शतपथब्राह्मणम्/काण्डम् ११/अध्यायः २/ब्राह्मणं ३

११.२.३

ब्रह्म वा इदमग्र आसीत्। तद्देवानसृजत तद्देवान्त्सृष्ट्वैषु लोकेषु व्यारोहयदस्मिन्नेव लोकेऽग्निं वायुमन्तरिक्षे दिव्येव सूर्यम् - ११.२.३.१

अथ येऽथ ऊर्ध्वा लोकाः। तद्या अत ऊर्ध्वा देवतास्तेषु ता देवता व्यारोहयत्स यथा हैवेम आविर्लोका इमाश्च देवता एवमु हैव त आविर्लोकास्ताश्च देवता येषु ता देवता व्यारोहयत् - ११.२.३.२

अथ ब्रह्मैव परार्द्धमगच्छत्। तत्परार्द्धं गत्वैक्षत कथंन्विमांल्लोकान्प्रत्यवेयामिति तद्द्वाभ्यामेव प्रत्यवैद्रूपेण चैव नाम्ना च स यस्य कस्य च नामास्ति तन्नाम यस्यो अपि नाम नास्ति यद्वेद रूपेणेदं रूपमिति तद्रूपमेतावद्वा इदं यावद्रूपं चैव नाम च - ११.२.३.३

ते हैते ब्रह्मणो महती अभ्वे। स यो हैते ब्रह्मणो महती अभ्वे वेद महद्धैवाभ्वं भवति - ११.२.३.४

ते हैते ब्रह्मणो महती यक्ष्ये। स यो हैते ब्रह्मणो महती यक्ष्ये वेद महद्धैव यक्ष्यं भवति तयोरन्यतरज्ज्यायो रूपमेव यद्ध्यपि नाम रूपमेव तत्स यो हैतयोर्ज्यायो वेद ज्यायान्ह तस्माद्भवति यस्माज्ज्यायान्बुभूषति - ११.२.३.५

मर्त्या ह वा अग्रे देवा आसुः। स यदैव ते ब्रह्मणाऽऽपुरथामृता आसुः स यं मनस आघारयति मनो वै रूपं मनसा हि वेदेदं रूपमिति तेन रूपमाप्नोत्यथ यं वाच आघारयति वाग्वै नाम वाचा हि नाम गृह्णाति तेनो नामाप्नोत्येतावद्वा इदं सर्वं यावद्रूपं चैव नाम च तत्सर्वमाप्नोति सर्वं वा अक्षय्यमेतेनो हास्याक्षय्यं सुकृतं भवत्यक्षय्यो लोकः - ११.२.३.६

तद्वा अद आग्नेय्यामिष्टा उद्यते। यथा तदृषिभ्यो यज्ञः प्रारोचत तं यथाऽतन्वत तद्यज्ञं तन्वानानृषीन्गन्धर्वा उपनिषेदुस्ते ह स्म संनिदधतीदं वा अत्यरीरिचन्निदमूनमक्रन्निति स यदैषां यज्ञः संतस्थेऽथैनांस्तद्दर्शयांचक्रुरिदं वा अत्यरीरिचतेदमूनमकर्तेति - ११.२.३.७

स यदतिरेचयांचक्रुः। यथा गिरिरेवं तदासाथ यदूनं चक्रुर्यथा श्वभ्राः प्रदरा एवं तदास - ११.२.३.८

स यत्र शंयोराह। तदभिमृशति यज्ञ नमश्च त उप च यज्ञस्य शिवे संतिष्ठस्व स्विष्टे मे संतिष्ठस्वेति स यदतिरेचयति तन्नमस्कारेण शमयत्यथ यदूनं करोत्युप[१] चेति तेन तदन्यूनं भवति[२] यज्ञस्य शिवे संतिष्ठस्वेति यद्वै यज्ञस्यान्यूनातिरिक्तं तच्छिवं तेन तदुभयं शमयति स्विष्टे मे संतिष्ठस्वेति यद्वै यज्ञस्यान्यूनातिरिक्तं तत्स्विष्टं तेनो तदुभयं शमयत्येवमु हास्यैतेन यज्ञेनान्यूनातिरिक्तेनैवेष्टं भवति य एवं विद्वानेवमभिमृशति तस्मादेवमेवाभिमृशेत्ते ह ते गन्धर्वा आसुः शूर्पं यवमान्कृषिरुद्वालवान्धानान्तर्वान् - ११.२.३.९



सम्पाद्यताम्

टिप्पणी

११.२.३.५ ते हैते ब्रह्मणो महती यक्ष्ये।

यक्षोपरि टिप्पणी


११.२.३.९ तुलनीयम् --- जै.ब्रा. २.४१

स यत्र शंयोराह - तच्छंयोरावृणीमहे - तै.ब्रा. ३.५.११.१

  1. उप उपरि टिप्पणी
  2. तु. मनो वै बृहद् वाग् रथन्तरम्। प्रत्नं वै बृहद् उप रथन्तरम् - जै.ब्रा. ३.१२