शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ४/ब्राह्मण १

१०.४.१

प्रजापतिं विस्रस्तम् यत्र देवाः समस्कुर्वंस्तमुखायां योनौ रेतोभूतमसिञ्चन्योनिर्वा उखा तस्मा एतत्संवत्सरेऽन्नं समस्कुर्वन्योऽयमग्निश्चितस्तदात्मना पर्यदधुस्तदात्मना परिहितमात्मैवाभवत्तस्मादन्नमात्मना परिहितमात्मैव भवति - १०.४.१.[१]

तथैवैतद्यजमानः आत्मानमुखायां योनौ रेतो भूतं सिञ्चति योनिर्वा उखा तस्मा एतत्संवत्सरेऽन्नं संस्करोति योऽयमग्निश्चितस्तदात्मना परिदधाति तदात्मना परिहितमात्मैव भवति तस्मादन्नमात्मना परिहितमात्मैव भवति - १०.४.१.[२]

तं निदधाति वौषडिति वौगिति वा एष षडितीदं षट्चितिकमन्नं कृत्वाऽस्मा अपिदधात्यात्मसम्मितं यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति - १०.४.१.[३]

स एष एवार्कः यमेतमत्राग्निमाहरन्ति तस्यैतदन्नं क्यं योऽयमग्निश्चितस्तदर्क्यं यजुष्ट एष एव महांस्तस्यैतदन्नं व्रतं तन्महाव्रतं सामत एष उ एवोक्तस्यैतदन्नं थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाख्यायते - १०.४.१.[४]

अथेन्द्राग्नी वा असृज्येताम् ब्रह्म च क्षत्रं चाग्निरेव ब्रह्मेन्द्रः क्षत्रं तौ सृष्टौ नानैवास्तां तावब्रूतां न वा इत्थं सन्तौ शक्ष्यावः प्रजाः प्रजनयितुमेकं रूपमुभावसावेति तावेकं रूपमुभावभवताम् - १०.४.१.[५]

तौ यौ ताविन्द्राग्नी एतौ तौ रुक्मश्च पुरुषश्च रुक्म एवेन्द्रः पुरुषोऽग्निस्तौ हिरण्मयौ भवतो ज्योतिर्वै हिरण्यं ज्योतिरिन्द्राग्नी अमृतं हिरण्यममृतमिन्द्राग्नी - १०.४.१.[६]

तावेताविन्द्राग्नी एव चिन्वन्ति यद्धि किं चैष्टकमग्निरेव तत्तस्मात्तदग्निना पचन्ति यद्धि किं चाग्निना पचन्त्यग्निरेव तदथ यत्पुरीषं स इन्द्रस्तस्मात्तदग्निना न पचन्ति नेदग्निरेवासन्नेन्द्र इति तस्मादेताविन्द्राग्नी एव चितौ - १०.४.१.[७]

अथ यश्चितेऽग्निर्निधीयते तदेकं रूपमुभौ भवतस्तस्मात्तावेतेनैव रूपेणेमाः प्रजाः प्रजनयतः सैषैकैवेष्टकाग्निरेव तामेष सर्वोऽग्निरभिसम्पद्यते सैवेष्टकासम्पत्तदेतदेकमेवाक्षरं वौगिति तदेष सर्वोऽग्निरभिसम्पद्यते सैवाक्षरसम्पत् - १०.४.१.[८]

तद्धैतत्पश्यन्नृषिरभ्यनूवाद भूतं भविष्यत्प्रस्तौमि महद्ब्रह्मैकमक्षरं बहु ब्रह्मैकमक्षरमित्येतद्ध्येवाक्षरं सर्वे देवाः सर्वाणि भूतान्यभिसम्पद्यन्ते तदेतद्ब्रह्म च क्षत्रं चाग्निरेव ब्रह्मेन्द्रः क्षत्रमिन्द्राग्नी वै विश्वे देवा विडु विश्वे देवास्तदेतद्ब्रह्म
क्षत्रं विट् - १०.४.१.[९]

एतद्ध स्म वै तद्विद्वाञ्छ्यापर्णः सायकायन आह। यद्वै म इदं कर्म समाप्स्यत ममैव प्रजा सल्वानां राजानोऽभविष्यन्मम ब्राह्मणा मम वैश्या यत्तु म एतावत्कर्मणः समापि तेन म उभयथा सल्वान्प्रजाऽतिरेक्ष्यत इति स एष एव श्रीरेष यश एषोऽन्नादः - १०.४.१.[१०]

एतद्ध वै तच्छाण्डिल्यः वामकक्षायणाय प्रोच्योवाच श्रीमान्यशस्व्यन्नादो भविष्यसीति श्रीमान्ह वै यशस्व्यन्नादो भवति य एवं वेद - १०.४.१.[११]

स एषोऽग्निः प्रजापतिरेव । ते देवा एतमग्निं प्रजापतिं संस्कृत्याथास्मा एतत्संवत्सरेऽन्नं समस्कुर्वन्य एष महाव्रतीयो ग्रहः - १०.४.१.[१२]

तमध्वर्युर्ग्रहेण गृह्णाति यद्गृह्णाति तस्माद्ग्रहस्तस्मिन्नुद्गाता महाव्रतेन रसं दधाति सर्वाणि हैतानि सामानि यन्महाव्रतं तदस्मिन्त्सर्वैः सामभी रसं दधाति तस्मिन्होता महतोक्थेन रसं दधाति सर्वा हैता ऋचो यन्महदुक्थं तदस्मिन्त्सर्वाभिर्ऋग्भी रसं दधाति - १०.४.१.[१३]

ते यदा स्तुवते यदानुशंसति अथास्मिन्नेतं वषट्कृते जुहोति वौगिति वा एष षडितीदं षड्विधमन्नं कृत्वाऽस्मा अपिदधात्यात्मसम्मितं यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति - १०.४.१.[१४]

स एष एवार्कः योऽयमग्निश्चितस्तस्यैतदन्नं क्यमेष महाव्रतीयो ग्रहस्तदर्क्यं यजुष्ट एष एव महांस्तस्यैतदन्नं व्रतं तन्महाव्रतं सामत एष उ एवोक्तस्यैतदन्नं थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाख्यायते - १०.४.१.[१५]

स एष संवत्सरः प्रजापतिरग्निः तस्यार्धमेव सावित्राण्यर्धं वैश्वकर्मणान्यष्टावेवास्य कलाः सावित्राण्यष्टौ वैश्वकर्मणान्यथ यदेतदन्तरेण कर्म क्रियते स एव सप्तदशः प्रजापतिर्यो वै कला मनुष्याणामक्षरं तद्देवानाम् - १०.४.१.[१६]*

तद्वै लोमेति द्वे अक्षरे त्वगिति द्वे असृगिति द्वे मेद इति द्वे मांसमिति द्वे स्नावेतिद्वे अस्थीति द्वे मज्जेति द्वे ताः षोडश कला अथ य एतदन्तरेण प्राणः संचरति स एव सप्तदशः प्रजापतिः - १०.४.१.[१७]

तस्मा एतस्मै प्राणाय। एताः षोडश कला अन्नमभिहरन्ति ता यदाऽनभिहर्तुं ध्रियन्तेऽथैता एव जग्ध्वोत्क्रामति तस्मादु हैतदशिशिषतस्तृप्तमिव भवति प्राणैरद्यमानस्य तस्मादु हैतदुपतापी कृशैव भवति प्राणैर्हि जग्धो भवति - १०.४.१.[१८]

तस्मा एतस्मै सप्तदशाय प्रजापतये। एतत्सप्तदशमन्नं समस्कुर्वन्य एष सौम्योऽध्वरोऽथ या अस्य ताः षोडश कला एते ते षोडशर्त्विजस्तस्मान्न सप्तदशमृत्विजं कुर्वीत नेदतिरेचयानीत्यथ य एवात्र रसो या आहुतयो हूयन्ते तदेव सप्तदशमन्नम् - १०.४.१.[१९]

ते यदा स्तुवते यदानुशंसति अथास्मिन्नेतं वषट्कृते जुहोति वौगिति वा एष षडितीदं षड्विधमन्नं कृत्वाऽस्मा अपिदधात्यात्मसम्मितं यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति - १०.४.१.[२०]

स एष एवार्कः योऽयमग्निश्चितस्तस्यैतदन्नं क्यमेष सौम्योऽध्वरस्तदर्क्यं यजुष्ट एष एव महांस्तस्यैतदन्नं व्रतं तन्महाव्रतं सामत एष उ एवोक्तस्यैतदन्नं थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाख्यायते स एतेनान्नेन सहोर्ध्व उदक्रामत्स यः स उदक्रामदसौ स आदित्योऽथ येन तेनान्नेन सहोदक्रामदेष स चन्द्रमाः - १०.४.१.[२१]

स एष एवार्को य एष तपति तस्यैतदन्नं क्यमेष चन्द्रमास्तदर्क्यं यजुष्ट एष एव महांस्तस्यैतदन्नं व्रतं तन्महाव्रतं सामत एष उ एवोक्तस्यैतदन्नं थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाऽऽख्यायत इत्यधिदेवतम् - १०.४.१.[२२]

अथाध्यात्मम् प्राणो वा अर्कस्तस्यान्नमेव क्यं तदर्क्यं यजुष्टः प्राण एव महांस्तस्यान्नमेव व्रतं तन्महाव्रतं सामतः प्राण उ एवोक्तस्यान्नमेव थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाख्यायते स एष एवैषोऽधिदेवतमयमध्यात्मम् - १०.४.१.[२३]


सम्पाद्यताम्