शतपथब्राह्मणम्/काण्डम् १०/अध्यायः २/ब्राह्मण ४

१०.२.४.१

संवत्सरो वै प्रजापतिः अग्निरु सर्वे कामाः सोऽयं संवत्सरः प्रजापतिरकामयताग्ंिष सर्वान्कामानात्मानमभिसंचिन्वीयेति स एकशतधात्मानं व्यधत्त स एकशतधात्मानं विधायाग्निं सर्वान्कामानात्मानमभिसमचिनुत स सर्वे कामा अभवत्तस्मान्न कश्चन बहिर्द्धा कामोऽभवत्तस्मादाहुः संवत्सरः सर्वे कामा इति न ह संवत्सरात्कश्चन बहिर्द्धा कामोऽस्ति - १०.२.४.१

तथैवैतद्यजमानः एकशतधाऽऽत्मानं विधायाग्निं सर्वान्कामानात्मानमभिसंचिनुते स सर्वे कामा भवति तस्मान्न कश्चन बहिर्द्धा कामो भवति - १०.२.४.२

स यः स संवत्सरोऽसौ स आदित्यः स एष एकशतविधस्तस्य रश्मयः शतं विधा एष एवैकशततमो य एष तपत्यस्मिन्त्सर्वस्मिन्प्रतिष्ठितस्तथैवैतद्यजमान एकशतधात्मानं विधायास्मिन्त्सर्वस्मिन्प्रतितिष्ठति - १०.२.४.३

अथ वा एकशतविधः सप्तविधमभिसम्पद्यत एकशतधा वा असावादित्यो विहितः सप्तसु देवलोकेषु प्रतिष्ठितः सप्त वै देवलोकाश्चतस्रो दिशस्त्रय इमे लोका एते वै सप्त देवलोकास्तेष्वेष प्रतिष्ठितस्तथैवैतद्यजमान एकशतधात्मानं विधाय सप्तसु देवलोकेषु प्रतितिष्ठति - १०.२.४.४

यद्वेवैकशतविधः सप्तविधमभिसम्पद्यत एकशतधा वा असावादित्यो विहितःसप्तस्वृतुषु सप्तसु स्तोमेषु सप्तसु पृष्ठेषु सप्तसु छन्दःसु सप्तसु प्राणेषु सप्तसु दिक्षु प्रतिष्ठितस्तथैवैतद्यजमान एकशतधात्मानं विधायैतस्मिन्त्सर्वस्मिन्प्रतितिष्ठति - १०.२.४.५

यद्वेवैकशतविधः सप्तविधमभिसम्पद्यत एकशतधा वा असावादित्यो विहितः सप्ताक्षरे ब्रह्मन्प्रतिष्ठितः सप्ताक्षरं वै ब्रह्मर्गित्येकमक्षरं यजुरितिद्वे सामेति द्वे अथ यदतोऽन्यद्ब्रह्मैव तद्द्व्यक्षरं वै ब्रह्म तदेतत्सर्वंसप्ताक्षरं ब्रह्म तस्मिन्नेष प्रतिष्ठितस्तथैवैतद्यजमान एकशतधात्मानं विधाय सप्ताक्षरे ब्रह्मन्प्रतितिष्ठति - १०.२.४.६

तस्मादु सप्तभिः सप्तभिः परिश्रयन्ति तस्मादेकशतविधः सप्तविधमभिसम्पद्यतेऽथ वै सप्तविध एकशतविधमभिसम्पद्यते - १०.२.४.७

सप्तविधो वा अग्रे प्रजापतिरसृज्यत स एतमेकशतधात्मानं विहितमपश्यत्प्राणभृत्सु पञ्चाशदिष्टकाः पञ्चाशद्यजूंषि तच्छतं सादनं च सूददोहाश्चैकशततमे तत्समानं सादयित्वा हि सूददोहसाऽधिवदति स एतेनैकशतविधेनात्मनेमां जितिमजयदिमां व्यष्टिं व्याश्नुत तथैवैतद्यजमान एतेनैकशतविधेनात्मनेमां जितिं जयतीमां व्यष्टिं व्यश्नुत एवमु सप्तविध एकशतविधमभिसम्पद्यते स य एवैकशतविधः स सप्तविधो यः सप्तविधः स एकशतविध इति नु विधानम् - १०.२.४.८