शङ्करपादभूषणम्/अधिकरणम् ४ (शिष्टाधिकरणम्)

← अधिकरणम् ३ (विलक्षणाधिकरणम्) शङ्करपादभूषणम्
अधिकरणम् ४ (शिष्टाधिकरणम्)
[[लेखकः :|]]
अधिकरणम् ५ (भोक्त्रापत्त्याधिकरणम्) →

अथ शिष्टाधिकरणम्।
एतेन शिष्टापरिग्रह अपि व्याख्याताः।। 12।।
------------------------------
एवं परिणामवाद्याभिमतजगदुपादानत्वप्रतिकूलन्यायस्याविरोधपपाद्याऽऽ रम्भवादिनामभिमतस्तत्प्रतिकूलन्यायोऽस्मिन्नदिकरणे निराक्रियते। अयमत्र पूर्वपक्षः- सांख्ययोगवृद्धाना तर्काकुशलमतित्वात्तदीयतर्केण ब्रह्मणो जगदुपादानत्वबाधो मा भूद्वैशेषिकादीनां तर्कमतिकुशलत्वप्रसिद्धेस्तदीयन्यायस्याबाधितत्वात्तद्वाधितं ब्रह्मणो जगदुपादानत्वमिति। एवं किलाऽऽरम्भवादी वैशेषिको मन्यते - कारणमहत्त्वस्य कार्ये स्वावाधिकोत्कर्षशालिमहत्त्वारम्भकत्वदर्शनाद्यदि महत्तमं जगदुपादानं स्यात्तदा पृथिवीपवनादि कार्यं ततोऽपि महत्स्यात्। यद्यत्कार्य द्रव्यं तत्तन्न्यूनपरिमाणद्रव्यारब्धं यथा तन्त्वरब्धः पट इति व्याप्तेः। न चास्त्यत्र ` दृश्यते तु' ( ब्रo सूo 2। 1। 6) इति (com--101) (*)न्यायावकाशः।

((*)न्यायावकाश इति । तत्र हि `यदुक्तं विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति । नायमेकान्तः। दृश्यते हि लोके चेनतत्वेन प्रसिद्धेम्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः। अचेतनत्वेन च प्रसिद्धेभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः। अचेतनत्वेन च प्रसिद्धेभ्योगोमयादिभ्यो वृश्चिकादीनाम्'इत्युक्तम्। एवं च तन्न्यायायेन महात्तमादपि ब्रह्मणः सकाशान्न्यूनपरिमाणकमपि जगदुत्पद्येतेति न शङ्कनयिमिति भावः। )







नाप्यप्रयोजकता। उत्कृष्टमहत्त्वं प्रत्याश्रयमहत्त्वस्य क्लृप्ता या कारणता तदुच्छेदसप्रसङ्गस्य विपक्षे बाधकस्य सत्त्वत्। न च विवर्तवाद एतद्दोषानवकाशन्नायमाक्षेप इति वाच्यम्। महारज्जावल्पपरिमाणभुजङ्गभ्रमादर्शनेन विभौब्रह्मणि मल्लिकामशकाद्यारोपायोगात्। ननु ( न च) ब्रह्मणः कारणत्वानुपगमे कपालादीना सर्वेषां कार्यतया नित्यसिद्धकारणालाभेन प्रलये सर्वेषां कार्यद्रव्याणां नाशान्मूलकारणाभावेन पुनः सृष्टिर्न स्यादिति वाच्यम्। परमाणूनां मूलकारणत्वसंभवात्। न च तत्र प्रमाणाभावः। ` द्व्यणुकं स्वन्यूनपरिमाणद्रव्यारब्धं कार्यद्रव्यत्वाद्धटवत्' इत्यनुमानसिद्धत्वात्। न च तेषामपि पृथिवीत्वादिना सावयवत्वानुमाने तेन च कार्यत्वानुमाने ततेऽपि न्यूनपरिमाणं किंचिद्भवेत्, एवं ततोऽपीत्यविश्रान्तिरिति वाच्यम्। परमाणोः स्वयवत्वकल्पने सावयवत्वाविश्रान्तौ मेरुसर्षपयोरनन्तावयवत्वाविशेषेण साम्यात्तुल्यपरिमाणतापत्त्या दृष्टविरोधेमन पृथिवीत्वादिना परमाणोः सावयवत्वानुमानासंभवात्। तथा च परमाणव एव मूलकारणं न ब्रह्येति। एवं बुद्धश्च भगवतो विष्णोपवतारोऽभावं जगद्धेतुस्मरति स्म तदनुकूलं ` विमतं भावरूपं जगदभावपुरः-सरं भावरूपात्वाद्यथा सुषुप्तिपुरः सरः प्रपञ्चः ' इति तर्कं चाऽऽह। एव संघातवादिनोऽप्येवं मन्यन्ते - स्थिरस्य कारणता संभवति। समर्थस्प क्षयायोगे निखिलकार्ययोगपद्यप्रसङ्गादिति। एवं स्वभाववादिनोऽपि नित्यधर्माणां देशनियमवदनित्यकार्याणां कालनियमस्य स्वभावोदेवोपपत्त्या न कस्यचित्क्कचित्कारणत्वमिति कुतो ब्रह्मणो जगत्कारणत्वं प्रत्याशेत्याधिकाशङ्कायामुक्तपक्षानुक्तन्यायातिदेशेन दुषयन् `एतेन शिष्टापरिग्रहा अपि व्याख्याताः' इति सूत्रेण सिद्धान्तः- एतेन प्रकृतेन प्रधानकारणवादनिराकरणेन शिष्टैर्मनुव्यासप्रभृतीभिः केमचिदप्यंशेनापरिगृहीता योऽण्वादिकारणवादास्तेऽपि निषिद्धतया व्याख्याता निराकृता द्रष्टव्याः। सत्कार्यत्वात्मासङ्गत्वस्वप्रकाशत्वाद्यंशैर्वेदान्तशस्त्रस्य प्रत्यासन्नः प्रधानकारणवादः सत्कार्यत्वाद्यंशेन शिष्टैः स्वीकृत इति प्रबलत्वादुपदेशः। अण्वादिवादानां निर्मूलत्वलाद्दुर्बलत्वेनातिदेश इति बोध्यम्। अयमत्र सिद्धान्ताभिप्रायः- न तावद्विवर्तवादे प्राथमिको दोषः। उच्चतरगिरिशिखराद्यधिरूढस्य भूमिनिष्ठन्यग्रोधभूरुहादावल्पतरदूर्वाप्रवालाद्यभेदारोपस्य दर्शनात्। घटादिषु दर्शनमात्रेण वेदविरुद्धार्थकल्पने पृथिवीत्वादिना परमाणूनामपि स्ववयत्वकल्पनं कथं वारयितुं शक्यम्। न चैवं मेरुसर्षपयोस्तुल्यपरिमाणतापत्तिर्दोष इत्युक्तं सम्यक्। उभयोरनन्तावयवत्वाविशेषेऽप्यानन्त्य एव विशेषकल्पननोपपत्तेः। तथा च मेरुसर्षपयोरवयवानन्त्यस्य विलक्षणत्वान्न तुल्यपरिमाणातापत्तिः। अवश्यं ह्यानन्त्ये विशेष आश्रयणीयः। अन्यथाऽतीतकल्पनामतीतक्षणानामनागतानां चाऽऽनन्त्यात्तुल्यता स्यादतयस्तत्राऽऽनन्त्ये विशेषः। कल्पनीयः। तथा च सावयवत्वाविश्रान्तेर्मूलकारणमेव परेषा मते दुर्लभं स्यात्। परिणामित्वेऽपि नानुपपत्तिः। विजातीयमहत्त्वादावेव त्वयाऽप्याश्रयमहत्त्वहेतुताया वाच्यतया साक्षाद्ब्रह्मकार्यगतमहकत्त्वादौ कार्यतावच्छेदकवैजात्यानुपगमसंभवाद्ब्रह्मादिगतमहत्त्वव्यावृत्तस्यैव धर्मस्य महत्त्वारम्भकतावच्छेदकत्वोपगमसंभवाच्च। सति बाधके यद्विशेषयोरिति न्यायानवताराच्च। अतिदीर्घतन्त्वारब्धस्यापि कन्दुकादेरनतिदीर्घत्ववन्महत्त्ववत्तूलपिण्डारब्धाया दीर्घवर्तेः सूक्ष्मत्ववच्च महदारब्धस्याप्यनतिमहत्त्वोपपत्तेः। उक्तं च परममहत्त्वशून्यस्यापि शरीरादेः पाञ्जभौतिकत्वं न्यायपञ्चाध्याय्याम्। स्वीकृता च महत्तरादहंकाराद्भूतसूक्ष्मोत्पत्तिः सांख्यादिभिरपि। यदप्यभाक्पुरः-सरत्वानुमानं बौद्धानां तत्रापि साध्यविकलो दृष्टन्तः। सुषुप्तेर वस्थाविशेषत्वेनावस्थावत आत्मनः सद्रूपस्याङ्गीकरणीयत्वेन स्वप्नस्य भावपुरः सरत्वात्। एवं स्थिरस्य कारणता कार्यकारणभाववावश्यकता च ब्रह्मानन्दादिभिर्बहुतरं प्रपञ्चिताज्ञेया। यदा वैदिकशिरोमणिभिः पुराणकर्तृभिस्तत्र तत्र प्रसङ्गदुदाहृता प्रकृतिपरुषादिप्रतिपादिका सांख्यास्मृतिर्जगत्कारणत्वविषये दौर्बल्येन परित्यक्ता तदा निखिलैः शिष्टैरुपेक्षितानां काणादमतानां दौर्बल्यं वक्तव्यम्। न खलु ब्राह्मापाद्मादिषु पुराणेषु क्कचिदपि प्रसङ्गाद्द्व्यणुकादिप्रक्रियोदाहृता । प्रत्युत मनुस्मृतौ--

हैतकान्बकवृत्तीश्च वाङ्मात्रेणापि नार्चयेत्।
मोक्षधर्मे-- आन्वक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम्।
तस्यैवं फलनिर्वृत्तिः सृगालत्वं वने मम।।
अधीत्य मौतमीं विद्या सार्गालीं योनिमाप्यनुयात्।
इति निन्दोपलभ्यते। तथा विष्णुपुराणेऽपि
मही घटत्वं घटतः कपालिका कपालिका चूर्णरजस्ततोऽणुः।
जनैः स्वकर्मास्तिमितात्मबोधैरालक्ष्यते ब्रूहि किमत्र तत्त्वम्।। (2। 12। 42) इति सा प्रक्रिया निन्दिता। यत्तु याज्ञ्यवल्क्येन--
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश।।
  इति न्यायामतप्रक्रियाया विद्यासाधनत्वमुक्तं तछ्रुत्याविरोधिपदार्थशोधकन्यायस्यैवोक्तमित्याविरोधः।
यत्तु चन्द्रिकायाम् - यच्चोक्त एतेन - मनुव्यासप्रभृतिभिः शिष्टैः केनचिदंशेन परिगृहीतस्य वैदिकदर्शनप्रत्यासन्नस्य प्रथानवादस्य निरासेन, तैः केनचिदप्यंशेनापरिगृहीता वैदिकदर्शनाप्रत्यासन्नाः परमाण्वादिकारणवादाः प्रत्याख्याता इति। ` एतेन' ( ब्रo सूo 2। 1। 12) इतिसूत्रार्थमनूद्य तन्न` एतेन सर्वे व्याख्याताः' ( ब्रo सूo 1। 4। 28) इत्यत्रापि त्वयाऽस्यैवार्थस्योक्तत्वेन पुनरुक्तेः। निरीशसांक्यावादादपि सेश्वरवैशेषिकादिवादानमेवेश्वरवादिभिः शिष्टैः परिगृहीतत्वादीश्वरकारणत्ववादिवैदिकपत्या सन्नत्वाच्च। तदुक्तमनुव्याख्याने - न च (1)शिष्टागृहीतत्वं न(3)निरीशा दीशवादिन इति दूषणमुक्तम्। तदसत्। ` एतेन सर्वे व्याख्याताः' इत्यत्राण्वादिकारणवादे श्रुतिर्नास्तीत्युक्तम्। अत्र च तदनुमता' ब्रह्मणो जगदुपादनत्वविरोधियुक्तयो दुष्टा इत्युच्यत इति स्पष्टत्वेन पौनरुक्त्योद्भावनस्याद्वैतमतविद्वेषमूलकधूलिक्षेपमात्रत्वात्। निरीश्वरसाख्यवादस्य सत्कार्यत्वाद्यंशेन श्रुतिप्रत्यासन्नत्वेन शिष्टापरिगृहतित्वस्य सेश्वरवैशेषिकवादस्य परमाण्वादिकारणवादतया निर्मूलतया श्रुत्याप्रत्यासन्नत्वस्य चोक्तत्वान्नानुव्याख्यानोक्तदोषः साधुः। इदानीमुपादानांश एव शिष्टपरिग्रहयोरुक्त्या विरोधाभावात्। अत्र यद्यपि निबन्धेऽस्मिन्नधिकरण एव पूर्वपक्षदशायां कार्यकारणयोरभेदो दूषिस्तथाऽपि तदभेदसाधकन्यायोऽत्र न विवक्षितः । परं पूर्वपक्षो पोद्वलकतामात्रेण पूर्वपक्षे स दूषित इति ध्येयम्। एवं रीत्याऽस्याधिकरणान्तरत्वसंभव एतत्सूत्रस्य पूर्वाधिकरणत्वशेषत्वकल्पनेन "एतेन - सत्कारणत्वादौ दृष्टान्तभावेनासत्कारणत्वादौ दृष्टान्ताभावेन शिष्टापरिग्रहाः- माऽस्तु जगत्कारणत्वमसतस्तथाऽपि न विष्णोर्जगत्कारणत्वं संभवति। ` विप्रतिपन्नं निष्कारणमचेतनकारणं जीवकारणं वा कार्यत्वात्कूलपतनदध्यादिवत्' इति युक्तिविरोधात्। न च निर्मूलयुक्तेरसाधकत्वम्। ` (com -- 102) अकस्मात्' इत्यादिश्रुतिमूलत्वादित्यकर्तृकत्वाचेतनकर्तृकत्वजीवकर्तृकत्वादयः सिद्धान्ता व्याख्याताः। कूलपतनादावपि निष्कारणत्वादेरसंमतत्वात्" इत्यानन्दतीर्थीयानां व्याख्यानमयुक्तम्। अधिकमुक्तं प्राक्।। 12।।
(f.n. 1.क.`शिष्टपरिगृ'। 2.क.राशं। )

श्रीमच्छंकरपादाब्जभूषणे परदूषणे।
रघुनाथकृतिर्भूर्याच्छिष्टाधिकरणे मुदे।।
इति शिष्टाधिकरणं समाप्तम्।।