शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ५/ब्राह्मणं ५

११.५.५ शतातिरात्रसंज्ञकं सत्रम्

देवान्वा ऊर्ध्वान्त्स्वर्गं लोकं यतः। असुरास्तमसाऽन्तरदधुस्ते होचुर्न वा अस्यान्येन सत्त्रादपघातोऽस्ति हन्त सत्त्रमासामहा इति - ११.५.५.१

ते शताग्निष्टोमं सत्त्रमुपेयुः। ते यावदासीनः परापश्येत्तावतस्तमोऽपाघ्नतैवमेव शतोक्थ्येन यावत्तिष्ठन्परापश्येत्तावतस्तमोऽपाघ्नत - ११.५.५.२

ते होचुः। अप वाव तमो हन्महे न त्वेव सर्वमिव हन्त प्रजापतिं पितरं प्रत्ययामेति ते प्रजापतिं पितरं प्रतीत्योचुरसुरा वै नो भगव ऊर्ध्वान्त्स्वर्गंलोकं यतस्तमसान्तरदधुः - ११.५.५.३

ते शताग्निष्टोमं सत्त्रमुपैम। ते यावदासीनः परापश्येत्तावतस्तमोऽपाहन्मह्येवमेव शतोक्थ्येन यावत्तिष्ठन्परापश्येत्तावतस्तमोऽपाहन्महि प्र नो भगवञ्छाधि यथासुरांस्तमोऽपहत्य सर्वं पाप्मानमपहत्य स्वर्गं लोकं प्रज्ञास्याम इति - ११.५.५.४

स होवाच असर्वक्रतुभ्यां वै यज्ञाभ्यामगन्त यदग्निष्टोमेन चोक्थ्येन च शतातिरात्रं सत्त्रमुपेत तेनासुरांस्तमोऽपहत्य सर्वं पाप्मानमपहत्य स्वर्गं लोकं प्रज्ञास्यथेति - ११.५.५.५

ते शतातिरात्रं सत्त्रमुपेयुः तेनासुरांस्तमोऽपहत्य सर्वं पाप्मानमपहत्यस्वर्गं लोकं प्रजज्ञुस्तेषामर्वाक्पञ्चाशेष्वेवाहःस्वहरभि रात्रिसामानि परीयू रात्रिमभ्यहःसामानि - ११.५.५.६

ते होचुः। अमुहाम वै न प्रजानीमो हन्त प्रजापतिमेव पितरं प्रत्ययामेति ते प्रजापतिमेव पितरं प्रतीत्योचुरहन्नो रात्रिसामानि रात्र्यामह्नो भवन्ति नः। विपश्चिद्यज्ञान्मुग्धान्विद्वान्धीरोऽनुशाधि न इति - ११.५.५.७

तान्हैतदुपजगौ। महाहिमिव वै ह्रदाद्बलीयानन्ववेत्य। अनुत्त स्वादास्थानात्ततः सत्त्रं न तायत इति - ११.५.५.८

आश्विनं वै वः शस्यमानम् प्रातरनुवाकमास्थानादनुत्त यमास्थानादनुद्ध्वं धीराः सन्तो अधीरवत्। प्रशास्त्रा तमुपेत शनैरप्रतिशंसतेति - ११.५.५.९

ते होचुः। कथं नु भगवः शस्तं कथमप्रतिशस्तमिति स होवाच यत्र होताऽऽश्विनं शंसन्नाग्नेयस्य क्रतोर्गायत्रस्य छन्दसः पारं गच्छात्तत्प्रतिप्रस्थाता वसतीवरीः परिहृत्य मैत्रावरुणस्य हविर्धानयोः प्रातरनुवाकमुपाकुरुतादुच्चैर्होता शंसति शनैरितरो जञ्जप्यमान इवान्वाह तन्न वाचा वाचं प्रत्येति न च्छन्दसा छन्दः - ११.५.५.१०

परिहिते प्रातरनुवाके। यथायतनमेवोपांश्वन्तर्यामौ हुत्वा द्रोणकलशे पवित्रं प्रपीड्यं निदधाति तिरोऽह्न्यैश्चरित्वा प्रत्यञ्चः प्रतिपरेत्य तिरोह्न्यानेव भक्षयाध्वा अथानुपूर्वं यज्ञपुच्छं संस्थाप्य य ऊर्ध्वा अन्तर्यामाद्ग्रहास्तान्गृहीत्वा विप्रुषां होमं हुत्वा संतनिं च बहिष्पवमानेन स्तुत्वाऽहरेव प्रतिपद्याध्वा इति - ११.५.५.११

तदेतेऽभि श्लोकाः। चतुर्भिः सैन्धवैर्युक्तैर्धीरा व्यजहुस्तमः। विद्वांसो ये शतक्रतु देवाः सत्त्रमतन्वतेति - ११.५.५.१२

चत्वारो ह्यत्र युक्ता भवन्ति। द्वौ होतारौ द्वावध्वर्यू पवेर्नु शक्वेव हनूनि कल्पयन्नह्नोरन्तौ व्यतिषजन्त धीराः। न दानवा यज्ञियं तन्तुमेषां विजानीमो विततं मोहयन्ति नः।। पूर्वस्याह्नः परिशिंषन्ति कर्म तदुत्तरेणाभिवितन्वतेऽह्ना।। दुर्विज्ञानं काव्यं देवतानां सोमाः सोमैर्व्यतिषक्ताः प्लवन्ते।। समानान्त्सदमुक्षन्ति हयान्काष्ठभृतो यथा। पूर्णान्परिस्रुतः कुम्भान्जनमेजयसादन इत्यसुररक्षसान्यपेयुः - ११.५.५.१३