शतपथब्राह्मणम्/काण्डम् १०/अध्यायः २/ब्राह्मण ३

प्राकृतस्य सप्तविधस्याग्नेर्वैकृतेष्वन्त्यस्यैकशतविधस्याग्नेश्च वेदिमानम्

१०.२.३.[१]

या वा इयं वेदिः सप्तविधस्य एषा वेदेर्मात्रा स देवयजनमध्यवसाय पूर्वया द्वारा पत्नीशालं प्रपद्य गार्हपत्यायोद्धत्यावोक्षति गार्हपत्यस्योद्धतात्सप्त प्राचः प्रक्रमान्प्रक्रामति ततः प्राञ्चं व्यामं विमिमीते तस्य मध्यऽआहवनीयायोद्धत्यावोक्षति पूर्वार्द्धाद्व्यामस्य त्रीन्प्राचः प्रक्रमान्प्रक्रामति स वेद्यन्तः - १०.२.३.[१]

ते वा एते व्यामैकादशाः प्रक्रमा अन्तरा वेद्यन्तं च गार्हपत्यं चैकादशाक्षरात्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानः पुरस्ताद्यज्ञमुखाद्रक्षांसि नाष्ट्रा अपहन्ति - १०.२.३.[२]

सैषा वेदेर्योनिः एतस्यै वै योनेर्देवा वेदिं प्राजनयन्नथ य एष व्यामः सा गार्हपत्यस्य योनिरेतस्यै वै योनेर्देवा गार्हपत्यं प्राजनयन्गार्हपत्यादाहवनीयम् - १०.२.३.[३]

स वेद्यन्तात् षट्त्रिंशत्प्रक्रमां प्राचीं वेदिं विमिमीते त्रिंशतं पश्चात्तिरश्चीं चतुर्विंशतिं पुरस्तात्तन्नवतिः सैषा नवतिप्रक्रमा वेदिस्तस्यां सप्तविधमग्निं विदधाति - १०.२.३.[४]

तदाहुः कथमेष सप्तविध एतया वेद्या सम्पद्यत इति दश वा इमे पुरुषे प्राणाश्चत्वार्यङ्गान्यात्मा पञ्चदश एवं द्वितीय एवं तृतीये षट्सु पुरुषेषु नवतिरथैकः पुरुषोऽत्येति पाङ्क्तो वै पुरुषो लोम त्वङ्मांसमस्थि मज्जा पाङ्क्तो इयं वेदिश्चतस्रो दिश आत्मा पञ्चम्येवमेष सप्तविध एतया वेद्या सम्पद्यते - १०.२.३.[५]

तद्धैके उत्तरा विधा विधास्यन्त एतांश्च प्रक्रमानेतं च व्याममनुवर्धयन्ति योनिमनुवर्धयाम इति न तथा कुर्यान्न वै जातं गर्भं योनिरनुवर्धते यावद्वाव योनावन्तर्गर्भो भवति तावदेव योनिर्वर्धत एतावत्यु वा अत्र गर्भस्य वृद्धिः - १०.२.३.[६]

ते ये ह तथा कुर्वन्ति एतं ह ते पितरं प्रजापतिं सम्पदश्च्यावयन्ति त इष्ट्वा पापीयांसो भवन्ति पितरं हि प्रजापतिं सम्पदश्च्यावयन्ति सा यावत्येषा सप्तविधस्य वेदिस्तावतीं चतुर्दश कृत्व एकशतविधस्य वेदिं विमिमीते - १०.२.३.[७]

अथ षट्त्रिंशत्प्रक्रमां रज्जुं मिमीते तां सप्तधा समस्यति तस्यै त्रीन्भागान्प्राच उपदधाति निःसृजति चतुरः - १०.२.३.[८]

अथ त्रिंशत्प्रक्रमां मिमीते तां सप्तधा समस्यति तस्यै त्रीन्भागान्पश्चादुपदधाति निःसृजति चतुरः - १०.२.३.[९]

अथ चतुर्विंशतिप्रक्रमां मिमीते तां सप्तधा समस्यति तस्यै त्रीन्भागान्पुरस्तादुपदधाति निःसृजति चतुर इति नु वेदिविमानम् - १०.२.३.[१०]

अथाग्नेर्विधाः अष्टाविंशतिः प्राञ्चः पुरुषा अष्टाविंशतिस्तिर्यञ्चः स आत्मा चतुर्दश
पुरुषा दक्षिणः पक्षश्चतुर्दशोत्तरश्चतुर्दश पुच्छं चतुर्दशारत्नीन्दक्षिणे पक्ष उपदधाति चतुर्दशोत्तरे चतुर्दश वितस्तीः पुच्छ इति न्वष्टानवतेः पुरुषाणां मात्रा साधिमानानाम् - १०.२.३.[११]


अथ त्रिपुरुषां रज्जुं मिमीते तां सप्तधा समस्यति तस्यै चतुरोभागानात्मन्नुपदधाति त्रीन्पक्षपुच्छेषु - १०.२.३.[१२]

अथारत्निमात्रीं मिमीते तां सप्तधा समस्यति तस्यै त्रीन्भागान्दक्षिणे पक्ष उपदधाति त्रीनेवोत्तरे निःसृजति चतुरः - १०.२.३.[१३]

अथ वितस्तिमात्रीं मिमीते तां सप्तधा समस्यति तस्यै त्रीन्भागान्पुच्छ उपदधाति
निःसृजति चतुर एवमेष एकशतविध एतया वेद्या सम्पद्यते - १०.२.३.[१४]

तदाहुः यत्त्रयोदश पुरुषा अतियन्ति कथमेते सम्पदो न च्यवन्त इति या वा एतस्य सप्तमस्य पुरुषस्य सम्पत्सैवैतेषां सर्वेषां सम्पत् - १०.२.३.[१५]

अथो आहुः प्रजापतिरेवात्मानं विधाय तस्य यत्र यत्र न्यूनमासीत्तदेतैः समापूरयत तेनो एवापि सम्पन्न इति - १०.२.३.[१६]


तद्धैके एकविधं प्रथमं विदधत्यथैकोत्तरमाऽपरिमितविधान्न तथा कुर्यात् - १०.२.३.[१७]


सप्तविधो वा अग्रे प्रजापतिरसृज्यत स आत्मानं विदधान ऐत्स एकशतविधेऽतिष्ठत स योऽर्वाचीनं सप्तविधाद्विधत्त एतं ह स पितरं प्रजापतिं विच्छिनत्ति स इष्ट्वा पापीयान्भवति यथा श्रेयांसं हिंसित्वाथ स एकशतविधमतिविधत्तेऽस्मात्स सर्वस्माद्बहिर्द्धा निष्पद्यते सर्वमु हीदं प्रजापतिस्तस्मादु सप्तविधमेव प्रथमं विदधीताथैकोत्तरमैकशतविधादेकशतविधं तु नातिविदधीत नाहैतं पितरं प्रजापतिं विच्छिनत्ति नो अस्मात्सर्वस्माद्बहिर्द्धा निष्पद्यते - १०.२.३.[१८]