शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ४/ब्राह्मणं १

११.४.१

उद्दालको हारुणिः। उदीच्यान्वृतो धावयाञ्चकार तस्य निष्क उपाहित आसैतद्ध स्म
वै तत्पूर्वेषां वृतानां धावयतामेकधनमुपाहितं भवत्युपवह्लाय बिभ्यतां तान्होदीच्यानां ब्राह्मणान्भीर्विवेद - ११.४.१.[१]

कौरुपञ्चालो वा अयं ब्रह्मा ब्रह्मपुत्रः। यद्वै नोऽयमर्द्धं न पर्याददीत हन्तैनं ब्रह्मोद्यमाह्वयामहा इति केन वीरेणेति स्वैदायनेनेति शौनको ह स्वैदायन आस - ११.४.१.[२]

ते होचुः। स्वैदायन त्वया वीरेणेमं प्रतिसंयतामहा इति स होवाचोपात्र खलु रमताहं न्वेनं वेदानीति तं हाभिप्रपेदे तं हाभिप्रपन्नमभ्युवाद स्वैदायना३ इति हो३ गौतमस्य पुत्रेतीतरः प्रतिशुश्राव तं ह तत एव प्रष्टुं दध्रे - ११.४.१.[३]

स वै गौतमस्य पुत्र वृतो जनं धावयेत्। यो दर्शपूर्णमासयोरष्टौ पुरस्तादाज्यभागान्विद्यात्पञ्च मध्यतो हविर्भागान्षट्प्राजापत्यानष्टाऽउपरिष्टादाज्यभागान् - ११.४.१.[४]

स वै गौतमस्य पुत्र वृतो जनं धावयेत्। यस्तद्दर्शपूर्णमासयोर्विद्याद्यस्मादिमाः प्रजा अदन्तका जायन्ते यस्मादासां जायन्ते यस्मादासां प्रभिद्यन्ते यस्मादासां संस्तिष्ठन्ते यस्मादासां पुनरुत्तमे वयसि सर्व एव प्रभिद्यन्ते यस्मादधर एवाग्रे जायन्तेऽथोत्तरे यस्मादणीयांस एवाधरे प्रथीयांस उत्तरे यस्माद्दंष्ट्रा वर्षीयांसो यस्मात्समा एव जम्भ्याः - ११.४.१.[५]

स वै गौतमस्य पुत्र वृतो जनं धावयेत्। यस्तद्दर्शपूर्णमासयोर्विद्याद्यस्मादिमाः प्रजा लोमशा जायन्ते यस्मादासां पुनरिव श्मश्रूण्यौपपक्ष्याणि दुर्बीरिणानि जायन्ते यस्माच्छीर्षण्येवाग्रे पलितोभवत्यथ पुनरुत्तमे वयसि सर्व एव पलितो भवति - ११.४.१.[६]

स वै गौतमस्य पुत्र वृतो जनं धावयेत्। यस्तद्दर्शपूर्णमासयोर्विद्याद्यस्मात्कुमारस्य रेतः सिक्तं न सम्भवति यस्मादस्य मध्यमे वयसि सम्भवति यस्मादस्य पुनरुत्तमे वयसि न सम्भवति - ११.४.१.[७]

यो गायत्रीं हरिणीम्। ज्योतिष्पक्षां यजमानं स्वर्गं लोकमभिवहन्तीं विद्यादिति तस्मै ह निष्कं प्रददावनूचानः स्वैदायनासि सुवर्णं वाव सुवर्णविदे ददतीति तं होपगुह्य निश्चक्राम तं ह पप्रच्छुः किमिवैष गौतमस्य पुत्रोऽभूदिति - ११.४.१.[८]

स होवाच। यथा ब्रह्मा ब्रह्मपुत्रो मूर्द्धास्य विपतेद्य एनमुपवह्लेतेति ते ह तत एव विप्रेयुस्तं ह तत एव समित्पाणिः प्रतिचक्रमुप त्वायानीति किमध्येष्यमाण इति यानेव मा प्रश्नानप्राक्षीस्तानेव मे विब्रूहीति स होवाचानुपेतायैव त एनान्ब्रवाणीति - ११.४.१.[९]

तस्मा उ हैतदुवाच। द्वावाघारौ पञ्च प्रयाजा आग्नेय आज्यभागोऽष्टम एतेऽष्टौ पुरस्तादाज्यभागाः सौम्य आज्यभागो हविर्भागाणां प्रथमो हविर्हि सोम आग्नेयः पुरोडाशोऽग्नीषोमीय उपांशुयाजोऽग्नीषोमीयः पुरोडाशोऽग्निः स्विष्टकृदेते पञ्च मध्यतो हविर्भागाः - ११.४.१.[१०]

प्राशित्रं चेडा च। यच्चाग्नीध आदधाति ब्रह्मभागो यजमानभागोऽन्वाहार्य एते षट् प्राजापत्यास्त्रयोऽनुयाजाश्चत्वारः पत्नीसंयाजाः समिष्टयजुरष्टममेतेऽष्टा उपरिष्टादाज्यभागाः - ११.४.१.[११]

अथ यदपुरोऽनुवाक्यकाः प्रयाजा भवन्ति। तस्मादिमाः प्रजा अदन्तका जायन्तेऽथ यत्पुरोऽनुवाक्यवन्ति हवींषि भवन्ति तस्मादासां जायन्तेऽथ यदपुरोऽनुवाक्यका अनुयाजा भवन्ति तस्मादासां प्रभिद्यन्तेऽथ यत्पुरोऽनुवाक्यवन्तः पत्नीसंयाजा भवन्ति तस्मादासां संतिष्ठन्तेऽथ यदपुरोऽनुवाक्यकं समिष्टयजुर्भवति तस्मादासां पुनरुत्तमे वयसि सर्व एव प्रभिद्यन्ते - ११.४.१.[१२]

अथ यदनुवाक्यामनूच्य। याज्यया यजति तस्मादधर एवाग्रे जायन्तेऽथोत्तरेऽथ यद्गायत्रीमनूच्य त्रिष्टुभा यजति तस्मादणीयांस एवाधरे प्रथीयांस उत्तरेऽथ यत्प्राञ्चावाघारावाघारयति तस्माद्दंष्ट्रा वर्षीयांसोऽथ यत्सच्छन्दसावेव संयाज्ये भवतस्तस्मात्समा एव जम्भ्याः - ११.४.१.[१३]

अथ यद्बर्हि स्तृणाति। तस्मादिमाः प्रजा लोमशा जायन्तेऽथ यत्पुनरिव प्रस्तरं स्तृणाति तस्मादासां पुनरिव श्मश्रूण्यौपपक्ष्याणि दुर्बीरिणानि जायन्तेऽथ यत्केवलमेवाग्रे प्रस्तरमनुप्रहरति तस्माच्छीर्षण्येवाग्रे पलितो भवत्यथ यत्सर्वमेव बर्हिरनुप्रहरति तस्मात्पुनरुत्तमे वयसि सर्व एव पलितो भवति - ११.४.१.[१४]

अथ यदाज्यहविषः प्रयाजा भवन्ति। तस्मात्कुमारस्य रेतः सिक्तं न सम्भवत्युदकमिवैव भवत्युदकमिव ह्याज्यमथ यन्मध्ये यज्ञस्य दध्ना पुरोडाशेनेति यजन्ति तस्मादस्य मध्यमे वयसि सम्भवति द्रप्सीवैव भवति द्रप्सीव हि रेतोऽथ यदाज्यहविष एवानुयाजा भवन्ति तस्मादस्य पुनरुत्तमे वयसि न सम्भवत्युदकमिवैव भवत्युदकमिव ह्याज्यम् - ११.४.१.[१५]

वेदिरेव गायत्री। तस्यै येऽष्टौ पुरस्तादाज्यभागाः स दक्षिणः पक्षो येऽष्टा उपरिष्टादाज्यभागाः स उत्तरः पक्षः सैषा गायत्री हरिणी ज्योतिष्पक्षा यजमानं स्वर्गं लोकमभिवहति य एवमेतद्वेद - ११.४.१.[१६]