शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ४/ब्राह्मणं २
११.४.२
अथातः स्रुचोरादानस्य। तद्धैतदेके कुशला मन्यमाना दक्षिणेनैव जुहूमाददते सव्येनोपभृतं न तथा कुर्याद्यो हैनं तत्र ब्रूयात्प्रतिप्रतिं न्वा अयमध्वर्युर्यजमानस्य द्विषन्तं भ्रातृव्यमकत्प्रत्युद्यामिनमितीश्वरो ह तथैव स्यात् - ११.४.२.१
इत्थमेव कुर्यात्। उभाभ्यामेव पाणिभ्यां जुहूम्परिगृह्योपभृत्यधि निदध्यात्तस्य नोपमीमांसास्ति तत्पशव्यमायुष्यं ते असंशिञ्जयन्नाददीत यत्संशिञ्जयेदयोगक्षेमो यजमानमृच्छेत्तस्मादसंशिञ्जयन्नाददीत - ११.४.२.२
अथातोऽतिक्रमणस्य। वज्रेण ह वा अन्योऽध्वर्युर्यजमानस्य पशून्विधमति वज्रेण हास्मा अन्य उपसमूहत्येष ह वा अध्वर्युर्वज्रेण यजमानस्य पशून्विधमति य आश्रावयिष्यन्दक्षिणेनातिक्रामति सव्येनाश्राव्याथ हास्मा एष उपसमूहति य आश्रावयिष्यन्त्सव्येनातिक्रामति दक्षिणेनाश्राव्यैष हास्मा उपसमूहति - ११.४.२.३
अथातो धारणस्य। तद्धैतदेके कुशला मन्यमानाः प्रगृह्य बाहू स्रुचौ धारयन्ति न तथा कुर्याद्यो हैनं तत्र ब्रूयाच्छूलौ न्वा अयमध्वर्युर्बाहू अकृत शूलबाहुर्भविष्यतीतीश्वरो ह तथैव स्यादथ हैष मध्यमः प्राणस्तस्मादु तमुपन्यच्येवैव धारयेत् - ११.४.२.४
अथात आश्रावणस्य। षडु वा आश्रावितानि न्यक्तिर्यगूर्ध्वं कृपणं बहिःश्र्यन्तःश्रि - ११.४.२.५
एतद्ध वै न्यक्। योऽयमुच्चैरादाय शनैर्निदधाति स यमिच्छेत्पापीयान्त्स्यादिति तस्योच्चैरादाय शनैर्निदध्यात्तेन स पापीयान्भवति - ११.४.२.६
अथ हैतत्तिर्यक्। योऽयं यावतैवादत्ते तावता निदधाति स यमिच्छेन्नैव श्रेयान्त्स्यान्न पापीयानिति तस्य यावतैवाददीत तावता निदध्यात्तेन स नैव श्रेयान्नपापीयान्भवति - ११.४.२.७
अथ हैतदूर्ध्वम्। योऽयं शनैरादायोच्चैर्निदधाति स यमिच्छेच्छ्रेयान्त्स्यादिति तस्य शनैरादायोच्चैर्निदध्यात्तेन स श्रेयान्भवति - ११.४.२.८
अथ हैतत्कृपणम्। योऽयमणु दीर्घमस्वरमाश्रावयति यो हैनं तत्र ब्रूयात्कृपणं न्वा अयमध्वर्युर्यजमानमकद्द्विषतो भ्रातृव्यस्योपावसायिनमितीश्वरो ह तथैव स्यात् - ११.४.२.९
अथ हैतद्बहिःश्रि। योऽयमपव्यादायौष्ठा उच्चैरस्वरमाश्रावयति श्रीर्वै स्वरो बाह्यत एव तच्छ्रियं धत्तेऽशनायुको भवति - ११.४.२.१०
अथ हैतदन्तःश्रि। योऽयं संधायौष्ठा उच्चैः स्वरवदाश्रावयति श्रीर्वै स्वरोऽन्तरत एव तच्छ्रियं धत्तेऽन्नादो भवति -११.४.२.११
स वै मन्द्रमिवोरसि। परास्तभ्योभयतो बार्हतमुच्चैरन्ततो निदध्यात्तस्य नोपमीमांसास्ति तत्पशव्यमायुष्यम् - ११.४.२.१२
अथातो होमस्य। तद्धैतदेके कुशला मन्यमानाः प्राचीं स्रुचमुपावहृत्य हुत्वा पर्याहृत्योपभृत्यधिनिदधति न तथा कुर्याद्यो हैनं तत्र ब्रूयादनुयुवन्न्वा अयमध्वर्युर्यजमानमकद्द्विषतो भ्रातृव्यस्यान्ववसायिनमितीश्वरो ह तथैव स्यात् - ११.४.२.१३
पार्श्वत उ हैके। स्रुचमुपावहृत्य हुत्वा पर्याहृत्योपभृत्यधिनिदधति न तथा कुर्याद्यो हैनं तत्र ब्रूयादतीर्थेन न्वा अयमध्वर्युराहुतीः प्रारौत्सीत्सं वा शरिष्यते घुणिर्वा भविष्यतीतीश्वरो ह तथैव स्यात् - ११.४.२.१४
इत्थमेव कुर्यात्। प्राचीमेव स्रुचमुपावहृत्य हुत्वा तेनैवाधिहृत्योपभृत्यधिनिदध्यात्तस्य नोपमीमांसास्ति तत्पशव्यमायुष्यम् - ११.४.२.१५
प्रदग्धाहुतिर्ह वा अन्योऽध्वर्युः। आहुतीर्हान्यः संतर्पयत्येष ह वै प्रदग्धाहुतिरध्वयुर्योऽयमाज्यं हुत्वाऽवदानानि जुहोत्येतं ह वै तददृश्यमाना वागभ्युवाद प्रदग्धाहुतिर्वा अयमध्वर्युरित्यथ हैना एष संतर्पयति योऽयमाज्यं हुत्वावदानानि जुहोत्यथ पुनरन्तत आज्येनाभिजुहोत्येष हैनाः संतर्पयति तासां संतृप्तानां देवा हिरण्मयांश्चमसान्पूरयन्ते - ११.४.२.१६
तदु होवाच याज्ञवल्क्यः। यद्वा उपस्तीर्यावदायाभिघारयति तदेवैनाः संतर्पयति तासां संतृप्तानां देवा हिरण्मयांश्चमसान्पूरयन्तेऽयस्थूणगृहपतीनां ह वै शौल्बायनोऽध्वर्युरास[१] - ११.४.२.१७
स होवाच। इदमहेदं सत्त्रं कृशपश्वल्पाज्यमथायं गृहपतिरस्मीति मन्यत इति - ११.४.२.१८
स होवाच। अध्वर्यवा वै नोऽक्रुक्ष एते वै ते स्रुचौ ये त्वं संवत्सरं नाशक आदातुं यद्वै त्वाहमेतयोरनुशिष्यां प्र प्रजया पशुभिर्जायेथा अभि स्वर्गं लोकं वहेरिति - ११.४.२.१९
स होवाच। उप त्वायानीति स होवाचात्र वाव खल्वर्हसि यो नः संवत्सरेऽध्वर्युरभूरनुपेतायैव त एनद्ब्रवाणीति तस्मा उ हैतदेव स्रुचोरादानमुवाच यदेतद्व्याख्याम तस्मादेवंविदमेवाध्वर्युं कुर्वीत नानेवंविदम् - ११.४.२.२०