११.५.४ उपनयनधर्माभिसंज्ञकं ब्राह्मणम्

ब्रह्मचर्यमागामित्याह। ब्रह्मण एवैतदात्मानं निवेदयति ब्रह्मचार्यसानीत्याह ब्रह्मण एवैतदात्मानं परिददात्यथैनमाह को नामाऽसीति प्रजापतिर्वै कः प्राजापत्यमेवैनं तत्कृत्वोपनयते - ११.५.४.[१]

अथास्य हस्तं गृह्णाति। इन्द्रस्य ब्रह्मचार्यस्यग्निराचार्यस्तवाहमाचार्यस्तवासावित्येते वै श्रेष्ठे बलिष्ठे देवते एताभ्यामेवैनं श्रेष्ठाभ्यां बलिष्ठाभ्यां देवताभ्यां परिददाति तथा हास्य ब्रह्मचारी न कां चनार्तिमार्च्छति न स य एवं वेद - ११.५.४.[२]

अथैनं भूतेभ्यः परिददाति। प्रजापतये त्वा परिददामि देवाय त्वा सवित्रे परिददामीत्येते वै श्रेष्ठे वर्षिष्ठे देवते एताभ्यामेवैनं श्रेष्ठाभ्यां वर्षिष्ठाभ्यां देवताभ्यां परिददाति तथा हास्य ब्रह्मचारी न कांचनार्तिमार्च्छति न स य एवं वेद - ११.५.४.[३]

अद्भ्यस्त्वौषधीभ्यः परिददामीति तदेनमद्भ्यश्चौषधिभ्यश्च परिददाति द्यावापृथिवीभ्यां त्वा परिददामीति तदेनमाभ्यां द्यावापृथिवीभ्यां परिददाति ययोरिदं सर्वमधि विश्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्ट्या इति तदेनं सर्वेभ्यो भूतेभ्यः परिददात्यरिष्ट्यै तथा हास्य ब्रह्मचारी न कांचनार्तिमार्च्छति न स य एवं वेद - ११.५.४.[४]

ब्रह्मचार्यसीत्याह। ब्रह्मण एवैनं तत्परिददात्यपोऽशानेत्यमृतं वा आपोऽमृतमशानेत्येवैनं तदाह कर्म कुर्विति वीर्यं वै कर्म वीर्यं कुर्वित्येवैनं तदाह समिधमाधेहीति समिन्त्स्वात्मानं तेजसा ब्रह्मवर्चसेनेत्येवैनं तदाह मा शुषुप्था इति मा मृथा इत्येवैनं तदाहापोऽशानेत्यमृतं वा आपोऽमृतमशानेत्येवैनं तदाह तदेनमुभयतोऽमृतेन परिगृह्णाति तथा हास्य ब्रह्मचारी न कां चनार्तिमार्च्छति न स य एवं वेद - ११.५.४.[५]

अथास्मै सावित्रीमन्वाह तां ह स्मैतां पुरा संवत्सरेऽन्वाहुः संवत्सरसम्मिता वै गर्भाः प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति - ११.५.४.[६]

अथ षट्सु मासेषु षड्वा ऋतवः संवत्सरस्य संवत्सरसम्मिता वै गर्भाः प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति - ११.५.४.[७]

अथ चतुर्विंशत्यहे। चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरसम्मिता वै गर्भाः प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति - ११.५.४.[८]

अथ द्वादशाहे। द्वादश वै मासाः संवत्सरस्य संवत्सरसम्मिता वै गर्भाः प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति - ११.५.४.[९]

अथ षडहे षड्वा ऋतवः संवत्सरस्य संवत्सरसम्मिता वै गर्भाः प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति - ११.५.४.[१०]

अथ त्र्यहे त्रयो वा ऋतवः संवत्सरस्य संवत्सरसम्मिता वै गर्भाः प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति - ११.५.४.[११]

तदपि श्लोकं गायन्ति। आचार्यो गर्भी भवति हस्तमाधाय दक्षिणम्। तृतीयस्यां स
जायते सावित्र्या सह ब्राह्मण इति सद्यो ह त्वाव ब्राह्मणायानुब्रूयादाग्नेयो वै ब्राह्मणः सद्यो वा अग्निर्जायते तस्मात्सद्य एव ब्राह्मणायानुब्रूयात् - ११.५.४.[१२]

तां हैतामेके। सावित्रीमनुष्टुभमन्वाहुर्वाग्वा अनुष्टुप्तदस्मिन्वाचं दध्म इति न तथा कुर्याद्यो हैनं तत्र ब्रूयादा न्वा अयमस्य वाचमदित मूको भविष्यतीतीश्वरो ह तथैव स्यात्तस्मादेतां गायत्रीमेव सावित्रीमनुब्रूयात् - ११.५.४.[१३]

अथ हैके दक्षिणतः। तिष्ठते वाऽऽसीनाय वाऽन्वाहुर्न तथा कुर्याद्यो हैनं तत्र ब्रूयाद्बुल्बं न्वा अयमिममजीजनत बुल्बो भविष्यतीतीश्वरो ह तथैव स्यात्तस्मात्पुरस्तादेव प्रतीचे समीक्षमाणायानुब्रूयात् - ११.५.४.[१४]

तां वै पच्छोऽन्वाह त्रयो वै प्राणाः प्राण उदानो व्यानस्तानेवास्मिंस्तद्दधात्यथार्धर्चशो द्वौ वा इमौ प्राणौ प्राणोदानावेव प्राणोदानावेवास्मिंस्तद्दधात्यथ कृत्स्नामेको वा अयं प्राणः कृत्स्न एव प्राणमेवास्मिंस्तत्कृत्स्नं दधाति - ११.५.४.[१५]

तदाहुः। न ब्राह्मणं ब्रह्मचर्यमुपनीय मिथुनं चरेद्गर्भो वा एष भवति यो ब्रह्मचर्यमुपैति नेदिमं ब्राह्मणं विषिक्ताद्रेतसो जनयानीति - ११.५.४.[१६]

तदु वा आहुः। काममेव चरेद्द्वय्यो वा इमाः प्रजा दैव्यश्चैव मनुष्यश्च ता वा इमा मनुष्यः प्रजाः प्रजननात्प्रजायन्ते छन्दांसि वै दैव्यः प्रजास्तानि मुखतो जनयते तत एतं जनयते तस्मादु काममेव चरेत् - ११.५.४.[१७]

तदाहुः। न ब्रह्मचारी सन्मध्वश्नीयादोषधीनां वा एष परमो रसो यन्मधु नेदन्नाद्यस्यान्तं गच्छानीत्यथ ह स्माह श्वेतकेतुरारुणेयो ब्रह्मचारी सन्मध्वश्नंस्त्रय्यै वा एतद्विद्यायै शिष्टं यन्मधु स तु रसो यस्येदृक्शिष्टमिति यथा ह वा ऋचं वा यजुर्वा साम वाऽभिव्याहरेत्तादृक्तद्य एवं विद्वान्ब्रह्मचारी सन्मध्वश्नाति तस्मादु काममेवाश्नीयात् - ११.५.४.[१८]