शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ४/ब्राह्मण ४

१०.४.४.[१]

प्रजापतिं वै प्रजाः सृजमानम् पाप्मा मृत्युरभिपरिजघान स तपोऽतप्यत सहस्रं संवत्सरान्पाप्मानं विजिहासन्

१०.४.४.[२]
तस्य तपस्तेपानस्य एभ्यो लोमगर्तेभ्य ऊर्ध्वानि ज्योतींष्यायंस्तद्यानि तानि ज्योतींष्येतानि तानि नक्षत्राणि यावन्त्येतानि नक्षत्राणि तावन्तो लोमगर्ता यावन्तो
लोमगर्तास्तावन्तः सहस्रसंवत्सरस्य मुहूर्ताः

१०.४.४.[३]
स सहस्रतमे संवत्सरे सर्वोऽत्यपवत स यः सोऽत्यपवतायमेव स वायुर्योऽयं पवतेऽथ यं तं पाप्मानमत्यपवतेदं तच्छरीरं क उ तस्मै मनुष्यो यः सहस्रसंवत्सरमवरुन्धीत विद्यया ह वा एवंवित्सहस्रसंवत्सरमवरुन्द्धे

१०.४.४.[४]
सर्वा एवैता इष्टकाः साहस्रीरुपासीत रात्रिसहस्रेण रात्रिसहस्रेणैकैकां परिश्रितं सम्पन्नामुपासीताहःसहस्रेणाहःसहस्रेणैकैकामहर्भाजमर्धमाससहस्रेणार्ध
माससहस्रेणैकैकामर्धमासभाजं माससहस्रेणमाससहस्रेणैकैकां मासभाजमृतुसहस्रेणऽर्तुसहस्रेणैकैकामृतुभाजं मुहूर्तसहस्रेणमुहूर्तसहस्रेणैकैकां मुहूर्तभाजं संवत्सरसहस्रेण संवत्सरं ते य एतमेवमग्निं संवत्सरेण सम्पन्नं विदुः सहस्रतमीं हास्य ते कलां विदुरथ य एनमेवं न विदुर्न हास्य ते सहस्रतमीं चन कलां विदुरथ य एवैवं वेद यो वैतत्कर्म कुरुते स हैवैतं सर्वं कृत्स्नं प्राजापत्यमग्निमाप्नोति यं प्रजापतिराप्नोत्तस्मादेवंवित्तप एव तप्येत यदु ह वा एवंवित्तप एव तप्यत आ मैथुनात्सर्वं हास्य तत्स्वर्गं लोकमभिसम्भवति

१०.४.४.[५]
तदेतदृचाभ्युक्तम् न मृषा श्रान्तं यदवन्ति देवा इति न हैवैवं विदुषः किंचन मृषा श्रान्तं भवति तथो हास्यैतत्सर्वं देवा अवन्ति