॥ अथ सप्तमस्सर्गः ॥


त्वं नासि देहो घठवद्ध्यनात्मा
रूपादिमत्त्वादिह जातिमत्त्वात् ।
ममेति भेदप्रथनादभेद-
संप्रत्ययं विद्धि विपर्ययं भोः ॥ १ ॥

लोप्यो हि 1लोपव्यतिरिक्तलोपको
दृष्टो घटादिः किल तादृशी तनुः ।
दृश्यत्वहेतोर्व्य​तिरेकसाधने
ततश्शरीरे कथमात्मतागतिः ॥ २ ॥

नापीन्द्रियाणि खलु तानि च साधनानि
दात्रादिवत्कथममीषु तवात्मभावः ।
चक्षु2र्मदीयमिति भेदगतेरमीषां
स्वप्नादिमावाविरहाञ्च घठादिसाम्यम् ॥ ३ ॥

यद्यात्मतैषां समुदायगा स्यात्
एकव्ययेनापि भवेन्न तद्धीः ।
प्रत्येकमात्मत्वमुदीर्यते चेत्
नश्येच्छरीरं बहुनायकत्वात् ॥ ४ ॥

आत्मत्वमन्यतमगं यदि चक्षुरादे-
श्च​क्षुर्विनाशसमये स्मरणं न हि स्यात् ।
एकाश्रयत्वनियमात्स्मरणानुभूत्यो-
र्दृष्टश्रुतार्थविषयाधि3 गतिश्च न स्यात् ॥ ५ ॥


1का. लोप्य । 2अ. ममेदमिति ।

3अ. वगतिश्च ।

मनोऽपि नात्मा करणत्वहेतो-
र्मनो मदीयं गतमन्यतोऽभूत् ।
इति प्रतीतेर्व्य​भिचारितायाः
1सुप्तवतश्चिन्मनसो विभक्ता ॥ ६ ॥

अनयैव दिशा निराकृता
ननु बुद्धेरपि चात्म​ता स्फुटम् ।
अपि 2भेदगतेरनन्वयात्।
करणादावपि 3बुद्धिमुज्झ भोः ॥ ७ ॥

नाहङ्कृतेरात्मपदप्रवादात्
प्राणा मदीया इति लोकवादात् ।
प्राणोऽपि नात्मा भवितुं प्रगल्भ​-
स्सर्वोपसंहारिणि[हि]सत्सुषुप्ते ॥ ८ ॥

एवं शरीरादविविक्त आत्मा
त्वंशब्दवाच्योऽभिहितोऽत्र वाक्ये ।
तदोदितं ब्रह्म जगन्निदानं
तथा तदैक्यं पदयुग्मबोध्यम् ॥ ९ ॥

कथं तदैक्यं प्रतिपादयेद्वच-
स्सर्वज्ञसंमूढपदाभिषिक्तयोः ।
न ह्येकता संतमसप्रकाशयोः
संदृष्टपूर्वा न च दृश्यतेऽधुना ॥ १० ॥

सत्यं विरोधगतिर4स्तु तु वाच्यगेयं
सोऽयं पुमानितिवदत्र विरोधहानेः ।
आदाय वाच्यमविरोधि पदद्वयं त-
ल्लक्ष्यैक्यबोधनपरं ननु को विरोधः ॥ ११ ॥


1अ. सुप्तौ च तञ्चिन्मनसो विविक्ता । 2का. रन​न्यथात्वात्।

3का. बुद्धिरूह्यते । 4अ. अस्ति ।
79
सप्तमस्सर्गः

1जहीहि देहाधिगतामहंधियं
चिरार्जितां कर्म​चयैस्सुदुस्त्यजाम् ।
विवेकबुद्ध्या परमेव सन्ततं
ध्यात्वात्मभावेन यतो विमुक्तता ॥ १२ ॥

साधारणे वपुषि काकशृगालवह्नि-
मात्रादिकस्य ममतां त्यज दुःखहेतुम् ।
तद्वज्जहीहि बहिरर्थगताञ्च विद्वन्
चित्तं वधान परमात्मनि निर्विशङ्कम् ॥ १३ ॥

तीरात्तीरं सञ्चरन् दीर्घमत्स्यस्तीराद्भिन्नो लिप्यते नापि तेन ।
एवं देही सञ्चरन् जाग्र​दादौ तस्माद्भिन्नो 2नापि तद्धर्मको वा ॥ १४ ॥

जाग्रत्स्वप्नसुषुप्तिलक्षणमिदं3 स्थानत्रयं चिन्तने
त्वय्येवानुगते मिथोव्यभिचरद्धीसंज्ञमज्ञानतः ।
क्लुप्तं रज्ज्विदमंशके वसुमती छिद्रादिदण्डादिवत्
तद्ब्रह्मासि तुरीयमुच्झितभयं मा त्वं पुरेव भ्रमीः ॥ १५ ॥

4प्रत्यक्तमः परपदं विदुषोऽन्तिकस्थं
दूरं तदेव परिमूढमतेर्जनस्य ।
अन्तर्बहिश्च चितिरस्ति न वेत्ति कश्चित्
चिन्वन्बहिर्बहिरहो महिमात्मशक्तेः ॥ १६ ॥

यथा प्रपायां बहवो मिलन्ति
क्षणे द्वितीये बत भिन्नमार्गाः ।
प्रयान्ति 5तद्वद्बहुमानभाजाे
गृहे भवन्त्यत्र न कश्चिदन्ते ॥ १७ ॥


1का. जहीहि देहादिगतां । 2का - नापगाधर्मको वा ।

3अ. पदेऽवस्थात्रयं चित्तनौ । 4का. प्रत्युत्तमं ।

5अ. नाम ।
80
शङ्करविजये

सुखाय 1तैर्यत्क्रियते दिवानिशं
सुख​न्न किञ्चिद्ब​हुदुःखमेव तत् ।
विना न हेतुं सुखजन्म दृश्यते
हेतुश्च हेत्वन्तरसन्निधौ भवेत् ॥ १८ ॥

परिपक्व​मतेस्सकृच्छ्रुतं जनयेदात्म​धियं श्रुतेर्वचः ।
परिमन्दमतेश्शनैश्शनैर्गुरुपादाब्जनिषेवणादिना ॥ १९ ॥

प्रणवाभ्यसनोक्तकर्मणोः करणेनापि गुरोर्निषेवणात् ।
अपगच्छति मनसे मलं क्षमते तत्त्वमुदीरितं ततः ॥ २०॥

2मनोऽनुवर्तेत दिवानिशं गुरुं
गुरुर्हि साक्षाच्छिव एव तत्त्व​वित् ।
निजानुवृत्त्या परितोषितो गुरु-
र्विनेयवक्त्रं कुपया 3हि वीक्षते ॥ २१ ॥

स कल्पवल्लीव निजेष्टमर्थे
फलत्यवश्यं किमकार्यम​स्याः ।
आज्ञा गुरोस्सम्परिपालनीया
सा मोदमानाय विघातुमिष्टम् ॥ २२ ॥

गुरूपदिष्टा निजदेवता चेत्
कुप्येत्तदा पालयिता गुरुः स्यात् ।
रुष्टे गुरौ पालयिता न कश्चित
गुरौ न 4तस्माज्जनयेत कोपम् ॥ २३ ॥

पुमान् पुमर्थे लभते 5विचोदितं
भजन्ननर्थं प्रतिषिद्धसेवनात् ।
विधिं निषेधश्च निवेदयत्यसौ
गुरोरनिष्टच्युतिरिष्टसम्भवः ॥ २४ ॥


1अ. यद्यत्क्रियते । 2अ. मनः प्रवर्तेत ।

3अ. अभिवीक्षते । 4अ. जनयीत ।

5अ. हि । {[rh|right=81|center=सप्तमस्सर्गः}}

आराधितं दैवतमिष्टमर्थं
ददाति 1तस्याधिगमो गुरोस्स्यात् ।
नो चेत्कथं वेदितुमीश्वरोऽय-
मतीन्द्रियं दैवतमिष्टदं2 नः ॥ २५ ॥

तुष्टे गुरौ तुष्यति देवतागणो
रुष्टे गुरौ रुष्यति देवतागणः ।
सदात्मभावेन 3समस्तदेवताः
पश्यन्नसौ सर्वमयो हि देशिकः ॥ २६ ॥

एवे 4पुराणगुरुणा परमार्थतत्त्वं
शिष्टो गुरोश्चरणयोर्निपपात तस्य ।
धन्योऽस्म्यहं तव 5गुरो करुणाकटाक्ष-
पातेन पातिततमो इति भाषमाणः ॥ २७ ॥

मम यत्करणीयमस्ति ते त्वमिमं मामनुशाध्यसंशयम् ।
तदिदं पुरुषस्य जीवितं यदयं जीवति भक्तिमान्गुरौ ॥ २८ ॥

इतीरिते शिष्यवरेण शिष्यं
प्रोचे गरीयानतिहृष्टचेताः ।
मत्कस्य भाष्यस्य विधेयमिष्टं
निबन्धनं वार्तिकनामधेयम् ॥ २९ ॥

दृष्टं मतर्के भवदयभाष्यं
गभीरवाक्यं न ममास्ति शक्तिः ।
तथापि भावत्कटाक्षपातै-6
र्यते यथाशक्ति निबन्धनाय ॥ ३० ॥


1अ. अधिकृतो गुरुः ; क. तत्राधिकदो गुरुः स्यात् ।

2अ. मिष्टदं नो ; का. मिष्टदाने ।

3अ. देवतां । 4अ. ब्रुवाण ।

5अ. गुरोः । 6का. पाते यते ।

अथागमच्छिष्यगणस्तदीयस्ततस्ततश्शिष्यगणास्तदीयाः1
श्रुत्वा जितं त्यक्तसमस्तशेषं श्रीविश्वरूपस्य मुदं दधानाः ॥ ३१ ॥

दृष्ट्वा गुरुं ते क्रमत प्रणेमुस्तदीयपादाब्जरजो दधानाः ।
परस्परञ्चाददिरे ददुश्च नमस्कृति दर्शनहृष्टचित्ताः ॥ ३२ ॥

कतिपयानि दिनानि न पश्यतो गुरुपदाब्जमभूद्युगसंमिता |
2अपि त्रुठिर्य​तिवर्य​वरस्य सा सु जनताविरहो हि सुदुस्सह ॥ ३३ ॥

गुरुपदाब्जरसं पिबति स्म सा यतिजनालिरनुत्तमसार​वित् ।
नयनयुग्मपुटेन निरन्तरं 3विरहवह्नितृषैकनिराकुलाः ॥ ३४ ॥

श्रुतवती गुरुवक्तसरोरुहात् बहुकथाः परमात्मपदानुगाः ।
भवकथातिगता भवनाशिनीर्विगतपुण्यचयेन सुदुर्लभाः ॥ ३५ ॥

कतिपयेषु गतेषु दिनेष्वियं श्रुतवती किल भाष्यानिबन्धनम् ।
अभिनवेन करिष्यत इत्यदो थतिजनालिरसोढ न रम्यवाक् ॥ ३६ ॥

योऽयं प्रयत्नः क्रियते हिताय हिताय नालं विफलन्त्व​नर्थम् ।
प्रत्येकमेवं गुरवे निवेद्य 4वद्धः स्वयं कर्मणि तत्परश्च ॥ ३७ ॥

यस्सार्वलौकिकमपीश्वरमीश्वराणां
प्रत्यादिदेश बहुयुक्तिभिरुत्तरज्ञः ।
कर्मैव नाकनरकादिफलं ददाति
नैवं परोऽस्ति फलदो जातीशितेति ॥ ३८ ॥


1अ. गणस्तदीयः । 3अ. अपि कला यति ।

2अ. तृषेव ।

4अ. बद्धान्, बौद्धात् । (अ. बौद्धः स्वयं कर्मणि तप्तरश्च); क​. प्रत्येकमस्यगमपि ।
83
सप्तमस्सर्गः

प्रत्येकमस्य प्रलयं वदन्ति
पुराणवाक्यानि स तस्य कर्ता ।
व्यासो मुनिर्जैमिनिरस्य शिष्य-
स्तत्पक्षपाती प्रलयावलम्बी ॥ ३९ ॥

गुरोश्च शिष्यस्य च पक्षभेदे
कथं तयोस्स्याद्गुरुशिष्यभावः ।
तथापि यद्यस्ति स पूर्वपक्ष-
स्सिद्धान्तभावस्तु गुरूक्त एव ॥ ४० ॥

आजन्मनस्स खलु कर्मणि योजितात्मा
कुर्वन्निवास्थित दिवानिशमेव कर्म ।
ब्रूते पगंश्च कुरुतावहिताः प्रयत्नात्
स्वर्गादिकं सुखमवाप्नुत1 किं वृथाऽऽध्वे ॥ ४१ ॥

एवंविधेन क्रियते निबन्धनं
यदि त्वदाज्ञामवलम्ब्य भाष्यके ।
भाष्यं परं कर्मपरं स योक्ष्यते
माच्यावि कालादपि वृद्धिमिच्छता ॥ ४२ ॥

सन्यासमप्येष न बुद्धिपूर्वे
व्यधत्त 2वादेन जितोऽवशो व्य​धात् ।
तस्मान्न विश्वासपदं विभाति नो
माचीकरोऽनेन निबन्धनं 3गुरो ॥ ४३ ॥

यश्शक्नुयात्कर्म विधातुमीप्सितं
सोऽयं न कर्माणि विहातुमर्हति ।
यद्यस्ति सन्यासविधौ दुराग्रहो
जात्यन्धमूकादिरमुष्य गोचरः ॥ ४४ ॥


1का. वाप्स्यथ । 2अ. विजितो ।

3अ. पुरा ।

Sankara-6A
84
शङ्करविजये

एवं सदा भट्टमतानुसारिणो
ब्रुवन्त्य​यं तन्मतपक्षपातवान् ।
एवं स्थिते 1योग्यमदो विधीयतां
न नोऽस्ति निर्बन्धनमत्र किञ्च​न ॥ ४५ ॥

इत्येवमुत्त्कोपरते च शैष्ये
गणे बभाषे किल देशिकेन्द्रः ।
आसादितोऽयं महतः प्रयत्नात्
स चेन्न रोचेत न वीक्षतेऽन्यः ॥ ४६ ॥

अहं बहूनामनभीष्टकार्ये
न कारयिष्ये हि महानिबन्धनम् ।
किञ्चात्र संशीतिरभून्ममातो
यदेककार्ये बहवः प्रतीपाः ॥ ४७ ॥

भवन्निदेशाद्भगवान्स नन्दनः
करिष्यते भाष्यनिबन्धमीप्सितम् ।
स ब्रह्मचर्यादुररीकृताश्रमो
मतिप्रकर्षो विदितो हि सर्वतः ॥ ४८ ॥

स नन्दनो नन्दयिता जनानां
निबन्धमेकं विदधातु भाष्यके ।
न वार्तिकं तत्र परप्रतिज्ञां
2व्यघात्प्रतिज्ञासहितामदीक्षः ॥ ४९ ॥

आदिश्येत्थं शिष्यसङ्घं यतीन्द्रः
प्रोवाचेत्थं नूत्नभिक्षुं रहस्तम् ।
भाष्ये भिक्षो मा कृथा वार्तिक​ त्वं
नेमे शिष्यास्सेहिरे दुर्विदग्घाः ॥ ५० ॥


1अ. अथो ; क. अतो । 2अ. प्रतिज्ञां सहि नूलदीक्षः
85
सप्तमस्सर्गः

तात्पर्यं ते गेहिधर्मेषु दृष्ट्वा
तत्संस्कारं साम्प्रतं शङ्कमानाः ।
भाष्ये कृत्वा वार्तिकं योजयेत्स
भाष्यं प्रायस्स्वीयसिद्धान्तशेषम् ॥ ५१ ॥

नास्त्येवासावाश्रमस्तुये इत्थं
सिद्धान्तोऽयं तावको वेदसिद्धः ।
द्वारि द्वाःस्थैर्वारितो भिक्षमाणा
वेश्मान्तस्ते न प्रवेशं लभन्ते ॥ ५२ ॥

इत्याद्यां तां किंवदन्तीं विदित्वा
तेषां नासीत्प्रत्ययस्त्वय्यनल्पे ।
स्वातन्त्र्यात्त्वं ग्रन्थमेकं महात्मन्
कृत्वा 1मह्यं दर्श​य 2स्वात्मनिष्ठम् ॥ ५३ ॥

विद्वन्यद्वत्प्रत्ययः स्यादमीषां
शिष्याणां नो ग्रन्थसन्दर्शनेन ।
इत्थं प्रोक्तस्सोऽल्पकालेन भिक्षुः
ग्रन्थं कृत्वा दर्शयामास तस्मै ॥ ५४ ॥

ग्रन्थं दृष्ट्वा मोदमानो यतीन्द्र-
स्तञ्चान्येभ्यो दर्शयामास हृद्यम् ।
तेषाञ्चासीत्प्रत्ययस्तद्वदस्मिन्
यद्वञ्चान्यस्तत्त्वविद्यस्स तेन ॥ ५५ ॥

यत्राद्यापि श्रूयते मस्करीन्द्रै-
र्निष्कामात्मा यत्र नैष्कर्म्य​सिद्धिः।
तन्नाम्नायं पप्रथे ग्रन्थवर्य​-
स्तन्माहात्म्यात्सर्वलोकादृतोऽभूत् ॥ ५६ ॥


1का. मार्गं । 2अ. का. अध्यात्मनिष्ठम् ।
86
शङ्करविजये

आचार्यवाक्येन विधित्सितेऽस्मिन्
विघ्नं 1यदन्ये व्यधुरुत्ससर्ज ।
2शापं ततोऽस्मिन्कृतमप्युदौरै-
स्तद्वार्त्यिकं न प्रसरेत्पृथिव्याम् ॥ ५७ ॥

नैष्कर्म्य​सिद्ध्याख्यनिबन्धमेकं
कृत्वात्मपूज्याय निवेद्य शप्त्वा ।
विश्वासमुत्पाद्य पुनर्बभाषे
स विश्वरूपो गुरुमात्मदैवम्3 ॥ ५८ ॥

न ख्यातिहेतोर्न च लाभहेतो-
र्नाप्य​र्चनायै विहितः प्रबन्धः ।
नोल्लङ्घनेएयं वचनं गुरूणां
नोल्लङ्घने स्याद्गुरुशिष्यभावः ॥ ५९ ॥

पूर्व गृही4त्वेव न तत्स्व​भावो
न बाल्य​मन्वेति हि 5यौवनं तत् ।
न यौवनं वृद्धमुपैति तद्वत्
व्रजन्हि पूर्वस्थितिमौझ्य​ गच्छेत् ॥ ६० ॥

अहं गृही नात्र विचारणीयं
किं तेन पूर्वं मन एव हेतुः ।
बन्धे च मोक्षे च मनोर्विशुद्धो
गृही भवेद्वा उत मस्करी वा ॥ ६१ ॥

नास्त्येव चेदाश्रम उत्तमादिः
कथञ्च तत्प्राप्तिनिवृत्तिकामी ।
प्रतिश्रवौ नौ कथमल्पकालौ
न हि प्रतिज्ञा भगवन्निरुद्धा6 ॥ ६२ ॥


1अः यदान्वे । 2अ. शापं विधाता ; क. शापः कृतोऽस्मिन् कृतमप्युदारैः ।

3अ. देवम् । 4अ. गृहीत्येव​ ।

5का. यौवनेन । 6का. निरूढा ।

संभिक्षमाणा न लभन्त एव चे-
द्गृहप्रवेशं गुरुणा प्रवेशम् ।
कथं च भिक्षा विहिता निकेतने
को नाम लोकस्य 1मुखाभिधायकः ॥ ६३ ॥

तत्त्वोपदेशाद्विदितामतत्त्वो
व्यघामहं संन्यसनं कृतात्मा ।
विरागभावान्न पराजितस्तु
वादो हि तत्त्व​स्य विनिर्णयाय ॥ ६४ ॥

पुरा गृहस्थेन मया प्रबन्धा
2नैयायिकादौ विहिता महार्थाः ।
नातः परं मे हृदयं चिकीर्षु
त्वदङ्घ्रिसेवामतिलङ्घ्य किञ्चित् ॥ ६५ ॥

भावानुकारिमृदुवाक्यनिवेदितार्थं3
स्वीयैः पदैस्सह निराकृतपूर्वपक्षम् ।
सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं
दृष्ट्वाभिनन्द्य परितोषभरादवोचत् ॥ ६६ ॥

सत्यं यदात्थ 4विनयन् मम याजुषीय-
5शाखा तदन्तगतभाष्यानिब​न्ध इष्टः ।
तद्वार्तिकं मम कृते भवता प्रणेयं
सच्चेष्टितं परहितैकफलं प्रसिद्धम् ॥ ६७ ॥

तद्वत्त्वदीया खलु काण्वशाखा
ममापि तत्रास्ति तदन्तभाष्यम् ।
तद्वार्तिकञ्चापि विधेयमिष्टं
परोपकाराय सतां प्रवृत्तिः ॥ ६८ ॥


1अ. अपिधायकः । 2अ. यन्न्यायगर्भा ।

3अ. निवेशितार्थं । 4का. विनयी ।

5अ. तदग्र​ ।

अत्रोभयत्र कुरु वार्तिकमप्रधृष्यं
येनोभयोरुपनिषद्धृदयं स्फुटं स्यात् ।
मा शङ्कि पूर्वमिव दुश्शठवाक्यरोधो
मह्वाक्यमेव शरणं व्रज मातिचारीः ॥ ६९ ।।

इत्थं स उक्तो भगवत्पदेन ।
श्रीविश्वरूपे विदुषां वरिष्ठः ।
चकोर माष्यह्वयवार्तिके द्वे
ह्याज्ञा गुरूणां ह्यविचारणीया ॥ ७० ॥

स नन्दनो नाम गुरोरनुज्ञया
भाष्यस्य ठीकां व्याधितेरितः पराम् ।
यत्पूर्वभागः किल पञ्चपादिका
तच्छेषगा वृत्तिरिति प्रथीयसीं ॥ ७१ ।।

स जावयाचिष्ट गुरोरनुज्ञां
स्वतीर्थयात्रा बहुमन्यमानः ।
देया गुरो मे भगवन्ननुज्ञा
देशान् दिदृक्षे बहुतीर्थयुक्तान् ॥ ७२ ॥

सत्क्षेत्रवासो निकठे गुरोर्वो
वासस्तदीयाङ्घ्रिजलञ्च तीर्थम् ।।
गुरूपदेशेन यदात्मवृत्ति-
स्सैव प्रशस्ताखिलदेवदृष्टिः ॥ ७३ ।।

शुश्रूषमाणेन गुरोस्समीपे
स्थेयं न येयं स ततोऽन्यदेशे ।
विशिष्य मार्गश्रमकर्शितस्य
निद्राभिमत्या किमु चिन्तनीयम् ॥ ७४ ॥


1अ. तत्र ।। 22अ. विचारीः । 33अ. दृष्टिः ।

44अ. देशः ।

द्विधा हि संन्याप्त उदीरितो हिं
विबुद्धतत्त्वस्य चं तद्बुभुत्सोः ।
तच्वंपदार्थैक्य उदीरितेऽयं
यत्नाच्वमर्थः परिशोधनीयः ॥ ७५ ॥

सम्भाव्यते क्व च जलं क्व च नास्ति पाथ:
शय्यास्थलं क्वचिदिहास्ति न च क्वचास्ति ।
शय्यास्थलीजलनिरीक्षणसक्तचेताः
पान्थो न शर्म लभते कलुषीकृतात्मा ॥ ७६ ॥

ज्वरातिसारादि च रोगजालं
बाधेत चेत्तत्रच च कोऽभ्युपायः |
स्थातुश्च गन्तुञ्च न पारयेत
तदा सहायोऽपि विमुञ्चतीमम्
तदा सहायोऽपि विमुञ्चतीमम् ॥ ७७ ॥

स्नानं प्रभाते क च देवतार्चनं
क चोक्तशौचं क् च वा समाधयः ।
कू चाशनं कुत्र च मित्रसङ्गतिः
पान्थो न चात्रं लभते क्षुधातुरः॥ ७८ ॥

नास्त्युत्तरं गुरुवचस्तदपीह वक्ष्ये
सत्यं यदाह भगवान् गुरुपार्श्ववासः ।
श्रेयानिति प्रथमसंयमिनामनेकान्
देशानवीक्ष्य हृदयं न निराकुलं मे ।। ७९ ॥
सर्वत्रा न क्कापि जलं समस्ति
पश्चात्पुरस्तादथ वा विदिक्षु ।
मार्गेऽपि विद्येत न सुव्यवस्थः
सुरवन पुण्य क्व नु लभ्यतेऽधुना ! ८० ॥


जन्मान्तरार्जितमघं फलदानहेतो-
र्व्यध्यात्मना जनिमुपैति न नो विवादः ।
साधारणादिह च वा परदेशके वा
कर्म ह्यभुक्तमनुवर्तत एव जन्तम् ॥ ८१ ॥

इह स्थित वा परतःस्थितं वा
कालो न मुञ्चेत्समयागतश्चेत् ।
तद्देशगत्यामृत देवदत्त
इत्यादिकं मोहकृतं जनानाम् ॥ ८२ ॥

मन्वादयो मुनिवराः रवलु धर्मशास्त्रे
धर्मादि 1सङ्कुचितमाहुरातिप्रकृष्टम् ।
देशाद्यवेक्ष्य न तु तत्सरणिं गतानां
शौचाद्यतिक्रमकृतं प्रभवेदघं ॥ ८३ ॥

देवेऽनुकूले विपिनं गतो वा
समाप्नुयाद्वाञ्छितमन्नमेषः ।
हियेत नश्येदथ वा पुरस्थं
तस्मिन्प्रतीपे तत एव सर्वम् ॥ ८४ ॥

गृहं परित्यज्य विदेशगों ना
सुरवं समागच्छति तीर्थदृश्वा ।
गृहं गतो याति मृतिं पुरस्तात्
2सदागमादत्र च निमित्तम् ॥ ८५ ॥

देशे कालेऽवस्थितं तद्विमुक्तं
ब्रह्मानन्दं प२थतां तत्र तत्र ।
चितैकाग्र्ये विद्यमाने समाधि
स्सर्वत्राप्तौ दुर्लभो नेति मन्ये ।। ८६ ॥


सत्तीर्थसेवा मनतः प्रसादिनी
देशस्य वाक्षा मनसः कुतूहलम् ।
क्षिणोति []चार्थान् स्खजनेन सङ्गम-
स्तस्मान्न कस्मै भ्रमणं विरोचते ।। ८७ ।।

अठाट्यमानोऽपि []विदेशसङ्गतिं
लभेत []विद्वान्विदुषाभिसङ्गतिम् ।
बुधो बुधानां []खलु []मित्रमीरितं
खलेन मैत्री न विराव तिष्ठति ॥ ८८ ॥

समीपवासोऽयमुदीरितो गुरो-
विदेशगं यद्धृदयेन धारयेत् ।
समीपगोऽप्येष न संस्थेितोऽन्तिके
न भक्तिहीनो यदि धारयेद्धृदि ८९ ॥

सुजनस्सुजनेन सङ्गतः परिपुष्णाति मतिं शनैःशनैः ।
परिपुष्टमतिर्विवेकंभाक् स्यात्, शनकैर्हेयगुणं समुज्झति ॥९०॥

यद्याग्रहोऽस्ति तव तीर्थानिषेवणायां
विघ्नो मयात्र न रवलु क्रियते पुमर्थे ।
चित्तस्थिरत्वगतये विहितो निषेधे
मा भूद्विशेषगमनन्त्वतिदुः रवहेतुः ॥ ९१ ॥

नैको मार्गे बहुजनपदक्षेत्रतीर्थानि याया-
श्रोराध्वानं परिहर सुखन्त्वन्यमार्गेण याहि ।
विप्राग्र्याणां वसतिीविततिर्यत्र वस्तव्यमीष-
न्नो चेत्सार्घंप्रचितजनैश्शीघ्रमुत्तिश् परिचितजनैश्शीघ्रमुत्तिष्ठ[] देशम् ॥ ९२ ॥


 
सद्भिस्सङ्गो विधेयस्स हि सुरवनिचयं सूयते सज्जनानां
अध्यात्मैक्यं कथास्त घाँटतबडुरसाः श्राव्यमाणाः प्रशान्तैः ।
1कायछेशं विभिन्द्युस्सतमघभिदः श्रान्तविश्रामवृक्षाः
स्वान्तश्रोत्राभिरामः परिमृदिततृषः क्षोभितंक्षुत्कलङ्क
! ९३ ॥

सत्सङ्गोऽयं बहुगुणयुतोऽप्येकदोषेण दुष्टो
2यत्स्वान्तेऽयं तपति च परं सूयते दुःखजालम् ।
स्वल्या सङ्गो वसति समये शर्मदः पूर्वकाले
प्रायो लोके तततविमलं नास्ति निर्दोषमेकम् ॥ ९४ ।।

मार्गे वास्या न बहुदिवसान् पाथसस्सङ्गहः स्यात्
तस्माद्दोषेो जिमिर्षितपदप्राप्तिनिन्नस्ततः 3स्यात् ।
4प्राप्येोद्दिष्टं दिवससरसं तत्र कार्यस्य सिद्धे
मूलात्रंशोऽप्यभिमतपदप्राप्त्यभावोऽन्यथा हि ॥ ९४ ॥

मार्गे वोरा निकृतिवपुषस्संवसेयुस्सहैव
छन्नात्मानो बहुविधगुणैस्संपरीक्ष्याः प्रयत्नात् ।
दैवं वस्त्रं लिखितमथ वा दुर्विघा नेतुकामा
विश्वासोऽतोऽपरिचेितनृषु प्रोज्झनीयो न कार्यः ॥९६॥

मध्यमार्ग याजनाभ्यन्तर वा
तिष्ठयुश्रेद्धिक्षवस्तेऽभिगम्याः ।
पूज्याः पूज्यास्तद्वयतिक्रान्तिरुष्टाः
श्रेयःकार्य निष्फलीकर्तुमीशाः ॥ ९७ ॥

इत्थं गुरोर्मुखगुहोदितवाक्सुधां तां
आपीय हृष्टहृदयस्सुमुखः5 प्रतस्थे ।
आट क्षितिं बहुविधां प्रयतान्तरात्मा
तीर्थेषु तीर्थकवरो ब्रजितो न्यमाङ्कीत् ॥ ९८ ॥



आससाद शनकैर्दिशं मुने-
र्यस्य जन्म वसुधा घटी स्मृता ।
सेस्मृतिस्सकलरोगनाशिनी
योऽपिबज्जलधिमेकाबिन्दुवत् ॥ ९९ ॥

अद्राक्षीसुभणा हि भूषिततनुः श्रीकालहस्तीश्वरं
लिङ्गे सन्निहितं दधानमनिशं चान्द्रीं कलां मस्तके ।
पवत्य करुणारसार्द्रमनसा श्लिष्टं प्रमोदास्पदं
देवैरिन्द्रपुरोगमैर्जय जयेत्याभाष्यमाणं मुनिः ॥ १०० ॥

स्नात्वा सुवर्णमुवरीसलिलाशयेऽन्त-
र्गत्वा पुनः प्रणमति स्म शिवं भवान्या ।
आनर्च भावकुसुमैर्मनसा नुनाव
स्तुत्वा च तं पुनरयाचत तीर्थयात्राम् ॥ १०१ ॥

श्रीकालहस्तिपपदापुनराव्रजत्स
काञ्चीपुरं पुरवरं मुनिराजगाम ।
निर्वाणधाम कथयन्ति महाव्रता यत्
संसारसागरमनुत्तरमुत्तितीर्षॉः ॥ १०२ ॥

कष्टा दुष्टो भूसुरो वानरो वा
विट् शूद्रो वा चन्त्यनोऽनन्त्यजो वा ।
असाद्येदं क्षेत्रवर्यं शरीरं
त्यक्त्वाऽऽप्नोति व्यक्तमन्ते विमुक्तिम् ॥ १०३ ॥

अनेकजन्मप्रदकर्म कृत्वा
पुमान् विमुक्तः रवलु पुण्यलेशात् ।
आगत्य सत्क्षेत्रमिदं वितन्वन्
नाशं तनोरन्त उपैति मुक्तिम् ॥ १०४ ॥


असंशयं निर्वृतिरेव पुंसां
क्षेत्रान्तराले त्यजतां शरीरम् ।
अन्तश्शिरा बाह्यगरिष्ठदेहो
मृतोऽपि निर्वाणपदं प्रयाति ! ॥१०५

कश्चित्पुराऽमृत पुरे कृतसन्निवेश:
तं चोभयेऽपि परिवव्रुरथाच्युर्तारयाः ।
याम्याश्च नेतुमनसस्तमिदं स्वधाम
जित्वा मिथः स्वपतिशासनभीरवस्ते ॥ १०६ ॥

सन्धौ मुमूषेॉरुपशीर्षमेके
यमस्य दूता बहिरेव विष्ठाः ।
अन्योन्यमेषां कलहो बभूव
जिघृक्षतामेकमनेकरूपम् ॥ १०७ ॥

सर्वस्य गात्रस्य शिरः प्रधानं
शिरो निघायामृत पूरुषोऽत्र ।
मृतोऽस्मदीयो न विचार्य किञ्चित्
मा कार्ष्ट मूढाः 1परिशासनाज्ञाः ॥ १०८ ॥

अन्तर्मृतो वा बहिरेव वा स्यात्
मृतस्य सर्वस्य यमोऽधिपो हि ।
स ह्येवमाशास्ति दिनेदिनेऽस्मान्
मृतानमूनानयतेति शीघ्रम् ॥ १०९ ॥

2मर्ता जन्तुर्बहुविधविधिर्3नारकस्थानमेति
स्वर्ग लोकं सुकृतवशगोऽप्येति नैकान्त एषः ।
हीने देशे बत मृतवतां प्रेतपः स्यान्नियन्ता
नायं वस्तुं भवति दिनगृहे योग्यतावान् कथवित ॥११०॥


1 का। पतिशससनाज्ञाः । 2 अ। मर्त्यो ।

3 अं। गतिर्नारकम् ।


अपसरत सुदूरं दूतका नात्र कार्यं
पृथुतरद्दढनुष्टया ताडनं वः प्रदद्मः ।
सरसिजनयनो न३शासिता शास्ति कालं
वयमिह भवतां नो कारकाः शासनस्य ॥ १११ ॥

व्यापद्गतोऽयं बहुकण्टकायां
क्षितौ न हीनो बहुपातकश्च ।
मुच्कैनमस्मात्प्रभवो न गन्तुं
क्रुध्येद्यमोऽस्मभ्यमनिन्दितात्मा ।। ११२ ।।

1निर्वाणकाले शिवनामकीर्तनं
नारायणस्य स्मरणञ्च नाद्य ।
निर्याति पापाधमपूरुषोऽयं
तस्मात्कथं संयमिनीं न पश्येत् ॥ ११३ ।।

अन्तस्सन्धौ तनुविगलने निर्वृतिः प्राप्यतेऽद्धा
काश्यां कश्चिन्नर इह तनुं त्यक्तवांश्चैत्स किं न ।
2मुक्तो मुक्तेस्समय इव वा क्षेत्रभावस्तयोस्यात्
काशीकाञ्च्योरिह मृतहृतौ योग्यता वो न कावित् ॥ ११४ ॥

सत्यं मुक्तिर्भवति न चिरात्तारकब्रह्मदेशात्
काश्यां पुंसस्समतनुलतां वैधवीं बिभ्रते च ।
तद्वन्मुक्तिप्रसरणगतिर्नास्ति चेदाप्तवाक्यात्
कस्मात्साम्यं वदत युगले नास्ति तस्माद्धरामः ॥ ११५ ॥

सत्यं विशेषोऽत्र विनोपदेशशं
प्रपद्यते ब्रह्मपदं पुमान्यत् ।
काञ्ची महिम्नैव ददाति मुक्तिं
मृताय सम्पत्तियुतं तदन्यत् ॥ ११६ ॥


1. अ। णानु । 2. अ मुक्तौ मुक्ते सम इव वरक्षेत्र ।

3. का वरदयुगले ।


यद्यप्यनेन बहुजन्मफलप्रदानि
सम्पादितानि बहुजन्मसु दुष्कृतानि ।
भस्मीकृतानि कृतनिष्कृतिकानि तानि
काञ्चीपुरेऽत्र मरणेन सुदुर्लभेन ॥ ११७ ।

अथापसस्त्रुर्विजिता निरुत्तरा
यमस्य दूतास्त्रपया पाअङ्मुखाः ।
किमद्य नः प्रेतपतिः करिष्वते
ऽकृतात्मकार्यानिति चिन्तयाऽऽकुलाः ॥ ११८ ॥

अथ ययू रुषिता यमकिङ्कराः
स्वपतिमेव पराभवलज्जिताः ।
सरसिजाक्षजनैरभिपीडिता:
निजगदुर्हरिपृरुषचेष्टितम् ॥ ११९ ॥

अमृत देव नरो रशनापुरे
हरिजनैरजनीह विवादिता ।
उपनिधाय शिरोऽन्तरधात्तनुं
पुरवरस्य 1बहिष्युपदिष्ट सः ॥ १२० ॥

इह निनीषुरयं जन आगम-
द्धरिजनः 2स्वपुराद्विहितोद्यमः ।
3स्वभवनाय निनाय बलादमुं
तव जनस्तव 4 पार्श्वमुपागतः ॥ १२१ ॥

किमु विधेयमतः परमीयुषां
परिजनः प्रभुशासनगोचरः ।
न च विधातुमनीरितमीश्वरा :
स्वमतिवैभवतो मतिदुर्विधाः ॥ १२२ ॥


1.   का पुनर्ह्युपदिश्य सः ।
2.   अ ञ्चयः  ।
3.   अ स्वभवनं स ।
4. अ मुपागमत्

स तु जनो नयति स्म मृतं पुरे
हरिबलाश्रयणेन निगर्वितः ।
हरिजनान्न पराजितिरस्ति व-
स्स हि 1पतिर्जगतोऽस्य ममापि च ॥ १२३ ॥

किमपि नेच्छति कर्तुमुदारधी
2स्सति नये तदतिक्रमणेन सः ।
यदि करोति तथापि 3समीक्ष्य तं
हरिगुरुं सहनीयमुपाहितम् ॥ १२४ ॥

परिजनं रहसि स्थितमन्वशा-
त्पितृपतिः 4पितृवत्सलवत्सलम् ।
कुरुत यत्स्वपतेर्हितमादरा-
दितरदुज्ज्झत कृत्यपरायणाः ! १२९ ।।

पशुपतिर्मधुजित्कुलदेवते
नमत मामेिव ते प्रतिवासरम ।
तदुभयाश्रितमुक्तिपुरादिकं
त्यजत सज्जनसेवितमद्भुतम् ।। १२६ ।।

हरिहराङ्घ्रिसरोजनिषेविण-
स्त्यजत मानवियोगगतान्परम् ।
मम निदेशमनन्यगतात्मनः
परिजनाः परिपश्यत सादरम् ॥ १२७ ।।

शिवशिवेति वदंस्त्यजतीह य-
स्तनुमिमां बहुपुण्यसमाश्रयाम् ।
विपिनगस्त्वथ वा गृह्संश्रय
स्त्यजत दूरत एव गतैनसम् । १२८ ॥


1.   क। गतिः ।
2.   का। स्थितिनयः ।
3.   अ। समीक्षितम् ।
4.   अ । वत्सकः ।
Sankara-7

यो वा प्रतिश्रुत्य पुनर्न दत्ते
दत्तं पुनर्वा हरते स्म योऽपि ।
तावप्युभौ दुर्विधतां प्रयात:
प्रेत्याशु पात्यौ निरयं महान्तम् ! १४१ ॥

द्विजस्य हत्या गुरुतल्पसेवा
पानं सुरायाः कनकस्य चौर्यम् ।
तत्कर्तृसङ्गश्च महान्ति शास्त्रे
पञ्चातिपापानि निनिष्कृतीनि ।। १४२ ।।

कृतोपकारं न हि वेत्ति यश्च
विश्वासिनं घातयतीह यो वा ।
1निष्कृतिश्चोदितमस्ति शास्त्रे
तयोस्तु तद्दुर्गतिरेव साक्षात् ॥ १४३ ।

इत्थं भृत्यानन्वशाद्धर्मराज-
स्तञ्च खेभ्यो भिक्षुराजशशंस ।
तन्माहात्म्ये वर्णिते क्षेत्रवर्ये
भक्तिः श्रद्धा जायते मानुषाणाम् ।। १४४ ॥

प्रत्यादेशि च यत्र देहकरणप्राणात्मनामात्मता
लक्ष्याथैक्यमुदीरितं शिवगुरुः प्राशंसि शिष्यार्ययो: ।
सैवादो विजयेऽत्र शङ्करपदे सगों गनस्सप्तमो
यत्राभाणि च काञ्चिका समहिमा श्रीकालहस्तीश्वरः ॥ १४९ ।।

इति श्रीशङ्करविजये व्यासाचलीये


सप्तमसर्गः ।



1.  अ निष्कृतेः । 
  1. अ। वार्थान् सुजनेन ।
  2. का विदेशसंहतिं
  3. विदुषोऽपि
  4. क सुख
  5. का मीरितः
  6. अ उद्दिष्ट । का अन्यत् त्प्रदेशम् ।