ब्राह्मणं १

१ आश्वत्थ्योररण्योरुत्पत्तिख्यापकं ब्राह्मणम् - तत्र दर्शपूर्णमासविकृतिभूतांश्चातुर्मास्यादीन्प्रशंसितुमादौ तत्राग्निमन्थनसद्भावात्तत्साधनभूतयोररण्योरश्वत्थ विकृतित्वस्य विधित्सया तदर्थमाख्यायिकाया अभिधानं, तस्यां चोर्वशीपुरुरवसोः ससंवित्कस्य जायापत्यभावस्य वर्णनं, तत्रोर्वशी यावता कालेन गर्भवती बभूव तावच्चिरकालपर्यन्तमस्मिंल्लोके पुरूरवसि निवसति स्मेत्यर्थस्याभिधानं, एवमुर्वश्यां चिरकालं मनुष्यलोकसंस्थायिन्यां तद्विरहमसहमानैर्गन्धर्वैः कृतस्य तद्धरणोपायस्य सप्रकारकं प्रदर्शनं, तत्र गन्धर्वाणां कौशल्येन जातं समयभङ्गं दृष्ट्वोर्वश्यास्तिरोभावकथनं, उर्वशीदर्शनकामनया कुरुक्षेत्रसमीपेऽन्यतःप्लक्षनाम्नः सरसस्तीरे सञ्चरतः पुरूरवसः पुरतो जलचरपक्षिविशेषरूपं परिहायान्याभिरप्सरोभिः साकमुर्वश्या आत्मनः प्रादुर्भावकथनम्, अप्सरोगणमध्यस्थितामुर्वशीं ज्ञात्वा हे उर्वशि ! मा गास्तिष्ठ गमनान्निवर्तस्व क्षिप्रं संवदावहै इत्यादिरूपेण पुरूरवसः प्रार्थनाकरणस्योर्वश्यास्तत्प्रत्याख्यानकरणस्य च यथायथं मंत्रद्वयेनोपवर्णनम् , उर्वश्या एवं निराकृतस्य पुरूरवस एकेन मंत्रेण दुःखप्रदर्शनम्, एवं परिदेवने कृते तन्निवारणार्थमुर्वश्या कृतस्य तत्समाधानस्यकेन मंत्रेण सप्रकारकं कथनम, इत्थं सहसा प्राप्तुकामं पुरूरवसं निराकृत्योर्वश्या स्वप्राप्त्युपायान्तरं तस्योपदेष्टुं तत्कृतोपकारस्यैकेन मंत्रेणाविष्करणकथनं, यदत्र मंत्रपञ्चकात्मक उर्वशीपुरू रवसोरुक्तप्रत्युक्तलक्षणसूक्तैकदेश उक्तस्तत्सूक्तं पञ्चदशर्चं बह्वृचाः प्राहुरित्याद्यभिधानम्, इत्थमुक्तिप्रत्युक्तिभ्यां विलीनहृदययोर्वश्या पुनः पुरुरवसा सह संवत्सरस्यान्तिमायां रात्र्यां पुनर्मेलनार्थं समयं कृत्वा तमनुसृत्य मेलनं कृत्वा च गन्धर्वास्ते प्रातर्वरं दास्यन्ति तदा त्वं हे गन्धर्वाः ! युष्माकं मध्येऽहमप्येको भवानीति वरं वृणीष्वेत्यर्थस्य निरूपणम्, इत्थं गन्धर्वरूपत्वे पुरूरवसा प्रार्थिते सति तत्प्राप्त्युपायफलस्य गन्धर्वैरुपदेश्यस्यानुक्रमणं, तत्र प्रथमं गन्धर्वत्वप्रापकं यागं कर्तुं पुरूरवसे गन्धर्वैर्यज्ञार्होऽग्निः स्थाल्यामोप्य प्रत्त इत्यभिधानम्, एवं गन्धर्वैर्दत्ते सति पुरूरवास्तमग्निम् उर्वशीगर्भाज्जातं कुमारं चादाय तन्मध्यात्स्थालीसहितमग्निमरण्ये एव निधाय कुमारेणैव सह ग्रामे स्वस्थानमाजगामेत्याद्यर्थस्य प्रतिपादनं, ततः पुरूरवाः पुनररण्यमेत्य निहितं सस्थालीकमग्निं यदाऽपश्यत्तदा सोऽग्निरश्वत्थवृक्षात्मना परिणतः स्थाली च शमीवृक्षात्मना परिणता इति दृष्टवानित्याद्यभिधानम्, इत्थमग्नौ तिरोहिते सति पुरूरवाः पुनर्गन्धर्वानाजगाम गन्धर्वाश्च तस्मै पुनस्तादृशमेवाग्निं प्रापयितुं चातुष् प्राश्यपचनात्मकं समिद्वतीभिर्घृतवतीभिर्ऋग्भिस्तिसृणामाश्वत्थीनां समिधामभ्याधानात्मकं च व्रतमुपादिशन्नित्यर्थकथनम्, उक्तं व्रतरूपमुपायं व्यवहितं मत्वोत्तरारणिमाश्वत्थीमधरारणिं च शमीमयीं कृत्वा मन्थनेन योऽग्निर्जनिता सोऽस्मद्दत्त एवेति पुनरन्योपायकथनं, तत्रोक्तं पक्षमप्यन्तर्हितं मत्वाऽरणिद्वयमप्यश्वत्थवृक्षजं कर्तव्यमिति पक्षान्तरनिरूपणम्, इत्थं गन्धर्वैरुपदिष्टे पुरूरवास्तत्सर्वं तथैव कृत्वा गन्धर्वाणां मध्ये एक आसेत्यादिकथनम्, इत्थमाख्यायिकासिद्धस्यारण्योरश्वत्थोपादानत्वस्याधुनातनयजमानस्यापि विधानं चेत्यादि.


ब्राह्मणं २

२ दर्शपूर्णमासयाजिवच्चातुर्मास्ययाजिनोऽपि आत्मयाजित्वं देवयाजित्वं चेति द्वैविध्यप्रदर्शनार्थं तत्रत्यैर्यागैः शरीरावयवकल्पनस्याख्यायिकया प्रतिपादनं, तत्र तस्य प्रजापतेर्दक्षिणहस्तत्वेन वैश्वदेवाख्यं पर्व कल्पयित्वा तत्राप्याग्नेयादिहविष्पञ्चकमङ्गुष्ठाद्यङ्गुलिपञ्चकत्वेन मारुतं हविर्मणिबन्धत्वेन वैश्वदेवं हविः कूर्परत्वेन द्यावापृथिवीयं हविर्दोर्दण्डरूपत्वेन च प्रकल्प्यमिति सोपपत्तिकमभिधानं, वरूणप्रघासाख्यं द्वितीयं पर्व दक्षिणपादत्वेन प्रकल्प्य तत्राग्नेयादिहविष्पञ्चकमङ्गुष्ठाद्यङ्गुलिपञ्चकत्वेन ऐन्द्राग्नं हविः कुल्फद्वयरूपत्वेन वारुणं हविर्जङ्घाद्वयरूपत्वेन मारुतं हविरूरुद्वयरूपत्वेन कायं हविरनूकरूपत्वेन च प्रकल्प्यमिति सोपपत्तिकमभिधानं, साकमेधाख्यं तृतीयं पर्व मध्यमशरीरत्वेन कल्पयित्वा तत्रानीकवतीष्टिर्मुखं सान्तपनीयेष्टिरुरः गृहमेधीयेष्टिरुदरं क्रैडिनं हविः शिश्नानि आदित्यं हविरवाङ्प्राणः इत्येवं साकमेधेषु बहिस्तन्त्रवर्तिभिर्यागैर्मध्यशरीरस्यावयवक्लृप्तेः सोपपत्तिकमभिधानं, साकमेधान्तर्गतां महाहविषेष्टिं वामपादत्वेन प्रकल्प्य तत्र तद्गताग्नेयादिहविष्पञ्चकमंगुष्ठाद्यंगुलिपञ्चकत्वेन ऐन्द्राग्नं हविः कुल्फद्वयरूपत्वेन माहेन्द्र हविर्जङ्घाद्वयरूपत्वेन वैश्वकर्मणं हविरूरुद्वयरूपत्वेन पितृयज्ञाख्यं कर्म चोदरान्तर्वर्त्यन्त्रपुरीतदादिकत्वेन च प्रकल्प्यमिति सोपपत्तिकमभिधानं, शुनासीरीयाख्यं चतुर्थ पर्व सव्यहस्तत्वेन कल्पयित्वा तत्राग्नेयादिहविष्पञ्चकमंगुष्ठाद्यंगुलिपञ्चकत्वेन शुनासीरीयं हविर्मणिबन्धत्वेन वायव्यं हविः कूर्परत्वेन सौर्यं हविर्दोर्दण्डरूपत्वेन च प्रकल्प्यमिति सोपपत्तिकमभिधानं, चातुर्मास्यानि त्रिषन्धीनि द्विसमस्तानि तेष्वाद्यन्तयोः पर्वणोर्मध्ये त्रीणि त्रीणि हवींष्यनिरुक्तानि मध्यमयोर्द्वयोः पर्वणोर्मध्ये द्वे द्वे हविषी अनिरुक्ते भवत इत्यर्थस्याभिधानं, तेषां पर्वणां साधारण्येनानिमन्थनस्य सम्यग्विधानम्, अस्याख्यायिकासिद्धस्यार्थस्याधुनातनयजमाने नियोजनं, गायत्र्यादिसम्पत्तिमेषु पर्वसु दर्शयितुं पूर्ववादमुद्भाव्य तं निषिध्य च पक्षान्तरविधानं, चातुर्मास्येषु संख्याविशेषघटितबृहतीसम्पत्तेः प्रदर्शनद्वारा संवत्सरात्मकचित्याग्नेर्महाव्रतसाम्नश्च प्राप्तिरूपफलस्य प्रदर्शनम्, तत्रैतयोर्द्वयोरवशिष्टयोः प्रयोजननिरूपणं चेत्यादि.


ब्राह्मणं ३

३ अग्निहोत्रस्य सर्वदेवतातृप्तिकरत्वाभिधानम्--तत्र प्रश्नप्रतिवचनाभ्यामग्निहोत्रहोमस्य सर्वदेवतातृप्तिकरत्वाभिधायकं ब्रह्मोद्यं प्रतिपादयितुं प्रष्टृप्रतिवक्त्रोः प्राचीनयोग्योद्दालकयोः संवादप्रदर्शनम् , तत्र प्राचीनयोग्य आगत्य च तमुद्दालकं प्रतीमानग्निहोत्रावयवभूतांस्त्रयस्त्रिंशत्पदार्थान् पप्रच्छेत्याद्यभिधानम् , एतत्पृष्टमर्थजातं विदुषोऽग्निहोत्रं सम्यग्घुतं भवति ततो. ऽन्यस्याविदुषो हुतमप्यहुतं भवतीति प्रदर्शनम्, एवं प्राचीनयोग्येन पृष्टानां प्रश्नानामुत्तराण्युद्दालकः क्रमेण ददातीत्याद्यभिधानम् , उक्ताग्निहोत्रेग्न्युद्धरणानन्तरं पात्रासादनानन्तरं चाहवनीयस्यानुगमनेऽनिष्टफलरूपं भयं तन्निवृत्त्युपायभूता प्रायश्चित्तिः--गार्हपत्यानुगमने पूर्ववद्भयं तन्निवृत्त्युपायभूता प्रायश्चित्तिः--दक्षिणाग्न्यनुगमने च पूर्ववद्भयं तन्निवृत्युपायभूता प्रायश्चित्तिरित्येतेषामर्थानां प्रश्नप्रतिप्रश्नरूपेण कथनम् , एवमेकैकानुगतौ प्रश्नप्रतिवचनाभ्यां प्रायश्चित्तं निरूप्य कृत्स्नाग्नीनां युगपदनुगमनेऽनिष्टफलरूपं भयं तन्निवृत्त्युपायभूता प्रायश्चित्तिरित्येतस्यार्थस्य पूर्ववत्प्रश्नप्रतिवचनाभ्यां निरूपणं, तत्र यदि वातो न स्यात्तदा किं कर्तव्यमिति प्रश्नोत्तररूपेणैवाभिधानम्, उक्तमेतच्चरमं प्रायश्चित्तमविदुषेऽत एव शिष्यभावेनोपगताय मे भो उद्दालक ! तद् ब्रूहीत्युक्ते तज्ज्ञानं तस्मै प्राचीनयोग्याय प्रोक्तमित्याद्यर्थस्य निरूपणं, तत्र सत्यवदनमेव परमो धर्म इति निगमनं चेत्यादि.

ब्राह्मणं ४

४ उपनयनधर्माभिधायकं ब्राह्मणम् -- तत्र गुरुं प्रत्युपनयनप्रार्थनपरमुपनेतव्यस्य शिष्यस्य मन्त्रं विधाय तस्य प्रशंसनं भागशोऽनूद्य व्याख्यानं च, गुरोर्मन्त्रं विधाय तस्यार्थविवरणं, गुरुकर्तृकं मन्त्रतदर्थयुतं सफलं शिष्यस्य हस्तग्रहणविधानम् , उक्तार्थ वेदितुरप्येततफलं भवतीति कथनम् , प्रजापत्यादिदेवताभ्यः शिष्यस्य समन्त्रकं परिदानं विधाय तत्र मन्त्रं भागशोऽनूद्य व्याख्याय च परिदानकरणस्य फलनिरूपणम्, अस्य शिष्यस्य मन्त्रैरनुशासनं विधाय तदनुसारेणाचरणे फलप्रतिपादनं, सावित्र्याअनुवाचन विधाय तस्य साभिप्रायमुपनयनादूर्ध्वं संवत्सरादिकालेषु कर्तव्यत्वाभिधानं, तत्र षण्मासादित्र्यहान्तेषु कालेष्वपि संवत्सरसम्पत्तेः प्रतिपादनद्वारा तदनुवाचनस्य कर्तव्यत्वाभिधानम् , तत्रापि त्र्यहपक्षे श्लोकमन्त्रस्य संवादप्रदर्शनम्, इत्थं त्रैवर्णिकानां साधारणपक्षानुक्त्वा ब्राह्मणस्य कृते सोपपत्तिकं सद्यस्त्वरूपविशेषपक्षस्याभिधानं, का पुनरसौ सावित्रीत्याशङ्क्य तत्रैकीयं मतमुपन्यस्य सकारणं तत्प्रत्याख्याय च स्वपक्षस्य सिद्धान्ततयाऽभिधानं, तत्रानुवचनसमये शाखान्तराभिमतं दक्षिणतोऽवस्थानं शिष्यस्यानूद्य तस्य सकारणं निषेधं कृत्वा स्वपक्षस्य प्राग्वत्सिद्धांततया प्रतिष्ठापनम्, एतस्मिन्ननुवाचने पच्छोऽर्धर्चशः कृत्स्नशोऽनवानं चेत्यादीनां धर्माणां क्रमेण निरूपणं, प्रागुक्तसंवत्सरादिपक्षेषूपनयनानन्तरं सावित्रीप्रदानात्पूर्वमाचार्यस्य नियमं प्रदर्श्य तत्र कारणाभिधानम्, एवं केषाञ्चिन्मतमुक्त्वाऽन्येषां मतनिरूपणम् , उक्तदोषाभावस्य व्यवस्थया प्रतिपादनम् , उक्तार्थस्योपसंहारश्च, इत्थमाचार्यस्य नियममुक्त्वा ब्रह्मचारिणोऽपि नियमस्य पक्षपक्षान्तरसहितमभिधानम्, उक्तार्थोसंपहरणं चेत्यादि.

ब्राह्मणं ५

५ शतातिरात्रसंज्ञकं सत्रम् --तत्र शतातिरात्राख्यं सत्रं विधातुमादावाख्यायिकाया निरूपणम, तस्यां च कृत्स्नस्य तमसो निर्हरणार्थं देवाः शताग्निष्टोमं सत्रमुपेयुरित्यभिधानं, तत्र देवाः पितरं प्रजापतिमेत्य तस्मै स्वकीयं कृत्स्नतमसोऽपहननविषयमसामर्थ्यं विज्ञाप्य तादृगुपायत्वेनेष्टोपवेशनप्रार्थनं कृतवन्त इत्यभिधानम् , इत्थं प्रार्थितः सन्प्रजापतिस्तेषां तदुपायत्वेन शतातिरात्राख्यं सत्रं प्रोक्तवानित्यभिधानम् , देवाः पुनर्यथोपदिष्टं तथा कृत्वा तत्फलं प्राप्नुवन्ति स्मेत्यभिधानम् , तेत्रानुष्ठानक्रमं दर्शयितुं कालविपर्ययरूपं दोषमुद्भाव्य तद्दोषपरिहारार्थं च देवैर्यत्कृतं तस्य मन्त्रैः साभिप्रायं प्रदर्शनम्, तत्र सत्रमासीनानां देवानां प्रजापतिना मोहकारणमभिधाय तत्परिहारायेदमुपदिष्टमिति प्रतिपादनं, तस्यैतस्यातिप्रशंसनविषयस्य देवानां प्रश्नस्य प्रयोगक्रमस्य कार्त्स्येनाभिधानहेतुत्वेन निरूपणम्, अत्र प्रजापतिनोक्तमह्नां परस्परसन्धानप्रकारकथनं, एवं प्रातरनुवाकस्य स्वकाले प्रवृत्युपायमभिधाय तत उपरितनं प्रयोगजातमपि प्रातरनुवाकसमनंतरं कर्तव्यमित्यभिधानम्, अस्मिन् श्रुत्युक्तेऽर्थे श्लोकमन्त्राणां संवादप्रदर्शनम्, उक्तार्थपरत्वेनोक्तश्लोकस्य व्याख्यानं, ब्राह्मणार्थस्योपसंहरणं चेत्यादि.

ब्राह्मणं ६

६ पञ्चमहायज्ञब्राह्मणम--तत्र प्रथमसत्रप्रसङ्गाद्यावज्जीवमनुष्ठेयानां पञ्चम हायज्ञानां महासत्रत्वेन निरूपकस्य प्रस्तावस्य कथनं, तेषां नामतः प्रदर्शनम्, ततश्चतुर्णां क्रमेण भूतमनुष्यपितृदेवयज्ञानां स्वरूपनिरूपणं, इत्थं प्रत्यहमनुष्ठेयांश्चतुरो महायज्ञान्संग्रहेण प्रतिपाद्य तदुत्तरं बहुवक्तव्यं ब्रह्मयज्ञे प्रपञ्चयितुं प्रस्तावकथनं, ततस्तस्य क्रमात्स्वरूपं यज्ञसाम्यं प्रधानफलं तद्धेतुभूतमध्ययनं चेत्येतेषामर्थानामभिधानम्, एतस्मिन्ब्रह्मयज्ञे ऋचामध्ययनस्य ययआहुतिरूपत्वेन-यजुषामध्ययनस्याज्याहुतित्वेन-साम्नामध्ययनस्य सोमाहुतित्वेन-- तुरीयाथर्वणवेदस्याध्ययनस्य मेदआहुतित्वेन- वेदाङ्गभूतानामन्यासां विद्यानामध्ययनस्य मध्वाहुतित्वेन च प्रशंसनम्, वातादीनि यान्यनध्यायनिमित्तानि तेषु सत्स्वपि ब्रह्मयज्ञस्यानिवृत्तिमभिप्रेत्य तेषां तदङ्गत्वस्याभिधानम, एवं वषट्कारेषु सत्सु यदध्ययनं तस्य फलनिरूपणम्, एवं सर्वमध्ययनं कर्तुमशक्तस्य पक्षान्तरस्य प्रतिपादनं, चेत्यादि,

ब्राह्मणं ७

७ ब्रह्मयज्ञलक्षणस्वाध्यायप्रशंसाख्यं ब्राह्मणम् - तत्र एतस्मिन्ब्रह्मयज्ञस्वाध्याये पुरुषाणामादरातिशयं जनयितुं प्रशंसां कर्तुं प्रतिज्ञाकरणं, तद्धेतुभूतानां फलानामनुक्रमेणाभिधानं, तत्र फलत्वेनोक्तां यशोलोकपक्तिमनूद्य तद्धेतुकस्यान्यफलस्याभिधानम् ,उक्ताध्ययनस्योत्कृष्टतपोरूपत्वाभिधानम् उक्तान्येतावन्ति फलानि विदुष एवाध्येतुर्भवन्तीत्यभिधानं, वेदाध्ययनशीलस्य कायिकव्यापारनिर्वर्त्ययागहोमादिफलमप्ययत्नतः सिद्धं भवतीत्यभिधानम्, एतस्याध्ययनस्य कृच्छ्रचान्द्रायणादितपोरूपत्वेन प्रशंसनम् , एतेषामृगादीनां मध्वादिरूपतया तृप्तिहेतुतां वक्तुं तत्सारूप्यमभिधाय तदुपजीवनेन तेषां ऋग्यजुःसाम्नां वाकोवाक्यादिविद्यानां चाध्ययनस्य क्रमशः प्रशंसनं, ब्रह्मयज्ञस्वाध्यायस्य सूर्यादिगतिवदखिलजगद्व्यवहारनिवर्तकत्वेन प्रशंसनम्, अनध्यायादिनिमित्तेऽध्यायादिप्रयुक्तसामर्थ्यविरहे च सत्यपि सर्वथा ब्रह्मयज्ञस्य वर्जनमयुक्तमित्यस्य प्रकारान्तरस्योपसंहारव्याजेनाभिधानं चेत्यादि.

ब्राह्मणं ८

८ सर्वप्रायश्चित्तविधायकं ब्राह्मणम् -- तत्रादौ सत्रप्रसङ्गाद्वेदसारभूताभिर्व्याहृतिभिः सर्वप्रायश्चित्तहोमस्य विधित्सया तासामुत्पत्तेराख्यायिकया प्रतिपादनं, तस्यां च महत्सृष्टेरभिधानं, तत्रापि प्रथमं पृथिव्यन्तरिक्षदिवात्मकानां त्रयाणां लोकानाम् अग्निवाय्वादित्यानां त्रयाणां देवानां -- तेभ्यो देवेभ्यः सकाशात्क्रमेणर्ग्यजु:सामाख्यानां त्रयाणां वेदानां च सृष्टेरभिधानम् , तेभ्य ऋग्यजु:सामवेदेभ्यः क्रमाद् भूर्भुवः स्वरिति व्याहृतित्रयस्योत्पत्तेरभिधानम् , एवं व्याहृतीनां त्रयीसारत्वं प्रतिपाद्य " ऋचा हौत्रं -यजुषाऽऽध्वर्यवं-साम्नौद्गात्रं-त्रय्या ब्रह्मत्वं " इति यज्ञस्यापि त्रयीमयत्वनिरूपणम् , एवं यज्ञस्य त्रयीनिष्पाद्यत्वमभिधाय त्रयीसारभूताभिर्व्याहृतिभिस्तत्तद्वेदोक्तकर्मभ्रेषनिमित्तस्य प्रायश्चित्तहोमस्य विधित्सया प्रश्नकरणकथनम् , उक्तप्रश्नस्योत्तरं दातुं तदनुगुणतया क्रमादृग्भ्रेषप्रायश्चित्तं-यजुर्भेषप्रायश्चित्तं-सामभ्रेषप्रायश्चित्तं-इत्येतद्व्यवस्थितं प्रायश्चित्तत्रयं सप्रकारकं निरूप्याविज्ञातप्रायश्चित्तस्य सप्रकारकं निरूपणं, तत्तद्वेदोक्तकर्मप्रायश्चित्तत्वेनोक्तस्य तत्तद्व्याहृतिहोमस्य क्रमशः प्रशंसनम्, उक्तस्यार्थस्य सदृष्टान्तं व्यतिरेकमुखेन दृढीकरणम्, उक्तप्रायश्चित्तपरिज्ञानवानेव ब्रह्मा विधेय इत्यस्यार्थस्य प्रतिपादनम्, उक्तं यज्ञस्य वेदत्रयप्रतिपाद्यत्वमनूद्य प्रागुक्तस्यैव ब्रह्मत्वस्य पुनः प्रश्नप्रतिवचनाभ्यां निरूपणं चेत्यादि.

ब्राह्मणं ९

९ अंश्वदाभ्याख्ययोः सोमग्रहयोर्विधित्सया तयोरात्मवागादिरूपतया समुच्चित्यानुष्ठानस्य प्रशंसनम्, एतौ ग्रहौ सह प्रयोक्तव्यौ न पृथगित्यभिप्रायेणापि तयोर्मनोवागादिरूपतया च प्रशंसनं, कृत्स्नयज्ञस्यासुरेभ्यः सकाशादावर्जनसाधनत्वस्यादाभ्यग्रहस्याख्यायिकया प्रतिपादनं, तस्यां च विवदमाना देवाः किं कृतवन्त इत्यपेक्षायां तत्करणप्रकारनिरूपणं, प्रसङ्गाददाभ्यनामनिर्वचनम्, आख्यायिकासिद्धस्यार्थस्य प्रकृते नियोजनं, तस्य ग्रहस्य पात्रविशेषे ग्रहणविधानम्, तत्र त्रयाणामप्यंशूनां ग्रहणमन्त्रान्विधाय तेषां व्याख्यानम् , उक्तमन्त्राणां पाठस्य प्रयोजनकथनम्, एतेषां ग्रहान्तरवत्प्राप्तस्याभिषवस्य सकारणं निषेधकथनम्, अभिषवस्थाने आधावनस्य विधानं, विहिते आधावने मन्त्रान्विधाय तेषां तात्पर्यं कथयित्वा तत्राप्यन्तिमं मन्त्रमनूद्य तस्य व्याख्यानम्, उक्तानां मन्त्राणामुक्तार्थपरत्वस्याभिधानम्, अस्य ग्रहस्य समन्त्रकं होमं विधाय तन्मंत्रस्य व्याख्यानम् , अस्य ग्रहस्य होमकाले ध्रियमाणस्य प्राणवायोर्यदि बलान्निष्क्रमः स्यात्तदा हिरण्यस्योपरि प्रश्वासः कार्य इत्यस्यार्थस्य स्तावकार्थवादातिदेशसहितं निरूपणं, परिमाणविशेषविशिष्टस्य दक्षिणाद्रव्यस्य विधानम् , एतेषां त्रयाणामंशूनां पुनः संसर्जनं विधाय तत्र मन्त्रान्विनियुज्य च तेषां सवनार्थकथनव्याजेन व्याख्यानं चेति