प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथ ह वै त्रयः पूर्वे ऽग्नय आसुर् भूपतिर् भुवनपतिर् भूतानां पतिः। अयं वै लोको भूपतिर्, अन्तरिक्षं भुवनपतिर्, असाव् एव लोको भूतानां पतिः। अथ हायं भूतिर् नाम। तेषां ह वषट्कारश् शीर्षाणि चिच्छेद। त इमास् तिस्रः पृथिवीः प्रविविशुः। तस्माद् यद् अग्निहोत्रस्य वाज्यस्य वावस्कन्देत् तद् अभिमृशेद् भूपतये स्वाहा, भुवनपतये स्वाहा, भूतानां पतये स्वाहेति। एतेषु हैवास्याग्निषु हुतम् अस्कन्नं भवति।

अथ ह वै त्रयः पूर्व ऋषय आसुश् शूर्पंयवम् अध्वाना अन्तर्वान् कृषिस् सोल्वालाः। ते ह यज्ञस्य कृन्तत्राणि ददृशुः। तस्यैताः प्रायश्चित्तीर् ददृशुः - शं च म, उप च म, आयुश् च मे, भूयश् च मे, यज्ञ शिवो मे संतिष्ठस्व, यज्ञ स्विष्टो मे संतिष्ठस्व, यज्ञारिष्टो मे संतिष्ठस्वेति। तस्माद् एता दर्शपूर्णमासाभ्यां वा चातुर्मास्यैर् वा पशुबन्धेन वा सौम्येन वाध्वरेणेष्ट्वोपरिष्टाज् जपेत। यद् एवात्र यज्ञस्य विधुरं भवति तद् एव तेन शमयति।

प्राण एवाविषुवतो व्यानो विषुवान् अपानो यद् ऊर्ध्वं विषुवतः। अपानो वा इदं सर्वम् आहरति। तस्माद् वयं परस्ताद् विषुवतो ऽर्वाचष् षडहान् उपैमः॥2.41॥


तद् ध क्रतुजिज् जानकिर् इयपिं सौमापं पप्रच्छ - प्राणेन स्वी(3)द् अपानेना(3) अस्मिञ् जीवति मर्त्यः। तद् ब्रूतात् संगतेभ्यः कुरूणां ब्राह्मणेभ्य इति। स होवाचेहैवाहं त्वां प्रतिवक्ष्यामीति। तं ह प्रत्युवाच - न प्राणेन नापानेन। अस्मिञ् जीवति मर्त्ये व्यानो ऽध्यक्षः पशोस् सतं विष्वंचमीय्यत इति। पुरुषो वै पशुः। पशुरुत् पशुस् सः। व्यानो ह वा एतं विष्वंचमीय्यते।

तान् वा एतान् एके परस्ताद् विषुवत ऊर्ध्वान् एव षडहान् उपयन्ति। यं वैवैतं पृष्ठ्यं पूर्वम् उपैमस् तेन व्यावृत्ता भवन्ति। अथो एवम् अजामीति। तद् उ होवाच शाट्यायनिर् उभये वा एत ऊर्ध्वा भवन्ति ये चोर्ध्वा ये चार्वा़ञ्चः। सवनैर् वा एत ऊर्ध्वा भवन्त्य् आप्नुम उ तं कामं य आवर्तेष्व् इति।

तद् आहुर् यद् यथापां विवर्त एवम् एते यद् गोआयुषी। कतरेषाम् एते अह्ना(म्)। परेषाम् अवरेषाम् इति। उभयेषाम् एवेति ब्रूयात्। उभयानि ह वा एते अहानि संगृह्य तिष्ठतः पराणि चावराणि च। तस्मात् त्र्यहेणान्यत् तनुमहे त्र्यहेणान्यत्। स द्व्यहस् सन् षडहो भवति। तद् ऊर्ध्वे गोआयुषी भवत ऊर्ध्वो दशरात्रः।

तद् धैतद् एके विहृते गोआयुषी उपयन्ति - उपरिष्टाद् विश्वजित आयुः पुरस्ताद् दशरात्रस्य गाम्। एवम् अजामीति। अथो एवम् एवैतयोः पुरोपाययनम्। तत् प्रमत्ता नैमिशीया अतीयुः। ते ऽत्र पुरस्ताद् दशरात्रस्य सहोपेयुः। तत इदम् अर्वाचीनम् एवोपयन्ति।

तद् उ होवाच शाट्यायनिः। प्राणापानाव् एतौ यद् गोआयुषी। अन्नपाने ते विच्छिन्दन्ति ये विहरन्ति। अथो एष वाव देवयानः पन्था यद् गोआयुषी। स्वर्ग एष लोको यद् दशरात्रः। स एतेन देवयानेन पथैतं स्वर्गं लोकं गच्छन्ति। अथ य एते विहरन्त्य् एतं देवयानं पन्थानं विच्छिन्दन्ति ते न किं चन व्यश्नुवते। तस्मात् सहैवोपेत्ये इति॥2.42॥


गोबलं ह वार्ष्णं शाट्यायनिर् उवाच -- पितृमान् असि भगवः पितामहवान्। संवत्सराय दीक्षिष्ये ऽनु मा शाधीति। तथेति होवाच। अयनं ते वक्ष्यामि, यद् विद्वान् अनार्तस् संवत्सरस्योदृचं गच्छत्य् उत्थायो योगक्षेमी पणाय्यो भवतीति। तान् वा एतान् द्वादश मासो यन्तीति होवाच। ततो यांश् चतुरो मासो यन्त्य् अग्नेर् एव तान् अयनेन यन्ति। अग्निं चैव तेन देवतानाम् उपाप्नुवन्तीमं च लोकम् इति। अथ यान् अपरांश् चतुरो मासो यन्ति वायोर् एव तान् अयनेन यन्ति। वायुं चैव देवतानाम् आप्नुवन्त्य् अन्तरिक्षलोकं चेति। यान् अपरांश् चतुरो मासो यन्त्य् आदित्यस्यैव तान् अयनेन यन्ति। आदित्यं चैव तेन देवतानाम् उपाप्नुवन्त्य् अमुं च लोकम् इति॥2.43॥


एतद् वा अयनम् इति होवाच। तद् यद् वा इदम् आहुर् अनयेनागाद् इति। य एवैतद् अविद्वांसस् संवत्सराय दीक्षन्ते ते ऽनयनेन यन्ति। अथ य एतद् एवं वेदानार्त एव संवत्सरस्योदृचं गच्छत्य् उत्थायो योगक्षेमी पणाय्यो भवति। त एतं स्वर्गं लोकम् आगच्छन्ति।

एतन् महाव्रतीयम् अहः। एष वाव स्वर्गलोको यन् महाव्रतीयम् अहः। तत् पञ्चविंशं भवति। ततो या विंशतिर् विराट् सा। अथ याश् चतस्र इमा एव ताश् चतस्रो दिशः। अथ या पञ्चविंशीयम् एव सोर्ध्वा दिक्। दिशो वै यत्र समुदश्रयन्त तद् एषो ऽत्यग्रो नाम लोको ऽभवद् य एष तपति। एतम् एवैतत् पञ्चविंश्याभ्यारोहन्ति। एतस्य सलोकतां गच्छन्ति।

तद् आहुर् यद् एतेनाह्ना भूयिष्ठम् ईप्सन्ति यन् महाव्रतीयेनाथ कस्माद् अयं वारणः पञ्चविंशस्तोमः क्रियत इति। कृत्स्नस्यान्नाद्यस्यावरुद्ध्या इति ब्रूयात्। पुरुषम् एव पञ्चभि स्तोत्र्याभिर् अवरुन्द्धे गां पञ्चभिर् अश्वं पञ्चभिर् अजां पञ्चभिर् अविं पञ्चभिः। स एष कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्या अन्ततः पञ्चविंशस्तोमः क्रियत इति।

अथ याव् अतिरात्रौ प्रतिष्ठैव सा। अस्मिन्न् एव लोके प्रायणीयेनातिरात्रेण प्रतिष्ठाय प्रयन्ति। अमुष्न् लोक उदयनीयेनातिरात्रेण प्रतिष्ठायोद्यन्ति। ते हाप्य् अबुभूषन्त इव भवन्ति, प्रत्य् इव तिष्ठन्ति॥2.44॥


अथैषौदुम्बरी राजासन्दी। तां हैके प्राचीम् एव निदधति। उदीचीम् एव निदध्यात्। तस्या इमाव् अवान्तरदेशौ पूर्वौ पादाव् इमाव् अपरौ। तां हेके प्राचीम् एवाधिरोहन्ति। तद् उ होवाच शाट्यायनिर् उदञ्चो वै सामार्त्विज्यं कुर्वन्ति। उदीचीनदेवत्या उद्गातारः। उदीच्यैवारुह्येति। तां हैके नमस्कारेणैवाधिरोहन्ति नमस् ते ऽस्तु भगवति विद्य त्वा सा नश् शिवैधीति। तूष्णीं हैवैके अधिरोहन्ति। मनो वै प्रजापतिः। प्राजापत्यम् एतद् अहर् इति। ताम् अनेनाग्रे ऽधिरोहेद् अथानेनाधानेनाथानेनामृतं गमयेयम् इति।

अथास्मा आरूढाय वाणं शततन्त्रिम् आहरन्ति। तम् एतेन संतानेन संतनोति --
<poem>भूर् भुव स्वर्
वदा वदा वदा वदी वदा वदोरुः
पृथुस् सुगस् सुगन्तुः
कर्मः करणः करः करिष्यन्।
ऐन्द्री वाचं बृहतीं विश्वरूपाम्।
शतायुषं प्रवद देव वाण॥

इति। अथेन्द्रणतया चेषीकया वेतसशाखया चोल्लिखति -- मनो ज्योतिर् इति, वाक् सत्यम् इति, मानो भद्र इति। तं प्रयच्छति॥2.45॥


अथैता अन्याः परिमादः कुरुते। अथ स्तुते। अथ शीर्ष्णाग्रे स्तुते ऽथ दक्षिणेन पक्षेणाथोत्तरेणाथ पुच्छेनात्मनोत्तमेन। तत् सलोमाय।

शीर्ष्णोद्गाता प्रतिपद्यत आत्मना होता। यां ह्य् एव प्राह तया प्रतिपद्यते। अथ यद् अन्यां प्राहान्यया प्रतिपद्यते, विलोम तत्।

अथ हैक आत्मनैवाग्रे प्रतिपद्यन्ते। तद् उ होवाच शाट्यायनिर् यथान्धो द्वारम् ऋच्छेत् तादृक् तद् इति।

अथ हैके स्तुत्वैवोपावरुह्यैतद् अहश् शस्यमानम् ईक्षमाणा आसते। तद् उ होवाच शाट्यायनिर् ईश्वरः पापीयान् भवितोर् यस् तथा करोति। क्षत्रं वै साम। विट् छस्त्रम्। उपर्य् एवासीत । राजानम् एवाह्रियमाणं प्रत्यवरोहेत्। तथास्य राजा प्रत्यवरूढो भवति। तस्यै प्रत्यवरोहो --

मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्।
     पिपृतां नो भरीमभिः॥

इति। ताम् एताम् आसन्दीम् उत्तरतः पर्याहृ्त्य निदधति॥2.46॥


तद् आहुर् यद् विहृतम् एतद् अहश् शस्यते, विहृतासु स्तुध्वा(3) अविहृतास्(3) इति। विहृतास्व् इति ब्रूयात्। य एता राजन्यस्य देवतास् ताभिर् विहृतं भवति।

तद् यद् गायत्रीषु शिरो भवति, बृहतीषु च ककुप्सु च पक्षौ, द्विपदासु च पुच्छं, त्रिष्टुप्स्व आत्मा, कथम् अतो विहृतं भवतीति। एतस्यात्मनः पञ्चविंशं शतं त्रिष्टुभो भवन्ति। ततो यच् छतम् आयुष् टत्। अथ याः पञ्चविंशतिः पुरुषस् सः। पञ्चेमाः पञ्चेमाः पञ्चेमाः पञ्चेमाश् चत्वारि प्राङ्गाणि। आत्मा पञ्चविंशः। स एष शतायुः पुरुषः।

तद् आहुर् यद् अन्यास् त्रिष्टुभस् संपूर्णाक्षरासु स्तुवत इति। स ब्रूयात् त्रैष्टुभो वै पुरुषस् त्रिष्टुब्योनिः। तानीमानि पुरुषस्यान्यूनानि। तस्माद् व्यूनाक्षराः। अथ यद् विषमेण समस् तेनो संपूर्णाक्षरा इति।

तद् आहुर् यत् पञ्चविंशः पुरुषः पुरुषस्यैतत् स्तोत्रम् इत्य् आहुः। अथ कस्माद् एतानि विषमाणि सामानि क्रियन्ते पुरुषस्य सर्वताया इति। स ब्रूयान् मनो वै प्रजापतिः। प्रजापतिः पुरुषः। तस्यैषो अन्तर् आत्मा यद् एताः पञ्चविंशति स्तोत्र्याः। अथो यथा पुरुषस्य केशा नखा लोमानि श्मश्रूणि तादृक् तत्। यद् एतानि विषमाणि सामानि क्रियन्ते पुरुषस्य सर्वताया इति॥2.47॥


तद् आहुर् यद् बृहत्यायतनानि पृष्ठानि कथम् अतो बृहतीषु कृतं भवतीति। एतस्यात्मनो द्वापञ्चाशं शतं बृहतयो भवन्त्य् एका च ककुप्। तेन बृहतीषु कृतं भवति। तेनो एव ककुप् पृष्ठेभ्यो न च्यवत इति।

तद् आहुः किंछन्दाः पञ्चविंश स्तोम इति। पंक्तिछन्दा इति ब्रूयात्। एतद् ध वै प्रत्यक्षं पञ्चविंशस्य स्तोमस्य छन्दो यत् पंक्तिः। एतस्यात्मनस् सप्तत्रिंशं शतं पंक्तयो भवन्त्य् अर्धपंक्तिश् च। तेन पंक्तिश् छन्दाः। ता उ एव द्वानवतिर् अतिछन्दसः। अतिछन्दा वै सर्वाणि छन्दांस्य् अभिभवति। तद् वा अस्य तत् सर्वाण्य् एव छन्दांस्य् उपेतानि भवन्ति।

तद् आहुः कथम् एतत् सर्वम् अहः पञ्चविंशं भवतीति। संपदेति ब्रूयात्। कथं संपदेति। पद्येति नव शीर्ष्णो गायत्र्यः। तासां सप्तविंशतिः पदानि। षट् छतं पक्षयोर् द्वाचत्वारिंशत् पुच्छस्य। तद् यानीमानि सप्तविंशतिश् शीर्ष्णः पदानि ततो द्वे आदाय षट् छत उपदधति। अथ पञ्चविंशः परिशिष्यते। ततो यच् छतं चत्वारस् ते पञ्चविंशाः। अथ यान्य् अष्टाव् अतिरिच्यन्ते तानि द्वाचत्वारिंशत्य् उपदधति। तौ द्वौ पञ्चविंशौ। पञ्चविंश एव पञ्चविंशम्। सर्वं पञ्चविंशं भवतीति॥2.48॥


एष वाव यज्ञानां विषुवान् यद् अग्निष्टोमः। ते ये प्राञ्चो हविर्यज्ञा औपवसथात् ते ऽपियन्ति। अथ य उत्तरे यज्ञक्रतवस् सुत्यायां ते ऽपियन्ति। यत् त्रिवृद् बहिष्पवमानं ये त्रिवृत स्तोमास् तेन ते ऽपियन्ति। यत् पञ्चदशान्य् आज्यानि पञ्चदशो माध्यंदिनो ये पञ्चदशा स्तोमास् तेन ते ऽपियन्ति। यत् सप्दशानि पृष्ठानि सप्तदश आर्भवो ये सप्तदशा स्तोमास् तेन ते ऽपियन्ति। यद् एकविंशम् अग्निष्टोमसाम य एकविंशा स्तोमास् तेन ते ऽपियन्ति। यद् एकविंशं सर्वे स्तोमा अभिसंपद्यन्ते तेन सर्वे स्तोमा अपियन्ति।

अयम् एवाग्निष्टोमो यो ऽयं पवते। ते ये प्राञ्चो यज्ञक्रतवो ऽग्निस् ते निदानेन। अथ य उत्तरे यज्ञक्रतव आदित्यस् ते निदानेन। यदा वा अग्रिर् उद्वायति वायुम् एवाप्येति। यद् आदित्यो ऽस्तम् एति वायुम् एवाप्येति। तस्य वा एतस्य तथैव वाग्निष्टोमस्य चतुर्विंशति स्तुतशस्त्राणि। एवं चतुर्विंशतिः पुरोवातो दक्षिणतोवातः पश्चाद्वात उत्तरतोवात ऊर्ध्वोवात इति। प्राण एवाग्निष्टोमस्तोमः। ते ये प्राञ्चो यज्ञक्रतवो वाक् ते निदानेन। अथ य उत्तरे यज्ञक्रतवश् चक्षुस् ते निदानेन -- ॥2.49॥


--यदा वै तूष्णीम् आस्ते प्राणम् एव वाग् अप्येति। यदा स्वपिति प्राणम् एव चक्षुर् अप्येति। तद् यद् एवंविद् वदति हविर्यज्ञैर् अस्य तद् इष्टं भवति। यत् प्राणित्य् अग्निष्टोमेनास्य तद् इष्टं भवति। यद् वीक्षत उत्तरैर् अस्य तद् यज्ञक्रतुभिर् इष्टं भवति। तद् यद् एवंविद् वदति यत् प्राणिति यद् वीक्षत एतैर् हास्य तत् सर्वैर् यज्ञक्रतुभिर् इष्टं भवति।

स एष समानप्रायणस् समानसंबन्धनस् संवत्सरः। तस्य मन एव प्रायणं, वाक् संबन्धनम्। स एष संवत्सरो ऽग्निष्टोमान् एवाभिसंपद्यते। षड् अतिरात्रस्यातियन्ति, त्रीण्य् उक्थानि त्रिदेवत्यस् सन्धिः। त्रीण्य् आरम्भणीयस्याह्नो ऽतियन्ति। अथ यत्र ह क्व चाभिप्लवस् सप्त ते ऽग्निष्टोमाः। षट्कृत्वः पृष्ठ्यम् उपयन्ति। द्वयोष् षड् अतियन्ति द्वयोष् षट्। सो ऽग्निष्टोमः। द्वयोष् षट्। तद् अमूनि षड् उपदधाति। सो ऽग्निष्टोमः। अग्निष्टोमो ऽभिजित्। नव स्वरसाम्नाम् अतियन्ति। तद् अमूनि त्रीण्य् उपदधाति। सो ऽग्निष्टोम। अग्निष्टोमो विषुवान्। प्रतीचां स्वरसाम्नां नवातियन्ति। पञ्चकृत्वः पृष्ठ्यम् उपयन्ति। द्वयोष् षड् अतियन्ति। द्वयोष् षट्। सो ऽग्निष्टोमः। एकस्य त्रीणि। तान्य् एषु नवसूपदधाति। सो ऽग्निष्टोमः। अग्निष्टोमो विश्वजित्। गोआयुषोष् षड् अतियन्ति। द्वादशाग्निष्टोमा दशरात्रः। अग्निष्टोमो महाव्रतीयम् अहः। षड् अतिरात्रस्यातियन्ति। तद् अमूनि षड् उपदधाति। सो ऽग्निष्टोमः। द्वादशकृत्वष् षोडशिनम् उपयन्ति। सो ऽग्निष्टोमः। यद्य् उ वा अतिरात्रे षोडशिनम् उपयन्ति। मोहयन्त्य् अमूं विराजस् संपदम्। अतीमाम् अग्निष्टोमसंपदं रिच्यते। स ह सो ऽनिधानो वज्रो हिनस्ति। अथ वा अनिधानो वज्रः। स एष समानप्रायणस् समानसंबन्धनस् संवत्सरः। तस्य मन एव प्रायणं, वाक् संबन्धनम्। स एष संवत्सरो ऽग्निष्टोमान् एवाभिसंपद्यते। संपदा हाग्निष्टोमायनं भवति। उपाप्तान्य् उ तान्य् अहानि भवन्ति यानि संवत्सरे चित्रियाणि। तेन हैतेनायनेनोभौ कामाव् उपाप्नोति यश् चाग्निष्टोमायने यश् च मासि पृष्ठे॥2.50॥

॥महाव्रतत्रयं समाप्तम्॥


</poem>