिता। तव तु तदप्रकृतस्य ब्रह्माण इति दूषणमुक्तम्। तदपि शिथिलम्। मम मतेऽपि पूर्वाधिकरणयोर्वेदान्ता जगत्कारणत्वेन ब्रह्मपरा इति साध्यघटकत्वेनोपस्थितस्य जगदुपादानत्वस्य तथात्वशब्देनोपस्थितस्यैव निषेध्यत्वात्। ( com--83) यद्वेत्याद्युक्तद्वीतीयसूत्रार्थे साध्यघटककर्तृत्वोपादानत्वनिरूपकतया प्रकृतस्य जगतो वैलक्षण्यस्य प्रतियोगित्वाच्च। न चोक्तद्वितीययोजना न भाष्यकारानुमता। ` यदुक्तं चेतनं ब्रह्म जगतः कारणं प्रकृतिरिति तन्नोपपद्यते कस्माद्विलक्षणत्वादस्य विकारस्य' इति तत्र योजनादर्शनादिति वाच्यम्। ` अत आगमवशेनाऽऽगमानुसारितर्कवशेन च चेतनं ब्रह्म जगतः कारणं प्रकृतिश्च ' इत्येतदधिकरणोपसंहारभाष्यानुरोधेन तादृशयोजनाया एव भाष्यसंमतत्वात्। जगतो न ब्रह्म प्रकृतिकत्वमिति प्रथमोपदर्शितोपक्रमभाष्यानुसारियोजनायामपि न क्षतिः। ` जन्माद्यस्य यतः' ( ब्रo सूo 1।1। 2) इति सूत्र इवात्रापीदंशब्देन प्रत्यक्षादिसिद्धजगत्परामर्शसंभवात्। परमप्रकृतस्य ब्रह्मणो वैलण्यप्रतियोगित्वसंभवात्। ब्रह्मनिष्ठोपादानतानिरूपकत्वस्य पूर्वाधिकरणयोः साध्यघटकत्वेनोपस्थितस्य तथात्वशब्देन परामर्शसंभवाच्च। त्वन्मते परं स्मृति शब्देन स्त्रीलिङ्गेनोपस्थितायाः पाञ्चरात्रादिस्मृतेः सर्वनाम्ना श्रुतिबुबोधयिषायाम्` नाऽऽत्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः' ( ब्रo सूo 2। 3। 17) इत्यत्र स्त्रीलिङ्गेनैव तेन निर्दिश्यमानायाः ( com -- 84) श्रुतेश्चातथाभूतेनेदंशब्देन परामर्शो न स्वरसः।
  यदपि चन्द्रिकायाम्- जगतो ब्रह्मवैलक्षण्यस्य प्रत्यक्षसिद्धत्वात्तत्र `शब्दात्(1)'(f.n.क. oक्षत्वाo।) इति शब्दोक्तिरयुक्तेति दूषणमुक्तम्। तत्परिहारश्च भाष्यदर्सिनामतिस्पष्ट एवेति भाष्यादर्शनमूलकमेव तत्। तथा हि - ` प्रसिद्धश्चायं चेतनाचेतनाविभागो लोके। तस्माद्व्रह्मविलक्षणत्वान्नेदं जगद् ब्रह्माप्रकृतिकम् ' इति ` न विलक्षणत्वात्' इति सौत्रभागं व्याख्याय' योऽपि कश्चिदाचक्षीत श्रुत्वा जगतश्चेतनप्रकृतिकतां तद्बलेनैव समस्तं जगच्चेतनमवगमिष्यामि। प्रकृतिरूपस्य विकारेऽन्वयदर्शनात्। अविभावनं तु चैतन्यस्य परिणामविशेषाद्भानिष्यति। यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्छाद्यवस्थासु चैतन्यं न विभाव्यत एवं काष्ठलोष्टादीनामपि चैतन्यं न विभावयिष्यते' इति शङ्काविषनिराकारणपरतया तादृशसौत्रभागस्य ` अनवगभ्यामानमेव हीदं लोके समस्तस्य व्सतुनस्चेतनत्वम्। चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्ष्यते। तच्च शब्देनैव विरुध्यते' इति व्याख्यातत्वात्।
  यदपि चन्द्रिकायाम् - किचं यदि ` विज्ञानं चाविज्ञानं च ' ( तै o 2। 6। 1) इति श्रुतिर्वैलक्षण्ये प्रमाणम्। कथं तर्ह्युपादानत्वे न प्रमाणम्। ` सच्च त्यच्चाभवत्' ( तै o 2। 6।1) इति पूर्ववाक्येनोपादनत्वप्रतीतेः। अपि च विज्ञानाविज्ञानशब्दौ न कार्यकारणपरौ । किंतु त्वत्पक्षे सत्त्यदादिशब्दवत्कार्यपरावेव। ( com --85) चशब्दाभ्यां प्रत्येकं भवनान्वयप्रतीतेरिति(1)(f.n.क.oवनक्रिययाऽन्वo।) दूषणमुक्तम्। तदपि न सत्। विज्ञानं चेतनं निर्दिश्य ततः पार्थक्येनाविज्ञाननिर्देशे कृते चेतनपदार्थप्रतिसंबन्धी ततोऽन्यो बाधकाभावादचेतनः सिध्यति। उपादानतायां च निर्विकरश्रुतिरूपबाधकसद्भावादुपादानत्वश्रुतिर्गौणी भवतीति विशेषस्य शङ्कायां संभवात्। अत एवापि चेत्याद्यपि निरस्तम्। चेतनातिरिक्तवस्तुसिद्धिमात्रेण प्रकृतपूर्वपक्षसंगत्या विज्ञाना विज्ञानशब्दयोः कार्यकारणपरताया अस्प्तभिरप्यनाश्रयणात्। कारणस्य चेतनता तु ब्रह्मावाद्यनुमता ' सत्यं ज्ञानम्' ' य सर्वज्ञः सर्ववित्' इत्यादिश्रुतिसिद्धा चेति।
यदपि चन्द्रिकायाम् - अपि(2)(f.n.क.oपि च यo।) चानुपादानत्वे यथाकथंचिद्वैलक्षण्यं हेतुश्चेत् -` मृदब्रवीत्' इत्यादेरभिमानिपरत्वाभावेऽपि शुद्ध्यशुद्ध्यादिनाऽपि वैलक्षण्यस्य प्रत्यक्षादिनाऽपि सिद्धेस्तदुपपादनार्थ द्वितीयसूत्रं व्यर्थम्। चेतनाचेतनात्वाभ्यामेव वैलक्षण्यं हेतुश्चेदचेतनवृश्चिकादिकं प्रत्यचेतनस्य गोमयादेरेवोपादानतया चेतनस्याचेतनोपादानतायाः क्वाप्यदर्शनेन(3)(f.n.क.oर्शनात्तृतीo।) तृतीयसूत्रमयुक्तं(4) (f.n.क.oसूत्रायोगः।) स्यादिति दूषणमुक्तम्। तत्रोच्यते - वैलक्षण्येन कार्यकारण भावानुपपत्तिं वदतः पूर्वपाक्षिणः संभावितं वैलक्षण्यमात्रं बाधकत्वेनेहाभिप्रेतम्। तच्च चेतनत्वाचेतनत्वरूपं शुद्ध्यशुद्ध्यादिरूपं च। शुद्ध्यशुद्धी च सुखदुः खमोहानत्मकत्वतदभावपर्यवासिते भाष्य एवोपदर्शिते। एवं च श्रुतिबलाद्ब्रह्मणि शद्धेरनुभवानुसारेण जगतोऽशुद्धेश्चैकदेशिनाऽप्यङ्गीकाराच्चेतानत्वाचेतनत्वाभ्यां वैलक्षण्यस्य कथंचित्परिहारेऽपि शुद्ध्यशुद्धिभ्यां वैलक्षण्यं तेन दुष्परिहारमिति' न विलक्षणत्वादस्य तथात्वम्' इत्यंसेन पूर्वपक्षो दृढीकृतः। परमार्थतस्तु चेतनाचेतनत्वाभ्यां वैलक्षण्यमपि दुष्परिहारमेवेत्यभ्युपगमवादपरित्यागेन मुख्यं समाधानम्। ` तथात्वं च शब्दात्' इति प्रकृतसूत्रैकदेशेन द्वितीयसूत्रेण च समर्थ्यत इति नासंगातिवार्ताऽपि ।। 4।।
ननु चेतनोपादानकत्वस्य श्रुतार्थापत्त्या जगतश्चेचतनत्वं कल्प्यत इति न युक्तम्। ` विज्ञानं चाविज्ञानं च ' इति प्रत्यक्षश्रुतिविरोधेन ( com -- 86) * श्रुतार्थापत्तेरनुन्मेषादिति हि ` तथात्वं च शब्दात्' इति सोत्रभागेन विवक्षितम्। तच्चायुक्तम्। मृदादीनां भूतानामिन्द्रियाणां चाचेतनत्वाभिमतानाम् ` मृदब्रवीत्' ` ता आप ऐक्षन्त' ` तत्तेज ऐक्षत' ` ते हीमेम प्राणा अहंश्रेयसेविवदमाना ब्रह्म जग्मुः' ( बृo 6 । 1। 7) इति ` ते च वाचुमूचुस्त्वं न उद्गायेति' [ इति] वक्तृत्वादिलिङेगन चेतनत्वावगमात्। न च मृदादीनां वक्तृत्वं न शक्यशङ्कं प्रत्यक्षविरोधादिति वाच्यम्। सर्गाद्यकालीनमृदो वक्तृत्वाभिधायिश्रुतावुक्तविरोधशङ्कानवकाशात्। न चैवमप्याधुनिकमृदश्चेतनत्वासिद्धिरिति वाच्यम्। चेतनोपादेयत्वेन तत्सिद्धेः। चेतनकार्या दर्शने च हेतुः प्रागुक्त एव । तथा च चैतन्याभिव्याक्तितदभावावलम्बनेन ` विज्ञानं चाविज्ञानं च ' इति श्रुतिर्नेया । एतेन -- ` किंच ` मृदब्रवीत्' इत्यादौ मृदादीनां वक्तृत्वेक्षितृत्वादिसिद्धावपि (1)(f.n.क.oक्तृत्वज्ञातृo।)` तथात्वं च शब्दात्' इति पूर्वसूत्रोक्तविज्ञानाविज्ञानादिवैलक्ण्यापरिहारान्मृदादीनां वक्तृत्वशङ्कायोगाच्चेति तत्परिहारार्थं द्वितीयसूत्रेमयुक्तम्'(2)(f.n.क.oत्रमित्ययुo।) इति चन्द्रिकोक्तमपास्तामित्याशङ्क्य पारिहरति---

आश्रिमानिव्यपदेशस्तु विशेषानुगतिश्र्याम्।। 5।।
-------------------------------
तुशब्दः पूर्वपक्षिणं प्रति प्रकृतामाकाङ्क्षामपनुदन्पूर्वपक्षमेव द्रढयति ान तूत्तरसूत्रागततुशब्द इव पूर्वपक्षपवदति। ' मृदब्रवीत्' इत्यादिश्रुत्या भूतेन्द्रियाणां चेतनत्वं नाऽऽशङ्कानीयम्। यतो चेतनोचितवदनसंवदनादिरूपव्यवहारयोग्यमृद्वागाद्यभिमानिचेतनदेवताव्यपदेशोऽयम् ` मृदब्रवीत्' इत्येवंजातीयकः। कस्मात्। विशेषानुगतिभ्याम्। विशेषश्च भोक्तृणां भूतेन्द्रियाणा च चेतनाचेतनविभागलक्षणः प्रागभिहितः । सर्वचेतनतायां च नासावुपपद्यते । अत एव कौषीतकिनः प्राणसंवादे करणमात्राशङ्काविनिवृत्तयेऽदिष्ठातृदेवतापरिग्रहाय ' एता ह वै देवता अहंश्चेयसे विवदमानाः इति ' `ता वा एताः सर्वा देवताः प्राणे निः श्रेयसं विदित्वा' ( 2। 14) इति च पठन्ति। ` अग्रिर्वाग्भूत्वा मुखं प्राविशत्' ( ऐo आo 2। 4। 2। 4) इत्येवमादिका च श्रुतिः करणेष्वनुग्रहिकां देवतामनुगतां दर्शयति । विस्तरेण च सूत्रार्थो भाष्यनिबन्धादौ द्रष्टव्यः।
यत्तु चन्द्रिकायाम् - यद्यपि पूर्वमीमांसादौ पूर्वपक्षसूत्राणि सन्ति तथाऽपि तत्राऽऽद्याद्यायाद्यपाद एव पूर्वपक्षसूत्रसद्भावादिह च त्वन्मतेऽपि प्रथमाध्याये(1)(1.क.ये पूर्वपक्षसूत्राभाo।) तदभावेनान्यत्रापि(2)(f.n.क.oन्यत्रेवात्रo।) सूत्रकृतः पूर्वपक्षत्वसूचकजैमिन्यादिग्रहणाभावे(3) (f.n.क.oवेनo।) व्याकरणकल्पसूत्रादाविव तदकरणशैलीनिश्चये सति (com -- 87) सर्व शास्त्रम्।
पूर्ववादिमतं किंचित्किचिच्चातत्त्ववेदकम्।
उपासनापरं किंचिदिति कस्माद्विनाश्यते।।
   अन्यथैकः (4)पादोऽध्यायो वा पूर्वपक्षः पादान्तरमध्यायान्तरं(5) वा सिद्धान्त इति स्यादिति सूत्रद्वयस्य पूर्वपक्षप्रतिपादकत्वे दूषणमुक्तम्। तत्रेदं वक्तव्यम् -(f.n.4.oपादःo। क.oन्तरं सिo।) अत्रेव सूत्रान्तरेषु सर्वथा च तन्त्रान्तरेष्वदृष्टं चेदित्यादिशब्दादिपूर्वपक्षलिङ्गरहितस्य ' इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः'(6)(f.n.क.oसङ्ग इo) ( ब्रo सूo 2। 1।21) इति सूत्रेकदेशपञ्चम्यन्तभागस्य पूर्वपक्षांशत्वं कल्पयतो भवतः संप्रदायविरुद्धार्थप्रवक्तृमूर्धन्यस्य तन्त्रान्तरसिद्धशैल्यविरुद्धपूर्वपक्षरचनाप्रतिक्षेपोक्तिरुपहासास्पदैव। ` यदि जीवकर्तृत्वस्य श्रुतौ व्यपदेशादिसिद्धत्वाज्जीवः स्वतन्त्रकर्तैत्युच्यते तर्हि तस्य हिताकरणमहितकरणं च न स्यात्' इति हि ` इतरव्यपदेशात्' इति सूत्रस्य जयतीर्थादिभिरर्थो वर्णितः। त्वन्मतेऽपि पूर्वाध्यायीयाद्यपादद्वयादावदृष्टस्यापि प्रासङ्गिकविचारस्य तृतीयपादे` तदुपर्यपि बादरायणः संभवात्'( ब्रo सूo 1।3।16) इत्यादाविवाध्यायान्तरेऽदृष्टस्यापि पूर्वपक्षसूत्रप्रणयनस्य द्वितीयाध्यायादावयुक्तत्वायोगात्। पादान्तरेऽदर्शन स्येवाध्यायान्तरेऽदर्शनस्याविशेषेणाकिंचित्करत्वात्। उक्तं च जयतीर्थेन - ` तदुपर्यपि बादरायाणः संभवात्' इति सुत्रे' अत्र देवानां ब्रह्माविद्याधिकारसर्थनादासित (1)शास्त्रादिसंगितिः।(f.n.क,oशास्त्रसंo।) प्रासङ्गिकत्वान्नाध्यायादिसंगतिर्गवेषणीया' इति । दृश्यते च न्यायपञ्चध्याय्या प्रथमाध्यायेऽदृष्टमपि ` समानानेकधर्माध्यवसायादन्यतरधर्माद्यवसायाद्वा न संशयः' ( गौo सूo 2। 1। 1) ' विप्रतिपत्त्यव्यवस्थाध्वसायाच्च' ( गौ o सूo 2। 1। 3) ` तथाऽत्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः' ( गौo सूo 2। 1। 5) इत्यादिपूर्वपक्षसूत्रप्रणयनं द्वितीयाध्याय इति न किंचिदेतत्।। 5।।
दृश्यते तु ।। 6।।
------------
यदुक्तं विलक्षणत्वान्नेदं जगह्ब्रह्मप्रकृतिकं यद्यद्विलक्षणं तन्न तत्प्रकृतिकमिति व्याप्तेरिति। तन्न। लोके विलक्षणादपि गोमयादितो वृश्चिकादेश्चेतनस्य , चेतनेत्वेन प्रसिद्धाद्विलक्षणात्पुरुषादेरचेतनस्य केशलोमादेरुत्पात्तिदर्शनेन हेतोव्र्यभिचारात्। नन्वचेतनान्येव वृश्चिकादिशरीरण्यचेतनानां गोमयादीनां कार्याणि तथाऽचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखदीनां कारणानीति चेत्। किं ततः। तावता वैलक्षण्यापरिहारात्। वैलक्षण्यं ह्यनौपाधिकभेदवत्त्वम्। अनौपाधिकत्वं च प्रतियोग्यवृत्तिधर्मावच्छिन्नानुयोगिताकत्वं परस्परवृत्तिधर्मवत्त्वं यथाकथं चिद्भेदवत्त्वं वा स्यात्। त्रिविधस्यापि गोमयपुरुषादिषु वृश्चिकादिशरीरकेशनखलोमादिषु च सत्त्वात्। तथाहि - अचेतनत्वेऽपि वृश्चिकपुरुषशरीरादिकं भोगायतनं भवति, न गोमयकेशनखादिकमिति। गोमयपुरुषादीनां रूपरसादिकमन्यदेवान्यदेव वृशिचककेशनखलोमादीनामिति। पारिणमिकस्वभावविप्रकर्षस्य दुरुपह्नवत्वात्। अत्यन्तसारूप्यं च प्रकृतिविकारभावस्यानुपपत्तेश्च। विपक्षे वाधकस्य सत्त्वाच्च। यद्वा हेतूकृतं विलक्षणत्वमनौपाधिकमेदवत्त्वं तत्प्रयोजकपरस्परावृत्तिधर्मवत्त्वं वा। तच्च प्रकतिविकारयोः परमतेऽपि दृश्यत इत्यर्थः। इत्यं परेषा मतम्- तदेवं महदादिषु कार्यत्वं प्रसाद्य सांप्रतं तैः प्रकृत्यनुमानेऽनुक्तं विशेषमाह - `कार्यात्करणानुमानं तत्साहित्यात्' ( सां o सूo 1। 134) कार्यान्महत्तत्त्वदिर्लिङ्गत्सामान्यतो दृष्टं कारणानुमानं यदुक्तं तत्ताटस्थ्यानिवृत्तये तत्साहित्यात्कार्यसाहित्येनैव कर्तव्यम्। ` सदेव सौम्यैदमग्र आसीत्'` तम एवेदमग्र आसीत्' इत्यादिश्रुत्यनुसारात्। तद्यथा - महदादिकं स्वोपहितत्रिगुणात्मकवस्तूपादानकं कार्यत्वावच्छिलामध्यस्थप्रतिमावत्तेलादिवच्चेत्यर्थः। अत्रानुकूलतर्कः प्रागेव दर्शितः।। 134।। तस्याः प्रकृतेः कार्याद्वैलेक्षण्यं(1) विवेकार्थमाह - अव्यक्तं (2)त्रिगुणलिङ्गात्(3) ( सांo सूo 1।136) । त्रिगुणलिङ्गात्महत्तत्त्वादिरूपात्कार्यादपि(4) मूलकारणमव्यक्तं सूक्ष्मम्। महतत्त्वस्य हि सुखादिगुणः(5) साक्षात्क्रियते। प्रकृतेश्च गुणोऽपि न साक्षात्क्रियत इति । प्रधानं परमाव्यक्तं(6) महत्तत्वं तु तदपेक्षया व्यक्तमित्यर्थ-।। 136। ननु परमसूक्ष्मं चेत्तर्हि तस्या पलाप एवोचित इत्याकाङ्क्षाया पूर्वोक्तं स्मारयति - तत्कार्यतस्तत्सिद्धेर्नापलापः( सां o सू o 1। 137) । सुगमः(7)।। 137।। इत्येवं रीत्या सांख्यासूत्रभाष्यपर्यालोचनायां हि कार्यकारणयोरुक्तानौपाघिकभेदवत्त्वादिकं दुर्वारमेव। अस्यां हि प्रक्रियायां तत्तत्कार्योपहितकृतिजन्यत्वं तत्तत्कार्याणामुक्तम्। यद्यवस्थान्तरापन्ना प्रकृतिरेव कार्यं तदा कार्यात्प्रागभिव्यक्तकार्यावस्थावस्वोपहितत्वाभावेनोक्तानुमानं बाधितं स्यात्। न च यथाकथंचित्कार्यावस्थावत्स्वोपहितत्वं साध्यघटकमिति वाच्यम्। तथाऽप्यनभिव्यक्तकार्यावस्थावत्यां प्रकृतौ तादृशस्वोपहितत्वाभावेनोक्तदोषस्य दुर्वारत्वात्। स्वोपधानाविवक्षायां न ताटस्थ्यनिवृत्तिरिति स्पष्टमेव। अन्यथा ` कार्यात्कारणानुमानं तत्साहित्यात्' ( साo सूo 1। 134। इति सूत्रभाष्यासंगतेः। ननु यद्यतो विलक्षणं तत्तदुपादानकं नेति सामान्यव्याप्त्युपष्टभ्यानुमानस्य व्यभिचारादिदोषदुष्टत्वेऽपि वियदादि न ब्रह्मप्रकृतिकं तदीययावत्स्वभावानुवृतिशून्यत्वात्तदीयस्वभावसामान्यशून्यत्वात्तत्तादात्म्यशून्यत्वाद्वाऽविद्यावदित्यनुमानानि निराबाधान्येवेति चेत्। न । परमतेऽप्युक्तरीत्या विकारे महदादौ यावत्स्वभावाननुवृत्त्या सर्वत्र प्रकृतिविकारभावोच्छेदप्रसङ्गेन तदीययावत्स्वभावाननुवृत्त्या तदनुपादानकत्वस्य साधयितुमशक्यत्वात्। सर्वत्र पक्षे सत्स्वभावस्य सिद्धान्तिनाऽभ्युपगमात्। द्वितीयानुमाने हेतोरसिद्धत्वात्। तृतीयानुमाने दृष्टान्ताभावः। सर्वस्य सच्चिद्ब्रह्मतादात्म्याभ्युपगमात्। अनादिभावत्वस्योपाधित्वाच्च। आधिकं भाष्यादाववगन्तव्यम्।

(f.n.1.oद्वैधर्म्यम्o। 2.क.oगुणल्लिङ्गाo। 3.क.oत्। अभिव्यक्तात्त्रिगुणाः । 4 क. oत्वादo। 5.oदुर्गo। 6.oक्तं स्माo। 7.oगमम्। )

यत्तु चन्द्रिकायाम्-- तृतीयं चायुक्तम्। गोमयादिवद्ब्रह्मणः ( com -- 88) पूर्वरूपहानेन जगद्भवनाभावेन दृष्टन्तोकत्ययोगाच्चेति दुषणमुक्तम्। तदसत्। उपादानोपादेययोर्वैलक्षण्योपदर्शनमात्रेण प्रकृतसिद्ध्या गोमयादिदृष्टन्ते ब्रह्मात्यन्तासादृश्यविरहस्याकिंचित्करत्वात्।। 6।।

असदिति चेन्न प्रतिषेधमात्रत्वात्।। 7।।
--------------------------
कार्यकारणयोरैक्ये ह्युत्पत्तेः प्राक्क्रारणसत्त्वे तदभिन्नस्य कार्यस्यापि सत्त्वावश्यंभावात्सदेव कार्यमुत्पद्यत इति शक्यं वक्तुम्। वैलक्षण्येऽप्युपादानोपादेयभावः संभवतीति वदता त्वया ऽचेतनस्य जगतश्चेतनब्रह्मविलक्षणत्वाङ्गीकारात्। वैलक्षण्यस्याभेदपरिपन्थित्वाज्जगद्ब्रह्मणोरैक्यायोगेनोत्पत्ते-। प्राक्कारणसत्त्वेऽपि कार्यसत्त्वस्य समर्थयितुमशक्यत्वादुत्पत्तेः प्रागसत्कार्यस्यासत्त्वं प्रसज्येत। इष्टापत्तौ सत्कारयहानिरिति चेत्। प्रतिषेधमात्रत्वात्। त्वदुक्तवाक्यस्यार्थशून्यत्वेन प्रतिषेधवाक्यमात्रत्वान्नास्य किंचित्प्रतिषेध्यमस्ति। न ह्ययं प्रतिषेधः प्रागुत्पत्तेः कार्यस्य सत्त्वं प्रितषेद्धुं शक्नोति। तथा हि - सत्कार्यवादो नामप्राक्कारणात्मना परमार्थसतः कार्यस्योत्पत्तिरित्युपत्तेः। प्राकसूक्ष्मरूपेण वर्यमानमेव कार्यमुत्पद्यत इति वा वादः। तत्राऽऽद्यपक्षस्तावन्निराब्ध एव। इदानीमिवोत्पत्तेः प्राक्कारणात्मना कार्यसत्त्वनपायात्। नद्दीदानीं कारणात्मानमन्तरेण कार्यसत्ताऽस्ति। ` सर्वं तं परादाद्योऽन्यत्राऽऽत्मनः सर्वं वेद' ( बृo 2। 4। 6) इत्यादिश्रवणात्। ननु प्राक्कारणात्मना परमार्थसत इत्यस्योत्पत्तेः प्राक्काले वर्तमानं यत्परमार्थलसत्कारणं तदात्मन इत्येवार्थः। अन्यथा कार्याभिन्नकारणतारूपोपादानत्वानुपपत्तेः। तथा च विलक्षणयोः कथमभेद इति चेत्। आशयानवबोधात्। नहि वयमुपादानोपादेययोर्ब्रह्मजडयोः स्वरूपैक्यं वदाम। अपि तूपादाने ब्रह्मणि कल्पितस्य विलक्षणप्रपञ्चस्य पारमार्थिकं रूपं ब्रह्मैवेति ब्रह्मव्यतिरेकेणासत्त्वं शुक्तिकायां कल्पितविलक्षणरजतस्य शुक्तिकाव्यतिरेकेणासत्त्वामिव। तथा चोत्पत्तेः प्रागापि प्रपञ्चस्य पारमार्थिकस्वरूपभूतं ब्रह्मास्तीत्येतावता सत्कार्यवादोक्तिरिति। द्वितीयकल्पस्तु विस्तरेणोपपादयिष्यते श्रीमद्भागवत्पादैः `तदनन्यत्वमारम्भणशब्दादिभ्यः' ( ब्रo सू o 2। 1। 14) इत्यत्रेति न किंचिदनुपपन्नमिति।

यत्तु चन्द्रिकायाम्- ( com --89) प्रमासत्कारणमिति चेत्। न । तस्य प्रतिषेधमात्रत्वादित्यध्याहारनैरपेक्षेण(1) हेतुसाध्ययोः सामानाधिकरण्येनान्वयः साक्षाद्ब्रह्मकारणत्वाक्षेपश्च । तव त्वसत्कार्य प्रसज्येतेति चेत्। न । सत्कार्यप्रतिषेधस्य(1) प्रतिषेधमात्रत्वादित्यध्याहारेण वैयधिकरणेन चान्वयः साक्षात्तदनाक्षेपश्चेति दूषणमुक्तम्। तत्तदीयरीत्या सूत्रव्याख्यानदूषणेन मदीयव्याख्यायामेव स्वारस्यस्य वक्ष्यमणत्वाददूषणमेवेति विदुषां स्पष्टमेव।। 7।।
(1.f.n.क.oदिति बहवध्याo।)
(1.क.oधमाo।)

अपीतौ तद्वत्प्रसिङ्गदसमञ्जसम्।। 8।।
--------------------------
ननु `नाशः कारणलयः' ( सांo सूo 1। 121) इति सांख्यासूत्रे कार्याणां कारणेनेविभाग एव लय इति प्रतिपादितम्। इष्टाश्चायमर्शस्तवापि। ` स्वाप्ययात्' ब्रo सूo 1 । 1। 9) इति सूत्रे ऽविभागस्यैवापीतिशब्दार्थतायास्त्वया स्वीकृतत्वात्। एवं चापीतौ प्रलये कार्येणाविभागमापन्नस्य ब्रह्मणः कार्यधर्मस्थौल्यसावयवत्वाचेतनत्वपरिच्छिन्नत्वाशुद्ध्यादिमत्त्वप्रसङ्गत्सर्वज्ञं ब्रह्म जगत्कारणमित्यौपनिषदं मतमसमञ्जसम्। योजनान्तराणि भाष्ये द्रष्टव्यनि। न च कार्यस्याप्यये तद्धर्माणामप्ययात्कार्यधर्मसंसर्गापत्तिर्न ब्रह्मम्यापादयितुं शक्यत इति शङ्क्यम्। कार्यवदपीतानां तद्धर्माणां कारणं प्रसञ्जनस्य दुर्वारत्वात्। न च तदानीं कार्यधर्माणामसत्त्वात्कथं तत्ससर्गापादानसंभव इति वाच्यम्। यतो धर्माणं शशशृङ्गवन्नात्यन्तासत्त्वम्। कित्वतीतावस्थापत्तिरेव । एवं चातीतावस्थापन्नतद्वात्तापत्तिर्दुर्वारैव। एवं वर्तमानावस्थापन्नाया अतीतावस्थायाः कार्यगताया ब्रह्मण्यापत्तिर्दुर्वारैवेति।

यत्तु चन्द्रिकायाम् - ( com -- 90) प्रलये ब्रह्मणः कार्यधर्मापत्त् ौ यदि कार्यनाशो हेतुस्तर्हि कार्यनासे सुतरां तद्धर्माणा नष्टत्वेन ब्रह्मणस्यदापादानमयुक्तमिति दूषणमुक्तम्। तदसत्। ' नाशः कारणलयः ' ( साo सूo 1। 121) इति सांख्यप्रवचनसूत्रे कार्याणां करणेनाविभाग एव लय इति तद्भाष्ये च वर्णितत्वेन तदनुसारेणोक्तशङ्कासंगतेः।
यदपि चन्द्रिकायाम् - अभेदेन तदापत्तो स्थितावपि तुल्यत्वेन सूत्रे 'अपीतौ' इत्यस्य वैयर्थ्यमिति दूषणमुक्तम्। तदप्यसत्। कारणेनाविभागो लय इति वदता स्थितिकाले लयव्यवहारवारणाय तत्कालवृत्तेरतीतावस्थावत्कार्याविभागस्यैव लयशब्दार्थताया वक्तव्यात्वेनाविभागेन तद्धर्मापत्तो स्थितिकाले तदसंभवेनापीति ग्रहणसार्थक्यात्।। 8।।
समाधत्ते --
न तु दृष्टान्तभावात्।। 9।।
-------------------
नैवास्मदीयदर्शने किंचिदसामञ्जस्यमस्ति। यदुक्तं प्रलये कार्येणाविभागमापन्नस्य ब्रह्मणः कार्यधर्मस्थोल्यासत्त्वप्रसङ्गदसमञ्जिसमौपनिषदं दर्रशनमिति। तददूषणम्। दृष्टन्तभावात्। सन्ति हि दृष्टन्ताः कार्येणाविभागमापन्नानि कारणानि न कार्यधर्मैः संसृजन्तीति। यथा शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुच्चावचमध्यमप्रभेदाः सन्तः पुनः प्रकृतिमपि गच्छन्तः। प्रकृत्याऽविभागमापन्ना नाऽऽत्मीयेन धर्मेण कारणं दूषयन्तीति । त्वत्पक्षे तु न कश्चिद्दृष्टान्तोऽस्ति । अपीतिरेव न संभवेद्यदि कारणे कार्यं स्वधर्मेणावतिष्ठेत। विस्तरस्तु भाष्यादौ द्रष्टव्यः।
यत्तु चन्द्रिकायाम्- विलक्षणयोरपि कार्यकारणभावे दृष्टान्तं कथयता ' दृश्यते तु '( ब्रo सूo 2। 1। 6) इति सूत्रेणास्य पौनरुक्त्यम्। तेनैव कार्यवृश्चिकरधर्माणां कारणे गोमयेऽनापत्तावपि दृष्टन्तस्यैवोक्तत्वादिति ( com -- 91) दूषणमुक्तम्। तदसत्। तत्र वृश्चिकादीनां स्थितिकाले कारणाद्विभक्ततयैव स्थितत्वेन परस्परधर्मसाकर्याबावनिदर्शनेऽप्यविभागदशायां तस्याप्रदर्शितत्वात्। तत्पदर्शनायैतत्सूत्रप्रणयनायाससार्थक्यात्।। 9।।

स्वपक्षदोषाच्च ।। 10।।
-----------------
स्वपक्षे चैते प्रतिवादिनः साधारणा देषा ः कथमिति चेत्। यत्तावदभिहितं विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिरकमिति प्रधानप्रकृतिकतायामप्येतत्समानम्। शब्ददिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमेन प्रधानप्रतियोगिकानौपाधिकभेदवत्त्वरुपप्रधानवैलक्षण्यस्य जगति परमतेऽपि सत्त्वात्। अनौपाधिकत्वं च प्रतियोग्यवृत्तिधर्मावच्छिन्नानुयोगिताकत्वम्। स्पष्टीकृतं चैतत् ' न विलक्षणत्वात्' ( ब्रo सूo 2। 1। 4) इति सूत्रयोजनायाम्। परमतेऽतीतानागतवर्तमानावस्थात्रययोगिनः कार्यस्य नित्यत्वेन तत्रोत्पत्तिव्यवहारस्य ' न भावे भावयोगश्चेत् ' ( सा o सूo 1। 111) ' नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारौ' ( सांo सूo 1। 120) इति सांख्यपवचनोक्तरीत्याऽबिव्याकत्यैवोपपादनीयत्वेनाभिव्यक्तेश्च दुर्वचत्वेन सत्कार्यवादहानिः साख्यंस्यैव दोषः। तथा हि - अभिव्याक्तिः प्राक्सकतो न वा। आद्ये कारणव्यापारवैयर्थ्यम्। द्वितीये च सतः कार्याद्विलक्षणाया असत्या उत्पत्स्य [माना] मिव्यक्तेरभ्युपगमात्तत्रैव सत्कार्यवादभङ्गः। न च कारणव्यापारात्पाक्सर्वेषां कार्याणां सदसत्त्वोपगमेन नोक्तविकल्पावकाशः। घटादिवदभिव्यक्तेरपि वर्तमानावस्थायाः प्रागसत्त्वेन तदसत्तानिवृत्त्यर्थं कारणव्यापरोपेक्षणात्। अनागतावस्थया च सत्कार्यसिद्धान्तस्याक्षतेरेकस्यापि दर्शितरुपभेदेन सतसत्त्वे विरोधाभावाच्चेति वाच्यम्। एवमप्यभिव्यक्तेरप्यभिव्यक्तेर्बाच्यतयाऽनवस्थापत्तेपरिहार्यत्वात्। अनवस्थाभियैवाभिव्यक्तेः प्रागसत्त्वस्य त्वयाऽङ्गीकृतत्वाच्च। तथा चोक्तं सांख्यप्रवचने- ' उत्पत्तिवद्वा दोषः(सांo सूo 1। 123) इति। अत्र भाष्यम्- यथा घटोत्पत्तेरुत्पत्तिः स्वरुपमेव वैशेषिकादिबिरसदुत्पत्तिवादिभिरिष्यते लाघवात्तछैवास्माभिरभिव्यक्तेरभिव्यक्तिः स्वरुपमेवोच्यते लाघवात्। असदुत्पत्ताविवाभिव्यक्तावपि नानवस्थेकत्यर्थः। अथैवमप्यभिव्यक्तेरभिव्यक्त्यनङ्गीकारे करणव्यापारात्प्राक तस्याः सत्त्वानुपपत्त्या सत्कार्यवादक्षतिरिति चेत्। न । अस्मिन्प7े सत एवाभिव्याक्तिरित्येव सत्कार्यसिद्धान्त इत्याशयात्। अभिव्यक्तेश्चाभिव्यक्त्यभावेन तस्याः प्रागसत्त्वेऽपि नासत्कार्यवादत्वापत्तिरिति । न च मम तत्रैवासत्कार्यवादस्तव तु सर्वकार्यवादत्वापत्तिरिति। न च मम तत्रैवासत्कार्यवादस्तव तु सर्वकार्योष्विति वाच्यम्। एकत्र प्रसक्तस्यासत्कार्यवादस्यासति बाधकेऽन्यत्रापि प्‌रसक्तेर्दुर्वारत्वाच्च। मम पक्षेऽनिर्वचनीयवादेनादोषाच्चेति। ततै परेँणाप्यपीतौ कारणस्य कार्येणाविभागाभ्युपगमात्कार्यधर्माणामतीतत्वादीनां प्रधाने प्रसङ्ग - समान एव । अधिकं भाष्ये स्पष्टम्।
यत्तु चन्द्रिकायाम् - जलाहरणद्यसमर्थस्यापि मृन्मात्रस्य तत्समर्थघटं प्रतीव शब्दादिहीनस्यापि प्रधानस्य शब्दादियुक्तजगत्प्रत्युपादानत्वसंभवेऽपि न चेतनस्याचेतनोपादानत्वम्। क्वाप्यदर्शनान्निर्विकारत्वाच्चेति परेण त्वां प्रत्युक्तदोषस्य तत्पक्षेऽपाप्तेर्दोषसाधारण्या ( com -- 92) पादानमयुक्तमिति दूषणमुक्तम्। तदप्यसत्। उक्तरीत्याऽनौपाधिकभेदवत्त्वरूपहेतोः प्रकृतिविकारभावविरोधित्वे त्वन्मतेऽपि तदापत्तिः। ब्रह्म न जगदुपादानं चेतनत्वादित्यनुमानेन ब्रह्मणि जगदुपादानत्वनिरासे प्रधानं न शब्दवदुपादानमशब्दत्वादित्यनुमानविरोधेन प्रधानस्यापि वियदाद्यकरणत्वापत्तिः। व्यभिचारदर्शनस्योभयत्र तुल्यत्वादिति समानन्यायेन दोषसाम्यापादानस्य निष्प्रत्यूहत्वात्। नहि शब्दशून्य शब्दवत उपादनं दृष्टं कापि लोके । यथा हि परमते प्रकृतिसंयोगमात्रेण पुरुषस्य न पिरणामितालक्षणो विकारस्तथा मन्मतेऽपि विषमसत्ताककार्यतादात्म्येन न विकारितेत्यभ्युपगमेन विवर्तोपादानत्वाभ्युपगमेन चोपादनत्वेऽपि निर्विकारत्वविरोधः।। 10।।

तर्काप्रतिष्ठानादन्यथानुमेयमिति (1)चेदेवमप्यनिर्मोक्षप्रसङ्गः।। 11।।
-------------------------------------------
किं च न केवलेन तर्केण ब्रह्मणः श्रौतब्रह्माकारणत्वापह्नवोयुक्तः। तर्काणां पुरुषोत्प्रेक्षामात्रनिबन्धनत्वात्पुरुषबुद्धीनां वैचित्र्यात्तेषामप्रतिष्ठतत्वात्। तथा चोक्तम्--
(f.n.क.oप्यविमोक्षo।)

यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते।। इति।

सर्वज्ञत्वेनाभिमतानामपि कपिलकणादप्रभृतीनां परस्परविप्रतिपत्तिदर्शनाच्चाप्रतिष्ठितत्वम्। अथाप्रतिष्ठानशून्येनैकतर्केणानुमेयम्। नहि प्रतिष्ठितस्तर्को नास्तीति वक्तुं शक्यम्। अप्रतिष्ठानसाधकतर्कस्यापि तथात्वापत्त्येष्टासिद्धेः, तर्कमूलसकललौकिकवैदिकव्यवहारोच्छेदापत्तेश्च। मनुरपि---

प्रत्यक्षमनुमानं च शास्त्रं च विविदागमम्।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता।।
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ( 12। 105। 106)

इति ब्रुवन्नेवं मन्यते-- सावद्यतर्कपरित्यागेन निरवद्यस्तर्क- प्रतिपत्तव्य इति चेत्। एवमपि क्कचितर्कस्य प्रतिष्ठितत्वेऽपि अचिन्त्येऽतिगम्भीरे मोक्षाय ज्ञेयप्रकृतविषये तर्कस्याप्रतिष्ठानादनिर्मोक्ष एव। ` अचिन्त्याः खलु ये भावा न तांस्तर्केषु योजयेत्' इति स्मृतेः। अथवा - एवमप्यनिर्मोक्षप्रसङ्गात् ( ङ्गो) मुक्त्यभावप्रसङ्गात्( ङ्ग) इत्यर्थः। सम्यग्ज्ञानान्मोक्ष इति सर्वेषा मोक्षवादिना संमतम्। सम्यग्ज्ञानं चैकरूपमेव । वस्तुतन्त्रत्वात्। वस्तुनि च विकल्पाभावात्। तत्रैवं सति सम्यग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना । कपिलकणभुगाद्युक्ततर्कज्ञानानां तु अन्योन्यविरोघात्प्रसिद्धा विप्रतिपत्तिरिति तर्कप्रभवसम्यग्ज्ञानाभावान्मुक्त्यभावप्रसङ्गोऽन्यथानुमानपक्षे दुर्वारः।
यद्वा पर्वोक्तवैपरीत्येन । पूर्वं हि श्रुत्याद्यनुग्रहरहितस्य तर्कसामान्यस्याप्रतिष्ठिचत्वमुक्तम्। न चैतद्युक्तम्। तर्कसामान्येऽप्रतिष्ठितत्वलसाधकतर्कस्यापि श्रुत्यादिसाहाय्यरहिततयाऽप्रतिष्ठितत्वे सति तर्कसामान्येऽप्रतिष्ठितत्वासिद्धेः। वैदार्थनिर्णायकन्यायानामपि वेदमूलकत्वेऽनवस्थापत्त्या श्रुत्याद्यमूलकत्वेऽपि प्रतिष्ठितत्वस्याऽऽ वश्यकत्वाच्च। एवं च नोक्तन्यायेन विलक्षणत्वादिर्काणामप्रतिष्ठितत्वसिद्धिरिति ` अनुमेयम्' इति शङ्काभागार्थः। साक्षात्परम्परया वा श्रुतिप्रत्यक्षानुसारिण एव तर्कस्य प्रतिष्ठितत्वम्। तर्काप्रतिष्ठितत्वलक्षणस्तर्कोऽपि श्रुत्यनुसार्येव। अन्यथा बाह्मोक्ततर्केण श्रुत्याप्रामाण्यप्रसङ्गात्। एवं वेदतात्पर्यनिर्णायकोऽपि तर्कः क्वचित्प्रत्यक्षानुगृहीतः क्वचिच्छ्रत्यनुगृहीतः क्वचिच्च तदविरुद्धन्यायाविरिद्धो वा भवतीति नाप्रयोजक इति तर्काणां प्रतिष्ठितत्वेऽपि दुर्वारमेवेति ` एवमप्यनिर्मोक्षप्रसङ्गः' इति सिद्धान्तभावार्थः।
यद्वा तर्काप्रतिष्ठानादिति - यद्यस्माद्विलक्षणं तत्तदुपादानकं नेतिसामान्यव्याप्रेर्यत्तत्पदार्थधटितत्वेन पक्षसपक्षसाधारण्येनानुगतीकर्तुमशक्यतया साध्यासाधकत्वादित्यर्थः। दृष्टान्ते हि घटे सुर्वर्णविलक्षणत्वं सुवर्णोपादानकत्वाभावे प्रयोजकं वक्तव्यम्। न तद्वियदादेर्ब्रह्मोपादानकत्वाभावे साध्ये हेतू कर्तुं शक्यते। अपि तु ब्रह्माविलक्षणत्वम्। तथा च दृष्टन्तदार्ष्टान्तिकयोः साध्यतावच्छेदकहेतुतावच्छेदकयोरैक्यालाभः। तदलाभे पक्षवृत्तिहेतौ व्याप्तिग्रहासंभवादनुमितिरसंभावितैव शास्त्रायोनित्वसूत्रे श्रुतिसिद्धे सार्वज्ञ्ये संभावनामात्रप्रयोजनाय यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्संभवति स ततोऽप्यधिकतरज्ञानवानिति सामान्यव्याप्त्युपन्यासेऽपि स्वातन्त्र्येण कंचिदप्यर्थं प्रति साधकत्वेनोपन्यासाभावान्नासंगतिः। ननु दृष्टान्तदार्ष्टान्तिकयोः साध्यातावच्छेदकहेतुतावच्छेदकयोरैक्याभावेन पक्षवृत्तिहेतोर्व्याप्तिग्रहाभावेऽपि प्रकृतहेतुसजातीयहेतौ प्रकृतसाध्यसजातीयसाध्यनिरूपितव्याप्तिग्रहात्प्रकृतहेतोश्च पक्षधर्मताग्रहात्प्रकृतसाध्यानुमितिः स्वीक्रियते। अविद्यादृष्टान्तेन विशेषव्याप्तिरेव वा विवक्षिताऽस्तु। तत्र च नोक्तदोष इति शङ्कते- अन्यथाऽनुमेयमिति । प्रकृतहेतुसजातीयहेतौ प्रकृतसाध्यसजीतीयसाध्यनिरूपितव्याप्त्या विशेव्याषप्त्या वाऽनुमेयमित्यर्थः। एवमपि - उक्तपक्षेऽपि । अनिर्मोक्षप्रसङ्कात्( ङ्गः) - अप्रयोजकत्वपरिहाकार्थम्' तद्विलक्षणत्वं ब्रह्माविलक्षणत्वं वा तदुपादानकत्वे ब्रह्मोपादानकत्वे वा न स्यात्' इति तर्कमूलसामान्यव्याप्त्यादेराश्रणीयतया पूर्वोक्तमेवाप्रतिष्ठितत्वं पुनरापद्येतेत्यर्थः।
यद्वा ` विलक्षणत्वहेतुर्नाप्रयोजके निर्विकारत्वबोधकश्रुत्यनुकूलत्वात्' इइत्यस्यानुमानस्य स्वरूपासिद्ध्यदिनाऽप्रतिष्ठितत्वादनिर्मोक्ष इति योजना।
यत्तु - चशब्दभावान्नास्य हेत्वन्तरत्वं युक्तम्। किं च अन्यथाऽनुमेयम्। इत्यनेन त्वयाऽप्येकसूत्रतया स्वीकृतस्य तर्काप्रतिष्ठानादित्यस्य मद्रीत्या "अन्यथा ` स्वपक्षदोषाच्च' ( ब्रo सूo 2।1। 10) इत्यादिसूत्रोक्ताद्वैपरीत्येनानुमेयं तर्काप्रतिष्ठानात्' इत्येकवाक्यतया श्रुतसाध्यात्वयेन शङ्काविशेषत्वे च संभवति ' विलक्षणयोरपि कार्यकारणभावस्य न हानिः। तर्कस्याप्रतिष्ठितत्वात् ' इत्येवमध्याहृतसाध्यान्वयेन वाक्यं भित्त्वा (1)सिद्धान्तशेषत्वोक्त्ययोगः। अनिर्मोक्षप्रतियोगनोऽनुषङ्गापत्तिश्च(2)। प्रसङ्गशब्दवैयर्थ्य(3) चेति चन्द्रिकाया ( com --93) दूषणमुक्तम्। तदसत्। च शब्दाभावेऽपि तत्समानार्थकापिशब्दसत्त्वेन हेत्वन्तरत्वोपपत्तेः।
(f.n.1.क.oयोगादनo। 2. क. oष़ञ्जनीयत्वाच्चo. 3.oयर्त्याच्चंo.।)

यद्यपि हेत्वन्तरपरत्वे तत्प्रतिपादकभागस्य मूत्रान्तरत्वामुचितं तथाऽपि ` तर्काप्रतिष्टानात्' इत्यंशस्यानिर्मोक्षप्रतियोगिसमर्पकतयोत्तरवाक्यैकवाक्यताऽप्यस्तीति सूचनाय मूत्रैक्यानुसरणम्। ईक्षतेर्नाशब्दम् ( ब्रo सूद 1। 1। 5) ` गौणश्चेन्नाऽऽत्मशब्दात्' ( ब्रo सूo 1। 1। 6) । ' आनन्दमयोऽभ्यासात्( ब्रo सूo 1। 1।13) विकारशब्दान्नेति चेन्न प्राचुर्यात्'
ज्ञेयत्वावचनाच्च' ( ब्रo सूo 1। 1।4) ` वदतीति चेन्न प्राज्ञो हि प्रकरणात्' ब्रo सूo 1। 4। 5) इत्यादौ तु ईक्षणाभ्यासज्ञेयत्वादेरुत्तरवाक्यार्थेऽप्रविष्टतया पृथकसूत्रत्वमादृतम्। अन्यथाशब्दोकक्तान्यत्वप्रतियोगितयाऽत्यन्ताव्यवहिततर्काप्रतिष्ठानस्यान्वयसंभवे पूर्वसूत्रोक्तादितिपदाध्याहारेण व्यवहितस्य तत्प्रतियोगित्वोनान्नवयोपगमस्य जघन्यत्वाच्च। किं च तर्कसामान्यस्यानुकूलतर्कशून्यतयाऽऽभासत्वरूपम्। प्रतिष्ठितत्वं नान्यथानुमेयत्वरूपसाध्यसाधकम्। स्वस्यापि तर्कसामान्यन्तर्गततयाऽऽ भासत्वात्। अन्यथा च सिद्धान्त्यभिमततर्कस्याऽऽभासत्वासिद्ध्याऽन्यथानुमित्ययोगादिति` तर्काप्रतिष्ठानादन्यथाऽनुमेयम्। ` इति व्याहतानुमानपरतया तवैव व्याख्यानमनुचितम्। मम चु श्रुतिप्रत्यक्षान्यतरसाहाय्यरहितस्तर्क एव तर्कशब्देन गृह्यत इति न दोषः। सिद्धान्तसाधकहेत्वन्तरत्वपरत्वे संभवति निरसनीयशङ्काशेषत्वकल्पनाया एवानुचितत्वाच्च। ऊक्तरीत्या व्याहत्याक्रान्तहेतुपरताय व्याख्यानमपेक्ष्य साध्यान्तरान्वयं वाक्यभेदमनिर्मोक्षप्रतियोगिनोऽनुषङ्गं च स्वीकृत्य सूत्रयोजनमेवोचितमिति स्पष्टमेवविदुषाम्। प्रथमयद्वेत्यादिरीत्या द्वितीयद्वेत्यादिरीत्या च सूत्रयोजनायां मन्मते व्याहतिशङ्काया एवाप्रसरः। अर्निर्मोक्षप्रसङ्गादित्यस्य मुक्त्यभावप्रसङ्गादित्यर्थपक्षे प्रसङ्गपदसार्थक्यमतिस्पष्टमेव।
यदपि चन्द्रिकायाम् - किं तर्कमात्रस्याप्रतिष्ठितत्वं किवां श्रित्याद्यननुग्रहीतस्य । नाऽऽद्यः। तर्काप्रतिष्ठिचत्वसाधकतर्कस्या प्यप्रतिष्ठितत्वेन(1) तर्काप्रतिष्ठानासिद्धेः। मीमासानारम्भप्रसङ्गश्च(2) ( com -- 94) `मन्तव्यश्च। सोऽन्वेष्टव्यः' यस्तर्केणानुसंधत्ते' इत्यादिश्रुतिस्मृतिविरधाच्च न द्वितीयः। ब्रह्मणोऽनुपादानत्वसाधकस्य ' वैलक्षण्यरूपतर्कस्य निर्विकारम्' इति श्रुत्यनुगृहीतत्वादिति दूषणमुक्तम्। तदतिशिथिलम्। उक्तरीत्या श्रुत्याद्यननुगृहीतस्यैव तर्कस्य ' केवलेन तर्केण ' इति भाष्येणाप्रतिष्ठितत्वोक्तेर्विकल्पस्य स्वबुद्धिमात्रकल्पितत्वात्।
यदुक्तम् - वैलक्षण्यरूपतर्कस्य ` निर्विकारम्' इति श्रुत्यनुगृहीतत्वान्न तस्य केवलत्वं श्रुत्याद्यननुगृहीतत्वरूपमिति।तदप्यतिशिशिलम्। निर्विकार्त्वस्योपादानताबोधकश्रुतिवलिरुद्धत्वात्। विपक्षे विकारित्वाप्रसक्त्या तस्य ` निर्विकारम्' इति श्रुत्यानुकूल्यासिद्धेः। अन्यथा ` यत्तर्कबलेन सतः कारणत्वसाधनमसतश्च तद्बाधनं तदयुक्तम्।। तर्कबलेन यत्साध्यते तस्मादन्यथाऽपि प्रतितर्केण साधयितु शक्यत्वेन तर्कस्याप्रामाण्यात्। नहि प्रतितर्कमेतावानेवैतादृशं तर्कं प्रति विरोधितया प्रवर्तते ` नैतादृशमिति नियामकमस्ति ' इति त्वदीयोक्ताया युक्तेरपि ' असदेवेमग्र आसीत्' इत्यादिश्रुत्यनुकूलत्वेन शुष्कत्वानुपपत्तेः। वस्तुगत्या श्रुत्यानुसारित्वाभावश्च विलक्षणत्वादेररपि तुल्य इति दिक्।
  आनन्दतीर्थायास्तु - श्रुत्यादिप्रामाण्याद्विष्णोर्जगत्कारणत्वं सिध्यतीत्युक्तम्। श्रुत्यादिप्रामाण्यस्य च युक्तिविरोधे ब्रह्मणो न जगत्कारणत्वं सिध्यतीत्यसौ परिहरणीय एव। श्रुत्याद्येव विषयः। प्रमाणं नवेति संदेहः। ` वृष्टिकामः कारीर्या यजेत' । इत्यादिश्रुतेरप्रामाण्यं दुर्वारमेव। कृतायामपि कारीर्यां फलादर्शनेनान्वयव्यभिचारेण कारणताबाधेन कारणताशून्ये कारीर्यादौ कारणताबोधकत्वात्। दृष्टार्थकफलसंवादशून्यार्थबोधकपाशुपतादिस्मृतिवत्। एवं च वेदाद्येकदेशस्याप्रामाण्येऽन्यदेशप्रमाणतायामनाश्वासाच्छ्रुत्यादि न प्रमाणमिति न विष्णोर्जगत्करणतासिद्धिरिति प्राप्ते- नोक्तश्रुत्यादेस्तथात्वम्। पाशुपतादिस्मृतिवदुक्तानुपलब्ध्यादिहेतुनाऽप्रामाण्यं कल्प्यम्। उक्तान्वयव्यभिचारस्याकारणत्वसाधकत्वात्। यतोऽऽन्वयव्यभिचारो निर्णीतघटादिकारणताकेपु मृद्दण्डादिष्वपि दृश्यत्ते स्वस्वव्यापारेतरयावत्कारणसत्त्वे कार्यानुत्पत्तिस्त्वासिद्धा। व्याघातात्। अधिकारिदिरूपकारणन्तराभावसंभवाच्च। न चैवं फलविसंवादेन पाशुपतादीनामप्रमाण्योक्तिरसंगता स्यादिति वाच्यम्। तेषामनिर्णीतप्रामाण्यकत्वेन कारणान्तराभावाधीन विसंवादकल्पनायां बीजाभावात्। न च वेदानामपि तथात्वम्। तेषां ततो नित्यत्वाख्यवैलक्षण्यात्। नित्यत्वं च ` वाचा विरूपनित्यया ' इति श्रुतिसिद्धम्। न च नित्यत्वेऽप्रामाण्यं वक्तुं शक्यम्। वाक्याप्रमाण्यस्य वक्तुदोषाधीनत्वात्। न चाऽऽत्माश्रयः। यतः ` वाचा विरूपनित्यया' इत्यादिश्रुतिजन्यज्ञानस्य प्रमाण्यं साक्षिसिद्धं नापवादमन्तरा हातु शक्यते। प्रमाणान्तरविरोधादिरपवादहेतुश्चात्र नोपलभ्यते। तथा च सिद्धे प्रामाण्ये तन्निर्वाहाय फलविसंवादो वैगुण्याधीन इति युक्त कल्पयितुम्। पाशुपतादिस्मृतेश्च प्रामाण्यानिश्चयात्। न तत्र तत्कल्पनावकाशः। पा़्चरात्रादिस्मृतीनां च वेदानुसारित्वान्नाप्रामाण्यम्। अतो वेदादिभिर्विष्णोर्जगत्कारणतासिद्धिरप्रत्यूहेति सिद्धान्त इति रीत्या (com --95) सूत्रयोजनामाहुः। तत्रेदं दूषणं चिन्त्यमः अस्मद्रीत्या पूर्वतन्त्राद्युपपादितवेदप्रामाण्यमनाक्षिप्यैव पूर्वपक्षसंभवे तदाक्षेपेण पूर्वपक्षप्रवर्तनस्यानुचितत्वात्। किंच कपिलकणभुक्पाशुपतादीनां वेदप्रामाण्यभ्युपगन्तृत्वान्न तन्मतावलम्बनेनेयमाशङ्का। कपिलतन्त्रे ` नाद्वेतश्रितिविरोधो जातिपरत्वात्' ( सां o सूo 1। 154) इत्यादिसूत्रेः श्रुतिव्याख्यानदर्शनात्। ` तद्वचनादाम्नायस्य प्रामाण्यम्' ( वैo सूo 1। 1। 3) इति वैशेषिकतन्त्रे वेदप्रामाण्यस्य न्यायपञ्चध्याय्या कण्ठत एवोक्तेः।
एवमभ्यार्थितास्तैस्तु कृतवानस्मि संहिताम्।
वेदक्रियासमायुक्तां पुराऽहे द्विजसत्तम्।।
सैव पाशुपते दीक्षा योगः पाशुपतं च सः।

इति पाशुपतागमोक्तेश्च। कारणागमेऽपि पातीति पा वेदस्तं खण्ड्यतीति पाषण्ड इति निरुच्य स्वस्य वेदाविरुद्धत्वादपाषण्डता, इतरेषा तथात्वं चोक्तम्। अथ जैनबौद्धादिमतावलम्बेन नात्र पूर्वपक्ष इति चेत्। तथा सति तदनभिमतवेदनित्यत्वस्वतः- प्रामाण्यादिना सिद्धान्ते तत्प्रामाण्यसाधनानुपपत्तेः।
यत्तु - `वाचा विरूपानित्यया ' इत्यादिश्रुत्यर्थे विसंवादाभावाद्वेदप्रामाण्यसिद्धिरिति। तन्न। उत्पन्नो गकारो विनष्टो गकार इति प्रत्यक्षविसंवादस्य तत्रापि तुल्यत्वात्। प्रत्यभिज्ञायाश्च बुद्धागमसाधारण्यात्। आनुपूर्वानित्यतायामप्येवम्। एतेन फलविसंवादेन पाशुपतादिस्मृतिवत् ' कारीर्या यजेत' इत्याद्येकदेशाप्रामाण्यशङ्काया नित्यत्वेन प्रामाण्यसाधनमिति निरस्तम्। कारीर्यादिस्थले फळविसंवादस्येव ` वाचा निरूपनित्यया' इत्याद्येकदेशे प्रत्यक्षविसंवादस्य तुल्यत्वेन तुदुक्तनित्यत्वेन प्रामाण्यसाधनायोगात्।
यदपि ` न विलक्षणत्वात्' ( ब्रo सू o 2। 1। 4) इत्यादिप्रथमसूत्रानन्तरम्` दृश्यते तु ' ( ब्रo सूo 2। 1। 6) इति सूत्रं पठित्वाऽधिकारिणां फलं दृश्यते। अधिकारश्च फलयोग्यत्वं कर्मवैगुण्यप्रतिबन्धराहित्यं यावत्कारणसंपत्तिर्वेति ( com --96) तदर्थवर्णनम्। तदपि शिथिलम्। क्काचित्कफलदर्शनस्य ( com -- 97) काकतालीयत्वशङ्कावलितस्य बोद्धादिबिरप्यनिरासेन तद्वैयर्थ्यात्।
यदपि - ` मृदब्रवीत्' इत्यादिवेदवाक्यस्य ' मृन्न वदति जडत्वात्' इत्यादियुक्तिविरुद्धार्थकत्वादप्रामाण्ये स्थिते तत्सजातीयवेदमात्रेऽनाश्वासप्रसङ्गान्नोक्तसमन्वय इति प्राप्ते - भवेदेतद्यादि मृदीद्येवोच्येत। नैतदस्ति। मृदाद्यभिमानिन्यो देवता एव तत्र मृदादिशब्दैर्व्यपदिश्यन्ते। ननु ता अभिमन्यमानव्यापिन्यः किंवा
तदेकदेशवर्तिन्य-. आद्येऽपि विग्रहवत्यो च वा। न प्रतमे
प्रथमः। उपलम्भप्रसङ्गात्। न द्वितीयेः। वचनाद्ययोगात्। नान्त्यः। तद्रहितदेशवद्देशान्तरावस्थानोपपत्तो तद्वैयर्थ्यमिति चेत्। अस्त्येव तासां सर्वत्रानुगतिर्विग्रहश्च । न च दर्शनप्रसङ्गः। सर्वगतानां विग्रहवतीनामपि तासामितरेभ्यो विशेषसामर्थ्येनादर्शनसंभवादित्यभिमानिसूत्रार्थः। नन्वप्रामाणिकादेवताकल्पनात्तासां च विशिष्टसामर्थ्यकल्पनाच्च वरं वेदाप्रामाण्यम्। लाघवात्। न च वेदेन तत्सिद्धिः। तत्प्रामाण्ये विवाददित्याशङ्का परिहरति - दृश्यते च । आभिमानिदेवतानां तत्सामर्थ्यस्य च महद्भिर्दृश्यमानत्वादिति ` दृश्यते च ' इति द्वितीय (com -- 98) सूत्रार्य इति। तदप्यसत्। अत्रापि कपिलकणभुगादिमतावलम्बनेन पूर्वपक्षायोगस्य महत्कर्तृकदेवतादर्शनरूपसिद्धान्तयुक्तेरवेदवाद्यनभिमतत्वेन तान्प्रत्येतादृशसिद्धान्तोपपादकयुक्तिप्रदर्शनायोगस्य च तुल्यत्वात्। न च श्रुतिस्मृत्याद्यलौकिकप्रमाण्मन्तरेणाभिमानिदेवतानां महापुरुषप्रत्यक्षगोचरता सिध्यति। मन्मते तु वेदप्रामाण्यमनपहायैवाभिमानिसूत्रप्रवृत्तेर्नानुपपत्तिः काचिदपि।
यदपि ` असदेवेदमग्र आसीत्' ( छाo 3।19। 1) ' असतः सदजायत' इत्यादिनाऽसतः कारणत्वोक्तेर्विरोध इत्यतो वक्ति - ' असदिति चेन्न प्रतिषेधमात्रत्वात्' इति। जगत्कारणत्वं विषयः। तद्विष्णोर्युक्तमयुक्तं वेति संदेहः। श्रुतिविगानं संदेहबीजम्। तत्र न विष्णोर्जगत्कारणत्वं युक्तम्। तत्र प्रमाणाभावात्। न च ` यतो वै' इत्यादिश्रुतिः प्रमाण्म्। ' असदेवेदमग्र आसीत्' इत्यादिश्रुत्याऽसतोऽपि कारणत्वोक्तेः। द्वयोः श्रुतित्वाविशेषेऽप्यसत्कारणताबोधकश्रुतेः ` कारणं प्रलयेऽसद्भवितुमर्हति वस्तुत्वात्क्रार्यवत्' ' विमता भावाः प्रलयेऽसद्भावितुमर्हति वस्तुत्वात्कार्यवत्' ` विमता भावाः प्रलयेऽसन्तो भावत्वात्संमतवत्' इति तत्त्वप्रकाशिकाचन्द्रिकाद्युक्तानुमानरूपयुक्तिसहितत्वेन प्रवलत्वादसदेव कारणामिति पूर्वपक्षे सिद्धान्तः- युक्तमेव विष्णोर्जगत्कारणत्वम्। न त्वसतः। तस्याभावधर्मात्मतामन्तरेण स्वरूपत एव प्रतिषेधबुद्धिविषयत्वात्। असतः कारणत्वा दियुक्तिविरुद्धं वेदवाक्यमित्येतदत्र निषिध्यते। सर्वशब्दानां ब्रह्मणि समन्वयेऽपि ` तदधीनत्वादर्थवत्' ( ब्रo सूo 1:। 4। 3) इत्यादिना मुख्यस्येवामुख्यस्यापि वाच्यत्वाङ्गीकारादसतः प्राप्तिः। तथा श्रुतिप्राप्तमेवासन्मतं निषिध्यते। समयस्योपरि निषेधादर्थाद्युक्तिविरोधी निराक्रियत इत्यानन्दतीर्थीयानाम्` असदिति चेन्न प्रतिषेधमात्रत्वात्' इति (com -- 99) सूत्रयोजनम्। तत्रेदं चिन्त्यम् - कारणतायाः कालसंबन्धितानियतत्वेनासतः कारणत्वशङ्काया अयुक्तत्वात्।
अथात्रासत्पदं प्रागभावपरम्। तथैव व्यासतीर्थानां चन्द्रिकायां व्याख्यानदर्शनात्। उक्तं च चन्द्रिकायाम् - ( com -- 100) अत्रासच्छब्दः शतृप्रत्ययस्यासदभवनमिति च्छान्दसेन भावसाधनत्वेसासदसत्त्वमिति भावप्रधानत्वेन वाऽभावपर इति। तथा प्रागभावस्यैव कर्तृत्वमिति पूर्वपक्ष एव तत्संमतः। तथा हि चन्द्रिकायाम्-- " अत्र विष्णोर्जगत्कर्तृत्वं युक्तिविरुद्धमुत नेति चिन्ता। तदर्थं विश्वप्रागभावः किं विश्वकर्तोत नेति। तदर्थं प्रागभावस्य कर्तृत्वसाधिका वक्ष्वमाणां युक्तिः श्रुतिसंवादिनी , उत नेति। तदर्थम् ` असद्वा इदमग्र आसीत्' ( तैo 2।7) इति। ` तदसदेव सन्मनोऽकुरुत' इति श्रुतिः। किं प्रागभावस्य संकल्पप्रतिपादिका, उतान्यस्येति। पूर्वपक्षस्तु विश्वप्रागभावस्तावद्विश्वहेतुः। घटं प्रति घटप्रागभावस्येवानन्यथासिद्धनियतपूर्ववृत्तित्वात्। अन्यथोत्पन्नो घटः पुनरुत्पद्येत प्रागभावस्य हेतुत्वे तु तदभावादेव नोत्पन्नस्योत्पत्तिः। प्रागभावस्याहेतुत्वे च पाकजरूपरसादीनां भेदो न स्यात्। कार्यभेदस्य कारणभेदाधीमत्वात्। प्रागभावादन्यस्य कारणस्य तत्राभेदात्। श्रूयते चः असद्वा इदमग्र आसीत्' इति प्रागभावस्य हेतुत्वम्। न ह्यत्रासच्छब्दः शून्यपरः । असतो नियतप्राकूसत्त्वरूपहेतुत्वायोगात्। `आसीत्' इति सत्त्वोक्तिविरोधाच्च । एवं च सिद्धे प्रागभावस्य हेतुत्वे प्रागभावान्तरेऽदृष्टमपि विश्वप्रागभावस्य हेतुत्वे प्रागभावान्तरेऽदृष्टमपि विश्वप्रागभावस्य कर्तत्वम् ` विमता भावाः प्रलयेऽसन्तो भावत्वात्कार्यवत्' इत्यनुमानेन प्रलये भावमात्रासत्त्वसिद्धेः कार्यस्य च सकर्तृत्वनियमात्परिशेषात्सेत्स्यति। लघु च क्लृप्तस्य प्रागभावस्य कर्तृत्वमात्रकल्पनमीश्वरतत्कर्तृत्वादिकल्पनात्। दृश्यते चाचेतनेऽरि कर्तरि विहिततृतीयादि। अशरीरत्वेऽपीश्वरस्येवोपादानत्वेऽपि विश्वप्रागभावस्य कर्तृत्वमस्तु। ` तदसदेव सन्मनोऽकुरुत' इति श्रुतावसच्छब्दार्थस्य विश्वप्रागभावस्य(8) मनः शब्देन वा कर्त्रर्थलकारेण वा ज्ञानेच्छाद्युक्तेश्च। शब्दगम्यो ह्यर्थोयथाशब्दमङ्गीकार्यः" इति प्रागभावस्यैव कर्तृत्वमस्त्विति चेत्।
न । श्रौतासत्पदस्वारस्यहानावश्यकत्वे ` एतेन सर्वे व्याख्याताः' ( ब्रo सूo 1। 4। 18) इति प्रथमाध्यायान्त्य(न्त्य) धिकरणोक्तेन ` तदधीनत्वादर्थवत्' ( ब्रo सूo 1।4। 3) इति प्रवृत्तिनिमित्ततादधीन्यन्यायेन ` यतो वा इमानि भूतानि जायन्ते' इत्याद्यनेकश्रुत्यैकवाक्यत्वाय यथाकथंचित्प्रतीयमानार्थपरत्वमतिप्रसङ्गापादकं परित्यज्य तत्पदस्य ब्रह्मापरताया एवोचितत्वेन श्रुत्या प्रागभावकर्तृताया अप्राप्तेः। पूर्वपक्षे ब्रह्मकारणत्वाभिधायिबहुश्रुतिविरुद्धमसत्कारणत्वं क्लिष्टः श्रुत्यर्थःस्यात्। ननु कथं श्रौतासत्पदस्वारस्याहिनिः पूर्वपक्ष इति चेत्। असच्छब्दस्य प्रागभावे रूढ्या प्रयोगाभावेन प्रागभाववादिभिर्वैशेषिकादिभिरपि तस्य तेन शब्देन व्यवह्रियमाणत्वाभावेन ` नासतोऽदृष्टत्वात्' ( ब्रo सू o 2। 1।26) इत्यादौ सूत्रकृता शून्यस्यैव त्वन्मतरीत्या तेन शब्देन ग्रहणेन ` न सदसत' इति व्युत्पत्त्या सद्भिन्नत्वेन भावभिन्नत्वपर्यविसितेन तस्य प्रागभाववाचित्वसंभवनायामपि` अत्रासच्छब्दः शतृप्रत्ययस्यासदभवनमिति च्छान्दसभावसाधनत्वेनासदसत्त्वामिति भावप्रधानत्वेन वाऽभावपर इति प्रागभावस्यैव कर्तृत्वमिति प्रयासेन तस्य प्रागभावार्थकत्वं वर्णयतस्त्वत्पूर्वपक्षिणस्तथा प्रयासवैफल्यापत्त्या तस्य तथा प्रागभाववाचिताया अनभिप्रेतत्वेन प्रागभावस्याभिधेयत्वेन भावधर्मात्मनो भावभिन्नत्वे सत्यभावत्वपर्यवसितं प्रतिषेधमात्रत्वमसिद्धमिति हेतुस्वरूपाविवेचनायां त्वदुक्तरीत्या प्रागभावस्य सद्भिन्नत्वासंभवेन कथचित्संभवे त तद्रीत्यैव तस्य प्रतिषेधमात्रत्वस्यापि संभवेन स्वरूपासिद्ध्यभावात्तन्निराकारणायाभावधर्मात्मतामन्तरेणेत्यादिहेतुस्वरूपनिर्वचनप्रयासवैफल्येन चासच्छब्दस्य प्रागभावार्थतायामस्वारस्यामित्यवेहि। प्रागभावसत्त्वे प्रमणाभावाच्च न श्रुत्या तत्कर्तृत्वप्राप्तिः। न च घटोत्पत्त्यनन्तरं घटस्य प्रागभावोऽत्राऽऽसीदिति प्रतीतिरेव तत्सत्त्वे प्रमाणमिति शङ्क्यम्। उत्पत्त्यनन्तरं प्रागभावस्यासत्त्वेनोत्पत्तेः पूर्व घटस्यैवासत्त्वेनासता घटेन प्रागभावेन वा संबन्धानिरूपणात्प्रागभावस्य घटीयत्वा सिद्धेः। प्रतियोग्यनुयोगिभाव एव संबन्ध इत्यपि न । तस्य स्वरूपसंबन्धविशेषरूपत्वेन प्रत्येकस्वरूपत्वेन संयोगादिवत्संबन्धत्वासंप्रतिपत्तेः। प्रतीतिमात्रस्य वस्त्वासाधकत्वात्।
प्रतियोग्यनुयोगिभावस्य केनचित्संबन्धेन संबद्धस्यैव संबन्धतोतासंबद्धस्येत्यादिविकल्पगिस्तत्वात्। घटात्यन्ताभावविषयकत्वेन तादृशप्रतीत्युपपत्तेश्च। न चोत्पत्तेः पूर्व मृदादौ घटादेः प्रागभाव एव नात्यन्ताभाव। अन्यथाऽसत्कार्यवादे शशाविषाणस्यापि कारकव्यापरादुत्पत्त्यापत्तेः। तादृशप्रतीतेः प्रागभावविषयकत्वमेव नात्यन्ताभावविषयकत्वमिति वक्तु शक्यम्। उत्पत्तेः पूर्वमसत्त्वाविशेष उक्तविशेषस्यासिद्धेः। तन्मते शशविषाणोत्पत्तेरापादनीयत्वात्। ` उत्पन्नोऽपि घटः पुनरुत्पद्येत पाकजरूपरसादीनां भेदश्च न स्याद्यदि प्रागभावस्य न हेतुत्वम्। प्रागभावादन्यस्य कारणस्य तत्राभेदात् ' इति पूर्वपक्षे चन्द्रिकोक्तं न तु सत्। घटं प्रति घटस्य प्रतिबन्धकत्वेन क्लृप्ततदत्यन्ताभावस्य कारणत्वकल्पनयैवोत्पन्नघटोत्पत्तेरापादनायोगात्। घटोत्पत्तेः पूर्वमत्यन्ताभावसत्त्वमुपपादितमेव । एका सामग्र्येकमेव कार्यं जनयतीति स्वभावकल्पनात्। ध्रमिकल्पनातो धर्मकल्पनायां लाघवाच्च। लघु चेश्वरतत्कर्तृत्वकल्पनपेक्षया क्लृप्तप्रागभावस्य हेतुत्वमित्यनेनोक्तलाघवस्य त्वयोक्तत्वाच्च् न तदापत्तिः। तत्क्षणादृष्टादिरूपकारणाभावेन सामग्र्यभावाच्च न तदापत्तिः।
 न वा प्रागभावदन्यस्य कारणस्थाभेदात्पाकजरूपरसादीनामभेदापात्तिः। विजातीयरूपसत्वाद्यवच्छिन्नं प्रत्येकजातीयाग्रिसंयोगरूपपाकस्य हेतुत्वमिति कार्यकारणभावानुरोधेनेव तद्भेदसिद्धेः। तद्विरोधेन प्रत्यक्षविरोधेन च तदैक्यापादनस्यासंभवात्। किं चोत्पन्नो घटः पुनरुत्पद्येतेत्युत्पन्नस्योत्पत्तिरापाद्यमानाऽपसिद्धत्वादापादयितुमशक्या । तदापादकतत्कारणक्लृप्तेः। अन्यथा शशविषाणादीनामप्युत्पत्त्यापत्तिः स्यात्। कथं वा प्रत्यक्षतो गृहीतभेदानां रूपरसादीना रूपं रसः स्यादित्यापादनं संभवति। रूपे रसत्वाभावादेव तदापत्त्ययोगादित्यलम्।
अस्तु वोत्पन्नस्य घटस्य पुनरुत्पत्तिवारणानुरोधेन प्रागभावसिद्धिस्तथाऽपि तस्य तत्तद्व्याक्तिप्रतियोगिकस्यैव सिद्धेः। विश्वत्वावच्छिन्नप्रतियोगिताकस्यातिरिक्तप्रागभावस्यासिद्धेः। तत्र प्रमाणाभावात्। ध्वंसप्रानभावयोः सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वमनङ्गीकुर्वाणैस्तार्किकैरनङ्गीकाराच्च। तदङ्गनकुर्वद्भिरपि' न हि तयोः सामान्याभावत्वमतेऽप्येकविप्रागभावविशेषान्तरध्वंसवत्यपि समये सामान्यावच्छिन्नप्रतियोगिताकध्वंसप्रागभावयोः संभवः' इति दीधितिकारोक्तदिशा तादृशध्वंसस्य महाप्रलय एव संभवेन चरमध्वंसस्येवाऽऽद्यप्रागभावस्यैव तथात्वस्वीकारावश्यकतयाऽऽद्यप्रागबाव एव तथा वाच्यः।
 तथा च सत्याद्यकार्यमुत्पाद्य नष्टस्य तस्य द्वितौ यादिकार्यकर्तृताया असंभवेन कथं तस्य विश्वकर्तृतत्व[मिति] शङ्का युज्यते। आद्यकार्यप्रागभावस्यैव तत्तत्कार्यानुकूलनानाशक्तिकल्पनायां नायं दोष इति चेत्। प्रागभावव्यातिरिक्तशक्तेः प्रलये सर्वभावासत्त्वं भावत्वहेतुता समर्थयता त्वत्पूर्वपाक्षिणा वक्तुमशक्यत्वात्। शक्तेः प्रागभावसावरूपत्वे च तस्यास्तन्नाशेन नाशावश्यंभावादुक्तदोषानुद्धारात्। किचं प्रागभाववादिना वैशेषिकादिना शक्तिपदार्थस्यातिरिक्तस्यानङ्गीकारात्तत्स्वीकार उत्पन्नो घटः पुनरुत्पद्येत। प्रागभावस्यागहेतुत्वे च पाकजरूपरसादिनां भेदो न स्यात्प्रागभावदत्यस्य कारणस्य तत्राभेदादिति प्रागभावस्य कार्यहेत्वसाधकयुक्तेः पूर्वपक्षसमर्थनावसर उक्ताया असंभवापत्तेः। शक्तिपदार्थस्वीकार उत्पन्नघटानुकूलशक्तेस्तदुत्पत्त्या नाशेन पुनस्तदुत्पत्तेरापादयितुमशक्यत्वात्। पाकजरूपरसादीनां कारणीभूतशक्तीनां भेदात्तेषां भेदोपपत्तेश्च। शक्तिपदार्तस्वीकारे
 प्रागभावसिद्धेरेव दुर्घटत्वात्। न च यावत्कार्यप्रतियोगिक एक एव प्रागभावः, तद्गतं तत्तत्प्रतियोगिकत्वं तत्तत्कार्योत्पत्त्या नश्यतीति पूर्वपक्ष्याशय इति केषाचिदुक्तिः सुवचा । ` तस्मात्तत्तत्प्रागभाव एव तत्कार्यहेतुः' इति सिधोक्तपूर्वपक्षनिगमनोक्तविरोधात्। एकस्मिन्प्रागभावे तत्तत्कार्यनाश्वतत्तत्कार्यप्रतियोगिकत्वं स्वीकृत्य तस्य हेतुत्वे विनिगमनाविरहेण सर्वेष्वपि प्रागभावेषु तथा स्वीकर्तृ शक्यत्वेन ` लघु चेश्वरतत्कर्तृत्वकल्पनापेक्षया प्रागभावहेतुत्वकल्पनम्' इति पूर्वपक्षे चन्द्रिकोक्तिविरोधाच्च। त्वदभिमतैतादृशप्रागभावस्याक्लृप्तत्वाच्च। तत्तत्प्रतियोगिकत्वस्य प्रागभावातिरिक्तस्य भावरूपस्य प्रलये सर्वभावासत्त्व समर्थयतात्वत्पूर्वपक्षिणा वक्तुमशक्यतया प्रागभावाकत्मकस्वरूपसंबन्धविशेस्य तस्यैकं कार्यमुत्पाद्यान्यकार्योत्पत्त्यर्थं स्थितस्य प्रागभावस्य स्थितौ नाशासंभवेनोत्पन्नस्य पुनरुत्पादापत्तेर्दुर्वारत्वाच्च। न च तत्तत्कार्यं प्रति तत्तत्प्रागभावस्य कर्तृत्वमित्येतावानेवार्थो विवक्षितस्तावतैव विश्वकर्तृत्वव्यपदेश इति वाच्यम्। तथा सत्यपि ` असद्धा इदमग्र आसीत्तदसदेव सन्मनोऽकुरुत इति श्रुतिः किं प्रागभावस्य संकल्पप्रतिपादिका , उतान्यपरेति व्यासतीर्थानां तदर्थसंशयप्रदर्शनासंगतेः । संकल्पो हि प्रागभावस्य कार्यम्। तेनैव च नष्टेन प्रागभावेन कार्यान्तरजननासंभवात्। किचं कार्यमात्रस्य सकर्तृकत्ववत्सोपादानकत्वस्याप्यनुभवसिद्धत्वाद्युक्तिसिद्धत्वाच्च प्रलयकाले भावमात्रासत्त्वं समर्थयता पूर्वपक्षिणाऽऽद्यकार्यं प्रत्युपादानं प्रागभाव एवेति वक्तव्यम्। तथा सत्युपादानकारण्स्य संकल्पोत्तरकालीनकार्येऽन्वयस्यावश्यं वाच्यतया प्रागभावमर्यादामुल्लङ्घ्य वर्तमानस्य तस्य प्रागभावत्वोक्तिरत्यन्तासंबद्धेव। किचं प्रागभावस्य प्रतियोगिसमानदेशत्वलं तन्त्रान्तरसिद्ध सृष्टिपूर्वकालीने विश्वकतृत्वेन त्वत्पूर्वपक्ष्यभिमले विश्वप्रागभावे दुर्घटम्। तेन प्रलये भावमात्रासत्त्वसमर्थनात्। तथा च क्लृप्तप्रागभावमर्यादातिलङ्घनेन पूर्वपक्षो नितरामयुक्त एव। श्रूयते चेत्यादि दृश्यते चाचेतने कर्तरि विहिततृतीयादिरिति प्रागभावस्य श्रुत्यर्थगौणकर्तृतामादाय पूर्वपक्षो विष्णोर्मुख्यकर्तृतासिद्धान्ताविरुद्धश्च। अद्वैतरीत्या ` न विलक्षणत्वात्' इत्याधिकरणे ब्रह्मणो जगद्विलक्षणत्वादनुपादानत्वपूर्वपक्षं केवलोपादानस्य कार्यसालक्षण्यनियमेऽपि त्वन्मते तन्तूत्प्रत्यूर्णनाभ्यादेरिव जगत्प्रति ब्रह्मवैलक्षण्येऽपि सिद्धान्त्यभिमतस्य निमित्तत्वे सत्युपादानत्वस्य संभवेन पूर्वपक्षः
 सिद्धान्ताविरुद्ध इति दूषयता त्वया कर्तृमशक्य एव। ` तदसदेव सन्मनोऽकुरुत' इत्यादिशब्दगम्यो ह्यर्थो यथाशब्दमङ्गीकार्य इत्यनेन ज्ञानेच्छादिमत्त्वरूपमुख्यकर्तृत्वमादाय पूर्वपक्षोऽप्यसच्छब्दस्य प्रागभावास्वरसतया तदर्थत्वनिराकरणेन निरस्तप्राय एव नोन्मज्जनमर्हति। अपि च `विमता भावा : प्रलयेऽसन्तो भावत्वलात्संमतवत्' इति प्रलये भावमात्रासत्त्वसमर्थनेनेशकारणतापतिक्षेपसिद्धेरावश्यकतादृश्य(श) युक्तिविरोधपरिहारमात्रपरत्वे संभवत्येतादृशरीत्यैतत्सूत्रस्यालीकस्य प्रागभावस्य वा सर्वथाऽसंभावितं विश्वकर्तृत्वं दुराग्रहतयैव पूर्वपक्ष्याभिप्रेततया त्वयोपवर्णनीयम्। तच्चायुक्तम्। न च " श्रुत्युपसर्जनयुक्तिपरिहारस्यैतदाधिकरणोपाधेर्मदभिमतस्य निर्वाहार्थ युक्तो श्रुतिसंवादित्वस्यावश्यं वाच्यतया प्रकृतानुपयुक्तमपि प्रागभावस्य कर्तृत्वं पूर्वपक्ष्याभिप्रेततयाऽऽदृतम्। उक्तं चन्द्रिकायाम्- श्रुत्युपसर्जनप्रागभावकर्तृत्वसाधकयुक्तिविरोधोऽत्र निरस्यते। न तु समयप्राप्तमसत्कारणत्वम्। त्सय द्वितीये निरसिष्यमाणत्वात्। नापि श्रुतिमात्रप्राप्तम्। त्सय तृतीय एव संगतेः। नापि युक्तत्युपसर्जनकश्रुतिप्तम्। तस्य चतुर्थ एव संगतेः। नापि समप्रधानश्रुतियुक्तिभ्यांप्राप्तम्। तस्य तृतीयेऽपि संगतेः। नापि युक्तिमात्रप्राप्तम्। पूर्वाधिकरणे दृढयुक्तिविरोधे निरस्त इह युक्तिमात्रेण पूर्वपक्षानुदयादिति' वाच्यम्। प्रलये सर्वभावासत्त्वसाधकयुक्तेः श्रुतिमूलकत्वासिद्धेः। न च प्रागभावकर्तृताबोधकश्रुतिरेव स्वार्थसिद्धये प्रलये सर्वभावासत्त्वमाक्षिपतीति वक्तु युक्तम्। प्रलये भावान्तरसत्त्वेऽपि प्रागभावकर्तृताया उपपद्यमानतया तदर्थमुक्ताक्षेपायोगात्। असच्छब्दस्य प्रागगभावे स्वरसाभावेन ' यतीवै' इत्यादिश्रुतिविरोधेन प्रागभावस्यासच्छब्दार्थत्वाभावस्योक्तत्वाच्च। किंच प्रागभावस्य कर्तृतापूर्वपक्षस्तत्त्वप्रकाशिकाविरुद्धः। तस्यां हि ' नन्वस्त्वेवमसतः प्राप्तीस्तथाऽपि समयोऽत्र निराक्रियत इति किं न स्यात्' इति शङ्काया ' श्रुतिप्राप्तमेव ' इति भाष्यमवतार्य 'शून्यवादिसमयस्योपरितनपादे निराकरिण्यमाणत्वात्। अत्र श्रुतिप्राप्तमेवासन्मतं निषिध्यत इत्येवाङ्गीकार्यम्। अन्यथा पोनरुक्त्यापातादिति भावः' इति भाष्यतात्पर्योक्तेः। न च शून्यवादिना प्रागभावस्य हेतुत्वमुच्यते। येनात्र प्रागभावकारणताविरोधोक्त्या पोनरुक्त्यं स्यात्। यत्तु चन्द्रिकायाम् - प्रागभावप्रापकसमयाभावादत्रापि शून्यनिराकरणेऽग्रेऽपि तन्निराकारणात्पौनरुक्त्यमिति पौनरुक्त्यापातादित्यस्य भाववर्णनं तत्स्वोक्तिविरोधात्सुधोक्तिविरोधाच्चानुपादेयमेव। तथा हि - स्मृत्याधिकरणे युक्तिविरोधपरिहारात्मके पादे स्मृत्यधिकरणनिवेशमाक्षिप्योक्तं चन्द्रिकायाम्-- `पाशुपतादिस्मृतीनां समयरूपत्वेन स्वोक्तऽर्थे संमतित्वेन श्रुतियुक्तिकथनेन चतुरूपत्वात्तदविरोधस्यैकैकाविरोधप्रतिपादके पादविशेषेऽनन्तर्भावेऽप्यविरोधाध्यायान्तर्भावेन(ण) क्कचिन्निवेशे कर्तव्ये प्रथमातिक्रमे हेत्वभावाच्चतुरात्मकतया प्रवलतया च प्रथम निरसनीयत्वाच्चदावेव निवेशः' इति। तत्र पाशुपतादिस्मृतीनामित्यत्राऽऽदिपदेन बौ[द्धा] र्हतादिस्मृतीनां ग्रहणम्। तन्मतारीत्या पूर्वपक्षाणां स्मृत्यधिकरणे दर्शितत्वात्। ` यदुक्तम् - परस्य ब्रह्मणो विष्णोः सकलजगज्जन्मादिकारणत्वादिकम्। तदयुक्तम्। पाशुपतबौद्धसांख्यार्हतादिस्मृतिविरुद्धत्वात्' इति स्मृत्यधिकरणे पूर्वपक्षे सुधोक्तेश्च। सुधायां च -- युक्ति विरोधपरिहारलक्षणेऽत्र पादे स्मृतिविरोधपरिहारो न कर्तव्यः। असंगतत्वात्। कर्तव्यताया वा प्राथम्यं कुत इति शङ्काया ` तस्याः' इत्यनुभाष्यमवतार्य, एतदुक्तं भवति - पाशुपतादिस्मृतयो हि स्वयमाप्ताभिमतवाक्यतया समयरूपा अपि स्वाभिमतार्थे युक्तिश्रुतीश्च संवादयन्त्यो युक्तिसमयादिविरोधिचतुष्टयरूपाः। ततश्चोक्तेऽर्थे तद्विरोधपरिहारोऽस्मिन्नध्यायेऽन्तर्भवत्येव। किंतु पादचतुष्टयसंगतोऽप्ययं न निष्कृष्यैकत्रैव पादेऽन्तर्भवति। ततोऽध्यायादौ तदन्ते वा वक्तव्यः। प्रथमातिक्रमे च न किंचित्कारणमित्याद्याधिकरणे निरूप्यत इत्युक्म्। तथाऽन्यदपि चातुर्विध्यं वक्तीति ` प्रत्येकं चतुरात्मकाः ' इति मूलमवतार्य तदेवं व्याख्यातम्- चत्वारोऽपि पादाः प्रत्येकं चतुरात्मकः पादचतुष्टयार्थवन्तो द्रष्टव्याः। तद्यथा - युक्तिविरोधपरिहारलक्षणोऽप्ययं पादः समयदित्रयाविरोधपरिहारात्मकोऽपि भवति। तथा समयविरोधपरिहारात्मकोऽपि द्वितीयो युक्त्या दित्रयविरोधपरिहारात्मको भवतीत्यादिपाद इत्येवोक्ते संनिहितत्वादेतध्यायगता एवेति ज्ञायेत। तदर्थ सर्व इत्युक्तम्। सर्वाद्यायसंबन्धिनोऽपीत्यर्थः। यो यदध्यायगतः पादः स तदध्यायगतपादचतुष्टयार्थवानित्यवधेयः। न केवलमेव पादाः, किंतु तदंशाश्च। ते पादा अंशा येषां ते तदंशाः अध्याया इत्यर्थः। प्रथमाध्यायः समन्वयस्येवाविरोधिदित्रयस्यापि प्रतिपादकोभवति। पादानां चतुरात्मकत्वेऽधिकरणानां तथात्वं सिद्धमेव। न चैवमध्यायादिभेदानुपपत्तिः पौनरुक्त्यदोषश्चेति वाच्यम्। विवक्षाभेदेन सामञ्जस्यात्। यदा प्रथमः समन्वयार्थो विवक्ष्यते न तदेतरार्थतेतरेषामित्यादि। तथा चासदधिकरणे निरसनीयस्य प्रागभावस्य समयप्राप्तत्वाभावे तदधिकरणस्य तद्घटिताधिकरणसमुदायात्मकस्य पादस्य च चतुरूपत्वाद्यनुपपत्तेः । तस्य श्रुतिप्राप्तस्यापि समयप्राप्तत्वस्याऽऽवश्यकत्वात्।
एवं प्रागभावकर्तृतापूर्वपक्षस्त्वदीयभाष्यविरुद्धः तत्र हि ` अत्र श्रुतिपाप्तमेवासन्मतं निराक्रियते। समयस्योपरिनिषेधात्' इत्युक्तम्। यदि च प्रागभावप्रापकसमयाभावस्तदाश्रुतिप्राप्तमेवेत्यत्रैवकारवैयर्थ्यम्। शून्यनिराकरणपक्षे तु तस्य श्रुतिसमयोभयप्राप्तत्वात्समयप्राप्ततद्व्यावृत्त्यर्थमत्र श्रुतिप्राप्तत्वेनैव निषेधः। न तु समयप्राप्तत्वेन । उपरि तथा निषेधिदित्यर्थ एवकारसार्थक्यम्। अत एव शून्यस्योपरिनिषेधादित्यनुक्त्वा समयस्योपरि निषेधादिति धर्मैक्येऽपि धर्मभेदेनैव परिहार उक्तः। एवम् `असद्वा इदमग्र आसीत्' इति श्रौतासत्पदस्य प्रागभावार्थकत्वेन तस्य श्रुतिप्राप्तत्वोपपादने ` एतेन सर्वे व्याख्याताः' ( ब्रo सूo 1। 4। 18) इत्यदिकरणतत्त्वप्रकासिकाविरोधः। तस्यां हि ` सर्वशब्दपात्यसदादिशब्दानां न विष्णुवाचित्वामीति समन्वयाक्षेपाय पूर्वपक्षे न विष्णुरसदादिशब्दवाच्यः। तेषा निषेधमुकवेद्यवस्तुवाचित्वात्। परमात्मनश्च भावत्वेन तदयोगात्। न च स्वयं निषेद्यमुखवेद्यत्वाभावेऽपि तद्वतोऽसतः परमात्माधीनत्वेन तस्यासदादिशब्दवाच्यतेति वाच्यम्। स्वरूपशून्यस्य नियम्यत्वाभावेन पराधीनत्वायोगात्' इत्युक्तम्। असच्छब्दस्य प्रागभावार्तकत्वे तु तस्या स्वरूपशून्यत्वाभावात्। सुधायामसदधिकरणे प्रागभावकर्तृतापूर्वपक्षे प्रागभावस्वरूपसत्त्वादिना सदेवेत्यादिप्रयोगविषयत्वोपपत्तेरित्युक्तत्वाच्च। स्वरूपशून्यस्य नियम्यत्वाबावेन पराधीनत्वायोगादित्यस्यासंगत्यापत्तेः चन्द्रिकाकारैरेव' एतेन सर्वे व्याख्याताः' इत्यधिकरणे तत्त्वप्रकाशिकायामुदाहरणत्वेन धृतानाम्' असद्वा इदमग्र आसीत्' इत्यादिश्रुतिस्थासदादिशब्दानां शून्य एवल मुख्यात्वोक्तेर्न ततः प्रागभावकर्तृताप्राप्तिस्तैर्वक्तु शक्या। तथा ह्यानन्दमयाधिकरणे चन्द्रिकायाम् - वैदिकशब्दानमन्यत्रैव प्रसिद्धोभयत्रप्रसिद्धान्यत्रपसिद्धतत्रपसिद्धानां लक्षणेषु बलवच्छ्रुतिलिङ्गद्यैरन्येष्वेव प्रसिद्धतेति। अन्येष्वेव प्रसिद्धाना लक्षणे श्रुत्यादीनां बलवत्त्वं हि प्रवृत्तिनिमित्तस्य तदर्धानत्वादिना । ब्रह्मणि परममुख्यत्वेऽपि तस्य तद्युक्तवाक्यस्य वाऽपरममुख्यवृत्त्याऽन्यपरत्वं विनाऽनुपपद्यमानत्वम्। न त्वापातातो ब्रह्मण्यसंभवपात्रमित्युक्त्वोक्तम् - एवं च ` एतेन सर्वे व्याख्याताः' इत्यत्रापरममुख्यवृत्त्याऽन्यपरवाक्यस्था एवासदादिशब्दा उदाहर्तव्याः। प्रकरणात्। भाष्ये वाक्यविशेषानुपादानाच्च। टीकायाम्` असद्वा इदमग्र आसीत्' इत्यस्यापरममुख्यवृत्त्याऽप्यन्यपरत्वरहितस्योदाहरणं तु क्कचिच्छ्रूत्वसच्छब्दस्य शून्ये मुख्यत्वे ब्रह्मणि चामुख्यत्वे` असद्वा इदमग्र आसीत्' इत्यत्रापि मुख्यार्थत्वाय शून्यमेव गृह्यत इति द्रर्शियितुमिति। एवम् - " यदुक्तं प्रतिषेधमात्रत्वाच्छशविषाणादिवदसतोऽपि न कारणत्वमिति। न तद्युक्तम्। युक्तिविरुद्धस्यापि श्रुतिबलात्कस्याचिदसतः कारणत्वभ्युपगमे बाधकाभावात्। न च शशविषाणादीनामपि तथात्वप्रसङ्गः। सत्सुवैलक्षण्यवदसत्स्वपि वैलक्षण्योपपत्तेः" इत्येतदधिकरकरणीयद्वितीयसूत्रावतरणतत्त्वप्रकाशिकाविरोधश्च। नहि कश्चित्प्रागभावः कारणं कश्चिन्नेति विप्रतिपत्तिरस्ति। येन वैलक्षण्याभ्युपगमेन तत्कारणत्वं समर्थनीयम्। असत्सु शशशृङ्गप्रागभावादिषु किंचिच्छाशशृङ्गदिकं न कारणं किंचित्प्रागभावादिकं कारणमित्येव वैलक्षण्याभ्युपगम इति चेत्। सिद्धत्वात्तदुपपत्तिसाधनवैयर्थ्यात्। ` युक्तिविरुद्धस्यापि ' इति ग्रन्थविरुद्ध चेदमुच्यते। तत्र हि कालसंबन्धनियतं कारणत्वं कालसंबन्धिन एवेति युक्तिविरुद्धमपि कारणत्वं श्रुतिबलात्कस्याचिदसतः स्वी क्रियत इति कालासंबन्धिनोऽपि कारणत्वे शशविषाणादीनामपि कारणत्वं स्यादित्यापत्तौ कालसंबन्धिष्वपि सत्यु कस्यचिदेव कारणत्वं कस्याचिन्नेति वदत्स्वपि कालासंबन्धिषु श्रुतिबलादेव कस्याचिदसतः कारणत्वमित्युपपत्तेरित्यनेन साधितम्। तच्च शून्यपक्षे सम़ञ्जसं न प्रागभावपक्ष इति स्वष्टमेव। प्रागभावस्य कालसंबन्धित्वेन तत्कारणताया युक्तिविरुद्धत्वाभावात्। युक्तिविरुद्धस्यपि कारणत्वस्येत्यनेन कर्तृत्वरूपमेव कारणत्वं विवक्षितम्। तच्च प्रागभावे युक्तिविरुद्धमेवेति चेत्। एवं सति तस्याचेतनमात्रेऽसंभवादचेतनमात्रस्य तत्प्रसङ्गापत्तौ शशविषाणादीनामपि तथात्वप्रसङ्ग इति ग्रन्थास्वारस्यप्रसङ्गात्। युक्ति विरुद्धस्यीपीत्यनेन प्रतिषेधमात्रत्वरूपसौत्रयुक्तिविरुद्धस्येति विवक्षितम्। तस्य चाचेतनमात्रे न प्रसङ्ग इति शशविषाणादीनामेव तत्प्रसङ्गपादनमिति चेत्। एवमपि शशविषाणादीनामित्यत्रात्यन्तासत एवाऽऽदिपदार्थत्वस्वारस्यभङ्गापत्तेर्दुर्वारत्वात्। अचेतनत्वयुक्त्याऽचेतनमात्रस्य कर्तृत्वनिराकरणं विहाय प्रतिषेधामात्रत्वेन तन्निराकरणं कुर्वतः सूत्रकारस्य कारणत्वनिषेधे सामान्यनिषेधेन तद्विषेषकर्तृतानिषेधोऽप्यार्थिक इत्यभिप्रायावगतेश्च। किंच प्रागभावकर्तृतापूर्वपक्षे ` असतः सकाशाज्जगदुत्पत्तौ स्वीकृतायां प्रलयेऽसन्मात्रावशेषः स्यात्कार्य नाशे कारणसत्त्वनियमात्' इति ` अपीतौ तद्वत्प्रसङ्गात्' ( ब्रo सूo 2। 1। 8) इतिसूत्राव्याख्यानतत्त्वप्रकाशिकाविरोधः। तत्प्रागभावस्थितेर्भाविकार्यनिमित्तकत्वेन तत्स्थितेः कार्यनाशनिमित्तकत्वाभावात्। न ह्यत्र प्रागभावकर्तृतापूर्वपक्षिणा प्रागभावस्योपादानत्वं वक्तुं युक्तम्। येनात्र कार्यनाशे तन्मात्रावशेष आपाद्येत। समवायिकारणत्वलक्षणस्य कार्याभिन्नकारणत्वरूपस्य वोपादानत्वस्य प्रागभावे दुर्घटत्वात्। प्रागभावमर्यादामुल्लङ्‌घ्यवर्तमानस्य तस्य प्रागभावोक्तिवेरोधाच्च। तथा प्रागभावस्याक्लृप्तत्वात्` लघु चेश्वरतत्कर्तृत्वकल्पनापेक्षया वलृप्तप्रागभावस्य कर्तृत्वकल्पनम्' इति पूर्वपक्षे चन्द्रिकोक्तिविरोधाच्च। किंतु कर्तृत्वमात्रं कर्तृमात्रावशेषश्च न कार्यनाशनियतोदृष्टः ` अभावधर्मात्मतामन्तरेण स्वरूपत एव प्रतिषेधबुद्धिविषयत्वात्' इति ` प्रतिषेधमात्रत्वात्' इति सौत्रहेतुतत्त्वप्रकाशिकाव्याख्यानविरोधश्च। प्रागभावकर्तृतापूर्वपक्षे प्रागभावस्य प्रतियोगिनिरूप्यस्य प्रतियोगिपुरस्कारेणैव भाननियमात्। तस्य स्वरूपतः प्रतिषेधबुद्धिविषयत्वाभावात्। अन्यथा ` विषयनिरूप्यस्य ज्ञानस्य विषयपुरस्कारेणैव भाननियमान्निर्विषयकज्ञानस्वरूपे न प्रमाणम्' इति न्यायामृतादौ त्वदुक्तिविरोधापत्तेः। तस्मादसच्छब्देन शून्यपक्ष एवाभिमतः। तस्य च कालासंबन्धिनः कालसंबन्धनियतकारणत्वाक्षेपो युक्तः। अन्यथा ' न ह्यत्रासच्छब्दः शून्यपरः ' इति चन्द्रिकाविरोधः। कालाद्यपरिच्छिन्नत्वेन शून्यवाद्यभिमतस्याविनाशिनः प्रागभावत्वोक्तिविरोधश्चैतत्पक्षे। उक्तं च तत्त्वप्रकाशिकायां शून्यस्याविनाशित्वम्। ` नासतोऽदृष्टत्वात्' इत्यधिकरणे -` एकं शून्यमेव खल्वन्तत्रयरहितं(1) परमार्थतो विद्यमानं तस्मादेवैतदशेष जगदुत्पद्यते' इति। प्रागभावकर्तृतापूर्वपक्षादरे तत्त्वप्रकाशिकाविरोधः शून्यस्य कारणतापूर्वपक्षे चन्द्रिकाविरोध इत्युभयतस्पाशा रज्जुरिति। एवं प्रागभावकर्तृताक्षेपेणोक्तसिद्धान्तोऽप्यानन्दतीर्थीयानामयुक्त एव। भावस्याभावधर्मात्मकतामिच्छतां तेषामभावेऽपि भावधर्मात्मकतोक्तिसंभवात्। तार्किकादिभिः प्रागभावस्य हेतुत्वाङ्गीकारेणाभावत्वहेतोः कारणत्वाभावेऽप्रयोजकत्वाच्च। नन्वभावस्य कर्तृत्वादर्शनात्तत्वं हेतू क्रियते। तथा चोक्तं सिद्धान्तोपपादने चन्द्रिकायाम्--
(f.n.क.यविर। )

न तृतीयीदियोगित्वं कर्तृतेह(3) विवक्ष्यते।
कितुं (4)ज्ञानादियोगित्वं तच्चाभावे न युज्यते।।

  नहि जन्मतादिसूत्रोक्तं कर्तृत्वं तृतीयादिप्रयोजकत्वेन वैयाकरणाभिमतं पारिबाषिकम्। किंतु ज्ञानचिकीर्षादिमत्त्वम्। तच्चाभावे न युज्यत इति। नायुक्तमिति चेत्। न। ` यः कर्ता स भावो यः प्रागभावः स न कर्ता' इति' यः काल - स भाववान्' इत्यादिदृष्टनियमलङ्घनेनाऽऽशङ्कितारं प्रति विपक्षे बाधकमनभिधाय तदभ्युपगतस्याभिमतव्याभिचारिताकहेतुमात्रस्याभिधानानौचित्यात्।
यदपि - असतः सकाशज्जगदुत्पत्तावभ्युपेतायां प्रलयेऽसन्मात्रावशेषः प्रसज्येत। कार्यनाशे कारणमात्रावशेषनियमात्। अतोऽसमञ्जसमसन्मतमित्यानन्दतीर्थीयानाम्` अपीतौ तद्वत्पसङ्गादसञ्जसम्' ( ब्रo सूo 2। 1। 8) इति सूत्रस्यार्थवर्णनम्। तदप्यसत्। पूर्ववाद्यभ्युपगतस्य प्रलये सर्वभावासत्त्वस्य तं प्रत्यापादनायोगात्।
यदपि - प्रलये सर्वभावासत्त्व न युज्यते। तदा पदार्थसत्त्वस्यैव ` विप्रतिपन्नोत्पत्तिः सतो भवितुमर्हत्युत्पत्तित्वाद्धटोत्पत्तिवत्' `विमतो नाशः सशेषो विनाशत्वात्पतिपन्ननाशवत्' इति दृष्टान्तबलेन साधयितुं शक्यत्वादिति ` अस्माभिरपि प्रलयेऽसन्मात्रावशेषस्याभिलषितत्वेन नानिष्टापादनम्' इति शङ्कानिवर्तकम् ' न तु दृष्टन्तभावात्' ( ब्रo सूo 2। 1। 9) इति सूत्रस्याऽऽनन्दतीर्थीयानां व्याख्यानम्। तदप्यसदेव। ` विमताभावाः प्रलयेऽसन्तो भावत्वात्संमतवत्' इत्येवं रूपस्यानुंमानस्य पूर्वपक्षिणाऽप्युपदार्शितत्वात्। एवमपि सत्प्रतिपक्षतादोषो दुर्वार एवेति चेत्। तथा सति पूर्वपक्षस्येव सिद्धान्तस्याप्यासिद्ध्यापत्तेः । तथा चात्र स्वपक्षसाधकप्रमाणानुग्राहकस्तर्क एव प्रदर्शनीयः। न तु दृष्टान्तसत्तामात्रामिति सूत्रवैयर्थ्य दुर्वारमेव ।

यदपि - न त्वत्प्रलये सर्वासत्त्वं प्रत्यक्षसिद्धम्। नाप्यगमसिद्धम्। तस्याभावात्। नानुमानमपि प्रलये सर्वासत्त्वसाधकम्। तत्र दृष्टान्ताभावेन तस्य दुष्टत्वादिति` स्वपक्षदोषाच्च' ( ब्रo सूo 2।1। 10) इति सूत्रस्यार्थवर्णनमानन्दतीर्थीयम्। तदपि न सत्। दृष्टन्ताभावरुपैकदोषस्य वक्तव्यत्वे दृष्टन्ताभावच्चेत्यनभिधायानेकदोषानुगमाय सामान्यशब्दोपादाने स्वारस्याभावात्। ` तर्काप्रतिष्ठानादपि ' इति सूत्रस्याऽनन्दतीर्थायभिमतव्याख्यानं यथा न युक्तं तथोक्त प्रागेव स्वकीयरीत्यैतत्सूत्रार्थवर्णनावसर इति दिक्।। 11।।
श्रिमच्छंकरपादाब्जभूषणे परदूषणे।
रघुनाछेन बालेन समुत्तीर्णोऽयमर्णवः।।
व्याख्यामाद्वयविवेकात्मा तत्र हेतुर्गुरोः कृपा।
मीमांसान्यायपञ्चास्यराघवार्यस्य केवलम्।।
इति न विलक्षणाधिकरणं समाप्तम्।।
---------------------------