शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ४/ब्राह्मण ३

१०.४.३

एष वै मृत्युर्यत्संवत्सरः एष हि मर्त्यानामहोरात्राभ्यामायुः क्षिणोत्यथ म्रियन्ते तस्मादेष एव मृत्युः स यो हैतं मृत्युं संवत्सरं वेद न हास्यैष पुरा जरसोऽहोरात्राभ्यामायुः क्षिणोति सर्वं हैवायुरेति - १०.४.३.[१]

एष उ एवान्तकः एष हि मर्त्यानामहोरात्राभ्यामायुषोऽन्तं गच्छत्यथ म्रियन्ते तस्मादेष एवान्तकः स यो हैतमन्तकं मृत्युं संवत्सरं वेद न हास्यैष पुरा जरसोऽहोरात्राभ्यामायुषोऽन्तं गच्छति सर्वं हैवायुरेति - १०.४.३.[२]

ते देवाः एतस्मादन्तकान्मृत्योः संवत्सरात्प्रजापतेर्बिभयां चक्रुर्यद्वै नोऽयमहोरात्राभ्यामायुषोऽन्तं न गच्छेदिति - १०.४.३.[३]

त एतान्यज्ञक्रतूंस्तेनिरे। अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धं सौम्यमध्वरं त एतैर्यज्ञक्रतुभिर्यजमाना नामृतत्वमानशिरे - १०.४.३.[४]

ते हाप्यग्निं चिक्यिरे तेऽपरिमिता एव परिश्रित उपदधुरपरिमिता यजुष्मतीरपरिमिता लोकम्पृणा यथेदमप्येतर्ह्येक उपदधतीति देवा अकुर्वन्निति ते ह नैवामृतत्वमानशिरे - १०.४.३.[५]

तेऽर्चन्तः श्राम्यन्तश्चेरुः अमृतत्वमवरुरुत्समानास्तान्ह प्रजापतिरुवाच न वै मे सर्वाणि रूपाण्युपधत्थाति वैव रेचयथ न वाऽभ्यापयथ तस्मान्नामृता भवथेति - १०.४.३.[६]

ते होचुः तेभ्यो वै नस्त्वमेव तद्ब्रूहि यथा ते सर्वाणि रूपाण्युपदधामेति - १०.४.३.[७]

स होवाच षष्टिं च त्रीणि च शतानि परिश्रित उपधत्त षष्टिं च त्रीणि च शतानि यजुष्मतीरधि षट्त्रिंशतमथ लोकम्पृणा दश च सहस्राण्यष्टौ च शतान्युपधत्ताथ मे सर्वाणि रूपाण्युपधास्यथाथामृता भविष्यथेति ते ह तथा देवा उपदधुस्ततो देवा अमृता आसुः - १०.४.३.[८]

स मृत्युर्देवानब्रवीत् इत्थमेव सर्वे मनुष्या अमृता भविष्यन्त्यथ को मह्यं भागो भविष्यतीति ते होचुर्नातोऽपरः कश्चन सह शरीरेणामृतोऽसद्यदैव त्वमेतं भागं हरासा अथ व्यावृत्य शरीरेणामृतोऽसद्योऽमृतोऽसद्विद्यया वा कर्मणा वेति यद्वै तदब्रुवन्विद्यया वा कर्मणा वेत्येषा हैव सा विद्या यदग्निरेतदु हैव तत्कर्म यदग्निः - १०.४.३.[९]

ते य एवमेतद्विदुः ये वैतत्कर्म कुर्वते मृत्वा पुनः सम्भवन्ति ते सम्भवन्त एवामृतत्वमभिसम्भवन्त्यथ य एवं न विदुर्ये वैतत्कर्म न कुर्वते मृत्वा पुनः सम्भवन्ति त एतस्यैवान्नं पुनः पुनर्भवन्ति - १०.४.३.[१०]

स यदग्निं चिनुते। एतमेव तदन्तकं मृत्युं संवत्सरं प्रजापतिमग्निमाप्नोति यं देवा आप्नुवन्नेतमुपधत्ते यथैवैनमदो देवा उपादधत - १०.४.३.[११]

परिश्रिद्भिरेवास्य रात्रीराप्नोति। यजुष्मतीभिरहान्यर्धमासान्मासानृतूंल्लोकम्पृणाभिर्मुहूर्तान् - १०.४.३.[१२]

तद्याः परिश्रितः। रात्रिलोकास्ता रात्रीणामेव साऽऽप्तिः क्रियते रात्रीणां प्रतिमा ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्य रात्रयस्तासामेकविंशतिं गार्हपत्ये परिश्रयति द्वाभ्यां नाशीतिं धिष्ण्येषु द्वे एकषष्टे शते आहवनीये - १०.४.३.[१३]

अथ यजुष्मत्यः। दर्भस्तम्बो लोगेष्टकाः पुष्करपर्णं रुक्मपुरुषौ स्रुचौ स्वयमातृण्णा दूर्वेष्टका द्वियजू रेतःसिचौ विश्वज्योतिर्ऋतव्ये अषाढा कूर्म उलूखलमुसले उखा पञ्च पशुशीर्षणि पञ्चदशापस्याः पञ्च छन्दस्याः पञ्चाशत्प्राणभृतस्ता द्वाभ्यां न शतं प्रथमा चितिः - १०.४.३.[१४]

अथ द्वितीया। पञ्चाश्विन्यो द्वे ऋतव्ये पञ्च वैश्वदेव्यः पञ्च प्राणभृतः पञ्चापस्या एकया न विंशतिर्वयस्यास्ता एकचत्वारिंशद्द्वितीया चितिः - १०.४.३.[१५]

अथ तृतीया । स्वयमातृण्णा पञ्च दिश्या विश्वज्योतिश्चतस्र ऋतव्या दश प्राणभृतः षट्त्रिंशच्छन्दस्याश्चतुर्दश वालखिल्यास्ता एकसप्ततिस्तृतीया चितिः - १०.४.३.[१६]

अथ चतुर्थी। अष्टादश प्रथमा अथ द्वादशाथ सप्तदश। ताः सप्तचत्वारिंशच्चतुर्थी चितिः - १०.४.३.[१७]

अथ पञ्चमी पञ्चासपत्नाश्चत्वारिंशद्विराज एकया न त्रिंशत्स्तोमभागाः पञ्च नाकसदः पञ्च पञ्चचूडा एकत्रिंशच्छन्दस्या अष्टौ गार्हपत्या चितिरष्टौपुनश्चितिर्ऋतव्ये विश्वज्योतिर्विकर्णी च स्वयमातृण्णा चाश्मा पृश्निर्यश्चितेऽग्निर्निधीयते ता अष्टात्रिंशं शतं पञ्चमी चितिः - १०.४.३.[१८]

ताः सर्वाः पञ्चभिर्न चत्वारि शतानि। ततो याः षष्टिश्च त्रीणि च शतान्यहर्लोकास्ता अह्नामेव साऽऽप्तिः क्रियतेऽह्नां प्रतिमा ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहान्यथ याः षट्त्रिंशत्पुरीषं तासां षट्त्रिंशी ततो याश्चतुर्विंशतिरर्धमासलोकास्ता अर्धमासानामेव साऽऽप्तिः क्रियतेऽर्धमासानां प्रतिमाऽथ या द्वादश मासलोकास्ता मासानामेव साऽऽप्तिः क्रियते मासानां प्रतिमा ता उ द्वद्वे सहर्तुलोका ऋतूनामशून्यतायै - १०.४.३.[१९]

अथ या लोकम्पृणाः मुहूर्तलोकास्ता मुहूर्तानामेव साऽऽप्तिः क्रियते मुहूर्तानां प्रतिमा ता दश च सहस्राण्यष्टौ च शतानि भवन्त्येतावन्तो हि संवत्सरस्य मुहूर्तास्तासामेकविंशतिं गार्हपत्य उपदधाति द्वाभ्यां नाशीतिं धिष्ण्येष्वाहवनीय इतरा एतावन्ति वै संवत्सरस्य रूपाणि तान्यस्यात्राप्तान्युपहितानि भवन्ति - १०.४.३.[२०]

तद्धैके आहवनीय एवैतां सम्पदमापिपयिषन्त्यन्ये वा एतेऽग्नयश्चिताः किमन्यत्रोपहिता इह सम्पश्येमेति न तथा कुर्याद्दश वा एतानग्नींश्चिनुतेऽष्टौ धिष्ण्यानाहवनीयं च गार्हपत्यं च तस्मादाहुर्विराडग्निरिति दशाक्षरा हि विराट् तान्नु सर्वानेकमिवैवाचक्षतेऽग्निरित्येतस्य ह्येवैतानि सर्वाणि रूपाणि यथा संवत्सरस्याहोरात्राण्यर्धमासा मासा ऋतव एवमस्यैतानि सर्वाणि रूपाणि - १०.४.३.[२१]

ते ये ह तथा कुर्वन्ति एतानि हास्य ते रूपाणि बहिर्द्धा कुर्वन्त्यथो पापवस्यसं कुर्वन्ति क्षत्राय विशं प्रतिप्रतिनीं प्रत्युद्यामिनीमाग्नीध्रीये वा अश्मानम्पृश्निमुपदधात्यथ तं सम्पश्यति किमु तं सम्पश्यन्नितरा न सम्पश्येद्येनैव निर्ऋतिं पाप्मानमपहते स एकादशः - १०.४.३.[२२]

तदाहुः कथमु ता अत्र न सम्पश्यतीति न ह्येना अभिजुहोत्याहुत्या वा इष्टका सर्वा कृत्स्ना भवतीति - १०.४.३.[२३]

तदाहुः कथमस्यैता अनतिरिक्ता उपहिता भवन्तीति वीर्यं वा अस्यैता अनतिरिक्तं वै पुरुषं वीर्यं स ह वा एतं सर्वं कृत्स्नं प्रजापतिं संस्करोति य एवंविद्वानेतत्कर्म कुरुते यो वैतदेवं वेद - १०.४.३.[२४]


</poem>