शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ५/ब्राह्मणं २

अङ्गुलयः
पुराणेषु अङ्गुलिविन्यासः
सामवेदे अङ्गुलिविन्यासः
शुकरहस्योपनिषदे अङ्गुलिविन्यासः
शुकरहस्योपनिषदेअङ्गुलिविन्यासः

११.५.२

[१]प्रजापतिर्ह चातुर्मास्यैरात्मानं विदधे। स इममेव दक्षिणं बाहुं वैश्वदेवं हविरकुरुत तस्यायमेवाङ्गुष्ठ आग्नेयं हविरिदं सौम्यमिदं सावित्रं - ११.५.२.१

स वै वर्षिष्ठः पुरोडाशो भवति। तस्मादियमासां वर्षिष्ठेदं सारस्वतमिदम्पौष्णमथ य एष उपरिष्टाद्धस्तस्य संधिस्तन्मारुतमिदं वैश्वदेवं दोर्द्यावापृथिवीयं तद्वा अनिरुक्तं भवति तस्मात्तदनिरुक्तम् - ११.५.२.२

अयमेव दक्षिण ऊरुर्वरुणप्रघासाः तस्य यानि पञ्च हवींषि समायीनि ता इमाः पञ्चाङ्गुलयः कुल्फावेवैन्द्राग्नं हविस्तद्वै द्विदेवत्यं भवति तस्मादिमौ द्वौ कुल्फाविदं वारुणमिदं मारुतमनूकं कायं तद्वा अनिरुक्तं भवति तस्मात्तदनिरुक्तम् - ११.५.२.३

मुखमेवास्यानीकवतीष्टिः। मुखं हि प्राणानामनीकमुरः सांतपनीयोरसा हि समिव तप्यत उदरं गृहमेधीया प्रतिष्ठा वा उदरं प्रतिष्ठित्या एव शिश्नान्येवास्य क्रैडिनं हविः शिश्नैर्हि क्रीडतीवायमेवावाङ्प्राण आदित्येष्टिः - ११.५.२.४

अयमेवोत्तर ऊरुर्महाहविः। तस्य यानि पञ्च हवींषि समायीनि ता इमाः पञ्चाङ्गुलयः कुल्फावेवैन्द्राग्नं हविस्तद्वै द्विदेवत्यं भवति तस्मादिमौ द्वौ कुल्फाविदं माहेन्द्रमिदं वैश्वकर्मणं तद्वा अनिरुक्तं भवति तस्मात्तदनिरुक्तमथ यदिदमन्तरुदरे तत्पितृयज्ञस्तद्वा अनिरुक्तं भवति तस्मात्तदनिरुक्तम् - ११.५.२.५

अयमेवोत्तरो बाहुः शुनासीरीयम्। तस्य यानि पञ्च हवींषि समायीनि ता इमाः पञ्चाङ्गुलयोऽथ य एष उपरिष्टाद्धस्तस्य संधिस्तच्छुनासीरीयमिदं वायव्यं दोः सौर्यं तद्वा अनिरुक्तं भवति तस्मात्तदनिरुक्तम् - ११.५.२.६

तानि वा एतानि। चातुर्मास्यानि त्रिषंधीनि द्विसमस्तानि तस्मादिमानि पुरुषस्याङ्गानि त्रिषंधीनि द्विसमस्तानि तेषां वै चतुर्णां द्वयोस्त्रीणि त्रीणि हवींष्यनिरुक्तानि भवन्ति द्वेद्वे द्वयोः - ११.५.२.७

तेषां वै चतुर्ष्वग्निं मन्थन्ति तस्माच्चतुर्भिरङ्गैरायुते द्वयोः प्रणयन्ति तस्माद्द्वाभ्यामेत्येवमु ह प्रजापतिश्चातुर्मास्यैरात्मानं विदधे तथो एवैवंविद्यजमानश्चातुर्मास्यैरात्मानं विधत्ते - ११.५.२.८

तदाहुः। सर्वगायत्रं वैश्वदेवं हविः स्यात्सर्वत्रैष्टुभं वरुणप्रघासाः सर्वजागतं महाहविः सर्वानुष्टुभं शुनासीरीयं चतुष्टोमस्याप्त्या इति तदु तथा न कुर्याद्यत्त्वा एतान्यभिसम्पद्यन्ते तेनैवास्य स काम उपाप्तो भवति - ११.५.२.९

तानि वा एतानि चातुर्मास्यानि द्वाषष्टानि त्रीणि शतानि बृहत्यः सम्पद्यन्ते तदेभिः संवत्सरं च महाव्रतं चाप्नोत्यथो द्विप्रतिष्ठो वा अयं यजमानो यजमानमेवैतत्स्वर्गे लोक आयातयति प्रतिष्ठापयति - ११.५.२.१०


  1. तु. अथ सौम्यश्चरुर्भवति । रेतो वै सोमस्तदग्नौ प्रजनयितरि सोमं रेतः सिञ्चति तत्पुरस्तान्मिथुनं प्रजननम् । अथ सावित्रः । द्वादशकपालो वाष्टाकपालो वा पुरोडाशो भवति सविता वै देवानाम्प्रसविता प्रजापतिर्मध्यतः प्रजनयिता तस्मात्सावित्रो भवति । अथ सारस्वतश्चरुर्भवति । पौष्णश्चरुर्योषा वै सरस्वती वृषा पूषा तत्पुनर्मिथुनं प्रजननमेतस्माद्वा उभयतो मिथुनात्प्रजननात्प्रजापतिः प्रजाः ससृज - माश २.५.१.१०अङ्गुलि उपरि टिप्पणीमुष्टि उपरि संदर्भाः