। अथ अष्टमस्सर्गः ॥

एकाम्रनाथं जगदेकनाथं ददश भाग्यातिशयेन गम्यम् ।
देवीञ्च धामान्तरगां शिवस्य जिज्ञासमानामिव तस्य हार्दम् ॥१॥

ततोऽल्पदूरे निवसन्तमच्युतं पुराणमैक्षिष्ट मनोहराकृतिम् ।
अलालनाथं कमलालयापातिं तुतोष दृष्ट्वा करुणाद्वैमानसम् ॥२॥

पुण्डरीकपुरमाययौ मुनिर्यत्र नृत्यति सदाशिवोऽनिशम ।
वीक्षते प्रकृतिरादिमाश्रिता पार्वतीपरिणतिश्शुचिस्मिता ॥३॥

ताण्डवं मुनिजनोऽत्र वीक्षते दिव्यचक्षुरमलाशयोऽनिशम् ।
जन्ममृत्युभयभेदिदर्शनान्नेत्रमानसावमोदकारकम् ॥ ४ ॥

किञ्चात्र तीर्थमिति भिक्षुगणेन कश्चि-
त्पृष्टोऽबवीच्छिवपदाम्बुजसक्तचेताः ।
संप्रार्थितः करुणयाऽस्मरदत्र गङ्गां
देवोऽथ संन्यधित दिव्यसरित्सुतीर्थम् ॥ ८५ ॥

शिवाज्ञयाभूदितिर्ताथमेतत्
शिवस्य गङ्गेति वदन्ति लोके ।
स्नानादमुष्यां विधुतोरुपापाः
शनैश्शानैस्ताण्डवमीक्षमाणाः ।। ६ ।।

शिवश्य नाट्यश्रमकर्शितस्य
श्रमापनोदाय विविन्तयन्ती ।
1शिवैव गङ्ग परिणामगाभू-
ततोऽथवैतत्प्रथितं तदाख्यम् ॥ ७ ।।


1- अ-शिवेति ।

भ्राम्यत्तीरहतस्वलज्जलगतेः पर्यापतद्बिन्दुकात
पार्श्वेनावसते विनोदवशतो यज्जहूनुकन्यापयः ।
नृत्यं तन्वति धूर्जठौ विगलितं प्रेङ्खज्जटामण्डला-
त्तेनैतच्छिवजाह्नवीति कथयन्त्यन्ये विपश्चिज्जनाः ॥८॥

स्नायं स्नायं तीर्थवर्येऽत्र नित्यं
वीक्षं वीक्षं देवपादाब्जयुग्मम् ।
शोधं शोधं मानसं मानवोऽसौ
वीक्षेतेदं ताण्डवं शुद्धचेताः ॥ ९ ॥

परिवर्णयितुं क्षमेत पुण्यं
पुरवैरी स्वयमव तस्य शुद्धम् :
विनिमज्य शिवे शिवादिगङ्गा
जलराशै समुदीक्षते शिवं यः ! १० ॥

प्रणिपतन् शिवपादसरोरुहे
परिपतन् शिवतीर्थजले सदा ।
अविगतिं विरहय्य परात्मणां
भवमहार्णवपारमुपैति सः ॥ ११ ॥

1पञ्चाक्षरं जपति लक्षमनन्य भाव
स्तर्थािप्लुतश्शिवमनुग्रमुदीक्षमाणः ।
निर्धय पापमरिवलं परिशुद्धचित्तो
मर्त्यः प्रयाति शिवभूयमनन्यमृग्यम् ॥ १२ ॥

ना हीनजन्मा 2प्रविमूढचेता:
कृतोरुपापोऽपि यतःकुतश्चित् ।
पुरं पुरारेरिदमप्यमर्त्य
स्त्यजेच्छरीरं यदि मुक्तिभाक् स्यात् ॥ १३ ॥


  1.   अ  पञ्चाक्षरी ।    
2. अ परिभूढ् ।

विष्ण्वादयस्सुरगणा अभिगम्य तीर्थे
स्नात्वाभिवीक्ष्य शिवमादरतोऽर्चयित्वा ।
संप्रार्थय भक्तिमचलां शिवपादपद्ये
खं धाम सन्ति सततं किमु मर्त्यमुख्याः ॥ १४ ॥

शतयेाजनदूरगोऽपि य-
श्शिवगङ्गेति वदन्निमज्जति ।
किमु 1पश्यन्नुभयं पुरःस्थितम् ।। १९ ।।

यन्निरूपणविधावुपर्यधो
ऽगच्छतां हरिविधी सनातनौ ।
यच्च नोदयति नास्तमेति वा
ज्योतिरुत्सरति तादृशं न्विह् ! १६ ॥

अनुदितास्तमितमेकमुज्ज्वलं
ज्योतिरुत्थितमितो महाव्रतम् ।
2पारहस्सान्ति 3वदत्यपमानगा-
स्ते विशन्ति शिवतच्वसंस्थितिम् ।। १७ ।।

प्रावृट्तोयदसंनिभश्शशभृतं बालं दधन्मस्तके
दिक्षु व्यापृतदीर्घबाहुवलयस्सर्वाङ्ग4भूषावितः ।
पूर्णानन्दघनो विदूरगमलो नृत्यन्सहासेो युवा
व्याघ्रत्वकपरिघानवान्विजयते क्षेत्रे भवानीपतिः ॥ १८ ॥

इतीरितश्शङ्करयोजितात्मा
केनापि भिक्षुर्मुदितो जगाहे ।
तीर्थे तदाप्लुत्य ननाम शम्भेा
रङ्घ्री जितात्मा भुवनस्य गोप्तुः ॥ १९ ॥


1.  का  न्नभयं पुरस्थितं ।
2.  का  परिहरन्ति ।
3.  अ। ददयपि मानावा ।
4.  अ  भाक्षार्चितः का। भाश्होज्वल । 

रामसेतुगमनाय सन्दधे मानसं मुनिरनुत्तमः पुनः ।
वर्त्मानि प्रयतमानसो व्रजन् सन्ददर्श सरितं कवेरजाम् ॥ । २०॥

क्षेत्राणि या पाययते पयांसि
मातेव बालान् तृषितान् क्षुघार्तान् ।
तरङ्गहस्ता पुलिनाधिरोहा
समीननेत्राम्बुरुहस्तनाढ्या ॥ २१ ॥

योन्नतप्यवनता दिवानिशं
सस्यबालपरिपोषणोत्सुका ।
हेसपत्रघवलांशुकोज्वला
मोदते स्वपतिगामिनी सती ॥ २२ ॥

प्रायण नद्यः परिषेव्यमाणाः
युजन्ति पुण्येने निषेवमाणम् ।
नाकं जनायात्मनिषेवकाय
ददत्यनन्तं भुवि तास्तदन्ते ॥ २३ ॥

अम्भस्तदीयं परिषेवमाणा
श्शुद्धेन्द्रिया विष्णुपदारविन्दे ।
अनन्यलभ्यां सुदृढां लमन्ते
भक्तिं यतो 1मुक्तिरनन्यलभ्या ॥ २४ ॥

कवेरकन्याजलनिर्मलत्वं
किं वर्ण्यते तस्य निसर्गसिद्धेः ।
अगस्त्यकुण्डी जलमेतदांयं
जले पुराणानि वदन्ति सन्तः ॥ २१ ॥


1क. यत्नलभ्या

वस्तुं यदीयं पुलिनं मुरारये
सिन्ध्वन्तरीपे वसते हिरण्मये ।
अरोचतारोचितसर्वदिङ्मुखे
श्रीपद्मनाभाय हिरण्यवाससे ॥ २६ ॥

शय्या तदीया भगवाननन्त-
स्सहस्रमूर्धा सुकुमारभोगः ।
यदीयपादाम्बुजयुग्ममर्थ्ये1
मृद्नाति पद्मा करपल्लवाभ्याम्. ॥ २७ ॥

यत्केशपाशविनिवेशितपुष्पमाला-
सौरभ्यलुब्धमधुपायिगणस्तमन्तात् ।
भ्राम्यन् व्यराजत विरोदितुमागते वा
वेदः स्वयं प्रथितशब्दुमवो हि मूर्तः ॥ २८ ॥

2किरीटमस्योपरि दुर्विभाव्यं
यदीयमुच्चैर्मुनिवृन्ददृश्यम् ।
3संशोधते नूनमितोऽपि 4 जातं
तेजस्त्रयं लोकहितैकवृत्तम् | २९ ॥

यदीयनेत्राम्बुरुहे विशाले
लीकैकदीपाविह पुष्पवन्तौ ।
पद्मापि नित्यं स्पृहयालुरास्ते
यत्पादपद्माय सकृत्सकृद्वा ॥३०॥

यदाननस्योपमितिर्न पङ्कजं
न बालचन्द्रो न च पृणचन्द्रमाः ।
पङ्कोद्भवावृत्तकलङ्कदूषणैः
स्वमेव सा स्वस्य मता महाद्युतेः ॥ ३१ ॥


1अ मध्यं । 2अ मध्योपरि ।

3अ। संदृश्यते; संशोभते । 4अ अमिजातम् ।
106
शङ्करविजये

भुजा यदीया भुवनैकरक्षा-
दीक्षा समग्राधिक​शक्तिभाजः ।
धृताब्ज​ङ्खारिमहायुधाश्च1
क्षेत्रं यतो जातमिदं प्रसिद्धम् ॥ ३२ ॥

ऊरू यदीयौ कमवृत्तशोभौ ।
तृतीयवर्णोदयजन्मभूमी ।
सौन्दर्यसर्वस्वनिधानपात्रे
यतः पराजयित हस्तिहस्तः ॥ ३३ ॥

यस्पादौ जितकच्छपौ मृदुतलौ ध्येयौ मुनीनां गणैः
ब्रह्मेन्द्रादिसुरार्चितौं नख​मणिप्रद्योतिताशामुखौ ।
नानारत्नमयोरुपीठनिहितौ क्लेशानभिज्ञौ सदा
गङ्गायाः पितृवंशतमुपगतौ याभ्यां तुरीयोदयः ॥ ३४ ॥

कवेरकन्यासलिलाभिषिक्तः
श्रीपद्मनाभस्य पदारविन्दे ।
आनर्च नम्रो विनयी विनेयै--
स्ततः प्रतस्थेऽभिमतस्थलाय ॥ ३५ ॥

गच्छन् गच्छन्मार्गमध्याभियातं
गेहं भिक्षुर्मातुलस्याजगाम ।
दृष्ट्वा शिष्यैस्तं चिरेणाभियातं
मोदं प्रापन्मातुलश्शास्त्रवेदी ॥ ३६ ॥

शुश्राव तं बन्धुजनस्सशिष्यं
स्वमातुलागार​मुपेयिवांसम् ।
आगत्य दृष्ट्वा चिरमागतं तं
जहर्ष हर्षातिशयेन साश्रुः ॥ ३७ ॥


1क​. महाग​दाश्च ।
107
अष्टमस्सर्गः

रुरोद कश्चिन्मुमुदेऽत्र कश्चित्
जहास पूर्वाचरितं बभाषे ।
कश्चित्प्र​मोदातिशयान्न किञ्चि-
दूचे स्खलद्गीः प्रणनाम कश्चित् ॥ ३८ ॥

ऊचेऽथ तं ज्ञातिजनः प्रमोदी
दृष्ट्वा चिरायाक्षिपदं गतोऽभूः ।
दिदृक्षते त्वां जनतातिहार्दा-
त्तथापि शक्नोति न वीक्षणाय ॥ ३९ ॥

पुत्रास्समित्रा न च बन्धुवर्गः
न राजबाघा न च चोरभीतिः ।
दुःखास्पदा न।त्र विचारहीनं
कृतार्थतामूलपदं यतित्वम् ॥ ४० ॥

प्रसूनवन्तं फलिनं महान्तं
शखोपशाखाचितमेव वृक्षम् ।
बाधन्त​ आगत्य न तद्विहीनं
यथा तथा वा 1धनिनं नृपाद्याः ॥ ४१ ॥

2कुमाररक्षागतमानसाना-
मायाति निद्रापि सुखं न जातु ।
क्व​ देवतार्चा क्व च तीर्थयात्रा
क्व​ वा निषेवा महतां भवेन्नः ॥ ४२ ॥

अश्रौष्म सन्यासकृतं भवन्तं
विप्रात्कुतश्चिद्गृहमागतान्नः ।
कालोऽत्यगात्ते बहुरद्य दैवा-
त्तीर्थस्य हेतोर्गृहमागतस्त्वम् ॥ ४३ ॥


1का. धनिनो । 2का. कुटुम्ब​ ।
108
शङ्करविजये

यथा शकुन्ताः परिवर्धितान् द्रुमान्
समाश्रयन्ते सुखदान्जहत्यपि ।
1परप्रक्लुप्तान्मठदेवतागृहान्
यतिस्समाश्रित्य तथोज्झति ध्रुवम् ॥ ४४ ॥

यथा हि पुष्पाण्य2धिगम्य षट्पद-
स्सङ्गृह्य​ सारं रसमेव भुङ्क्ते ।
तथा यतिस्सारमवाप्नुवन् 3सुखी
गृहाद्गृहादोदनमेव भिक्षते ॥ ४५ ॥

यतिर्विरज्यात्मगतिः कलत्रं
देहं 4गृहं 5संगतमेव 6मुख्यम् ।
विरक्तिभाजस्तनयाः स्व​शिष्याः
किमर्थनीयं 7यातिनो महात्मन् ॥ ४६ ॥

मनोरथानां न समाप्तिरिप्यते
पुनः पुनस्सन्तनुते मनोरथान्8
दारानभीप्सुर्यतते दिवानिशं
तान्प्राप्य तेभ्य​स्तनयानभीप्सति ॥ ४७ ॥

अनाप्नुवन् दुःखमसौ सुतीव्रं
प्राप्नोति चेष्टेन वियुज्यमानः ।
सर्वात्मना कामवशस्य दुःखं
तस्माद्विरक्तिः पुरुषेण कार्या ॥ ४८ ॥


1अ. प्रयुक्तान् । 2अ. अभिगम्य ।

3क. सुखं । 4का. गतं ।

5अ. संयतमेव । 6का. भिक्षते ।

7अ. यतिना ।
109
अष्टमस्सर्गः

विरक्तिमूलं मनसो विशुद्धिं
तन्मूलमाहुर्महतां निषेवाम ।
भवादृशस्तेन च दूरदेशे
परोपकाराय रसामटन्तः ॥ ४९ ॥

अज्ञातगोत्रा विदितात्मतत्वा
लोकस्य दृष्ट्या जडवद्विभान्तः ।
चरन्ति भूतान्यनुकम्पमाना-
स्सन्तो यदृच्छोपगतोप​भोग्याः1 ॥ ५० ॥

चरन्ति तीर्थान्यपि सङ्ग्र​हीतुं
लोकं महान्तो ननु शुद्धभावाः ।
शुद्धात्मविद्याक्षपितोरुपापाः
तज्जुष्टमम्भो निग​न्दन्ति तीर्थम् ॥ ५१ ॥

वस्तव्यमत्र कतिचिद्दिवसानि विद्वन्
त्वद्दर्शनं वितनुते 2मुदमाधिहन्त्रीम् ।
एष्यद्वियोगचकिता जनतेयमास्ते
दुःखं गतेऽत्र 3भवितेति भवत्यसङ्गे ॥ ५२ ॥

संयुनक्ति वियुनक्ति देहिनौ
दैवमेव परमं मनागपि ।
इष्टसङ्गतिनिवृत्तिकालयो-
र्निर्विकारहृदयो भवेन्नरः ॥ ५३ ॥

मध्याह्नकाले क्षुधितस्तृषार्तः
क्व​ मेऽन्नदातेति वदन्नुपैति ।
यस्तस्य निर्वापयिता क्षुधार्तेः
कस्तस्य पुण्यं वदितुं क्षमेत ॥ ५४ ॥


1का. भोग्याः । 2अ. हर्न्तृ ।

3अ. अत्रभवतीति ।
110
शङ्करविजये

सायंप्रातर्वह्निकार्यं वितन्वन्
मज्जंस्तोये 1दण्डकृष्णाजिने च ।
धृत्वा वर्णी वेदवाक्यान्यधीयन्
क्षुध्यन् शीघ्रं गेहिनो गेहमेति ॥ ५५ ॥

उच्चैश्शास्त्रं भाषमाणोऽपि भिक्षु-
स्तारं मन्त्रं संजपन् वा यतात्मा ।
मध्येऽजस्रं जाठराग्नौ प्रदीप्ते
दण्डी नित्यं 2गेहिनो गेहमेति ॥ ५६ ॥

यदन्नदानेन निजं शरीरं
पुष्णंस्तपोऽयं 3क्रमते सुतीव्रम् ।
कर्तुस्तदर्घं ददतोऽन्नमर्घ​-
मिति स्मृतिस्संववृतेऽनवद्या ॥ ५७ ॥

पुण्यं गृहस्थेन विचक्षणेन
गृहेषु सञ्चेतुमलं प्रयासात् ।
विनापि तत्कर्तृनिषेवणेन
तीर्थादिसेवा वहुदुःखसाध्या ॥ ५८ ॥

गृही धनी धन्यतरो मतो मे
तस्योपजीवन्ति घनं हि सर्वे ।
चौर्येण कश्चित्प्रणयेन कश्चित्
दानेन कश्चिद्ब​लतोऽपि कश्चित् ॥ ५९ ॥

सन्तोषयेद्वेदविदं द्विजं य-
स्सन्तोषयत्येव स सर्वदेवान् ।
तद्वेदिविप्रे निवसन्ति देवा
इति स्म साक्षाच्छ्रुतिरेव वक्ति ॥ ६० ॥


1का. दण्डकृष्णाजिनं च। 2गेहतो ।

3अ. कुरुते ।
111
अष्टमसर्गः

स्वधर्मनिष्ठा विदिताखिलार्था
जितेन्द्रियास्सेवितसर्वतीर्थाः ।
परोपकारव्रतिनो महान्त
आयान्ति सर्वे गृहिणो गृहाय ॥ ६१ ॥

गृही गृहस्थोऽपि तदश्नुते फलं
यत्तीर्थसेवाभिरवाप्यते जनैः ।
तत्तस्य तीर्थं गृहमेव कीर्तितं ।
धनी वदान्यः प्रवसेन्न कश्चन ॥ ६२ ॥

अन्तःस्थितं मूषिकमुख्यजीवा
बहिःस्थितं गोमृगपक्षिमुख्याः ।
जीवन्ति जीवास्सकलोपजीव्या-
स्तस्माद्गृही सर्ववरो मतो मे ॥ ६३ ॥

शरीरमूल पुरुषार्थसाधनं
तञ्चान्नमूलं श्रुतितोऽवगम्यते ।
तञ्चान्नमस्माकममीषु संस्थितं
सर्वं फलं गेहपतौ1 समाश्रितम् ॥ ६४ ॥

बवीमि भूयः 2शृणुतादरेण ।
गृहाऽऽगतं पूजयताऽऽतुरातिथिम् ।
सम्पूजितो वोऽतिथिरुद्धरेत्कुलं
निराकृतात्किं भवतीति नोच्यते ॥ ६५ ॥

विनाभिसन्धिं कुरुत श्रुतीरितं
कर्म द्विजा नो जगतामधीश्वरः ।
तुष्येदिति प्रार्थनया गतैनमां
खान्तस्य शुद्धिर्भविता चिरेण वः ॥ ६६ ॥


1का. पतिद्रुमाश्रयम् । 2अ. श्रुतमादरेण।
112
शङ्करविजये

संदिश्येत्थं बन्धुनां भिक्षुराजो
भिक्षाञ्चक्रे मातुलस्यैव गेहे ।
पप्रच्छैनं मातुलो भुक्तवन्तं
किं स्विच्छनं पुस्तकं शिष्यहस्ते ॥ ६७ ॥

ठीका विद्वन्भाष्यगेति ब्रुवाण-
स्तां देहीति प्रोचुषेऽदत्त ताञ्च​ ।
अद्राक्षीत्तां मातुलस्तस्य बुद्धिं
दृष्ट्वाऽनन्दत् खेदमापञ्च​ किञ्चित् ॥ ६८ ॥

प्रबन्धनिर्माणविचित्रनैपुणीं
दृष्ट्वा प्रमोदं स विवेद किञ्चित् ।
मतान्तराणां किल युक्तिजालै-
र्निरुत्तरं बन्धनमालुलोचे ॥ ६९ ॥

गुरोर्म​तं स्वाभिमतं विशेषात्
निराकृतं तत्र समत्सरोऽभूत् ।
साधुर्निबन्धोऽयमिति ब्रुवाणं
तं साभ्यसूयं स कृताभिनन्दनः ॥ ७० ॥

गच्छामि सेतुं त्वयि पुस्तभारं
निक्षिप्य जीवो मम वर्ततेऽत्र ।
यथेतरेषां पशु हिरण्ये
प्रेमा तथा नः खलु पुस्तकेषु ॥ ७१ ॥

स पञ्चपादीं च गृहे प्रयास्यन्
शिष्टां निचिक्षेप तमेवमुक्त्वा ।
प्रतिष्ठमानस्य बभूव कष्टं
-निमित्तमेष्यत्फलसूचनाय ॥ ७२ ॥

113
अष्टमस्सर्गः

अस्पन्दतास्य नयनं किल वाममीषत्
पुस्फोर बाहुरपि वामगतस्तथोरुः ।
चुक्षाव तास्य पुरतः क्वचिदस्खलीञ्च​
सर्वं ययौ न गणयन् गुरुरस्मदीयः ॥ ७३ ॥

गतेऽत्र मेने किल मातुलोऽस्य
ग्रन्थे स्थितेऽस्मिन् गुरुपक्षहानिः ।
दग्धेऽत्र जायेत महापवादो
नोक्त्या निराकर्तुमपि प्रभुत्वम् ॥ ७४ ॥

पक्षस्य नाशाद्गृहनाश एव नो
वरं गृहेणैव दहामि पुस्तकम् ।
एवं निरूप्य न्यदधाद्धनाशनं
चुक्रोश चाग्निर्दहतीति मे गृहम् ॥ ७५ ॥

ऐतिह्यमाश्रित्य वदन्ति चैवं
तदेव मूलं मम भाषणेऽपि ।
यावत्कृतं तावदिहास्य कर्तु-
र्वाच्यं ततः स्याद्द्विगुणं प्रवक्तुः ॥ ७६ ॥

गच्छन्नसौ फुल्ल​मुनेर्जगाम
तमाश्रमं यत्र च रामचन्द्रः ।
अश्वत्थमूले न्यधित स्वचापं
स्वयं कुशानामुपरि न्यषीदत् ॥ ७७ ॥

तीर्त्वा समुद्रं जनकात्मजाया-
स्सन्दर्शनोपायमनीक्षमाणः ।
वसुन्धरायां प्रभवः प्ल​वङ्गा
न वारिराशौ बहवः क्षमन्ते ॥ ७८ ॥

Sankara-8
114
शङ्करविजये

सञ्चिन्तयन्निति कुशासनसंनिविष्टो
ज्योतिस्तदैक्षत विदूरगमेव किञ्चित् ।
संव्याप्नुवज्जगदिदं सुख​शीतलं यत्
संप्रार्थनीयमनिशं मुनिदेवताभिः ॥ ७९ ॥

आगच्छदात्माभिमुखं निरीक्ष्य
सर्वे तदुत्तस्थुरुदारवीर्याः ।
ततः पुमाकास्मदृश्यतैत-
न्महाप्रभामण्डलमध्यवर्ति ॥ ८० ॥

मध्ये प्रभामण्डलमैक्षताञ्चितं
शिवाकृतिं सर्वतपोमयं पुनः ।
लोपादिमुद्रासहितं महामुनिं
प्राबोधि कुम्भोद्भवमादराज्जनः ॥ ८१ ॥

अगस्त्यमृग्यो1 रघुनन्दनस्तत-
स्स्वखेदमन्तःकरणोत्थमत्यजत् ।
प्रायो महद्दर्शनमेव देहिनां
क्षिणेति खेदं रविवन्महत्तमः ॥ ८२ ॥

सभार्यमर्घ्यादिभिरर्चयित्वा
रामस्तदङ्घ्रि शिरसा ननाम ।
तूष्णीं मुहूर्तं व्यसनार्णवस्थो
धृतिं समास्थाय पुनर्बभाषे ॥ ८३ ॥

दृष्ट्वा भवन्तं पितृवत्प्रमेदि
यन्मां भवान् दुःखमहार्णवस्थम् ।
स्वयं समागात्कृपयेह तस्मा-
न्मन्ये ममात्मानमवाप्तकामम् ॥ ८४ ॥

1अ. दृश्यो ।
115
अष्टमस्सर्गः

वंशो महान्मे तपनात्प्रवृत्तो
न तत्र मादृग्जनिता न जातः ।
पदच्युतोऽहं प्रथमं सभार्य-
स्सलक्ष्मणोऽरण्यमुपागतश्च ॥ ८५ ॥

तत्रापि भार्यामहरच्छलेन
स रावणो राक्षसपुङ्गवो में ।
सा चायुनाशोकवने समास्ते
कृशा वियोगात्स्वत एव तन्वी ॥ ८६ ॥

तीर्त्वा समुद्रं विनिहत्य दुष्टं
बलेन सीतामहमाहरामि ।
यथा तथोपायमुदाहर त्वं
न मे त्वदन्योऽस्ति हितोपदेष्टा ॥ ८७ ॥

इतीरितो राममुवाच विद्वन्
मा राम शोकस्य वशं गतोऽभूः ।
वंशद्वये सन्ति नृपा महान्तः
संप्राप्य​ दुःखं परिमुक्तदुःखाः ॥ ८८ ॥

त्वमग्रणीर्दाशरथे धनुर्भृतां
तवानुजस्यापि समो न लक्ष्यते ।
प्ल​वङ्गमानामधिपस्य​ कोठिशः
सन्तीह मां मुञ्च इति ब्रुवन्तः ॥ ८९ ॥

सहायसम्पत्तिरियं तवास्ति
हितोपदेष्टाप्यहमस्मि कश्चित् ।
वारांनिधिः किं कुरुते तवायं
स्मराधुना गोप्पदमात्रमेनम् ॥ ९० ॥

Sankara-18A
116
शङ्करविजये

पुरेव पार्वाब्धिमहं पिबामि
1शुष्कीकृतेन प्रतियाहि लङ्काम् ।
एवं मया कीर्तिरुपार्जिता स्यात्
बद्धे तु वार्घौ तव 2सोर्जिता स्यात् ॥ ९१ ॥

सेतुं वार्घौ बन्धयित्वा जहि त्वं
दुष्टं चौर्याद्येन​ सीता हृतासीत् ।
प्राप्नोषि त्वं कीर्तिमाचन्द्रतारं
तेनात्राब्धिं बन्धय त्वं कपीन्द्रैः ॥ ९२ ॥

इत्थं यत्र प्रेरितोऽगस्त्यवाचा
सेतुं रामो बन्धयामास वार्घौ ।
तुङ्गैः शुङ्गैर्वानरैस्तेन गत्वा
तं हत्वाऽऽजौ जानकीमानिनाय ॥ ९३ ॥

तत्रोषित्वा घस्त्र​मेकं मुनीन्द्रः
पुण्यं पश्यन् सेतुविस्तारमग्र्यम् ।
गन्धाहार्यं पुण्यतीर्थं जगाम
यत्रोमेशस्संनिधत्ते भवान्या ॥ ९४ ॥

स्नात्वा स्नात्वा तीर्थवर्येषु भिक्षुः
पावंपावं रामनाथं ददर्श ।
स्तावंस्तावं पूजयामास भक्त्या
तं चाप्राक्षीच्छिष्यसङ्घो मुनीन्द्रम् ॥ ९५ ॥

ब्रूह्यस्मभ्यं देवदेवस्य विद्वन्
कस्मादासीद्रामनामाभिधानम् ।
सर्वज्ञानामग्रणीस्त्वं हि किञ्चि-
त्ते नाबुद्धे विद्यते विष्टपेषु ॥ ९६ ॥


1अ. शुष्केऽत्र तेन । 2अ. सार्जिता स्यात् ।
117
अष्टमस्सर्गः

पृष्टो मुनीन्द्रोऽचकथत्कथां तां
हत्वा दशास्यं परिगृह्य सीताम् ।
विधाय लङ्काधिपतिं कनिष्ठं
रामो मुनीन्द्रैः पुरमाजगाम ॥ ९७ ॥

आयन्नसौ सेतुपथेन कोट्या
चिच्छेद सेतुं तिसृषु स्थलीषु ।
चापस्य लोके विदधत् स्वकीर्तिं
वाग्मी ह्यगस्त्यं वचनं बभाषे ॥ ९८ ॥

श्रीगन्धमादनगिरौ भगवन्प्रतिष्ठां
लिङ्गस्य कर्तुमनसो भव मे सहायः ।
स्थानं मुहूर्तदिवसौ तदपेक्षितञ्च​
ब्रूहि त्वमद्य जननीं विशदां शिलाञ्च ॥ ९९ ॥

पृष्टो मुनिः प्रतिवचस्समदत्त राज्ञे
त्वं राम मारुतिमुदाहर तच्छिलायै ।
लोकेषु नर्मदशिला प्रथिता प्रशस्ता
तां शीघ्रमागमय सन्निहितो मुहूर्तः ॥ १०० ॥

श्रुत्वा स मारुतिमथो निजगाद राम-
स्त्वं नर्मदातटमुपेत्य विशिष्टलिङ्गम् ।
तस्मादिहाऽऽनय सुखं कलशोद्भवो मां
सम्यङ्मुहूर्तमनुशास्ति समीपगं तत् ॥ १०१ ॥

तस्यानुशासनमथाऽऽदरतो गृहीत्वा
सङ्कोच्य​ गात्रमनघो नभ उत्पपात ।
गच्छन्नसावभिमतस्थलतोऽन्य 1देशं
वेगादवातरदनल्पतनुर्महात्मा ॥ १०२ ॥


1अ. देशे ।
118
शङ्करविजये

तत्क​क्षवाय्वभिहतास्तरवो निपेतु-
1स्संत्रासिताः स्म निपतन्ति महीरुहोऽन्ये ।
तोयोज्झितं तलमदृश्यत निम्नगानां
वेगेन तस्य महता पृथुपङ्कशेषम् ॥ १०३ ॥

विज्ञाय देशमतिलङ्घित​मुत्पतिष्णुः
श्रीनर्मदातटमसौ पुनराससाद ।
लिङ्गं ततो सृगयितुं सलिलं जगाहे
नापश्यदुत्तममनुत्तमवायुसूनुः ॥ १०४ ॥

चिरायमाणे मरुतस्तनूजे
मुहूर्त​काले परिवर्तमाने ।
अगस्त्यमाचष्ट रघूत्तमोऽसौ
किमत्र कार्यं भगवन् 2ब्रवीतु ॥ १०५ ॥

प्रतीक्ष्यमाणे तनये नभस्वतो
मुहूर्तकालस्त्व​तियाति दुर्लभः ।
लिङ्गान्तरञ्चेह न दृष्टिगोचरं
संप्राप्तमस्मान्व्यसनं सुदुस्तरम् ॥ १०६ ॥

अथाब्रवीत्सङ्कटमुद्दिघीर्षुः
पुरातनं लिङ्गमिहास्ति 3पुण्यम् ।
प्रपूजयैनं महिते मुहूर्ते
त्वन्नाथनाम्ना भविता पृथिव्याम् ॥ १०७ ॥

इदमेव युगान्तरेऽर्चितं
भवता लिङ्गमनुत्तम शिवम् ।
पञ्चाक्षरप्रोक्तविधानमाश्रयं
ननाम तुष्टाव च तत्पदाम्बुजम् ॥ १०८ ॥


1अ. संताडिताः स्म । 2अ. भगवान् ।

3अ. पूज्यं ।
अष्टमस्सर्गः

अथाविरासीद्ध​नुमान् सलिङ्ग-
श्चुकोप लिङ्गान्तरपूजनेन ।
आनायि लिङ्गं महतः प्रयत्ना-
द्विदूरदेशातदुपेक्षितं हा ॥ १०९ ॥

रुषितं हनुमन्तमूचिवान् रघुनाथः कृपयार्द्र​मानसः ।
किमु रुप्यसि व​त्स कारणं हनुमंल्लिङ्गमपूजि पूजितम् ॥ ११० ॥

अगस्त्यवाचा परिपूजितं मया
मुहूर्तकालाय भवत्यनागते ।
बिभेमि किञ्चिद्व्यसनोपसर्पका-
द्भवान् सदा मे व्यसनापसर्पकः ॥ १११ ॥

यदत्र कार्ये भवता तदीयं
वदात्र कार्यं तदहं विघास्ये ।
नेक्षेऽस्य कोपस्य महन्निदानं
प्रधानकार्येऽविदिते हि कोपः ॥ ११२ ॥

मदागमात्पूर्वमपूजि यत्त्व​या
लिङ्गं तदुद्धृत्य मदीयलिङ्गके ।
संस्थापिते शाम्यति मामकं मनो
नो चेच्छ्र​मो मे भविता निरर्थकः ॥ ११३ ॥

मया 1हनूमन्कृतलिङ्गचालनं कर्तुं न शक्यं मनसापि जीवता ।
त्वयैव कार्यं स्थितलिङ्गचालनं संस्थापनं तावकलिङ्गगोचरम् ॥ ११४ ॥

उच्चकर्ष किल पुच्छवेष्टितं लिङ्गमद्भुतबलोऽथ वानरः ।
उद्ध​रन् बहुविधेन कर्मणा संतताम वसुधा चचाल च ॥ ११५ ॥

क्षोभमीयुरथ वारिराशयः पेतुरुच्छ्रितनगाश्च​कम्पिरे ।
पर्वतास्सवननिम्न​गाः परं नाचलद्विपुललिङ्ग2मण्वपि ॥ ११६ ॥


1अ. स्थित​ 2का. मण्टपम् ।
120
शङ्करविजये

तत्याज निद्रां किल पद्मनाभः
क्षीरोदशायी मुनयस्समाधिम् ।
गर्भा निपेतुर्लघु गर्भिणीनां
ब्रह्माण्डमेतच्चकितं तदानीम् ॥ ११७ ॥

यस्येक्षणेनैव जगत्समस्तं
कल्पावसाने लयमेत्यवश्यम् ।
तदुद्दिघीषुर्यतते दुराशो
विवेकदूरः खलु कोविदोऽपि ॥ ११८ ॥

निबध्य पुच्छं शिवलिङ्गमध्ये
बभ्राम संभ्रान्तमना हनूमान् ।
लिङ्गे विकारप्रतिपादनाय
न च क्षमोऽभूद्ब​हिरापपात ॥ ११९ ॥

पतन् हनूमान् कल मङ्गलायाः
क्षेत्रे पपातागतचित्तमोहः ।
आत्मानमन्यं न विवेद किञ्चि-
द्ववाम​ चोष्णं रुधिरं 1गतात्मा ॥ १२० ॥

श्रीमङ्गलायाः करुणाकटाक्ष-
पातेन सञ्जीवितवानमंस्त ।
निद्रा किमेषा मतिविभ्रमो वा
कुतो न्यपप्तं च वसुन्धरा का ॥ १२१ ॥

यत्रापतञ्चोदवमीच्च शोणितं
तत्तीर्थमद्यापि तथैव दृश्यते ।
हनूमतः कुण्डमुदाहरन्त त-
द्ध​नूमतो यत्तदभूत्पुरातनम् ॥ १२२ ॥


1अ. महात्मा ।
121
अष्टमस्सर्गः

स​ चाम्बिकायाः प्रणिपत्य पादयो-
श्शनैश्शनै रामसमीपमाययौ ।
स तेन सार्धं शरणं ययौ शिवं
महापराधाञ्चकितोऽनुतापवान् ॥ १२३ ॥

1महापराधो विहितस्सुदुस्सह-
स्तथापि तं क्षन्तुमिहार्हसि प्रभो ।
कृतागसं किं पितरौ प्रमुञ्चतः
शिशुं सहित्वा पुनरेव रक्षतः ॥ १२४ ॥

धरा क्षमा सारवती प्रसिद्धा
बिभर्ति भूतानि दिवानिशं या ।
आदाय​ यद्गन्धगुणान् 2समर्चा
तन्मूर्तिभाजे भवते नमोऽस्तु ॥ १२५ ॥

यज्जीवनं जीवनमेव देहिनां
प्राणाञ्जना बिभ्रति यत्समाश्रयात् ।
यद्रूपमेवोपविधिर्विधीयते
तत्तावकीं मूर्तिमुशन्ति सज्जनाः ॥ १२६ ॥

यत्र जुह्वति घृताप्लुतं हविर्यो मुखं मखभुजां निगद्यते ।
यो निहन्ति बहिरान्तरं तमः सत्तमं तमपि तावकं वपुः ॥ १२७ ॥

यस्मादृते निखिलमेव भवत्यवेष्टं
यत्सङ्गतेर्भवति पावनताखिलस्य ।
दग्धृत्वमस्य यदुपाश्रयतोऽनलस्य
तत्तावकं वपुरहं प्रणतोऽस्मि देव ॥ १२८ ॥


1अ. मया । 2अ. समर्च्या ।
122
शङ्करविजये

विश्वस्य​ शब्द​1निचयस्य​ यदाश्रयत्वं
यन्मूलतोऽस्य​ जगतोऽप्यवकाशलाभः
या केनचित्प्रतिह​तिं न हि याति किञ्चि-
त्सा नाभसी तव तनुर्मम​ मोदिकाऽस्तु ॥ १२९ ॥

या सर्वभूतनिवहार2लुण​तिं गृहीत्वा-
प्यस्तं गता 3पुनरुपैति पृनर्दधाना ।
वृद्ध्यादिना च​ परिपालयति प्रयत्नात्
सा सूरमुर्गिरवताद्व्यतनार्णवान्नः ॥ १३० ॥

या चौशधीरभिनिविश्य​ करोति वृद्धिं
यच्च​न्द्रिका कुमुदवान्ववतामुपेता ।
शेन या व्रजति भुषणनां स​दा ते
सा वैधवी तव​ 4तनुर्म​म चान्तिकेऽस्तु ॥ १३१ ॥

या वेदभाषितपदं परिनिर्वहन्ती
सत्संप्रदायमभिवर्तयनीह लोके ।
या जङ्गमाग्रसरतामभियाति वन्द्या
सा दीक्षिता तव तनुः 5क्षपयेत मोहम् ॥ १३२ ॥

अष्टाविमास्सकललोकहिताय पूर्वं
क्लृप्तास्तवैव​ तनवो भगवन्परं किं
भोक्ता त्वमेव विधुमस्तक भोग्यजातं
तत्साधनञ्च सकलं तव रूपमेव ॥ १३३ ॥

यद्ग​न्धमात्रपतनान्म्रियतेऽमृताशी
तत्कालकूटमपिवश्शिव लोकहेतोः ।
कालात्मना परिणतं तदपीह कण्ठे
भूषायते त्वमसि तद्ध​र नीलकण्ठः ॥ १३४ ॥


1अ. निवहस्य । 2अ. सुगुणान् ।

3अ. उदेति । 4का. तनुस्तनुतात्सुखं नः ।

5का. क्षपयेन्महांहः ।
123
अष्टमस्सर्गः

पूर्वं तथा त्रिपुरवासिजनेन बाधा
लोकत्रये कतिचिदेव दवापरीताः ।
एकेषुणा त्रिभुवनं परिपालयेथा
दग्ध्वा पुरं किमु वदामि पराक्रमं ते ॥ १३५ ॥

ॐ कर्णिकास​नजुषे मुदिताय​ नित्यं
स्वात्मप्रभाय​ सकलाधिपरिच्युताय​ ।
ईशानमूर्तिवपुषे भवेत​ नमोऽस्तु
स्वच्छन्दचाररसिकाय​ नमश्शिवाय​ ॥ १३६ ॥

त्वामुच्चिरवांसुरहम​स्मि न मादृशोऽन्यो
विद्येत मूढघिषणास्त्रिषु विष्टपेषु ।
त्वत्पादपङ्कजरजः –णभूषितानां
तत्तद्विधेयविघिषूद्भवतीह शक्तिः ॥ १३७ ॥

इत्थं हरः स्तुतिपदैः परितोषितात्मा
प्रत्यक्षतामुपगत​1श्शरणागतस्य​ ।
आनायि लिङ्गमिह यत्तदमुष्य देव
कर्तु मनः स्पृहयतीश​ पुनः प्रतिष्ठाम् ॥ १३८ ॥

2अन्तःसालस्योत्तरस्यां दिशि स्वं
लिङ्गश्चैतत्स्थापय त्वं यथेष्टम् ।
दृष्त्वा भूयस्सज्जना मां नमन्तु
संपूर्णन्ते तत्फलं संलभन्तां ॥ १३९ ॥

(नो चेत्तेषां दर्शनं निष्फलं स्यात्
3इत्युक्त्वान्तर्धान​मागात्तदानीम् ।)


1अ. शरणं । 2अ. अन्तश्शालस्यो ।

3अ. इत्येवमक्तान्तरधाच्छिवस्सः (?)
124
शङ्करविजये

आकर्ण्य​ देववचनं हनुमान्प्रतीतः
प्रातिष्ठिपत्तदनु लिङ्गमनुत्तमं तत् ।
सम्यङ्मुहूर्तमनुसृत्य रघूत्तमोक्त्या
तद्वायुजेश्वरसमाह्वयमेतदासीत् ॥ १४० ॥

यत्राद्धापि च​ पुण्डरीकनगरं कावेरिकामाधवौ
पश्चान्मातुलमन्दिरस्य गमनं सम्भाषणं ज्ञातिभिः ।
पुस्तस्थापनरामनाथचरिते संप्रोदिते यत्न​तः
श्रीमच्छङ्करदेशिकेन्द्रविजये सर्गोऽष्टमः प्रस्थितः ॥ १४१ ॥

॥ इति श्रीशङ्करविजये व्यासाच​लीये अष्टमस्सर्गः ॥