११.५.३

शौचेयो ह प्राचीनयोग्यः। उद्दालकमारुणिमाजगाम ब्रह्मोद्यमग्निहोत्रं विविदिषिष्यामीति - ११.५.३.[१]

स होवाच। गौतम का तेऽग्निहोत्री को वत्सः किमुपसृष्टा किं संयोजनं किं दुह्यमानं किं दुग्धं किमाह्रियमाणं किमधिश्रितं किमवज्योत्यमानं किमद्भिः प्रत्यानीतं किमुद्वास्यमानं किमुद्वासितं किमुन्नीयमानं किमुन्नीतं किमुद्यतं किं ह्रियमाणं किं निगृहीतम् - ११.५.३.[२]

कां समिधमादधासि। का पूर्वाऽऽहुतिः किमुपासीषदः किमपैक्षिष्ठाः कोत्तराऽऽहुतिः - ११.५.३.[३]

किं हुत्वा प्रकम्पयसि किं स्रुचं परिमृज्य कूर्चे न्यमार्जीः किं द्वितीयं परिमृज्य दक्षिणतो हस्तमुपासीषदः किं पूर्वं प्राशीः किं द्वितीयं किमुत्सृप्यापाः किं स्रुच्यप आनीय निरौक्षीः किं द्वितीयं किं तृतीयमेतां दिशमुदौक्षीः किं जघनेनाहवनीयमपो न्यनैषीः किं समतिष्ठिपो यदि वा एतद्विद्वानग्निहोत्रमहौषीरथ ते हुतं यद्यु वा अविद्वानहुतमेव त इति - ११.५.३.[४]

स होवाच। इडैव मे मानव्यग्निहोत्री वायव्यो वत्सः सजूरुपसृष्टा विराट्संयोजनमाश्विनं दुह्यमानं वैश्वदेवं दुग्धं वायव्यमाह्रियमाणमाग्नेयमधिश्रितमैन्द्राग्नमवज्योत्यमानं वारुणमद्भिः प्रत्यानीतं वायव्यमुद्वास्यमानं द्यावापृथिव्यमुद्वासितमाश्विनमुन्नीयमानं वैश्वदेवमुन्नीतं महादेवायोद्यतं वायव्यं ह्रियमाणं वैष्णवं निगृहीतम् - ११.५.३.[५]

अथ यां समिधमादधामि। आहुतीनां सा प्रतिष्ठा या पूर्वाऽऽहुतिर्देवांस्तयाऽ प्रैषं यदुपासीषदं बार्हस्पत्यं तद्यदपैक्षिषीमञ्चामुं च लोकौ तेन समधां योत्तराऽऽहुतिर्मां तया स्वर्गे लोकेऽधाम् - ११.५.३.[६]

अथ यद्धुत्वा प्रकम्पयामि। वायव्यं तद्यत्स्रुचं परिमृज्य कूर्चे न्यमार्जिषमोषधिवनस्पतींस्तेनाप्रैषं यद्द्वितीयं परिमृज्य दक्षिणतो हस्तमुपासीषदं पितॄंस्तेनाप्रैषं यत्पूर्वं प्राशिषं मां तेनाप्रैषं यद्द्वितीयं प्रजां तेनाथ यदुत्सृप्यापां पशूंस्तेनाप्रैषं यत्स्रुच्यप आनीय निरौक्षिषं सर्पदेवजनांस्तेनाप्रैषं यद्द्वितीयं गन्धर्वाप्सरसस्तेनाथ यत्तृतीयमेतां दिशमुदौक्षिषं स्वर्गस्य लोकस्य तेन द्वारं व्यवारिषं यज्जघनेनाहवनीयमपो न्यनैषमस्मै लोकाय तेन वृष्टिमदां यत्समतिष्ठिपं यत्पृथिव्या ऊनं तत्तेनापूपुरमित्येतन्नौ भगवन्त्सहेति होवाच - ११.५.३.[७]

शौचेयो ज्ञप्तः। प्रक्ष्यामि त्वेव भगवन्तमिति पृच्छैव प्राचीनयोग्येति स होवाच यस्मिन्काल उद्धृतास्तेऽग्नयः स्युरुपावहृतानि पात्राणि होष्यन्त्स्या अथ त आहवनीयोऽनुगच्छेद्वेत्थ तद्भयं यदत्र जुह्वतो भवतीति वेदेति होवाच पुराऽचिरादस्य ज्येष्ठः पुत्रो म्रियेत यस्यैतदविदितं स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरिति प्राण उदानमप्यगादिति गार्हपत्य आहुतिं जुहुयां सैव प्रायश्चित्तिर्न तदागः कुर्वीयेत्येतन्नौ भगवन्त्सहेति होवाच - ११.५.३.[८]

शौचेयो ज्ञप्तः। प्रक्ष्यामि त्वेव भगवन्तमिति पृच्छैव प्राचीनयोग्येति स होवाच यत्र त एतस्मिन्नेव काले गार्हपत्योऽनुगच्छेद्वेत्थ तद्भयं यदत्र जुह्वतो भवतीति वेदेति होवाच पुराऽचिरादस्य गृहपतिर्म्रियेत यस्यैतदविदितं स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरित्युदानः प्राणमप्यगादित्याहवनीय आहुतिं जुहुयां सैव प्रायश्चित्तिर्न तदागः कुर्वीयेत्येतन्नौ भगवन्त्सहेति होवाच - ११.५.३.[९]

शौचेयो ज्ञप्तः। प्रक्ष्यामि त्वेव भगवन्तमिति पृच्छैव प्राचीनयोग्येति स होवाच यत्र त एतस्मिन्नेव कालेऽन्वाहार्यपचनोऽनुगच्छेद्वेत्थ तद्भयं यदत्र जुह्वतो भवतीति वेदेति होवाच पुराऽचिरादस्य सर्वे पशवो म्रियेरन्यस्यैतदविदितंस्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरिति व्यान उदानमप्यगादिति गार्हपत्य आहुतिं जुहुयां सैव प्रायश्चित्तिर्न तदागः कुर्वीयेत्येतन्नौ भगवन्त्सहेति होवाच - ११.५.३.[१०]

शौचेयो ज्ञप्तः। प्रक्ष्यामि त्वेव भगवन्तमिति पृच्छैव प्राचीनयोग्येति स होवाच यत्र त एतस्मिन्नेव काले सर्वेऽग्नयोऽनुगच्छेयुर्वेत्थ तद्भयं यदत्र जुह्वतो भवतीति वेदेति होवाच पुराऽचिरादस्यादायादं कुलं स्याद्यस्यैतदविदितं स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरिति पुराऽचिरादग्निम्
मथित्वा यां दिशं वातो वायात्तां दिशमाहवनीयमुद्धृत्य वायव्यामाहुतिं जुहुयां स विद्यां समृद्धं मेऽग्निहोत्रं सर्वदेवत्यं वायुं ह्येव सर्वाणि भूतान्यपियन्ति वायोः पुनर्विसृज्यन्ते सैव प्रायश्चित्तिर्न तदागः कुर्वीयेत्येतन्नौ भगवन्त्सहेति होवाच - ११.५.३.[११]

शौचेयो ज्ञप्तः। प्रक्ष्यामि त्वेव भगवन्तमिति पृच्छैव प्राचीनयोग्येति स होवाच यत्र त एतस्मिन्नेव काले निवाते सर्वेऽग्नयोऽनुगच्छेयुर्वेत्थ तद्भयं यदत्र जुह्वतो भवतीति वेदेति होवाचाप्रियमेवास्मिंलोके पश्येताप्रियममुष्मिन्यस्यैतदविदितं स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरिति पुराऽचिरादग्निं मथित्वा प्राञ्चमाहवनीयमुद्धृत्य जघनेनाहवनीयमुपविश्याहमेवैनत्पिबेयं स विद्यां समृद्धं मेऽग्निहोत्रं सर्वदेवत्यं ब्राह्मणं ह्येव सर्वाणि भूतान्यपियन्ति ब्राह्मणात्पुनर्विसृज्यन्ते सैव प्रायश्चित्तिर्न तदागः कुर्वीयेत्यथ वा अहमेतन्नावेदिषमिति होवाच - ११.५.३.[१२]

शौचेयो ज्ञप्तः। इमानि समित्काष्ठान्युपायानि भगवन्तमिति स होवाच यदेवं नावक्ष्यो मूर्द्धा ते व्यपतिष्यदेह्युपेहीति तथेति तं होपनिन्ये तस्मै हैतां शोकतरां व्याहृतिमुवाच यत्सत्यं तस्मादु सत्यमेव वदेत् - ११.५.३.[१३]