शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ४/ब्राह्मण २

१०.४.२

संवत्सरो वै प्रजापतिरग्निः सोमो राजा चन्द्रमाः स ह स्वयमेवात्मानं प्रोचे यज्ञवचसे राजस्तम्बायनाय यावन्ति वाव मे ज्योतींषि तावत्यो म इष्टका इति - १०.४.२.१

तस्य वा एतस्य संवत्सरस्य प्रजापतेः। सप्त च शतानि विंशतिश्चाहोरात्राणि ज्योतींषि ता इष्टकाः षष्टिश्च त्रीणि च शताणि परिश्रितः षष्टिश्च त्रीणि च शतानि यजुष्मत्यः सोऽयं संवत्सरः प्रजापतिः सर्वाणि भूतानि ससृजे यच्च प्राणि यच्चाप्राणमुभयान्देवमनुष्यान्त्स सर्वाणि भूतानि सृष्ट्वा रिरिचानैव मेने स मृत्योर्बिभयां चकार - १०.४.२.२

स हेक्षां चक्रे कथं न्वहमिमानि सर्वाणि भूतानि पुनरात्मन्नावपेय पुनरात्मन्दधीय कथं न्वहमेवैषां सर्वेषां भूतानां पुनरात्मा स्यामिति - १०.४.२.३

स द्वेधाऽऽत्मानं व्यौहत् षष्टिश्च त्रीणि च शतान्यन्यतरस्येष्टका अभवन्नेवमन्यतरस्य स न व्याप्नोत् - १०.४.२.४

त्रीनात्मनोऽकुरुत तिस्रस्तिस्रोऽशीतय एकैकस्येष्टका अभवन्त्स नैव व्याप्नोत् - १०.४.२.५

चतुर आत्मनोऽकुरुत अशीतिशतेष्टकान्त्स नैव व्याप्नोत् - १०.४.२.६

पञ्चात्मनोऽकुरुत चतुश्चत्वारिंशं शतमेकैकस्येष्टका अभवन्त्स नैव व्याप्नोत् - १०.४.२.७

षडात्मनोऽकुरुत विंशतिशतेष्टकान्त्स नैव व्याप्नोन्न सप्तधा व्यभवत् - १०.४.२.८

अष्टावात्मनोऽकुरुत नवतीष्टकान्त्स नैव व्याप्नोत् - १०.४.२.९

नवात्मनोऽकुरुत अशीतीष्टकान्त्स नैव व्याप्नोत् - १०.४.२.१०

दशात्मनोऽकुरुत द्वासप्ततीष्टकान्स नैव व्याप्नोन्नैकादशधा व्यभवत् - १०.४.२.११

द्वादशात्मनोऽकुरुत षष्टीष्टकान्त्स नैव व्याप्नोन्न त्रयोदशधा व्यभवन्न चतुर्दशधा - १०.४.२.१२

पञ्चदशात्मनोऽकुरुत अष्टाचत्वारिंशदिष्टकान्त्स नैव व्याप्नोत् - १०.४.२.१३

षोडशात्मनोऽकुरुत पञ्चचत्वारिंशदिष्टकान्त्स नैव व्याप्नोन्न सप्तदशधा व्यभवत् - १०.४.२.१४

अष्टादशात्मनोऽकुरुत चत्वारिंशदिष्टकान्त्स नैव व्याप्नोन्नैकान्नविंशतिधा व्यभवत् - १०.४.२.१५

विंशतिमात्मनोऽकुरुत षट्त्रिंशदिष्टकान्त्स नैव व्याप्नोन्नैकविंशतिधा व्यभवन्न द्वाविंशतिधा न त्रयोविंशतिधा - १०.४.२.१६

चतुर्विंशतिमात्मनोऽकुरुत त्रिंशदिष्टकान्त्सोऽत्रातिष्ठत पञ्चदशे व्यूहे तद्यत्पञ्चदशे व्यूहेऽतिष्ठत तस्मात्पञ्चदशापूर्यमाणस्य रूपाणि पञ्चदशापक्षीयमाणस्य - १०.४.२.१७

अथ यच्चतुर्विंशतिमात्मनोऽकुरुत तस्माच्चतुर्विंशत्यर्धमासः संवत्सरः स एतैश्चतुर्विंशत्या त्रिंशदिष्टकैरात्मभिर्न व्यभवत्स पञ्चदशाह्नो रूपाण्यपश्यदात्मनस्तन्वो मुहूर्ताँल्लोकम्पृणाः पञ्चदशैव रात्रेस्तद्यन्मुहुस्त्रायन्ते तस्मान्मुहूर्ता अथ यत्क्षुद्राः सन्त इमाँल्लोकानापूरयन्ति तस्माल्लोकम्पृणाः - १०.४.२.१८

एष वा इदं सर्वं पचति अहोरात्रैरर्धमासैर्मासैर्ऋतुभिः संवत्सरेण तदमुना पक्वमयं पचति पक्वस्य पक्तेति ह स्माह भारद्वाजोऽग्निममुना हि पक्वमयं पचतीति - १०.४.२.१९

तानि संवत्सरे दश च सहस्राण्यष्टौ च शतानि समपद्यन्त सोऽत्रातिष्ठत दशसु च सहस्रेष्वष्टासु च शतेषु - १०.४.२.२०

अथ सर्वाणि भूतानि पर्यैक्षत् स त्रय्यामेव विद्यायां सर्वाणि भूतान्यपश्यदत्र हि सर्वेषां छन्दसामात्मा सर्वेषां स्तोमानां सर्वेषां प्राणानां सर्वेषां देवानामेतद्वा अस्त्येतद्ध्यमृतं यद्ध्यमृतं तद्ध्यस्त्येतदु तद्यन्मर्त्यम् - १०.४.२.२१

स ऐक्षत प्रजापतिः त्रय्यां वाव विद्यायां सर्वाणि भूतानि हन्त त्रयीमेव विद्यामात्मानमभिसंस्करवा इति - १०.४.२.२२

स ऋचो व्यौहत् । द्वादश बृहतीसहस्राण्येतावत्यो हर्चो याः प्रजापतिसृष्टास्तास्त्रिंशत्तमे व्यूहे पङ्क्तिष्वतिष्ठन्त ता यत्त्रिंशत्तमे व्यूहेऽतिष्ठन्त तस्मात्त्रिंशन्मासस्य रात्रयोऽथ यत्पङ्क्तिषु तस्मात्पाङ्क्तः प्रजापतिस्ता अष्टाशतं शतानि पङ्क्तयोऽभवन् - १०.४.२.२३

अथेतरौ वेदौ व्यौहत्। द्वादशैव बृहतीसहस्राण्यष्टौ यजुषां चत्वारि साम्नामेतावद्धैतयोर्वेदयोर्यत्प्रजापतिसृष्टं तौ त्रिंशत्तमे व्यूहे पङ्क्तिष्वतिष्ठेतां तौ यत्त्रिंशत्तमे व्यूहेऽतिष्ठेतां तस्मात्त्रिंशन्मासस्य रात्रयोऽथ यत्पङ्क्तिषु तस्मात्पाङ्क्तः प्रजापतिस्ता अष्टाशतमेव शतानि पङ्क्तयोऽभवन् - १०.४.२.२४

ते सर्वे त्रयो वेदाः दश च सहस्राण्यष्टौ च शतान्यशीतीनामभवन्त्स मुहूर्तेन मुहूर्तेनाशीतिमाप्नोन्मुहूर्तेन मुहूर्तेनाशीतिः समपद्यत - १०.४.२.२५

स एषु त्रिषु लोकेषूखायाम् योनौ रेतो भूतमात्मानमसिञ्चच्छन्दोमयं स्तोममयं प्राणमयं देवतामयं तस्यार्धमासे प्रथम आत्मा समस्क्रियत दवीयसि परो दवीयसि परः संवत्सर एव सर्वः कृत्स्नः समस्क्रियत - १०.४.२.२६

तद्यत्परिश्रितमुपाधत्त तद्रात्रिमुपाधत्त तदनु पञ्चदश मुहूर्तान्मुहूर्ताननु पञ्चदशाशीतीरथ यद्यजुष्मतीमुपाधत्त तदहरुपाधत्त तदनु पञ्चदश मुहूर्तान्मुहूर्ताननु पञ्चदशाशीतीरेवमेतां त्रयीं विद्यामात्मन्नावपतात्मन्नकुरुत सोऽत्रैव सर्वेषां भूतानामात्माऽभवच्छन्दोमय स्तोममयः प्राणमयो देवतामयः स एतन्मय एव भूत्वोर्ध्व उदक्रामत्स यः स उदक्रामदेष स चन्द्रमाः - १०.४.२.२७

तस्यैषा प्रतिष्ठा। य एष तपत्येतस्मादेवाध्यचीयतैतस्मिन्नध्यचीयतात्मन एवैनं तन्निरमिमीतात्मनः प्राजनयत् - १०.४.२.२८

स यदग्निं चेष्यमाणो दीक्षते यथैव तत्प्रजापतिरेषु त्रिषु लोकेषूखायां योनौ रेतो भूतमात्मानमसिञ्चदेवमेवैष एतदात्मानमुखायां योनौ रेतोभूतं सिञ्चति च्छन्दोमयं स्तोममयं प्राणमयं देवतामयं तस्यार्धमासे प्रथम आत्मा संस्क्रियते दवीयसि परो दवीयसि परः संवत्सर एव सर्वः कृत्स्नः संस्क्रियते - १०.४.२.२९

तद्यत्परिश्रितमुपधत्ते तद्रात्रिमुपधत्ते तदनु पञ्चदशमुहूर्तान्मुहूर्ताननु पञ्चदशाशीतीरथ यद्यजुष्मतीमुपधत्तेतदहरुपधत्ते तदनु पञ्चदश मूहूर्तान्मुहूर्ताननु पञ्चदशाशीतीरेवमेतां त्रयीं विद्यामात्मन्नावपत आत्मन्कुरुते सोऽत्रैव सर्वेषां भूतानामात्मा भवति च्छन्दोमय स्तोममयः प्राणमयो देवतामयः स एतन्मय एव भूत्वोर्ध्व उत्क्रामति - १०.४.२.३०

तस्यैषा प्रतिष्ठा य एष तपत्येतस्माद्वेवाधिचीयत एतस्मिन्नधिचीयत आत्मन एवैनं तन्निर्मिमीत आत्मनः प्रजनयति स यदैवंविदस्माल्लोकात्प्रैत्यथैतमेवात्मानमभिसम्भवति च्छन्दोमयं प्राणमयं देवतामयं स एतन्मय एव भूत्वोर्ध्व उत्क्रामति य एवं विद्वानेतत्कर्म कुरुते यो वैतदेवं वेद - १०.४.२.३१