शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ४
ब्राह्मणं १
१ दर्शपूर्णमासयागस्यैव भावनाविशिष्टानां केषाञ्चन मित्रविन्दादीनां धर्माणां प्रतिपादनम्, तत्र प्रथमं विजिगीषुकथारूपेण प्रश्नप्रतिवचनाभ्यां दर्शपूर्णमासावेव सर्वोत्पत्तिनिमित्तत्वेन स्तोतुं तत्प्रश्नप्रतिप्रश्नोपयोगिन्या आख्यायिकायाः प्रतिपादनम् , तस्यां च विवदमानानां मध्ये उद्दालकस्य पुरतः सप्रयोजनं सकारणं निष्कोपधानकथनम्, उदीच्यान् देशान् धावयद्भिर्वृतैर्ब्राह्मणैः स्वैदायनेन सहोद्दालकाय दत्तं ब्रह्मोद्याह्वानकथनम्, तत्र तयोः संवादस्योपक्रमप्रकारनिरूपणं, गौतमस्य पुत्रायोद्दालकाय स्वैदायनेन पृष्टस्य दर्शपूर्णमासविषयकप्रश्नचतुष्टयस्य निरूपणम्, उक्तप्रश्नानामुत्तराणि दातुमनीश्वरस्योद्दालकस्याग्रिमप्रवृत्तेः प्रकारकथनम् , तत उद्दालकेन सह विवदमाने त्वयि परिणामः कः संवृत्तः इत्यन्यैर्ऋषिभिः पृष्टेऽयमुद्दालको ब्रह्मिष्ठस्य गौतमस्य पुत्र इत्येतावदेवेत्युत्तरं दत्त्वैनमल्पज्ञं सन्तं तद्विपर्ययेण योगृह्णीयात्तस्य मूर्धा विपतेदिति स्वैदायनकर्तृकोद्घोषस्य कथनं, तत उक्तप्रश्नरहस्यज्ञानाय शिष्यभावेनोपगतायोद्दालकाय प्रागुदीरितप्रश्नचतुष्टयस्य सप्रपञ्चं सोपपत्तिकं क्रमात्स्वैदायनप्रश्नोत्तरचतुष्टयस्य निरूपणम् , उक्तार्थं वेदितुः फलाभिधानं चेत्यादि.
ब्राह्मणं २
२ इत्थं दर्शपूर्णमासयोः प्रयाजादियागाञ्छरीरोत्पत्तिनिमित्तत्वेन प्रतिपाद्याधुना तेषां यागानां स्रुगादानप्रभृतिहोमान्तानां केषाञ्चन धर्माणां विचारणा, तत्र स्रुगादानस्य प्रकारविशेषं दर्शयितुं प्रस्तावकथनं, तत्रैकीयं मतं प्रदर्श्य दोषाभावप्रतिपादनपुरःसरमानुगुण्यकथनपुरःसरं च स्वकीयपक्षस्य सविशेषमभिधानम् , अतिक्रमणविषयकविचारस्य सविशेषं निरूपणं, स्रुग्धारणविषयकस्य धर्मविशेषस्य विधानं, तत्र पूर्वपक्षमुद्भाव्य तं दूषयित्वा कर्तव्योत्तरपक्षस्य कथनं, न्यक्तिर्यगूर्ध्वकृपणबहिःश्र्यन्तःश्र्यात्मनां षण्णामाश्रावणानां स्वरूपाणां प्रदर्शनं, तत्र तत्सहैव न्यक्कृपणबहिःश्र्यात्मकाश्रावणानां प्रयोगेऽनिष्टफलं दर्शयित्वा तेषामप्रयोज्यत्वप्रदर्शनं, तिर्यगूर्ध्वान्तःश्र्यात्मकाश्रावणानां प्रयोगे इष्टफलं दर्शयित्वा तेषां प्रयोज्यत्वप्रदर्शनं च, तत्रापि षष्ठस्यान्तःश्रिलक्षणाश्रावणस्य स्वाभिमतत्वं प्रदर्शयितुं भूयः प्रशंसनम् , अस्मिन्नेव षष्ठे आश्रावणे स्वरविशेषस्य विधानम् , आश्रावणानंतरं भाविनो होमस्य विशेषं वक्तुं प्रस्तावकथनं, तत्रैकीयं मतं प्रदर्श्य तद्दूषयित्वा पुनरन्यं पक्षमुपन्यस्य तद्दूषणम्, इत्थं पक्षद्वयं प्रत्याख्यायोक्तपक्षद्वयगतदोषविरहेण प्राशस्त्यप्रदर्शनसहितं सिद्धान्तकथनं, सन्तृप्ताहुतीनां फलहेतुताप्रदर्शनद्वारा तदर्थमध्वर्युद्वैविध्यस्य सोपपत्तिकमभिधानम्, उक्तं सन्तर्पणमुपसंहारव्याजेनानूद्य सन्तृप्ताहूतीनां विशिष्टफलाभिधानम्, एवं श्रुत्या स्वाभिमतमाहुतिसंतर्पणं प्रदर्श्य याज्ञवल्कीयस्य मतस्य पक्षान्तरत्वेन प्रदर्शनम्, अत्रापि पूर्वोदितफलप्रदर्शनं, यदिदं स्रुगादानादिहोमान्तं कर्म सविशेषं निरूपितं तत्परिज्ञानवतैवाध्वर्युणा भवितव्यमिति दर्शयितुमाख्यायिकाया अभिधानं, तस्यां च शौल्बायनेनाध्वर्युणा कृतं गृहपतेरधिक्षेपं प्रतिपाद्य तस्य गृहपतिना यदुत्तरं दत्तं तस्य प्रतिपादनम्, एवं प्रत्युक्तोऽध्वर्युः शिष्यभावेन तं गृहपतिमुपगम्य तस्मात्स्रुचोरादानविषयं रहस्यज्ञानं सम्पादितवानित्यभिधानम्, अन्ते एतद्ब्राह्मणार्थविदमेवाध्वर्युं वृणीतेति निगमनं चेत्यादि.
ब्राह्मणं ३
३ मित्रविन्देष्टिः-तत्र मित्रविन्दाख्यायाः काम्येष्टेर्विधित्सया तत्र हविरुत्पत्तिक्रममन्नाद्यादिकामनोपेतमधिकारिविशेषं च दर्शयितुमाख्यायिकाकथनद्वाराऽऽदौ श्रिय उत्पत्तिमुत्पन्नायाश्च तस्या देवैरभिध्यानकथनम् , इमां श्रियं हत्वाऽस्याः सम्बन्नाद्यादिकं वयं स्वीकुर्यामेति देवैरुक्ते प्रजापतिनोक्तं यल्लोकेऽपि स्त्रियं केऽपि नैव घ्नन्ति प्रत्युत जीवन्त्या एव तस्याः सम्बन्धि धनादिकमाददत इत्यर्थस्याभिधानम्, एवं प्रजापतिनोक्ते केन देवेन किं स्वीकृतमिति तत्प्रदर्शनम्, एवमग्न्यादिभिरन्नाद्यादिषु बलात्स्वीकृतेषु सत्सु श्रीः प्रजापतिं प्राह मदीयमन्नाद्यादिकं देवा अहार्षुरिति तदा प्रजापतिः प्रत्याह यज्ञेन देवेभ्यः पुनरन्नाद्यादिकं याचस्वेत्याद्यर्थस्याभिधानम्, अन्नाद्यादिप्राप्तिनिमित्तभूताया दशहविकेष्ट्या उत्पत्तिमभिधाय तेषां हविषां तद्देवतानां च परिगणनम्, हविषां निर्वापादिसंस्कारेषु " समिधो यजति" इत्यादाविव चोदकप्राप्तं क्रममेवाभिप्रेत्य तं विहायात्र केवलं प्रदानं तु सर्वेषां सहैव भवत्विति विधित्सयाऽग्न्यादिदशदेवतानामाक्षरवत्या अनुवाक्याया याज्यायाश्च सविशषं विधानम् , तत्तत्प्रधानयागसम्बन्ध्युपहोमानामुत्पत्तिमभिधाय तानुपहोममन्त्रान्पठित्वा तत्तदाहुत्या तस्य तस्यान्नाद्यादेः परिक्रयेण प्राप्तिर्भवतीत्यभिधानं, देवताहविरुपहोमे दक्षिणात्वेन देयानां गवां दशसंख्यामनूद्य तस्याः प्रशंसनम् , एतस्यामिष्टौ चोदकप्राप्तेष्वङ्गेषु क्वचिद्विशेषं दर्शयितुं तेषामनुक्रमणम् , तत्राज्यभागयोरनुवाक्ययोः पुष्टिशब्दयुक्तत्वस्य सौविष्टकृत्योः संयाज्ययोः सहस्रशब्दयुक्तत्वस्य चाभिधानं सहैव क्रमेण तन्मन्त्राणामभिधानं च, अस्या इष्टेर्मित्रविन्देति नाम निर्वक्तुं सम्प्रदायागत्यभिधानम् , पुराकल्पव्याजेन साधारण्येन विहितायामिष्टौ फलाभिधानद्वारोपसंहारमिषादधिकारिणः प्रदर्शनं चेत्यादि.
ब्राह्मणं ४
४ हविरादिसमृद्य््भिधायकं ब्राह्मणम् - तत्र दाहविपतनादिदोषदुष्टस्यापि हविषः समृद्ध्युपायभूतोपासनस्य विधित्सया प्रतिज्ञाकरणम् , तत्र विधित्सितस्योपासनस्य विषयभूतोपास्यस्य प्रतिपादनम् , तत्र यतोऽग्निर्ब्रह्मणो द्वारं ततस्तेनोपदग्धो हविर्याग अग्न्याख्यद्वारेण ब्रह्मलोकप्राप्त्युपाय इति कथनम्, तथा तत्सायुज्यादिकमपि फलं भवतीति प्रतिपादनम्, वायुर्ब्रह्मद्वारमित्याद्युपासनस्य फलाभिधानम् , अपक्वे हविषि जलबुद्बुद्ध्योपासनस्य फलकथनम्, उपरक्ते हविषि चन्द्रबुद्ध्योपासनस्य फलाभिधानम्, लोहिते हविषि विद्युद्बुद्ध्योपासनस्य फलनिरूपणम् , इत्थमपाकातिपाकहविषामुपासनान्यभिधायाधुना सुशृते हविष्यादित्यबुद्ध्योपासनस्य फलोपवर्णनम् , उक्ता हविषः समृद्धिरुपासकस्यैवोक्तफलहेतुः स्यादिति निगमनम्, इत्थं हविषः समृद्धिमुपपाद्य प्रसङ्गात्तत्साध्यस्य यज्ञस्यापि न्यूनत्वादिदोषपरिहाराय समृद्धिं वक्तुं प्रतिज्ञाकरणम्, तत्र यज्ञसमृद्धिं वक्तुं न्यूनातिरिक्तत्वादिधर्माणां यज्ञावयवत्वप्रतिपादनम् , एतदुपजीव्य यज्ञसमृद्ध्यर्थं तदुपासनकथनम् , इत्थं न्यूनातिरिक्तदोषस्योपासनया समीकरणमुक्त्वा सम्यगनुष्ठितस्याप्यङ्गस्याधिकफलसिद्ध्यर्थमुपासनविधानम् , प्रतिज्ञाताया यज्ञसमृद्धेर्निगमनम् , तत्र समृद्धिरूपवेदनस्य फलनिरूपणं चेत्यादि.