शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ३/ब्राह्मणं ३

११.३.३

ब्रह्म वै मृत्यवे प्रजाः प्रायच्छत्। तस्मै ब्रह्मचारिणमेव न प्रायच्छत्सोऽब्रवीदस्तु मह्यमप्येतस्मिन्भाग इति यामेव रात्रिं समिधं नाहराता इति तस्माद्यां रात्रिं ब्रह्मचारी समिधं नाहरत्यायुष एव तामवदाय वसति तस्माद्ब्रह्मचारी समिधमाहरेन्नेदायुषोऽवदाय वसानीति - ११.३.३.[१]

दीर्घसत्त्रं वा एष उपैति। यो ब्रह्मचर्यमुपैति स यामुपयन्त्समिधमादधाति सा प्रायणीया यां स्नास्यन्त्सोदयनीयाथ या अन्तरेण सत्त्र्या एवास्य ता ब्राह्मणो ब्रह्मचर्यमुपयन् - ११.३.३.[२]

चतुर्द्धा भूतानि प्रविशति। अग्निं पदा मृत्युं पदाऽऽचार्यं पदात्मन्येवास्य चतुर्थः पादः परिशिष्यते - ११.३.३.[३]

स यदग्नये समिधमाहरति। य एवास्याग्नौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन्धत्ते स एनमाविशति - ११.३.३.[४]

अथ यदात्मानं दरिद्रीकृत्येव। अह्रीर्भूत्वा भिक्षते य एवास्य मृत्यौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन्धत्ते स एनमाविशति - ११.३.३.[५]

अथ यदाचार्यवचसं करोति यदाचार्याय कर्म करोति य एवास्याचार्ये पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यान्मन्धत्ते स एनमाविशति - ११.३.३.[६]

न ह वै स्नात्वा भिक्षेत अप ह वै स्नात्वा भिक्षां जयत्यप ज्ञातीनामशनायामप पितॄणां स एवं विद्वान्यस्या एव भूयिष्ठं श्लाघेत ताम्भिक्षेतेत्याहुस्तल्लोक्यमिति स यद्यन्यां भिक्षितव्यान्न विन्देदपि स्वामेवाचार्यजायां भिक्षेताथो स्वां मातरं नैनं सप्तम्यभिक्षिताऽतीयात्तमेवं विद्वांसमेवं चरन्तं सर्वे वेदा आविशन्ति यथा ह वा अग्निः समिद्धो रोचत एवं ह वै स स्नात्वा रोचते य एवं विद्वान्ब्रह्मचर्यं चरति - ११.३.३.[७]