ब्राह्मणं १

१ अग्निहोत्रोपासनम् -- तत्राग्निहोत्रमाश्रित्य तत्प्रशंसामुखेन तदवयवाश्रितानामुपासनानामभिधानं, तत्रापि वाचोऽग्निहोत्रीधेनुरूपत्वं मनसस्तदीयवत्सरूपत्वं तेजसो हविषश्च श्रद्धासत्यरूपत्वं च सोपपत्तिकमभिधाय तद्रूपेणोपासनं कर्तव्यमिति विधानम्, अस्यार्थस्य जनक याज्ञवल्क्ययोरुक्तिप्रत्युक्तिभ्यां समर्थनं, होमद्रव्ये मुख्यद्रव्यं पयस्तस्याभावे वीहियवौ तयोरप्यभावे आरण्या ओषधयो वैणवश्यामाकाद्यास्तासामभावे वानस्पत्यं फलादिकं तस्याप्यभावे आप इत्यादेः प्रतिनिधिद्रव्यस्योत्तरोत्तरं प्रश्नोत्तरपूर्वकमभिधानम्, अपामध्यभावे केन होम इति जनकेन पृष्टे मनसि रहस्यत्वेन स्थापितं " सत्यवदनरूपो धर्म एव हविष्ट्वेन श्रद्धारूपाग्नौ होतव्यः " इतीममर्थं याज्ञवल्क्यः प्राहेत्यर्थस्य निरूपणं, विद्योपदेशात्संतुष्टेन जनकेन तस्मै याज्ञवल्क्याय धेनुशतरूपं पारितोषिकं दत्तमिति प्रतिपादनं, प्रवसद्विषयेऽग्निहोत्रहोमस्य मनः प्राणात्मना सांतत्यस्य श्लोकमन्त्रैः प्रतिपादनं, तत्र प्रथमेन श्लोकेन प्रवासविषयं प्रश्नमुद्भाव्य द्वितीयश्लोकेन तस्योत्तरकथनं, तृतीयश्लोकेन प्रवसतो यजमानस्यानवधानयुक्तत्वे दोषमभिधाय चतुर्थश्लोकेन तन्मनस्कस्य प्रवसतो यजमानस्य मनसैवाग्निहोत्रसम्पत्तिमभिधाय प्राणरूपत्वस्याप्यभिधानं, उक्तार्थेन सहैव तत्तच्छ्लोकमंत्रस्य तात्पर्यतो व्याख्यानम्, उक्तेऽर्थे विद्वत्प्रसिद्धेरभिधानं चेत्यादि.

ब्राह्मणं २

२ षण्मिथुनब्राह्मणम्--तत्र तावदेतस्मिन्नेवाग्निहोत्रे सफलं मिथुनवेदनविधानं, यजमानः पत्नी च वत्सोऽग्निहोत्री च स्थाल्यङ्गाराश्च स्रुक्स्रुवश्च आहवनीयः समिञ्च--आहुतिः स्वाहाकारश्च-इत्येतेषां षण्णां मिथुनानां क्रमेण प्रदर्शनम्, एतद्वेदनस्योक्तफलसाधनत्वनिगमनं चेति.

ब्राह्मणं ३

३ ब्रह्मचारिधर्मनिरूपकं ब्राह्मणम्--तत्र तावदग्निहोत्रादिनियमप्रसङ्गादागतं ब्रह्मचारिधर्मं निरूपयितुमाख्यायिकाया अभिधानं, तस्यां च ब्रह्मचारिणः सर्वदा रात्रौ समिदाधानमत्यावश्यकमिति सोपपत्तिकं प्रतिपादनं, समिदाधानादिब्रह्मचर्यधर्माचरणस्य सत्रयागात्मना निरूपणं, तत्र समिदाधानस्य सत्रयागात्मना स्तवनोत्तरमात्मनिष्क्रयणहेतुत्वेनापि प्रशंसनं, समिदाधानेऽग्नौ प्रविष्टस्य चतुर्थपादस्य परिक्रयप्रदर्शनम्, मृत्यौ प्रविष्टस्य पादस्य परिक्रयार्थत्वेन मिक्षाचर्यस्य विधानम, आचार्यगतस्य पादस्य तत्परिचर्यया परिक्रयणस्य प्रदर्शनम्, एवं ब्रह्मचर्यायां क्रियमाणस्य परिचरणस्य परिक्रयार्थत्वमुक्तमिदानीं समृद्ध्यादिहेतुत्वस्याप्यभिधानम्, विदुषो ब्रह्मचारिणः फलनिरूपणं चेत्यादि.